This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वादशः सर्गः ॥३-१२॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे द्वादशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe dvādaśaḥ sargaḥ ..3..
स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः । अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह॥ १॥
स प्रविश्य आश्रम-पदम् लक्ष्मणः राघव-अनुजः । अगस्त्य-शिष्यम् आसाद्य वाक्यम् एतत् उवाच ह॥ १॥
sa praviśya āśrama-padam lakṣmaṇaḥ rāghava-anujaḥ . agastya-śiṣyam āsādya vākyam etat uvāca ha.. 1..
राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली । रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया॥ २॥
राजा दशरथः नाम ज्येष्ठः तस्य सुतः बली । रामः प्राप्तः मुनिम् द्रष्टुम् भार्यया सह सीतया॥ २॥
rājā daśarathaḥ nāma jyeṣṭhaḥ tasya sutaḥ balī . rāmaḥ prāptaḥ munim draṣṭum bhāryayā saha sītayā.. 2..
लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः । अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः॥ ३॥
लक्ष्मणः नाम तस्य अहम् भ्राता तु अवरजः हितः । अनुकूलः च भक्तः च यदि ते श्रोत्रम् आगतः॥ ३॥
lakṣmaṇaḥ nāma tasya aham bhrātā tu avarajaḥ hitaḥ . anukūlaḥ ca bhaktaḥ ca yadi te śrotram āgataḥ.. 3..
ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् । द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम्॥ ४॥
ते वयम् वनम् अति उग्रम् प्रविष्टाः पितृ-शासनात् । द्रष्टुम् इच्छामहे सर्वे भगवन्तम् निवेद्यताम्॥ ४॥
te vayam vanam ati ugram praviṣṭāḥ pitṛ-śāsanāt . draṣṭum icchāmahe sarve bhagavantam nivedyatām.. 4..
तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य तपोधनः । तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम्॥ ५॥
तस्य तत् वचनम् श्रुत्वा लक्ष्मणस्य तपोधनः । तथा इति उक्त्वा अग्नि-शरणम् प्रविवेश निवेदितुम्॥ ५॥
tasya tat vacanam śrutvā lakṣmaṇasya tapodhanaḥ . tathā iti uktvā agni-śaraṇam praviveśa niveditum.. 5..
स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् । कृताञ्जलिरुवाचेदं रामागमनमञ्जसा॥ ६॥
स प्रविश्य मुनि-श्रेष्ठम् तपसा दुष्प्रधर्षणम् । कृताञ्जलिः उवाच इदम् राम-आगमनम् अञ्जसा॥ ६॥
sa praviśya muni-śreṣṭham tapasā duṣpradharṣaṇam . kṛtāñjaliḥ uvāca idam rāma-āgamanam añjasā.. 6..
यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य सम्मतः । पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च॥ ७॥
यथा उक्तम् लक्ष्मणेन एव शिष्यः अगस्त्यस्य सम्मतः । पुत्रौ दशरथस्य इमौ रामः लक्ष्मणः एव च॥ ७॥
yathā uktam lakṣmaṇena eva śiṣyaḥ agastyasya sammataḥ . putrau daśarathasya imau rāmaḥ lakṣmaṇaḥ eva ca.. 7..
प्रविष्टावाश्रमपदं सीतया सह भार्यया । द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिंदमौ॥ ८॥
प्रविष्टौ आश्रम-पदम् सीतया सह भार्यया । द्रष्टुम् भवन्तम् आयातौ शुश्रूषा-अर्थम् अरिंदमौ॥ ८॥
praviṣṭau āśrama-padam sītayā saha bhāryayā . draṣṭum bhavantam āyātau śuśrūṣā-artham ariṃdamau.. 8..
यदत्रानन्तरं तत् त्वमाज्ञापयितुमर्हसि । ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम्॥ ९॥
यत् अत्र अनन्तरम् तत् त्वम् आज्ञापयितुम् अर्हसि । ततस् शिष्यात् उपश्रुत्य प्राप्तम् रामम् स लक्ष्मणम्॥ ९॥
yat atra anantaram tat tvam ājñāpayitum arhasi . tatas śiṣyāt upaśrutya prāptam rāmam sa lakṣmaṇam.. 9..
वैदेहीं च महाभागामिदं वचनमब्रवीत् । दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः॥ १०॥
वैदेहीम् च महाभागाम् इदम् वचनम् अब्रवीत् । दिष्ट्या रामः चिरस्य अद्य द्रष्टुम् माम् समुपागतः॥ १०॥
vaidehīm ca mahābhāgām idam vacanam abravīt . diṣṭyā rāmaḥ cirasya adya draṣṭum mām samupāgataḥ.. 10..
मनसा कांक्षितं ह्यस्य मयाप्यागमनं प्रति । गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः॥ ११॥
मनसा कांक्षितम् हि अस्य मया अपि आगमनम् प्रति । गम्यताम् सत्कृतः रामः स भार्यः सह लक्ष्मणः॥ ११॥
manasā kāṃkṣitam hi asya mayā api āgamanam prati . gamyatām satkṛtaḥ rāmaḥ sa bhāryaḥ saha lakṣmaṇaḥ.. 11..
प्रवेश्यतां समीपं मे किमसौ न प्रवेशितः । एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना॥ १२॥
प्रवेश्यताम् समीपम् मे किम् असौ न प्रवेशितः । एवम् उक्तः तु मुनिना धर्म-ज्ञेन महात्मना॥ १२॥
praveśyatām samīpam me kim asau na praveśitaḥ . evam uktaḥ tu muninā dharma-jñena mahātmanā.. 12..
अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः । तदा निष्क्रम्य सम्भ्रान्तः शिष्यो लक्ष्मणमब्रवीत्॥ १३॥
अभिवाद्य अब्रवीत् शिष्यः तथा इति नियत-अञ्जलिः । तदा निष्क्रम्य सम्भ्रान्तः शिष्यः लक्ष्मणम् अब्रवीत्॥ १३॥
abhivādya abravīt śiṣyaḥ tathā iti niyata-añjaliḥ . tadā niṣkramya sambhrāntaḥ śiṣyaḥ lakṣmaṇam abravīt.. 13..
कोऽसौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम् । ततो गत्वाऽऽश्रमपदं शिष्येण सह लक्ष्मणः॥ १४॥
कः असौ रामः मुनिम् द्रष्टुम् एतु प्रविशतु स्वयम् । ततस् गत्वा आश्रम-पदम् शिष्येण सह लक्ष्मणः॥ १४॥
kaḥ asau rāmaḥ munim draṣṭum etu praviśatu svayam . tatas gatvā āśrama-padam śiṣyeṇa saha lakṣmaṇaḥ.. 14..
दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् । तं शिष्यः प्रश्रितं वाक्यमगस्त्यवचनं ब्रुवन्॥ १५॥
दर्शयामास काकुत्स्थम् सीताम् च जनकात्मजाम् । तम् शिष्यः प्रश्रितम् वाक्यम् अगस्त्य-वचनम् ब्रुवन्॥ १५॥
darśayāmāsa kākutstham sītām ca janakātmajām . tam śiṣyaḥ praśritam vākyam agastya-vacanam bruvan.. 15..
प्रावेशयद् यथान्यायं सत्कारार्हं सुसत्कृतम् । प्रविवेश ततो रामः सीतया सह लक्ष्मणः॥ १६॥
प्रावेशयत् यथान्यायम् सत्कार-अर्हम् सु सत्कृतम् । प्रविवेश ततस् रामः सीतया सह लक्ष्मणः॥ १६॥
prāveśayat yathānyāyam satkāra-arham su satkṛtam . praviveśa tatas rāmaḥ sītayā saha lakṣmaṇaḥ.. 16..
प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन् । स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च॥ १७॥
प्रशान्त-हरिण-आकीर्णम् आश्रमम् हि अवलोकयन् । स तत्र ब्रह्मणः स्थानम् अग्नेः स्थानम् तथा एव च॥ १७॥
praśānta-hariṇa-ākīrṇam āśramam hi avalokayan . sa tatra brahmaṇaḥ sthānam agneḥ sthānam tathā eva ca.. 17..
विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः । सोमस्थानं भगस्थानं स्थानं कौबेरमेव च॥ १८॥
विष्णोः स्थानम् महा-इन्द्रस्य स्थानम् च एव विवस्वतः । सोम-स्थानम् भग-स्थानम् स्थानम् कौबेरम् एव च॥ १८॥
viṣṇoḥ sthānam mahā-indrasya sthānam ca eva vivasvataḥ . soma-sthānam bhaga-sthānam sthānam kauberam eva ca.. 18..
धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च । स्थानं च पाशहस्तस्य वरुणस्य महात्मनः॥ १९॥
धातुः विधातुः स्थानम् च वायोः स्थानम् तथा एव च । स्थानम् च पाश-हस्तस्य वरुणस्य महात्मनः॥ १९॥
dhātuḥ vidhātuḥ sthānam ca vāyoḥ sthānam tathā eva ca . sthānam ca pāśa-hastasya varuṇasya mahātmanaḥ.. 19..
स्थानं तथैव गायत्र्या वसूनां स्थानमेव च । स्थानं च नागराजस्य गरुडस्थानमेव च॥ २०॥
स्थानम् तथा एव गायत्र्याः वसूनाम् स्थानम् एव च । स्थानम् च नाग-राजस्य गरुड-स्थानम् एव च॥ २०॥
sthānam tathā eva gāyatryāḥ vasūnām sthānam eva ca . sthānam ca nāga-rājasya garuḍa-sthānam eva ca.. 20..
कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति । ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत्॥ २१॥
कार्तिकेयस्य च स्थानम् धर्म-स्थानम् च पश्यति । ततस् शिष्यैः परिवृतः मुनिः अपि अभिनिष्पतत्॥ २१॥
kārtikeyasya ca sthānam dharma-sthānam ca paśyati . tatas śiṣyaiḥ parivṛtaḥ muniḥ api abhiniṣpatat.. 21..
तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम् । अब्रवीद् वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम्॥ २२॥
तम् ददर्श अग्रतस् रामः मुनीनाम् दीप्त-तेजसाम् । अब्रवीत् वचनम् वीरः लक्ष्मणम् लक्ष्मि-वर्धनम्॥ २२॥
tam dadarśa agratas rāmaḥ munīnām dīpta-tejasām . abravīt vacanam vīraḥ lakṣmaṇam lakṣmi-vardhanam.. 22..
बहिर्लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः । औदार्येणावगच्छामि निधानं तपसामिमम्॥ २३॥
बहिस् लक्ष्मण निष्क्रामति अगस्त्यः भगवान् ऋषिः । औदार्येण अवगच्छामि निधानम् तपसाम् इमम्॥ २३॥
bahis lakṣmaṇa niṣkrāmati agastyaḥ bhagavān ṛṣiḥ . audāryeṇa avagacchāmi nidhānam tapasām imam.. 23..
एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम् । जग्राहापततस्तस्य पादौ च रघुनन्दनः॥ २४॥
एवम् उक्त्वा महा-बाहुः अगस्त्यम् सूर्य-वर्चसम् । जग्राह आपततः तस्य पादौ च रघुनन्दनः॥ २४॥
evam uktvā mahā-bāhuḥ agastyam sūrya-varcasam . jagrāha āpatataḥ tasya pādau ca raghunandanaḥ.. 24..
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः । सीतया सह वैदेह्या तदा रामः सलक्ष्मणः॥ २५॥
अभिवाद्य तु धर्म-आत्मा तस्थौ रामः कृत-अञ्जलिः । सीतया सह वैदेह्या तदा रामः स लक्ष्मणः॥ २५॥
abhivādya tu dharma-ātmā tasthau rāmaḥ kṛta-añjaliḥ . sītayā saha vaidehyā tadā rāmaḥ sa lakṣmaṇaḥ.. 25..
प्रतिगृह्य च काकुत्स्थमर्चयित्वाऽऽसनोदकैः । कुशलप्रश्नमुक्त्वा च आस्यतामिति सोऽब्रवीत्॥ २६॥
प्रतिगृह्य च काकुत्स्थम् अर्चयित्वा आसन-उदकैः । कुशलप्रश्नम् उक्त्वा च आस्यताम् इति सः अब्रवीत्॥ २६॥
pratigṛhya ca kākutstham arcayitvā āsana-udakaiḥ . kuśalapraśnam uktvā ca āsyatām iti saḥ abravīt.. 26..
अग्निं हुत्वा प्रदायार्घ्यमतिथीन् प्रतिपूज्य च । वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ॥ २७॥
अग्निम् हुत्वा प्रदाय अर्घ्यम् अतिथीन् प्रतिपूज्य च । वानप्रस्थेन धर्मेण स तेषाम् भोजनम् ददौ॥ २७॥
agnim hutvā pradāya arghyam atithīn pratipūjya ca . vānaprasthena dharmeṇa sa teṣām bhojanam dadau.. 27..
प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः । उवाच राममासीनं प्राञ्जलिं धर्मकोविदम्॥ २८॥
प्रथमम् च उपविश्य अथ धर्म-ज्ञः मुनि-पुंगवः । उवाच रामम् आसीनम् प्राञ्जलिम् धर्म-कोविदम्॥ २८॥
prathamam ca upaviśya atha dharma-jñaḥ muni-puṃgavaḥ . uvāca rāmam āsīnam prāñjalim dharma-kovidam.. 28..
अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूजयेत् । अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् । दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत्॥ २९॥
अग्निम् हुत्वा प्रदाय अर्घ्यम् अतिथिम् प्रतिपूजयेत् । अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् । दुःसाक्षी इव परे लोके स्वानि मांसानि भक्षयेत्॥ २९॥
agnim hutvā pradāya arghyam atithim pratipūjayet . anyathā khalu kākutstha tapasvī samudācaran . duḥsākṣī iva pare loke svāni māṃsāni bhakṣayet.. 29..
राजा सर्वस्य लोकस्य धर्मचारी महारथः । पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः॥ ३०॥
राजा सर्वस्य लोकस्य धर्म-चारी महा-रथः । पूजनीयः च मान्यः च भवान् प्राप्तः प्रिय-अतिथिः॥ ३०॥
rājā sarvasya lokasya dharma-cārī mahā-rathaḥ . pūjanīyaḥ ca mānyaḥ ca bhavān prāptaḥ priya-atithiḥ.. 30..
एवमुक्त्वा फलैर्मूलैः पुष्पैश्चान्यैश्च राघवम् । पूजयित्वा यथाकामं ततोऽगस्त्यस्तमब्रवीत्॥ ३१॥
एवम् उक्त्वा फलैः मूलैः पुष्पैः च अन्यैः च राघवम् । पूजयित्वा यथाकामम् ततस् अगस्त्यः तम् अब्रवीत्॥ ३१॥
evam uktvā phalaiḥ mūlaiḥ puṣpaiḥ ca anyaiḥ ca rāghavam . pūjayitvā yathākāmam tatas agastyaḥ tam abravīt.. 31..
इदं दिव्यं महच्चापं हेमवज्रविभूषितम् । वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा॥ ३२॥
इदम् दिव्यम् महत् चापम् हेम-वज्र-विभूषितम् । वैष्णवम् पुरुष-व्याघ्र निर्मितम् विश्वकर्मणा॥ ३२॥
idam divyam mahat cāpam hema-vajra-vibhūṣitam . vaiṣṇavam puruṣa-vyāghra nirmitam viśvakarmaṇā.. 32..
अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः । दत्तौ मम महेन्द्रेण तूणी चाक्षय्यसायकौ॥ ३३॥
अमोघः सूर्य-संकाशः ब्रह्म-दत्तः शर-उत्तमः । दत्तौ मम महा-इन्द्रेण तूणी च अक्षय्य-सायकौ॥ ३३॥
amoghaḥ sūrya-saṃkāśaḥ brahma-dattaḥ śara-uttamaḥ . dattau mama mahā-indreṇa tūṇī ca akṣayya-sāyakau.. 33..
सम्पूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः । महाराजतकोशोऽयमसिर्हेमविभूषितः॥ ३४॥
सम्पूर्णौ निशितैः बाणैः ज्वलद्भिः इव पावकैः । महा-राजत-कोशः अयम् असिः हेम-विभूषितः॥ ३४॥
sampūrṇau niśitaiḥ bāṇaiḥ jvaladbhiḥ iva pāvakaiḥ . mahā-rājata-kośaḥ ayam asiḥ hema-vibhūṣitaḥ.. 34..
अनेन धनुषा राम हत्वा संख्ये महासुरान् । आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम्॥ ३५॥
अनेन धनुषा राम हत्वा संख्ये महा-असुरान् । आजहार श्रियम् दीप्ताम् पुरा विष्णुः दिवौकसाम्॥ ३५॥
anena dhanuṣā rāma hatvā saṃkhye mahā-asurān . ājahāra śriyam dīptām purā viṣṇuḥ divaukasām.. 35..
तद्धनुस्तौ च तूणी च शरं खड्गं च मानद । जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा॥ ३६॥
तत् धनुः तौ च तूणी च शरम् खड्गम् च मानद । जयाय प्रतिगृह्णीष्व वज्रम् वज्रधरः यथा॥ ३६॥
tat dhanuḥ tau ca tūṇī ca śaram khaḍgam ca mānada . jayāya pratigṛhṇīṣva vajram vajradharaḥ yathā.. 36..
एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम् । दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत्॥ ३७॥
एवम् उक्त्वा महा-तेजाः समस्तम् तत् वर-आयुधम् । दत्त्वा रामाय भगवान् अगस्त्यः पुनर् अब्रवीत्॥ ३७॥
evam uktvā mahā-tejāḥ samastam tat vara-āyudham . dattvā rāmāya bhagavān agastyaḥ punar abravīt.. 37..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्वादशः सर्गः ॥३-१२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे द्वादशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe dvādaśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In