This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे दशमः सर्गः ॥३-१०॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे दशमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe daśamaḥ sargaḥ ..3..
वाक्यमेतत् तु वैदेह्या व्याहृतं भर्तृभक्तया । श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ जानकीम्॥ १॥
वाक्यम् एतत् तु वैदेह्याः व्याहृतम् भर्तृ-भक्तया । श्रुत्वा धर्मे स्थितः रामः प्रत्युवाच अथ जानकीम्॥ १॥
vākyam etat tu vaidehyāḥ vyāhṛtam bhartṛ-bhaktayā . śrutvā dharme sthitaḥ rāmaḥ pratyuvāca atha jānakīm.. 1..
हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः । कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे॥ २॥
हितम् उक्तम् त्वया देवि स्निग्धया सदृशम् वचः । कुलम् व्यपदिशन्त्या च धर्म-ज्ञे जनकात्मजे॥ २॥
hitam uktam tvayā devi snigdhayā sadṛśam vacaḥ . kulam vyapadiśantyā ca dharma-jñe janakātmaje.. 2..
किं नु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः । क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति॥ ३॥
किम् नु वक्ष्यामि अहम् देवि त्वया एव उक्तम् इदम् वचः । क्षत्रियैः धार्यते चापः न आर्त-शब्दः भवेत् इति॥ ३॥
kim nu vakṣyāmi aham devi tvayā eva uktam idam vacaḥ . kṣatriyaiḥ dhāryate cāpaḥ na ārta-śabdaḥ bhavet iti.. 3..
ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः । मां सीते स्वयमागम्य शरण्यं शरणं गताः॥ ४॥
ते च आर्ताः दण्डक-अरण्ये मुनयः संशित-व्रताः । माम् सीते स्वयम् आगम्य शरण्यम् शरणम् गताः॥ ४॥
te ca ārtāḥ daṇḍaka-araṇye munayaḥ saṃśita-vratāḥ . mām sīte svayam āgamya śaraṇyam śaraṇam gatāḥ.. 4..
वसन्तः कालकालेषु वने मूलफलाशनाः । न लभन्ते सुखं भीरु राक्षसैः क्रूरकर्मभिः॥ ५॥
वसन्तः काल-कालेषु वने मूल-फल-अशनाः । न लभन्ते सुखम् भीरु राक्षसैः क्रूर-कर्मभिः॥ ५॥
vasantaḥ kāla-kāleṣu vane mūla-phala-aśanāḥ . na labhante sukham bhīru rākṣasaiḥ krūra-karmabhiḥ.. 5..
भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः । ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः॥ ६॥
भक्ष्यन्ते राक्षसैः भीमैः नर-मांस-उपजीविभिः । ते भक्ष्यमाणाः मुनयः दण्डक-अरण्य-वासिनः॥ ६॥
bhakṣyante rākṣasaiḥ bhīmaiḥ nara-māṃsa-upajīvibhiḥ . te bhakṣyamāṇāḥ munayaḥ daṇḍaka-araṇya-vāsinaḥ.. 6..
अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः । मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम्॥ ७॥
अस्मान् अभ्यवपद्य इति माम् ऊचुः द्विजसत्तमाः । मया तु वचनम् श्रुत्वा तेषाम् एवम् मुखात् च्युतम्॥ ७॥
asmān abhyavapadya iti mām ūcuḥ dvijasattamāḥ . mayā tu vacanam śrutvā teṣām evam mukhāt cyutam.. 7..
कृत्वा वचनशुश्रूषां वाक्यमेतदुदाहृतम् । प्रसीदन्तु भवन्तो मे ह्रीरेषा तु ममातुला॥ ८॥
कृत्वा वचन-शुश्रूषाम् वाक्यम् एतत् उदाहृतम् । प्रसीदन्तु भवन्तः मे ह्रीः एषा तु मम अतुला॥ ८॥
kṛtvā vacana-śuśrūṣām vākyam etat udāhṛtam . prasīdantu bhavantaḥ me hrīḥ eṣā tu mama atulā.. 8..
यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः । किं करोमीति च मया व्याहृतं द्विजसंनिधौ॥ ९॥
यदि ईदृशैः अहम् विप्रैः उपस्थेयैः उपस्थितः । किम् करोमि इति च मया व्याहृतम् द्विज-संनिधौ॥ ९॥
yadi īdṛśaiḥ aham vipraiḥ upastheyaiḥ upasthitaḥ . kim karomi iti ca mayā vyāhṛtam dvija-saṃnidhau.. 9..
सर्वैरेव समागम्य वागियं समुदाहृता । राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः॥ १०॥
सर्वैः एव समागम्य वाच् इयम् समुदाहृता । राक्षसैः दण्डक-अरण्ये बहुभिः कामरूपिभिः॥ १०॥
sarvaiḥ eva samāgamya vāc iyam samudāhṛtā . rākṣasaiḥ daṇḍaka-araṇye bahubhiḥ kāmarūpibhiḥ.. 10..
अर्दिताः स्म भृशं राम भवान् नस्तत्र रक्षतु । होमकाले तु सम्प्राप्ते पर्वकालेषु चानघ॥ ११॥
अर्दिताः स्म भृशम् राम भवान् नः तत्र रक्षतु । होम-काले तु सम्प्राप्ते पर्व-कालेषु च अनघ॥ ११॥
arditāḥ sma bhṛśam rāma bhavān naḥ tatra rakṣatu . homa-kāle tu samprāpte parva-kāleṣu ca anagha.. 11..
धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः । राक्षसैर्धर्षितानां च तापसानां तपस्विनाम्॥ १२॥
धर्षयन्ति सु दुर्धर्षाः राक्षसाः पिशित-अशनाः । राक्षसैः धर्षितानाम् च तापसानाम् तपस्विनाम्॥ १२॥
dharṣayanti su durdharṣāḥ rākṣasāḥ piśita-aśanāḥ . rākṣasaiḥ dharṣitānām ca tāpasānām tapasvinām.. 12..
गतिं मृगयमाणानां भवान् नः परमा गतिः । कामं तपःप्रभावेण शक्ता हन्तुं निशाचरान्॥ १३॥
गतिम् मृगयमाणानाम् भवान् नः परमा गतिः । कामम् तपः-प्रभावेण शक्ताः हन्तुम् निशाचरान्॥ १३॥
gatim mṛgayamāṇānām bhavān naḥ paramā gatiḥ . kāmam tapaḥ-prabhāveṇa śaktāḥ hantum niśācarān.. 13..
चिरार्जितं न चेच्छामस्तपः खण्डयितुं वयम् । बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव॥ १४॥
चिर-अर्जितम् न च इच्छामः तपः खण्डयितुम् वयम् । बहु-विघ्नम् तपः नित्यम् दुश्चरम् च एव राघव॥ १४॥
cira-arjitam na ca icchāmaḥ tapaḥ khaṇḍayitum vayam . bahu-vighnam tapaḥ nityam duścaram ca eva rāghava.. 14..
तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः । तदर्द्यमानान् रक्षोभिर्दण्डकारण्यवासिभिः॥ १५॥
तेन शापम् न मुञ्चामः भक्ष्यमाणाः च राक्षसैः । तद्-अर्द्यमानान् रक्षोभिः दण्डक-अरण्य-वासिभिः॥ १५॥
tena śāpam na muñcāmaḥ bhakṣyamāṇāḥ ca rākṣasaiḥ . tad-ardyamānān rakṣobhiḥ daṇḍaka-araṇya-vāsibhiḥ.. 15..
रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने । मया चैतद्वचः श्रुत्वा कात्स्न्र्येन परिपालनम्॥ १६॥
रक्ष नः त्वम् सह भ्रात्रा त्वद्-नाथाः हि वयम् वने । मया च एतत् वचः श्रुत्वा कात्स्न्र्येन परिपालनम्॥ १६॥
rakṣa naḥ tvam saha bhrātrā tvad-nāthāḥ hi vayam vane . mayā ca etat vacaḥ śrutvā kātsnryena paripālanam.. 16..
ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे । संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम्॥ १७॥
ऋषीणाम् दण्डक-अरण्ये संश्रुतम् जनकात्मजे । संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम्॥ १७॥
ṛṣīṇām daṇḍaka-araṇye saṃśrutam janakātmaje . saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam.. 17..
मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा । अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्॥ १८॥
मुनीनाम् अन्यथा कर्तुम् सत्यम् इष्टम् हि मे सदा । अपि अहम् जीवितम् जह्याम् त्वाम् वा सीते स लक्ष्मणाम्॥ १८॥
munīnām anyathā kartum satyam iṣṭam hi me sadā . api aham jīvitam jahyām tvām vā sīte sa lakṣmaṇām.. 18..
न तु प्रतिज्ञा संश्रुत्य ब्राह्मणेभ्यो विशेषतः । तदवश्यं मया कार्यमृषीणां परिपालनम्॥ १९॥
न तु प्रतिज्ञा संश्रुत्य ब्राह्मणेभ्यः विशेषतः । तत् अवश्यम् मया कार्यम् ऋषीणाम् परिपालनम्॥ १९॥
na tu pratijñā saṃśrutya brāhmaṇebhyaḥ viśeṣataḥ . tat avaśyam mayā kāryam ṛṣīṇām paripālanam.. 19..
अनुक्तेनापि वैदेहि प्रतिज्ञाय कथं पुनः । मम स्नेहाच्च सौहार्दादिदमुक्तं त्वया वचः॥ २०॥
अन् उक्तेन अपि वैदेहि प्रतिज्ञाय कथम् पुनर् । मम स्नेहात् च सौहार्दात् इदम् उक्तम् त्वया वचः॥ २०॥
an uktena api vaidehi pratijñāya katham punar . mama snehāt ca sauhārdāt idam uktam tvayā vacaḥ.. 20..
परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशास्यते । सदृशं चानुरूपं च कुलस्य तव शोभने । सधर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी॥ २१॥
परितुष्टः अस्मि अहम् सीते न हि अनिष्टः अनुशास्यते । सदृशम् च अनुरूपम् च कुलस्य तव शोभने । स धर्म-चारिणी मे त्वम् प्राणेभ्यः अपि गरीयसी॥ २१॥
parituṣṭaḥ asmi aham sīte na hi aniṣṭaḥ anuśāsyate . sadṛśam ca anurūpam ca kulasya tava śobhane . sa dharma-cāriṇī me tvam prāṇebhyaḥ api garīyasī.. 21..
इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम् । रामो धनुष्मान् सह लक्ष्मणेन जगाम रम्याणि तपोवनानि॥ २२॥
इति एवम् उक्त्वा वचनम् महात्मा सीताम् प्रियाम् मैथिल-राज-पुत्रीम् । रामः धनुष्मान् सह लक्ष्मणेन जगाम रम्याणि तपोवनानि॥ २२॥
iti evam uktvā vacanam mahātmā sītām priyām maithila-rāja-putrīm . rāmaḥ dhanuṣmān saha lakṣmaṇena jagāma ramyāṇi tapovanāni.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे दशमः सर्गः ॥३-१०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे दशमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe daśamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In