This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयोदशः सर्गः ॥३-१३॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे त्रयोदशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe trayodaśaḥ sargaḥ ..3..
राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण । अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया॥ १॥
राम प्रीतः अस्मि भद्रम् ते परितुष्टः अस्मि लक्ष्मण । अभिवादयितुम् यत् माम् प्राप्तौ स्थः सह सीतया॥ १॥
rāma prītaḥ asmi bhadram te parituṣṭaḥ asmi lakṣmaṇa . abhivādayitum yat mām prāptau sthaḥ saha sītayā.. 1..
अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः । व्यक्तमुत्कण्ठते वापि मैथिली जनकात्मजा॥ २॥
अध्व-श्रमेण वाम् खेदः बाधते प्रचुर-श्रमः । व्यक्तम् उत्कण्ठते वा अपि मैथिली जनकात्मजा॥ २॥
adhva-śrameṇa vām khedaḥ bādhate pracura-śramaḥ . vyaktam utkaṇṭhate vā api maithilī janakātmajā.. 2..
एषा च सुकुमारी च खेदैश्च न विमानिता । प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता॥ ३॥
एषा च सुकुमारी च खेदैः च न विमानिता । प्राज्य-दोषम् वनम् प्राप्ता भर्तृ-स्नेह-प्रचोदिता॥ ३॥
eṣā ca sukumārī ca khedaiḥ ca na vimānitā . prājya-doṣam vanam prāptā bhartṛ-sneha-pracoditā.. 3..
यथैषा रमते राम इह सीता तथा कुरु । दुष्करं कृतवत्येषा वने त्वामभिगच्छती॥ ४॥
यथा एषा रमते रामः इह सीता तथा कुरु । दुष्करम् कृतवती एषा वने त्वाम् अभिगच्छती॥ ४॥
yathā eṣā ramate rāmaḥ iha sītā tathā kuru . duṣkaram kṛtavatī eṣā vane tvām abhigacchatī.. 4..
एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन । समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च॥ ५॥
एषा हि प्रकृतिः स्त्रीणाम् आ सृष्टे रघुनन्दन । सम-स्थम् अनुरज्यन्ते विषम-स्थम् त्यजन्ति च॥ ५॥
eṣā hi prakṛtiḥ strīṇām ā sṛṣṭe raghunandana . sama-stham anurajyante viṣama-stham tyajanti ca.. 5..
शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा । गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः॥ ६॥
शतह्रदानाम् लोल-त्वम् शस्त्राणाम् तीक्ष्ण-ताम् तथा । गरुड-अनिलयोः शैघ्र्यम् अनुगच्छन्ति योषितः॥ ६॥
śatahradānām lola-tvam śastrāṇām tīkṣṇa-tām tathā . garuḍa-anilayoḥ śaighryam anugacchanti yoṣitaḥ.. 6..
इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता । श्लाघ्या च व्यपदेश्या च यथा देवीष्वरुन्धती॥ ७॥
इयम् तु भवतः भार्या दोषैः एतैः विवर्जिता । श्लाघ्या च व्यपदेश्या च यथा देवीषु अरुन्धती॥ ७॥
iyam tu bhavataḥ bhāryā doṣaiḥ etaiḥ vivarjitā . ślāghyā ca vyapadeśyā ca yathā devīṣu arundhatī.. 7..
अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह । वैदेह्या चानया राम वत्स्यसि त्वमरिंदम॥ ८॥
अलंकृतः अयम् देशः च यत्र सौमित्रिणा सह । वैदेह्या च अनया राम वत्स्यसि त्वम् अरिंदम॥ ८॥
alaṃkṛtaḥ ayam deśaḥ ca yatra saumitriṇā saha . vaidehyā ca anayā rāma vatsyasi tvam ariṃdama.. 8..
एवमुक्तस्तु मुनिना राघवः संयताञ्जलिः । उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम्॥ ९॥
एवम् उक्तः तु मुनिना राघवः संयत-अञ्जलिः । उवाच प्रश्रितम् वाक्यम् ऋषिम् दीप्तम् इव अनलम्॥ ९॥
evam uktaḥ tu muninā rāghavaḥ saṃyata-añjaliḥ . uvāca praśritam vākyam ṛṣim dīptam iva analam.. 9..
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः । गुणैः सभ्रातृभार्यस्य गुरुर्नः परितुष्यति॥ १०॥
धन्यः अस्मि अनुगृहीतः अस्मि यस्य मे मुनि-पुंगवः । गुणैः स भ्रातृ-भार्यस्य गुरुः नः परितुष्यति॥ १०॥
dhanyaḥ asmi anugṛhītaḥ asmi yasya me muni-puṃgavaḥ . guṇaiḥ sa bhrātṛ-bhāryasya guruḥ naḥ parituṣyati.. 10..
किं तु व्यादिश मे देशं सोदकं बहुकाननम् । यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम्॥ ११॥
किम् तु व्यादिश मे देशम् स उदकम् बहु-काननम् । यत्र आश्रम-पदम् कृत्वा वसेयम् निरतः सुखम्॥ ११॥
kim tu vyādiśa me deśam sa udakam bahu-kānanam . yatra āśrama-padam kṛtvā vaseyam nirataḥ sukham.. 11..
ततोऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य भाषितम् । ध्यात्वा मुहूर्तं धर्मात्मा ततोवाच वचः शुभम्॥ १२॥
ततस् अब्रवीत् मुनि-श्रेष्ठः श्रुत्वा रामस्य भाषितम् । ध्यात्वा मुहूर्तम् धर्म-आत्मा ततस् उवाच वचः शुभम्॥ १२॥
tatas abravīt muni-śreṣṭhaḥ śrutvā rāmasya bhāṣitam . dhyātvā muhūrtam dharma-ātmā tatas uvāca vacaḥ śubham.. 12..
इतो द्वियोजने तात बहुमूलफलोदकः । देशो बहुमृगः श्रीमान् पञ्चवट्यभिविश्रुतः॥ १३॥
इतस् द्वि-योजने तात बहु-मूल-फल-उदकः । देशः बहु-मृगः श्रीमान् पञ्चवटी-अभिविश्रुतः॥ १३॥
itas dvi-yojane tāta bahu-mūla-phala-udakaḥ . deśaḥ bahu-mṛgaḥ śrīmān pañcavaṭī-abhiviśrutaḥ.. 13..
तत्र गत्वाऽऽश्रमपदं कृत्वा सौमित्रिणा सह । रमस्व त्वं पितुर्वाक्यं यथोक्तमनुपालयन्॥ १४॥
तत्र गत्वा आश्रमपदम् कृत्वा सौमित्रिणा सह । रमस्व त्वम् पितुः वाक्यम् यथा उक्तम् अनुपालयन्॥ १४॥
tatra gatvā āśramapadam kṛtvā saumitriṇā saha . ramasva tvam pituḥ vākyam yathā uktam anupālayan.. 14..
विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ । तपसश्च प्रभावेण स्नेहाद् दशरथस्य च॥ १५॥
विदितः हि एष वृत्तान्तः मम सर्वः तव अनघ । तपसः च प्रभावेण स्नेहात् दशरथस्य च॥ १५॥
viditaḥ hi eṣa vṛttāntaḥ mama sarvaḥ tava anagha . tapasaḥ ca prabhāveṇa snehāt daśarathasya ca.. 15..
हृदयस्थं च ते च्छन्दो विज्ञातं तपसा मया । इह वासं प्रतिज्ञाय मया सह तपोवने॥ १६॥
हृदय-स्थम् च ते छन्दः विज्ञातम् तपसा मया । इह वासम् प्रतिज्ञाय मया सह तपः-वने॥ १६॥
hṛdaya-stham ca te chandaḥ vijñātam tapasā mayā . iha vāsam pratijñāya mayā saha tapaḥ-vane.. 16..
अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति । स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते॥ १७॥
अतस् च त्वाम् अहम् ब्रूमि गच्छ पञ्चवटीम् इति । स हि रम्यः वन-उद्देशः मैथिली तत्र रंस्यते॥ १७॥
atas ca tvām aham brūmi gaccha pañcavaṭīm iti . sa hi ramyaḥ vana-uddeśaḥ maithilī tatra raṃsyate.. 17..
स देशः श्लाघनीयश्च नातिदूरे च राघव । गोदावर्याः समीपे च मैथिली तत्र रंस्यते॥ १८॥
स देशः श्लाघनीयः च न अति दूरे च राघव । गोदावर्याः समीपे च मैथिली तत्र रंस्यते॥ १८॥
sa deśaḥ ślāghanīyaḥ ca na ati dūre ca rāghava . godāvaryāḥ samīpe ca maithilī tatra raṃsyate.. 18..
प्राज्यमूलफलैश्चैव नानाद्विजगणैर्युतः । विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च॥ १९॥
प्राज्य-मूल-फलैः च एव नाना द्विज-गणैः युतः । विविक्तः च महा-बाहो पुण्यः रम्यः तथा एव च॥ १९॥
prājya-mūla-phalaiḥ ca eva nānā dvija-gaṇaiḥ yutaḥ . viviktaḥ ca mahā-bāho puṇyaḥ ramyaḥ tathā eva ca.. 19..
भवानपि सदाचारः शक्तश्च परिरक्षणे । अपि चात्र वसन् राम तापसान् पालयिष्यसि॥ २०॥
भवान् अपि सत्-आचारः शक्तः च परिरक्षणे । अपि च अत्र वसन् राम तापसान् पालयिष्यसि॥ २०॥
bhavān api sat-ācāraḥ śaktaḥ ca parirakṣaṇe . api ca atra vasan rāma tāpasān pālayiṣyasi.. 20..
एतदालक्ष्यते वीर मधूकानां महावनम् । उत्तरेणास्य गन्तव्यं न्यग्रोधमपि गच्छता॥ २१॥
एतत् आलक्ष्यते वीर मधूकानाम् महा-वनम् । उत्तरेण अस्य गन्तव्यम् न्यग्रोधम् अपि गच्छता॥ २१॥
etat ālakṣyate vīra madhūkānām mahā-vanam . uttareṇa asya gantavyam nyagrodham api gacchatā.. 21..
ततः स्थलमुपारुह्य पर्वतस्याविदूरतः । ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः॥ २२॥
ततस् स्थलम् उपारुह्य पर्वतस्य अविदूरतः । ख्यातः पञ्चवटी इति एव नित्य-पुष्पित-काननः॥ २२॥
tatas sthalam upāruhya parvatasya avidūrataḥ . khyātaḥ pañcavaṭī iti eva nitya-puṣpita-kānanaḥ.. 22..
अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह । सत्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम्॥ २३॥
अगस्त्येन एवम् उक्तः तु रामः सौमित्रिणा सह । सत्कृत्य आमन्त्रयामास तम् ऋषिम् सत्य-वादिनम्॥ २३॥
agastyena evam uktaḥ tu rāmaḥ saumitriṇā saha . satkṛtya āmantrayāmāsa tam ṛṣim satya-vādinam.. 23..
तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ । तमाश्रमं पञ्चवटीं जग्मतुः सह सीतया॥ २४॥
तौ तु तेन अभ्यनुज्ञातौ कृत-पाद-अभिवन्दनौ । तम् आश्रमम् पञ्चवटीम् जग्मतुः सह सीतया॥ २४॥
tau tu tena abhyanujñātau kṛta-pāda-abhivandanau . tam āśramam pañcavaṭīm jagmatuḥ saha sītayā.. 24..
गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणी समरेष्वकातरौ । यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ॥ २५॥
गृहीत-चापौ तु नराधिप-आत्मजौ विषक्त-तूणी समरेषु अकातरौ । यथा उपदिष्टेन पथा महा-ऋषिणा प्रजग्मतुः पञ्चवटीम् समाहितौ॥ २५॥
gṛhīta-cāpau tu narādhipa-ātmajau viṣakta-tūṇī samareṣu akātarau . yathā upadiṣṭena pathā mahā-ṛṣiṇā prajagmatuḥ pañcavaṭīm samāhitau.. 25..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रयोदशः सर्गः ॥३-१३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे त्रयोदशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe trayodaśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In