This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकादशः सर्गः ॥३-११॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे एकादशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ekādaśaḥ sargaḥ ..3..
अग्रतः प्रययौ रामः सीता मध्ये सुशोभना । पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह॥ १॥
अग्रतस् प्रययौ रामः सीता मध्ये सु शोभना । पृष्ठतस् तु धनुष्पाणिः लक्ष्मणः अनुजगाम ह॥ १॥
agratas prayayau rāmaḥ sītā madhye su śobhanā . pṛṣṭhatas tu dhanuṣpāṇiḥ lakṣmaṇaḥ anujagāma ha.. 1..
तौ पश्यमानौ विविधान् शैलप्रस्थान् वनानि च । नदीश्च विविधा रम्या जग्मतुः सह सीतया॥ २॥
तौ पश्यमानौ विविधान् शैल-प्रस्थान् वनानि च । नदीः च विविधाः रम्याः जग्मतुः सह सीतया॥ २॥
tau paśyamānau vividhān śaila-prasthān vanāni ca . nadīḥ ca vividhāḥ ramyāḥ jagmatuḥ saha sītayā.. 2..
सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः । सरांसि च सपद्मानि युतानि जलजैः खगैः॥ ३॥
सारसान् चक्रवाकान् च नदी-पुलिन-चारिणः । सरांसि च स पद्मानि युतानि जल-जैः खगैः॥ ३॥
sārasān cakravākān ca nadī-pulina-cāriṇaḥ . sarāṃsi ca sa padmāni yutāni jala-jaiḥ khagaiḥ.. 3..
यूथबद्धांश्च पृषतान् मदोन्मत्तान् विषाणिनः । महिषांश्च वराहांश्च गजांश्च द्रुमवैरिणः॥ ४॥
यूथ-बद्धान् च पृषतान् मद-उन्मत्तान् विषाणिनः । महिषान् च वराहान् च गजान् च द्रुम-वैरिणः॥ ४॥
yūtha-baddhān ca pṛṣatān mada-unmattān viṣāṇinaḥ . mahiṣān ca varāhān ca gajān ca druma-vairiṇaḥ.. 4..
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे । ददृशुः सहिता रम्यं तटाकं योजनायुतम्॥ ५॥
ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे । ददृशुः सहिताः रम्यम् तटाकम् योजन-अयुतम्॥ ५॥
te gatvā dūram adhvānam lambamāne divākare . dadṛśuḥ sahitāḥ ramyam taṭākam yojana-ayutam.. 5..
पद्मपुष्करसम्बाधं गजयूथैरलंकृतम् । सारसैर्हंसकादम्बैः संकुलं जलजातिभिः॥ ६॥
पद्म-पुष्कर-सम्बाधम् गज-यूथैः अलंकृतम् । सारसैः हंस-कादम्बैः संकुलम् जल-जातिभिः॥ ६॥
padma-puṣkara-sambādham gaja-yūthaiḥ alaṃkṛtam . sārasaiḥ haṃsa-kādambaiḥ saṃkulam jala-jātibhiḥ.. 6..
प्रसन्नसलिले रम्ये तस्मिन् सरसि शुश्रुवे । गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते॥ ७॥
प्रसन्न-सलिले रम्ये तस्मिन् सरसि शुश्रुवे । गीत-वादित्र-निर्घोषः न तु कश्चन दृश्यते॥ ७॥
prasanna-salile ramye tasmin sarasi śuśruve . gīta-vāditra-nirghoṣaḥ na tu kaścana dṛśyate.. 7..
ततः कौतूहलाद् रामो लक्ष्मणश्च महारथः । मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे॥ ८॥
ततस् कौतूहलात् रामः लक्ष्मणः च महा-रथः । मुनिम् धर्मभृतम् नाम प्रष्टुम् समुपचक्रमे॥ ८॥
tatas kautūhalāt rāmaḥ lakṣmaṇaḥ ca mahā-rathaḥ . munim dharmabhṛtam nāma praṣṭum samupacakrame.. 8..
इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने । कौतूहलं महज्जातं किमिदं साधु कथ्यताम्॥ ९॥
इदम् अत्यद्भुतम् श्रुत्वा सर्वेषाम् नः महा-मुने । कौतूहलम् महत् जातम् किम् इदम् साधु कथ्यताम्॥ ९॥
idam atyadbhutam śrutvā sarveṣām naḥ mahā-mune . kautūhalam mahat jātam kim idam sādhu kathyatām.. 9..
तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा । प्रभावं सरसः क्षिप्रमाख्यातुमुपचक्रमे॥ १०॥
तेन एवम् उक्तः धर्म-आत्मा राघवेण मुनिः तदा । प्रभावम् सरसः क्षिप्रम् आख्यातुम् उपचक्रमे॥ १०॥
tena evam uktaḥ dharma-ātmā rāghaveṇa muniḥ tadā . prabhāvam sarasaḥ kṣipram ākhyātum upacakrame.. 10..
इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् । निर्मितं तपसा राम मुनिना माण्डकर्णिना॥ ११॥
इदम् पञ्चाप्सरः नाम तटाकम् सार्वकालिकम् । निर्मितम् तपसा राम मुनिना माण्डकर्णिना॥ ११॥
idam pañcāpsaraḥ nāma taṭākam sārvakālikam . nirmitam tapasā rāma muninā māṇḍakarṇinā.. 11..
स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः । दशवर्षसहस्राणि वायुभक्षो जलाशये॥ १२॥
स हि तेपे तपः तीव्रम् माण्डकर्णिः महा-मुनिः । दश-वर्ष-सहस्राणि वायुभक्षः जलाशये॥ १२॥
sa hi tepe tapaḥ tīvram māṇḍakarṇiḥ mahā-muniḥ . daśa-varṣa-sahasrāṇi vāyubhakṣaḥ jalāśaye.. 12..
ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः । अब्रुवन् वचनं सर्वे परस्परसमागताः॥ १३॥
ततस् प्रव्यथिताः सर्वे देवाः स अग्नि-पुरोगमाः । अब्रुवन् वचनम् सर्वे परस्पर-समागताः॥ १३॥
tatas pravyathitāḥ sarve devāḥ sa agni-purogamāḥ . abruvan vacanam sarve paraspara-samāgatāḥ.. 13..
अस्माकं कस्यचित् स्थानमेष प्रार्थयते मुनिः । इति संविग्नमनसः सर्वे तत्र दिवौकसः॥ १४॥
अस्माकम् कस्यचिद् स्थानम् एष प्रार्थयते मुनिः । इति संविग्न-मनसः सर्वे तत्र दिवौकसः॥ १४॥
asmākam kasyacid sthānam eṣa prārthayate muniḥ . iti saṃvigna-manasaḥ sarve tatra divaukasaḥ.. 14..
ततः कर्तुं तपोविघ्नं सर्वदेवैर्नियोजिताः । प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः॥ १५॥
ततस् कर्तुम् तपः-विघ्नम् सर्व-देवैः नियोजिताः । प्रधान-अप्सरसः पञ्च विद्युत्-चलित-वर्चसः॥ १५॥
tatas kartum tapaḥ-vighnam sarva-devaiḥ niyojitāḥ . pradhāna-apsarasaḥ pañca vidyut-calita-varcasaḥ.. 15..
अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः । नीतो मदनवश्यत्वं देवानां कार्यसिद्धये॥ १६॥
अप्सरोभिः ततस् ताभिः मुनिः दृष्ट-परावरः । नीतः मदन-वश्य-त्वम् देवानाम् कार्य-सिद्धये॥ १६॥
apsarobhiḥ tatas tābhiḥ muniḥ dṛṣṭa-parāvaraḥ . nītaḥ madana-vaśya-tvam devānām kārya-siddhaye.. 16..
ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः । तटाके निर्मितं तासां तस्मिन्नन्तर्हितं गृहम्॥ १७॥
ताः च एव अप्सरसः पञ्च मुनेः पत्नी-त्वम् आगताः । तटाके निर्मितम् तासाम् तस्मिन् अन्तर्हितम् गृहम्॥ १७॥
tāḥ ca eva apsarasaḥ pañca muneḥ patnī-tvam āgatāḥ . taṭāke nirmitam tāsām tasmin antarhitam gṛham.. 17..
तत्रैवाप्सरसः पञ्च निवसन्त्यो यथासुखम् । रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम्॥ १८॥
तत्र एव अप्सरसः पञ्च निवसन्त्यः यथासुखम् । रमयन्ति तपः-योगात् मुनिम् यौवनम् आस्थितम्॥ १८॥
tatra eva apsarasaḥ pañca nivasantyaḥ yathāsukham . ramayanti tapaḥ-yogāt munim yauvanam āsthitam.. 18..
तासां संक्रीडमानानामेष वादित्रनिःस्वनः । श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः॥ १९॥
तासाम् संक्रीडमानानाम् एष वादित्र-निःस्वनः । श्रूयते भूषण-उन्मिश्रः गीत-शब्दः मनोहरः॥ १९॥
tāsām saṃkrīḍamānānām eṣa vāditra-niḥsvanaḥ . śrūyate bhūṣaṇa-unmiśraḥ gīta-śabdaḥ manoharaḥ.. 19..
आश्चर्यमिति तस्यैतद् वचनं भावितात्मनः । राघवः प्रतिजग्राह सह भ्रात्रा महायशाः॥ २०॥
आश्चर्यम् इति तस्य एतत् वचनम् भावितात्मनः । राघवः प्रतिजग्राह सह भ्रात्रा महा-यशाः॥ २०॥
āścaryam iti tasya etat vacanam bhāvitātmanaḥ . rāghavaḥ pratijagrāha saha bhrātrā mahā-yaśāḥ.. 20..
एवं कथयमानः स ददर्शाश्रममण्डलम् । कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्॥ २१॥
एवम् कथयमानः स ददर्श आश्रम-मण्डलम् । कुश-चीर-परिक्षिप्तम् ब्राह्म्या लक्ष्म्या समावृतम्॥ २१॥
evam kathayamānaḥ sa dadarśa āśrama-maṇḍalam . kuśa-cīra-parikṣiptam brāhmyā lakṣmyā samāvṛtam.. 21..
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः । तदा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले॥ २२॥
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः । तदा तस्मिन् स काकुत्स्थः श्रीमति आश्रम-मण्डले॥ २२॥
praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ . tadā tasmin sa kākutsthaḥ śrīmati āśrama-maṇḍale.. 22..
उषित्वा स सुखं तत्र पूज्यमानो महर्षिभिः । जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम्॥ २३॥
उषित्वा स सुखम् तत्र पूज्यमानः महा-ऋषिभिः । जगाम च आश्रमान् तेषाम् पर्यायेण तपस्विनाम्॥ २३॥
uṣitvā sa sukham tatra pūjyamānaḥ mahā-ṛṣibhiḥ . jagāma ca āśramān teṣām paryāyeṇa tapasvinām.. 23..
येषामुषितवान् पूर्वं सकाशे स महास्त्रवित् । क्वचित् परिदशान् मासानेकसंवत्सरं क्वचित्॥ २४॥
येषाम् उषितवान् पूर्वम् सकाशे स महा-अस्त्र-विद् । क्वचिद् परिदशान् मासान् एक-संवत्सरम् क्वचिद्॥ २४॥
yeṣām uṣitavān pūrvam sakāśe sa mahā-astra-vid . kvacid paridaśān māsān eka-saṃvatsaram kvacid.. 24..
क्वचिच्च चतुरो मासान् पञ्च षट् च परान् क्वचित् । अपरत्राधिकान् मासानध्यर्धमधिकं क्वचित्॥ २५॥
क्वचिद् च चतुरः मासान् पञ्च षट् च परान् क्वचिद् । अपरत्र अधिकात् मासान् अध्यर्धम् अधिकम् क्वचिद्॥ २५॥
kvacid ca caturaḥ māsān pañca ṣaṭ ca parān kvacid . aparatra adhikāt māsān adhyardham adhikam kvacid.. 25..
त्रीन् मासानष्टमासांश्च राघवो न्यवसत् सुखम् । तत्र संवसतस्तस्य मुनीनामाश्रमेषु वै॥ २६॥
त्रीन् मासान् अष्ट-मासान् च राघवः न्यवसत् सुखम् । तत्र संवसतः तस्य मुनीनाम् आश्रमेषु वै॥ २६॥
trīn māsān aṣṭa-māsān ca rāghavaḥ nyavasat sukham . tatra saṃvasataḥ tasya munīnām āśrameṣu vai.. 26..
रमतश्चानुकूल्येन ययुः संवत्सरा दश । परिसृत्य च धर्मज्ञो राघवः सह सीतया॥ २७॥
रमतः च आनुकूल्येन ययुः संवत्सराः दश । परिसृत्य च धर्म-ज्ञः राघवः सह सीतया॥ २७॥
ramataḥ ca ānukūlyena yayuḥ saṃvatsarāḥ daśa . parisṛtya ca dharma-jñaḥ rāghavaḥ saha sītayā.. 27..
सुतीक्ष्णस्याश्रमपदं पुनरेवाजगाम ह । स तमाश्रममागम्य मुनिभिः परिपूजितः॥ २८॥
सुतीक्ष्णस्य आश्रम-पदम् पुनर् एव आजगाम ह । स तम् आश्रमम् आगम्य मुनिभिः परिपूजितः॥ २८॥
sutīkṣṇasya āśrama-padam punar eva ājagāma ha . sa tam āśramam āgamya munibhiḥ paripūjitaḥ.. 28..
तत्रापि न्यवसद् रामः किंचित् कालमरिंदमः । अथाश्रमस्थो विनयात् कदाचित् तं महामुनिम्॥ २९॥
तत्र अपि न्यवसत् रामः किंचिद् कालम् अरिंदमः । अथ आश्रम-स्थः विनयात् कदाचिद् तम् महा-मुनिम्॥ २९॥
tatra api nyavasat rāmaḥ kiṃcid kālam ariṃdamaḥ . atha āśrama-sthaḥ vinayāt kadācid tam mahā-munim.. 29..
उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत् । अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः॥ ३०॥
उपासीनः स काकुत्स्थः सुतीक्ष्णम् इदम् अब्रवीत् । अस्मिन् अरण्ये भगवन् अगस्त्यः मुनि-सत्तमः॥ ३०॥
upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt . asmin araṇye bhagavan agastyaḥ muni-sattamaḥ.. 30..
वसतीति मया नित्यं कथाः कथयतां श्रुतम् । न तु जानामि तं देशं वनस्यास्य महत्तया॥ ३१॥
वसति इति मया नित्यम् कथाः कथयताम् श्रुतम् । न तु जानामि तम् देशम् वनस्य अस्य महत्-तया॥ ३१॥
vasati iti mayā nityam kathāḥ kathayatām śrutam . na tu jānāmi tam deśam vanasya asya mahat-tayā.. 31..
कुत्राश्रमपदं रम्यं महर्षेस्तस्य धीमतः । प्रसादार्थं भगवतः सानुजः सह सीतया॥ ३२॥
कुत्र आश्रम-पदम् रम्यम् महा-ऋषेः तस्य धीमतः । प्रसाद-अर्थम् भगवतः स अनुजः सह सीतया॥ ३२॥
kutra āśrama-padam ramyam mahā-ṛṣeḥ tasya dhīmataḥ . prasāda-artham bhagavataḥ sa anujaḥ saha sītayā.. 32..
अगस्त्यमधिगच्छेयमभिवादयितुं मुनिम् । मनोरथो महानेष हृदि सम्परिवर्तते॥ ३३॥
अगस्त्यम् अधिगच्छेयम् अभिवादयितुम् मुनिम् । मनोरथः महान् एष हृदि सम्परिवर्तते॥ ३३॥
agastyam adhigaccheyam abhivādayitum munim . manorathaḥ mahān eṣa hṛdi samparivartate.. 33..
यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम् । इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः॥ ३४॥
यत् अहम् तम् मुनि-वरम् शुश्रूषेयम् अपि स्वयम् । इति रामस्य स मुनिः श्रुत्वा धर्म-आत्मनः वचः॥ ३४॥
yat aham tam muni-varam śuśrūṣeyam api svayam . iti rāmasya sa muniḥ śrutvā dharma-ātmanaḥ vacaḥ.. 34..
सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् । अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम्॥ ३५॥
सुतीक्ष्णः प्रत्युवाच इदम् प्रीतः दशरथ-आत्मजम् । अहम् अपि एतत् एव त्वाम् वक्तु-कामः स लक्ष्मणम्॥ ३५॥
sutīkṣṇaḥ pratyuvāca idam prītaḥ daśaratha-ātmajam . aham api etat eva tvām vaktu-kāmaḥ sa lakṣmaṇam.. 35..
अगस्त्यमभिगच्छेति सीतया सह राघव । दिष्ट्या त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम्॥ ३६॥
अगस्त्यम् अभिगच्छ इति सीतया सह राघव । दिष्ट्या तु इदानीम् अर्थे अस्मिन् स्वयम् एव ब्रवीषि माम्॥ ३६॥
agastyam abhigaccha iti sītayā saha rāghava . diṣṭyā tu idānīm arthe asmin svayam eva bravīṣi mām.. 36..
अयमाख्यामि ते राम यत्रागस्त्यो महामुनिः । योजनान्याश्रमात् तात याहि चत्वारि वै ततः । दक्षिणेन महान् श्रीमानगस्त्यभ्रातुराश्रमः॥ ३७॥
अयम् आख्यामि ते राम यत्र अगस्त्यः महा-मुनिः । योजनानि आश्रमात् तात याहि चत्वारि वै ततस् । दक्षिणेन महान् श्रीमान् अगस्त्य-भ्रातुः आश्रमः॥ ३७॥
ayam ākhyāmi te rāma yatra agastyaḥ mahā-muniḥ . yojanāni āśramāt tāta yāhi catvāri vai tatas . dakṣiṇena mahān śrīmān agastya-bhrātuḥ āśramaḥ.. 37..
स्थलीप्रायवनोद्देशे पिप्पलीवनशोभिते । बहुपुष्पफले रम्ये नानाविहगनादिते॥ ३८॥
स्थली-प्राय-वन-उद्देशे पिप्पली-वन-शोभिते । बहु-पुष्प-फले रम्ये नाना विहग-नादिते॥ ३८॥
sthalī-prāya-vana-uddeśe pippalī-vana-śobhite . bahu-puṣpa-phale ramye nānā vihaga-nādite.. 38..
पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाशयाः । हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः॥ ३९॥
पद्मिन्यः विविधाः तत्र प्रसन्न-सलिलाशयाः । हंस-कारण्डव-आकीर्णाः चक्रवाक-उपशोभिताः॥ ३९॥
padminyaḥ vividhāḥ tatra prasanna-salilāśayāḥ . haṃsa-kāraṇḍava-ākīrṇāḥ cakravāka-upaśobhitāḥ.. 39..
तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम् । दक्षिणां दिशमास्थाय वनखण्डस्य पार्श्वतः॥ ४०॥
तत्र एकाम् रजनीम् व्युष्य प्रभाते राम गम्यताम् । दक्षिणाम् दिशम् आस्थाय वनखण्डस्य पार्श्वतः॥ ४०॥
tatra ekām rajanīm vyuṣya prabhāte rāma gamyatām . dakṣiṇām diśam āsthāya vanakhaṇḍasya pārśvataḥ.. 40..
तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम् । रमणीये वनोद्देशे बहुपादपशोभिते॥ ४१॥
तत्र अगस्त्य-आश्रम-पदम् गत्वा योजनम् अन्तरम् । रमणीये वन-उद्देशे बहु-पादप-शोभिते॥ ४१॥
tatra agastya-āśrama-padam gatvā yojanam antaram . ramaṇīye vana-uddeśe bahu-pādapa-śobhite.. 41..
रंस्यते तत्र वैदेही लक्ष्मणश्च त्वया सह । स हि रम्यो वनोद्देशो बहुपादपसंयुतः॥ ४२॥
रंस्यते तत्र वैदेही लक्ष्मणः च त्वया सह । स हि रम्यः वन-उद्देशः बहु-पादप-संयुतः॥ ४२॥
raṃsyate tatra vaidehī lakṣmaṇaḥ ca tvayā saha . sa hi ramyaḥ vana-uddeśaḥ bahu-pādapa-saṃyutaḥ.. 42..
यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् । अद्यैव गमने बुद्धिं रोचयस्व महामते॥ ४३॥
यदि बुद्धिः कृता द्रष्टुम् अगस्त्यम् तम् महा-मुनिम् । अद्या एव गमने बुद्धिम् रोचयस्व महामते॥ ४३॥
yadi buddhiḥ kṛtā draṣṭum agastyam tam mahā-munim . adyā eva gamane buddhim rocayasva mahāmate.. 43..
इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च । प्रतस्थेऽगस्त्यमुद्दिश्य सानुगः सह सीतया॥ ४४॥
इति रामः मुनेः श्रुत्वा सह भ्रात्रा अभिवाद्य च । प्रतस्थे अगस्त्यम् उद्दिश्य स अनुगः सह सीतया॥ ४४॥
iti rāmaḥ muneḥ śrutvā saha bhrātrā abhivādya ca . pratasthe agastyam uddiśya sa anugaḥ saha sītayā.. 44..
पश्यन् वनानि चित्राणि पर्वतांश्चाभ्रसंनिभान् । सरांसि सरितश्चैव पथि मार्गवशानुगान्॥ ४५॥
पश्यन् वनानि चित्राणि पर्वतान् च अभ्र-संनिभान् । सरांसि सरितः च एव पथि मार्ग-वश-अनुगान्॥ ४५॥
paśyan vanāni citrāṇi parvatān ca abhra-saṃnibhān . sarāṃsi saritaḥ ca eva pathi mārga-vaśa-anugān.. 45..
सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् । इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत्॥ ४६॥
सुतीक्ष्णेन उपदिष्टेन गत्वा तेन पथा सुखम् । इदम् परम-संहृष्टः वाक्यम् लक्ष्मणम् अब्रवीत्॥ ४६॥
sutīkṣṇena upadiṣṭena gatvā tena pathā sukham . idam parama-saṃhṛṣṭaḥ vākyam lakṣmaṇam abravīt.. 46..
एतदेवाश्रमपदं नूनं तस्य महात्मनः । अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः॥ ४७॥
एतत् एव आश्रम-पदम् नूनम् तस्य महात्मनः । अगस्त्यस्य मुनेः भ्रातुः दृश्यते पुण्य-कर्मणः॥ ४७॥
etat eva āśrama-padam nūnam tasya mahātmanaḥ . agastyasya muneḥ bhrātuḥ dṛśyate puṇya-karmaṇaḥ.. 47..
यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः । संनताः फलभारेण पुष्पभारेण च द्रुमाः॥ ४८॥
यथा हि इमे वनस्य अस्य ज्ञाताः पथि सहस्रशस् । संनताः फल-भारेण पुष्प-भारेण च द्रुमाः॥ ४८॥
yathā hi ime vanasya asya jñātāḥ pathi sahasraśas . saṃnatāḥ phala-bhāreṇa puṣpa-bhāreṇa ca drumāḥ.. 48..
पिप्पलीनां च पक्वानां वनादस्मादुपागतः । गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः॥ ४९॥
पिप्पलीनाम् च पक्वानाम् वनात् अस्मात् उपागतः । गन्धः अयम् पवन-उत्क्षिप्तः सहसा कटुक-उदयः॥ ४९॥
pippalīnām ca pakvānām vanāt asmāt upāgataḥ . gandhaḥ ayam pavana-utkṣiptaḥ sahasā kaṭuka-udayaḥ.. 49..
तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठसंचयाः । लूनाश्च परिदृश्यन्ते दर्भा वैदूर्यवर्चसः॥ ५०॥
तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठ-संचयाः । लूनाः च परिदृश्यन्ते दर्भाः वैदूर्य-वर्चसः॥ ५०॥
tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭha-saṃcayāḥ . lūnāḥ ca paridṛśyante darbhāḥ vaidūrya-varcasaḥ.. 50..
एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम् । पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते॥ ५१॥
एतत् च वन-मध्य-स्थम् कृष्ण-अभ्र-शिखर-उपमम् । पावकस्य आश्रम-स्थस्य धूम-अग्रम् सम्प्रदृश्यते॥ ५१॥
etat ca vana-madhya-stham kṛṣṇa-abhra-śikhara-upamam . pāvakasya āśrama-sthasya dhūma-agram sampradṛśyate.. 51..
विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः । पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमर्जितैः॥ ५२॥
विविक्तेषु च तीर्थेषु कृत-स्नानाः द्विजातयः । पुष्प-उपहारम् कुर्वन्ति कुसुमैः स्वयम् अर्जितैः॥ ५२॥
vivikteṣu ca tīrtheṣu kṛta-snānāḥ dvijātayaḥ . puṣpa-upahāram kurvanti kusumaiḥ svayam arjitaiḥ.. 52..
ततः सुतीक्ष्णवचनं यथा सौम्य मया श्रुतम् । अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति॥ ५३॥
ततस् सुतीक्ष्ण-वचनम् यथा सौम्य मया श्रुतम् । अगस्त्यस्य आश्रमः भ्रातुः नूनम् एष भविष्यति॥ ५३॥
tatas sutīkṣṇa-vacanam yathā saumya mayā śrutam . agastyasya āśramaḥ bhrātuḥ nūnam eṣa bhaviṣyati.. 53..
निगृह्य तरसा मृत्युं लोकानां हितकाम्यया । यस्य भ्रात्रा कृतेयं दिक्शरण्या पुण्यकर्मणा॥ ५४॥
निगृह्य तरसा मृत्युम् लोकानाम् हित-काम्यया । यस्य भ्रात्रा कृता इयम् दिश् शरण्या पुण्य-कर्मणा॥ ५४॥
nigṛhya tarasā mṛtyum lokānām hita-kāmyayā . yasya bhrātrā kṛtā iyam diś śaraṇyā puṇya-karmaṇā.. 54..
इहैकदा किल क्रूरो वातापिरपि चेल्वलः । भ्रातरौ सहितावास्तां ब्राह्मणघ्नौ महासुरौ॥ ५५॥
इह एकदा किल क्रूरः वातापिः अपि च इल्वलः । भ्रातरौ सहितौ आस्ताम् ब्राह्मण-घ्नौ महा-असुरौ॥ ५५॥
iha ekadā kila krūraḥ vātāpiḥ api ca ilvalaḥ . bhrātarau sahitau āstām brāhmaṇa-ghnau mahā-asurau.. 55..
धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् । आमन्त्रयति विप्रान् स श्राद्धमुद्दिश्य निर्घृणः॥ ५६॥
धारयन् ब्राह्मणम् रूपम् इल्वलः संस्कृतम् वदन् । आमन्त्रयति विप्रान् स श्राद्धम् उद्दिश्य निर्घृणः॥ ५६॥
dhārayan brāhmaṇam rūpam ilvalaḥ saṃskṛtam vadan . āmantrayati viprān sa śrāddham uddiśya nirghṛṇaḥ.. 56..
भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम् । तान् द्विजान् भोजयामास श्राद्धदृष्टेन कर्मणा॥ ५७॥
भ्रातरम् संस्कृतम् कृत्वा ततस् तम् मेष-रूपिणम् । तान् द्विजान् भोजयामास श्राद्ध-दृष्टेन कर्मणा॥ ५७॥
bhrātaram saṃskṛtam kṛtvā tatas tam meṣa-rūpiṇam . tān dvijān bhojayāmāsa śrāddha-dṛṣṭena karmaṇā.. 57..
ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत् । वातापे निष्क्रमस्वेति स्वरेण महता वदन्॥ ५८॥
ततस् भुक्तवताम् तेषाम् विप्राणाम् इल्वलः अब्रवीत् । वातापे निष्क्रमस्व इति स्वरेण महता वदन्॥ ५८॥
tatas bhuktavatām teṣām viprāṇām ilvalaḥ abravīt . vātāpe niṣkramasva iti svareṇa mahatā vadan.. 58..
ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन् । भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत्॥ ५९॥
ततस् भ्रातुः वचः श्रुत्वा वातापिः मेष-वत् नदन् । भित्त्वा भित्त्वा शरीराणि ब्राह्मणानाम् विनिष्पतत्॥ ५९॥
tatas bhrātuḥ vacaḥ śrutvā vātāpiḥ meṣa-vat nadan . bhittvā bhittvā śarīrāṇi brāhmaṇānām viniṣpatat.. 59..
ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः । विनाशितानि संहत्य नित्यशः पिशिताशनैः॥ ६०॥
ब्राह्मणानाम् सहस्राणि तैः एवम् कामरूपिभिः । विनाशितानि संहत्य नित्यशस् पिशित-अशनैः॥ ६०॥
brāhmaṇānām sahasrāṇi taiḥ evam kāmarūpibhiḥ . vināśitāni saṃhatya nityaśas piśita-aśanaiḥ.. 60..
अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा । अनुभूय किल श्राद्धे भक्षितः स महासुरः॥ ६१॥
अगस्त्येन तदा देवैः प्रार्थितेन महा-ऋषिणा । अनुभूय किल श्राद्धे भक्षितः स महा-असुरः॥ ६१॥
agastyena tadā devaiḥ prārthitena mahā-ṛṣiṇā . anubhūya kila śrāddhe bhakṣitaḥ sa mahā-asuraḥ.. 61..
ततः सम्पन्नमित्युक्त्वा दत्त्वा हस्तेऽवनेजनम् । भ्रातरं निष्क्रमस्वेति चेल्वलः समभाषत॥ ६२॥
ततस् सम्पन्नम् इति उक्त्वा दत्त्वा हस्ते अवनेजनम् । भ्रातरम् निष्क्रमस्व इति च इल्वलः समभाषत॥ ६२॥
tatas sampannam iti uktvā dattvā haste avanejanam . bhrātaram niṣkramasva iti ca ilvalaḥ samabhāṣata.. 62..
स तदा भाषमाणं तु भ्रातरं विप्रघातिनम् । अब्रवीत् प्रहसन् धीमानगस्त्यो मुनिसत्तमः॥ ६३॥
स तदा भाषमाणम् तु भ्रातरम् विप्र-घातिनम् । अब्रवीत् प्रहसन् धीमान् अगस्त्यः मुनि-सत्तमः॥ ६३॥
sa tadā bhāṣamāṇam tu bhrātaram vipra-ghātinam . abravīt prahasan dhīmān agastyaḥ muni-sattamaḥ.. 63..
कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः । भ्रातुस्तु मेषरूपस्य गतस्य यमसादनम्॥ ६४॥
कुतस् निष्क्रमितुम् शक्तिः मया जीर्णस्य रक्षसः । भ्रातुः तु मेष-रूपस्य गतस्य यम-सादनम्॥ ६४॥
kutas niṣkramitum śaktiḥ mayā jīrṇasya rakṣasaḥ . bhrātuḥ tu meṣa-rūpasya gatasya yama-sādanam.. 64..
अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रितम् । प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः॥ ६५॥
अथ तस्य वचः श्रुत्वा भ्रातुः निधन-संश्रितम् । प्रधर्षयितुम् आरेभे मुनिम् क्रोधात् निशाचरः॥ ६५॥
atha tasya vacaḥ śrutvā bhrātuḥ nidhana-saṃśritam . pradharṣayitum ārebhe munim krodhāt niśācaraḥ.. 65..
सोऽभ्यद्रवद् द्विजेन्द्रं तं मुनिना दीप्ततेजसा । चक्षुषानलकल्पेन निर्दग्धो निधनं गतः॥ ६६॥
सः अभ्यद्रवत् द्विजेन्द्रम् तम् मुनिना दीप्त-तेजसा । चक्षुषा अनल-कल्पेन निर्दग्धः निधनम् गतः॥ ६६॥
saḥ abhyadravat dvijendram tam muninā dīpta-tejasā . cakṣuṣā anala-kalpena nirdagdhaḥ nidhanam gataḥ.. 66..
तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः । विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम्॥ ६७॥
तस्य अयम् आश्रमः भ्रातुः तटाक-वन-शोभितः । विप्र-अनुकम्पया येन कर्म इदम् दुष्करम् कृतम्॥ ६७॥
tasya ayam āśramaḥ bhrātuḥ taṭāka-vana-śobhitaḥ . vipra-anukampayā yena karma idam duṣkaram kṛtam.. 67..
एवं कथयमानस्य तस्य सौमित्रिणा सह । रामस्यास्तं गतः सूर्यः संध्याकालोऽभ्यवर्तत॥ ६८॥
एवम् कथयमानस्य तस्य सौमित्रिणा सह । रामस्य अस्तम् गतः सूर्यः संध्या-कालः अभ्यवर्तत॥ ६८॥
evam kathayamānasya tasya saumitriṇā saha . rāmasya astam gataḥ sūryaḥ saṃdhyā-kālaḥ abhyavartata.. 68..
उपास्य पश्चिमां संध्यां सह भ्रात्रा यथाविधि । प्रविवेशाश्रमपदं तमृषिं चाभ्यवादयत्॥ ६९॥
उपास्य पश्चिमाम् संध्याम् सह भ्रात्रा यथाविधि । प्रविवेश आश्रम-पदम् तम् ऋषिम् च अभ्यवादयत्॥ ६९॥
upāsya paścimām saṃdhyām saha bhrātrā yathāvidhi . praviveśa āśrama-padam tam ṛṣim ca abhyavādayat.. 69..
सम्यक्प्रतिगृहीतस्तु मुनिना तेन राघवः । न्यवसत् तां निशामेकां प्राश्य मूलफलानि च॥ ७०॥
सम्यक् प्रतिगृहीतः तु मुनिना तेन राघवः । न्यवसत् ताम् निशाम् एकाम् प्राश्य मूल-फलानि च॥ ७०॥
samyak pratigṛhītaḥ tu muninā tena rāghavaḥ . nyavasat tām niśām ekām prāśya mūla-phalāni ca.. 70..
तस्यां रात्र्यां व्यतीतायामुदिते रविमण्डले । भ्रातरं तमगस्त्यस्य आमन्त्रयत राघवः॥ ७१॥
तस्याम् रात्र्याम् व्यतीतायाम् उदिते रवि-मण्डले । भ्रातरम् तम् अगस्त्यस्य आमन्त्रयत राघवः॥ ७१॥
tasyām rātryām vyatītāyām udite ravi-maṇḍale . bhrātaram tam agastyasya āmantrayata rāghavaḥ.. 71..
अभिवादये त्वां भगवन् सुखमस्म्युषितो निशाम् । आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम्॥ ७२॥
अभिवादये त्वाम् भगवन् सुखम् अस्मि उषितः निशाम् । आमन्त्रये त्वाम् गच्छामि गुरुम् ते द्रष्टुम् अग्रजम्॥ ७२॥
abhivādaye tvām bhagavan sukham asmi uṣitaḥ niśām . āmantraye tvām gacchāmi gurum te draṣṭum agrajam.. 72..
गम्यतामिति तेनोक्तो जगाम रघुनन्दनः । यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन्॥ ७३॥
गम्यताम् इति तेन उक्तः जगाम रघुनन्दनः । यथा उद्दिष्टेन मार्गेण वनम् तत् च अवलोकयन्॥ ७३॥
gamyatām iti tena uktaḥ jagāma raghunandanaḥ . yathā uddiṣṭena mārgeṇa vanam tat ca avalokayan.. 73..
नीवारान् पनसान् सालान् वञ्जुलांस्तिनिशांस्तथा । चिरिबिल्वान् मधूकांश्च बिल्वानथ च तिन्दुकान्॥ ७४॥
नीवारान् पनसान् सालान् वञ्जुलान् तिनिशान् तथा । चिरिबिल्वान् मधूकान् च बिल्वान् अथ च तिन्दुकान्॥ ७४॥
nīvārān panasān sālān vañjulān tiniśān tathā . ciribilvān madhūkān ca bilvān atha ca tindukān.. 74..
पुष्पितान् पुष्पिताग्राभिर्लताभिरुपशोभितान् । ददर्श रामः शतशस्तत्र कान्तारपादपान्॥ ७५॥
पुष्पितान् पुष्पित-अग्राभिः लताभिः उपशोभितान् । ददर्श रामः शतशस् तत्र कान्तार-पादपान्॥ ७५॥
puṣpitān puṣpita-agrābhiḥ latābhiḥ upaśobhitān . dadarśa rāmaḥ śataśas tatra kāntāra-pādapān.. 75..
हस्तिहस्तैर्विमृदितान् वानरैरुपशोभितान् । मत्तैः शकुनिसङ्घैश्च शतशः प्रतिनादितान्॥ ७६॥
हस्ति-हस्तैः विमृदितान् वानरैः उपशोभितान् । मत्तैः शकुनि-सङ्घैः च शतशस् प्रतिनादितान्॥ ७६॥
hasti-hastaiḥ vimṛditān vānaraiḥ upaśobhitān . mattaiḥ śakuni-saṅghaiḥ ca śataśas pratināditān.. 76..
ततोऽब्रवीत् समीपस्थं रामो राजीवलोचनः । पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम्॥ ७७॥
ततस् अब्रवीत् समीप-स्थम् रामः राजीव-लोचनः । पृष्ठतस् अनुगतम् वीरम् लक्ष्मणम् लक्ष्मी-वर्धनम्॥ ७७॥
tatas abravīt samīpa-stham rāmaḥ rājīva-locanaḥ . pṛṣṭhatas anugatam vīram lakṣmaṇam lakṣmī-vardhanam.. 77..
स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः । आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः॥ ७८॥
स्निग्ध-पत्राः यथा वृक्षाः यथा क्षान्ताः मृग-द्विजाः । आश्रमः न अति दूर-स्थः महा-ऋषेः भावितात्मनः॥ ७८॥
snigdha-patrāḥ yathā vṛkṣāḥ yathā kṣāntāḥ mṛga-dvijāḥ . āśramaḥ na ati dūra-sthaḥ mahā-ṛṣeḥ bhāvitātmanaḥ.. 78..
अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा । आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः॥ ७९॥
अगस्त्यः इति विख्यातः लोके स्वेन एव कर्मणा । आश्रमः दृश्यते तस्य परिश्रान्त-श्रम-अपहः॥ ७९॥
agastyaḥ iti vikhyātaḥ loke svena eva karmaṇā . āśramaḥ dṛśyate tasya pariśrānta-śrama-apahaḥ.. 79..
प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः । प्रशान्तमृगयूथश्च नानाशकुनिनादितः॥ ८०॥
प्राज्य-धूम-आकुल-वनः चीर-माला-परिष्कृतः । प्रशान्त-मृग-यूथः च नाना शकुनि-नादितः॥ ८०॥
prājya-dhūma-ākula-vanaḥ cīra-mālā-pariṣkṛtaḥ . praśānta-mṛga-yūthaḥ ca nānā śakuni-nāditaḥ.. 80..
निगृह्य तरसा मृत्युं लोकानां हितकाम्यया । दक्षिणा दिक् कृता येन शरण्या पुण्यकर्मणा॥ ८१॥
निगृह्य तरसा मृत्युम् लोकानाम् हित-काम्यया । दक्षिणा दिश् कृता येन शरण्या पुण्य-कर्मणा॥ ८१॥
nigṛhya tarasā mṛtyum lokānām hita-kāmyayā . dakṣiṇā diś kṛtā yena śaraṇyā puṇya-karmaṇā.. 81..
तस्येदमाश्रमपदं प्रभावाद् यस्य राक्षसैः । दिगियं दक्षिणा त्रासाद् दृश्यते नोपभुज्यते॥ ८२॥
तस्य इदम् आश्रम-पदम् प्रभावात् यस्य राक्षसैः । दिश् इयम् दक्षिणा त्रासात् दृश्यते न उपभुज्यते॥ ८२॥
tasya idam āśrama-padam prabhāvāt yasya rākṣasaiḥ . diś iyam dakṣiṇā trāsāt dṛśyate na upabhujyate.. 82..
यदाप्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा । तदाप्रभृति निर्वैराः प्रशान्ता रजनीचराः॥ ८३॥
यदा प्रभृति च आक्रान्ता दिश् इयम् पुण्य-कर्मणा । तदा प्रभृति निर्वैराः प्रशान्ताः रजनीचराः॥ ८३॥
yadā prabhṛti ca ākrāntā diś iyam puṇya-karmaṇā . tadā prabhṛti nirvairāḥ praśāntāḥ rajanīcarāḥ.. 83..
नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा । प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः॥ ८४॥
नाम्ना च इयम् भगवतः दक्षिणा दिश् प्रदक्षिणा । प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूर-कर्मभिः॥ ८४॥
nāmnā ca iyam bhagavataḥ dakṣiṇā diś pradakṣiṇā . prathitā triṣu lokeṣu durdharṣā krūra-karmabhiḥ.. 84..
मार्गं निरोद्धुं सततं भास्करस्याचलोत्तमः । संदेशं पालयंस्तस्य विन्ध्यशैलो न वर्धते॥ ८५॥
मार्गम् निरोद्धुम् सततम् भास्करस्य अचल-उत्तमः । संदेशम् पालयन् तस्य विन्ध्य-शैलः न वर्धते॥ ८५॥
mārgam niroddhum satatam bhāskarasya acala-uttamaḥ . saṃdeśam pālayan tasya vindhya-śailaḥ na vardhate.. 85..
अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः । अगस्त्यस्याश्रमः श्रीमान् विनीतमृगसेवितः॥ ८६॥
अयम् दीर्घ-आयुषः तस्य लोके विश्रुत-कर्मणः । अगस्त्यस्य आश्रमः श्रीमान् विनीत-मृग-सेवितः॥ ८६॥
ayam dīrgha-āyuṣaḥ tasya loke viśruta-karmaṇaḥ . agastyasya āśramaḥ śrīmān vinīta-mṛga-sevitaḥ.. 86..
एष लोकार्चितः साधुर्हिते नित्यं रतः सताम् । अस्मानधिगतानेष श्रेयसा योजयिष्यति॥ ८७॥
एष लोक-अर्चितः साधुः हिते नित्यम् रतः सताम् । अस्मान् अधिगतान् एष श्रेयसा योजयिष्यति॥ ८७॥
eṣa loka-arcitaḥ sādhuḥ hite nityam rataḥ satām . asmān adhigatān eṣa śreyasā yojayiṣyati.. 87..
आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् । शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो॥ ८८॥
आराधयिष्यामि अत्र अहम् अगस्त्यम् तम् महा-मुनिम् । शेषम् च वन-वासस्य सौम्य वत्स्यामि अहम् प्रभो॥ ८८॥
ārādhayiṣyāmi atra aham agastyam tam mahā-munim . śeṣam ca vana-vāsasya saumya vatsyāmi aham prabho.. 88..
अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । अगस्त्यं नियताहाराः सततं पर्युपासते॥ ८९॥
अत्र देवाः स गन्धर्वाः सिद्धाः च परम-ऋषयः । अगस्त्यम् नियत-आहाराः सततम् पर्युपासते॥ ८९॥
atra devāḥ sa gandharvāḥ siddhāḥ ca parama-ṛṣayaḥ . agastyam niyata-āhārāḥ satatam paryupāsate.. 89..
नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः । नृशंसः पापवृत्तो वा मुनिरेष तथाविधः॥ ९०॥
न अत्र जीवेत् मृषावादी क्रूरः वा यदि वा शठः । नृशंसः पाप-वृत्तः वा मुनिः एष तथाविधः॥ ९०॥
na atra jīvet mṛṣāvādī krūraḥ vā yadi vā śaṭhaḥ . nṛśaṃsaḥ pāpa-vṛttaḥ vā muniḥ eṣa tathāvidhaḥ.. 90..
अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह । वसन्ति नियताहारा धर्ममाराधयिष्णवः॥ ९१॥
अत्र देवाः च यक्षाः च नागाः च पतगैः सह । वसन्ति नियत-आहाराः धर्मम् आराधयिष्णवः॥ ९१॥
atra devāḥ ca yakṣāḥ ca nāgāḥ ca patagaiḥ saha . vasanti niyata-āhārāḥ dharmam ārādhayiṣṇavaḥ.. 91..
अत्र सिद्धा महात्मानो विमानैः सूर्यसंनिभैः । त्यक्त्वा देहान् नवैर्देहैः स्वर्याताः परमर्षयः॥ ९२॥
अत्र सिद्धाः महात्मानः विमानैः सूर्य-संनिभैः । त्यक्त्वा देहात् नवैः देहैः स्वर्याताः परम-ऋषयः॥ ९२॥
atra siddhāḥ mahātmānaḥ vimānaiḥ sūrya-saṃnibhaiḥ . tyaktvā dehāt navaiḥ dehaiḥ svaryātāḥ parama-ṛṣayaḥ.. 92..
यक्षत्वममरत्वं च राज्यानि विविधानि च । अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः॥ ९३॥
यक्ष-त्वम् अमर-त्वम् च राज्यानि विविधानि च । अत्र देवाः प्रयच्छन्ति भूतैः आराधिताः शुभैः॥ ९३॥
yakṣa-tvam amara-tvam ca rājyāni vividhāni ca . atra devāḥ prayacchanti bhūtaiḥ ārādhitāḥ śubhaiḥ.. 93..
आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः । निवेदयेह मां प्राप्तमृषये सह सीतया॥ ९४॥
आगताः स्म आश्रम-पदम् सौमित्रे प्रविश अग्रतस् । निवेदय इह माम् प्राप्तम् ऋषये सह सीतया॥ ९४॥
āgatāḥ sma āśrama-padam saumitre praviśa agratas . nivedaya iha mām prāptam ṛṣaye saha sītayā.. 94..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्येअरण्यकाण्डे एकादशः सर्गः ॥३-११॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकादशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekādaśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In