This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुर्दशः सर्गः ॥३-१४॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे चतुर्दशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe caturdaśaḥ sargaḥ ..3..
अथ पंचवटीम् गच्चन्न् अन्तरा रघुनन्दनः । आससाद महाकायम् गृध्रम् भीम पराक्रमम् ॥३-१४-१॥
अथ पंचवटीम् गच्चन् अन्तरा रघुनन्दनः । आससाद महाकायम् गृध्रम् भीम-पराक्रमम् ॥३॥
atha paṃcavaṭīm gaccan antarā raghunandanaḥ . āsasāda mahākāyam gṛdhram bhīma-parākramam ..3..
तम् दृष्ट्वा तौ महाभागौ वनस्थम् राम लक्ष्मणौ । मेनाते राक्षसम् पक्षिम् ब्रुवाणौ को भवान् इति ॥३-१४-२॥
तम् दृष्ट्वा तौ महाभागौ वनस्थम् राम-लक्ष्मणौ । मेनाते राक्षसम् पक्षिम् ब्रुवाणौ कः भवान् इति ॥३॥
tam dṛṣṭvā tau mahābhāgau vanastham rāma-lakṣmaṇau . menāte rākṣasam pakṣim bruvāṇau kaḥ bhavān iti ..3..
स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव । उवाच वत्स माम् विद्धि वयस्यम् पितुर् आत्मनः ॥३-१४-३॥
स तौ मधुरया वाचा सौम्यया प्रीणयन् इव । उवाच वत्स माम् विद्धि वयस्यम् पितुः आत्मनः ॥३॥
sa tau madhurayā vācā saumyayā prīṇayan iva . uvāca vatsa mām viddhi vayasyam pituḥ ātmanaḥ ..3..
स तम् पितृ सखम् मत्वा पूजयामास राघवः । स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च ॥३-१४-४॥
स तम् पितृ-सखम् मत्वा पूजयामास राघवः । स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च ॥३॥
sa tam pitṛ-sakham matvā pūjayāmāsa rāghavaḥ . sa tasya kulam avyagram atha papraccha nāma ca ..3..
रामस्य वचनम् श्रुत्वा कुलम् आत्मानम् एव च । आचचक्षे द्विजः तस्मै सर्वभूत समुद्भवम् ॥३-१४-५॥
रामस्य वचनम् श्रुत्वा कुलम् आत्मानम् एव च । आचचक्षे द्विजः तस्मै सर्वभूत-समुद्भवम् ॥३॥
rāmasya vacanam śrutvā kulam ātmānam eva ca . ācacakṣe dvijaḥ tasmai sarvabhūta-samudbhavam ..3..
पूर्वकाले महाबाहो ये प्रजापतयो अभवन् । तान् मे निगदतः सर्वान् आदितः शृणु राघव ॥३-१४-६॥
पूर्व-काले महा-बाहो ये प्रजापतयः अभवन् । तान् मे निगदतः सर्वान् आदितस् शृणु राघव ॥३॥
pūrva-kāle mahā-bāho ye prajāpatayaḥ abhavan . tān me nigadataḥ sarvān āditas śṛṇu rāghava ..3..
कर्दमः प्रथमः तेषाम् विकृतः तद् अनन्तरम् । शेषः च संश्रयः चैव बहु पुत्रः च वीर्यवान् ॥३-१४-७॥
कर्दमः प्रथमः तेषाम् विकृतः तद्-अनन्तरम् । शेषः च संश्रयः चएव बहु-पुत्रः च वीर्यवान् ॥३॥
kardamaḥ prathamaḥ teṣām vikṛtaḥ tad-anantaram . śeṣaḥ ca saṃśrayaḥ caeva bahu-putraḥ ca vīryavān ..3..
स्थाणुर् मरीचिर् अत्रिः च क्रतुः चैव महाबलः । पुलस्त्यः च अंगिराः चैव प्रचेताः पुलहः तथा ॥३-१४-८॥
स्थाणुः मरीचिः अत्रिः च क्रतुः च एव महा-बलः । पुलस्त्यः च अंगिराः च एव प्रचेताः पुलहः तथा ॥३॥
sthāṇuḥ marīciḥ atriḥ ca kratuḥ ca eva mahā-balaḥ . pulastyaḥ ca aṃgirāḥ ca eva pracetāḥ pulahaḥ tathā ..3..
दक्षो विवस्वान् अपरो अरिष्टनेमिः च राघव । कश्यपः च महातेजाः तेषाम् आसीत् च पश्चिमः ॥३-१४-९॥
दक्षः विवस्वान् अपरः अरिष्टनेमिः च राघव । कश्यपः च महातेजाः तेषाम् आसीत् च पश्चिमः ॥३॥
dakṣaḥ vivasvān aparaḥ ariṣṭanemiḥ ca rāghava . kaśyapaḥ ca mahātejāḥ teṣām āsīt ca paścimaḥ ..3..
प्रजापतेः तु दक्षस्य बभूवुर् इति विश्रुतम् । षष्टिर् दुहितरो राम यशस्विन्यो महायशः ॥३-१४-१०॥
प्रजापतेः तु दक्षस्य बभूवुः इति विश्रुतम् । षष्टिः दुहितरः राम यशस्विन्यः महा-यशः ॥३॥
prajāpateḥ tu dakṣasya babhūvuḥ iti viśrutam . ṣaṣṭiḥ duhitaraḥ rāma yaśasvinyaḥ mahā-yaśaḥ ..3..
कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः । अदितिम् च दितिम् चैव दनूम् अपि च कालकाम् ॥३-१४-११॥
कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः । अदितिम् च दितिम् च एव दनूम् अपि च कालकाम् ॥३॥
kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ . aditim ca ditim ca eva danūm api ca kālakām ..3..
ताम्राम् क्रोध वशाम् चैव मनुम् च अप्य् अनलाम् अपि । ताः तु कन्याः ततः प्रीतः कश्यपः पुनर् अब्रवीत् ॥३-१४-१२॥
ताम्राम् क्रोध-वशाम् च एव मनुम् च अपि अनलाम् अपि । ताः तु कन्याः ततस् प्रीतः कश्यपः पुनर् अब्रवीत् ॥३॥
tāmrām krodha-vaśām ca eva manum ca api analām api . tāḥ tu kanyāḥ tatas prītaḥ kaśyapaḥ punar abravīt ..3..
पुत्रामः त्रैलोक्य भर्तॄन् वै जनयिष्यथ मत् समान् । अदितिः तन् मना राम दितिः च दनुर् एव च ॥३-१४-१३॥
पुत्रामः त्रैलोक्य-भर्तॄन् वै जनयिष्यथ मत् समान् । अदितिः तन् मनाः राम दितिः च दनुः एव च ॥३॥
putrāmaḥ trailokya-bhartṝn vai janayiṣyatha mat samān . aditiḥ tan manāḥ rāma ditiḥ ca danuḥ eva ca ..3..
कालका च महाबाहो शेषाः तु अमनसो अभवन् । अदित्याम् जज्ञिरे देवाः त्रयः त्रिंशत् अरिंदम ॥३-१४-१४॥
कालका च महाबाहो शेषाः तु अमनसः अभवन् । अदित्याम् जज्ञिरे देवाः त्रयः त्रिंशत् अरिंदम ॥३॥
kālakā ca mahābāho śeṣāḥ tu amanasaḥ abhavan . adityām jajñire devāḥ trayaḥ triṃśat ariṃdama ..3..
आदित्या वसवो रुद्रा अश्विनौ च परंतप । दितिः तु अजनयत् पुत्रान् दैत्याम् तात यशस्विनः ॥३-१४-१५॥
आदित्याः वसवः रुद्राः अश्विनौ च परंतप । दितिः तु अजनयत् पुत्रान् दैत्याम् तात यशस्विनः ॥३॥
ādityāḥ vasavaḥ rudrāḥ aśvinau ca paraṃtapa . ditiḥ tu ajanayat putrān daityām tāta yaśasvinaḥ ..3..
तेषाम् इयम् वसुमती पुरा आसीत् स वन अर्णवा । दनुः तु अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम ॥३-१४-१६॥
तेषाम् इयम् वसुमती पुरा आसीत् स वन-अर्णवा । दनुः तु अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम ॥३॥
teṣām iyam vasumatī purā āsīt sa vana-arṇavā . danuḥ tu ajanayat putram aśvagrīvam ariṃdama ..3..
नरकम् कालकम् चैव कालका अपि व्यजायत । क्रौन्चीम् भासीम् तथा श्येनीम् धृतराष्ट्रीम् तथा शुकीम् ॥३-१४-१७॥
नरकम् कालकम् च एव कालका अपि व्यजायत । क्रौन्चीम् भासीम् तथा श्येनीम् धृतराष्ट्रीम् तथा शुकीम् ॥३॥
narakam kālakam ca eva kālakā api vyajāyata . krauncīm bhāsīm tathā śyenīm dhṛtarāṣṭrīm tathā śukīm ..3..
ताम्रा तु सुषुवे कन्याः पंच एता लोकविश्रुताः । उलूकान् जनयत् क्रौन्ची भासी भासान् व्यजायत ॥३-१४-१८॥
ताम्रा तु सुषुवे कन्याः पंच एताः लोक-विश्रुताः । उलूकान् जनयत् क्रौन्ची भासी भासान् व्यजायत ॥३॥
tāmrā tu suṣuve kanyāḥ paṃca etāḥ loka-viśrutāḥ . ulūkān janayat krauncī bhāsī bhāsān vyajāyata ..3..
श्येनी श्येनाम् च गृध्राम च व्यजायत सुतेजसः । धृतराष्ट्री तु हंसाम् च कलहंसाम् च सर्वशः ॥३-१४-१९॥
श्येनी श्येनाम् च गृध्राम च व्यजायत सुतेजसः । धृतराष्ट्री तु हंसाम् च कलहंसाम् च सर्वशस् ॥३॥
śyenī śyenām ca gṛdhrāma ca vyajāyata sutejasaḥ . dhṛtarāṣṭrī tu haṃsām ca kalahaṃsām ca sarvaśas ..3..
चक्रवाकाम् च भद्रम् ते विजज्ञे सा अपि भामिनी । शुकी नताम् विजज्ञे तु नताया विनता सुता ॥३-१४-२०॥
चक्रवाकाम् च भद्रम् ते विजज्ञे सा अपि भामिनी । शुकी नताम् विजज्ञे तु नतायाः विनता सुता ॥३॥
cakravākām ca bhadram te vijajñe sā api bhāminī . śukī natām vijajñe tu natāyāḥ vinatā sutā ..3..
दश क्रोधवशा राम विजज्ञे अपि आत्मसंभवाः । मृगीम् च मृगमंदाम् च हरीम् भद्रमदाम् अपि ॥३-१४-२१॥
दश क्रोधवशाः राम विजज्ञे अपि आत्मसंभवाः । मृगीम् च मृगमंदाम् च हरीम् भद्रमदाम् अपि ॥३॥
daśa krodhavaśāḥ rāma vijajñe api ātmasaṃbhavāḥ . mṛgīm ca mṛgamaṃdām ca harīm bhadramadām api ..3..
मातंगीम् अथ शार्दूलीम् श्वेताम् च सुरभीम् तथा । सर्व लक्षण संपन्नाम् सुरसाम् कद्रुकाम् अपि ॥३-१४-२२॥
मातंगीम् अथ शार्दूलीम् श्वेताम् च सुरभीम् तथा । सर्व-लक्षण-संपन्नाम् सुरसाम् कद्रुकाम् अपि ॥३॥
mātaṃgīm atha śārdūlīm śvetām ca surabhīm tathā . sarva-lakṣaṇa-saṃpannām surasām kadrukām api ..3..
अपत्यम् तु मृगाः सर्वे मृग्या नरवरोत्तम । ऋक्षाः च मृगमंदायाः सृमराः चमराः तथा ॥३-१४-२३॥
अपत्यम् तु मृगाः सर्वे मृग्याः नर-वर-उत्तम । ऋक्षाः च मृगमंदायाः सृमराः चमराः तथा ॥३॥
apatyam tu mṛgāḥ sarve mṛgyāḥ nara-vara-uttama . ṛkṣāḥ ca mṛgamaṃdāyāḥ sṛmarāḥ camarāḥ tathā ..3..
ततः तु इरावतीम् नाम जज्ञे भद्रमदा सुताम् । तस्याः तु ऐरावतः पुत्रो लोकनाथो महागजः ॥३-१४-२४॥
ततस् तु इरावतीम् नाम जज्ञे भद्रमदा-सुताम् । तस्याः तु ऐरावतः पुत्रः लोक-नाथः महागजः ॥३॥
tatas tu irāvatīm nāma jajñe bhadramadā-sutām . tasyāḥ tu airāvataḥ putraḥ loka-nāthaḥ mahāgajaḥ ..3..
हर्याः च हरयो अपत्यम् वानराः च तपस्विनः । गोलांगूलाः च शार्दूली व्याघ्राम् च अजनयत् सुतान् ॥३-१४-२५॥
हर्याः च हरयो अपत्यम् वानराः च तपस्विनः । गोलांगूलाः च शार्दूली व्याघ्राम् च अजनयत् सुतान् ॥३॥
haryāḥ ca harayo apatyam vānarāḥ ca tapasvinaḥ . golāṃgūlāḥ ca śārdūlī vyāghrām ca ajanayat sutān ..3..
मातंग्याः तु अथ मातन्गाअपत्यम् मनुज ऋषभ । दिशागजम् तु श्वेत काकुत्स्थ श्वेता व्यजनयत् सुतम् ॥३-१४-२६॥
मातंग्याः तु अथ मातन्गाअपत्यम् मनुज-ऋषभ । दिशागजम् तु श्वेत-काकुत्स्थ-श्वेता व्यजनयत् सुतम् ॥३॥
mātaṃgyāḥ tu atha mātangāapatyam manuja-ṛṣabha . diśāgajam tu śveta-kākutstha-śvetā vyajanayat sutam ..3..
ततो दुहितरौ राम सुरभिर् द्वे वि अजायत । रोहिणीम् नाम भद्रम् ते गन्धर्वीम् च यशस्विनीम् ॥३-१४-२७॥
ततस् दुहितरौ राम सुरभिः द्वे वि अजायत । रोहिणीम् नाम भद्रम् ते गन्धर्वीम् च यशस्विनीम् ॥३॥
tatas duhitarau rāma surabhiḥ dve vi ajāyata . rohiṇīm nāma bhadram te gandharvīm ca yaśasvinīm ..3..
रोहिणि अजनयद् गावो गन्धर्वी वाजिनः सुतान् । सुरसा अजनयन् नागान् राम कद्रूः च पन्नगान् ॥३-१४-२८॥
रोहिणि अजनयत् गावः गन्धर्वी वाजिनः सुतान् । सुरसा अजनयन् नागान् राम-कद्रूः च पन्नगान् ॥३॥
rohiṇi ajanayat gāvaḥ gandharvī vājinaḥ sutān . surasā ajanayan nāgān rāma-kadrūḥ ca pannagān ..3..
मनुर् मनुष्यान् जनयत् कश्यपस्य महात्मनः । ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च मनुजर्षभ ॥३-१४-२९॥
मनुः मनुष्यान् जनयत् कश्यपस्य महात्मनः । ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च मनुजर्षभ ॥३॥
manuḥ manuṣyān janayat kaśyapasya mahātmanaḥ . brāhmaṇān kṣatriyān vaiśyān śūdrām ca manujarṣabha ..3..
मुखतो ब्राह्मणा जाता उरसः क्षत्रियाः तथा । ऊरुभ्याम् जज्ञिरे वैश्याः पद्भ्याम् शूद्रा इति श्रुतिः ॥३-१४-३०॥
मुखतः ब्राह्मणाः जाताः उरसः क्षत्रियाः तथा । ऊरुभ्याम् जज्ञिरे वैश्याः पद्भ्याम् शूद्राः इति श्रुतिः ॥३॥
mukhataḥ brāhmaṇāḥ jātāḥ urasaḥ kṣatriyāḥ tathā . ūrubhyām jajñire vaiśyāḥ padbhyām śūdrāḥ iti śrutiḥ ..3..
सर्वान् पुण्य फलान् वृक्षान् अनला अपि व्यजायत । विनता च शुकी पौत्री कद्रूः च सुरसा स्वसा ॥३-१४-३१॥
सर्वान् पुण्य-फलान् वृक्षान् अनला अपि व्यजायत । विनता च शुकी पौत्री कद्रूः च सुरसा-स्वसा ॥३॥
sarvān puṇya-phalān vṛkṣān analā api vyajāyata . vinatā ca śukī pautrī kadrūḥ ca surasā-svasā ..3..
कद्रूर् नाग सहस्रम् तु विजज्ञे धरणीधरन् । द्वौ पुत्रौ विनतायाः तु गरुडो अरुण एव च ॥३-१४-३२॥
कद्रूः नाग सहस्रम् तु विजज्ञे धरणीधरन् । द्वौ पुत्रौ विनतायाः तु गरुडः अरुणः एव च ॥३॥
kadrūḥ nāga sahasram tu vijajñe dharaṇīdharan . dvau putrau vinatāyāḥ tu garuḍaḥ aruṇaḥ eva ca ..3..
तस्मात् जातो अहम् अरुणात् संपातिः च मम अग्रजः । जटायुर् इति माम् विद्धि श्येनी पुत्रम् अरिंदम ॥३-१४-३३॥
तस्मात् जातः अहम् अरुणात् संपातिः च मम अग्रजः । जटायुः इति माम् विद्धि श्येनी पुत्रम् अरिंदम ॥३॥
tasmāt jātaḥ aham aruṇāt saṃpātiḥ ca mama agrajaḥ . jaṭāyuḥ iti mām viddhi śyenī putram ariṃdama ..3..
सो अहम् वास सहायः ते भविष्यामि यदि इच्छसि । इदम् दुर्गम् हि कान्तारम् मृग राक्षस सेवितम् सीताम् च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥३-१४-३४॥
सो अहम् वास-सहायः ते भविष्यामि यदि इच्छसि । इदम् दुर्गम् हि कान्तारम् मृग-राक्षस-सेवितम् सीताम् च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥३॥
so aham vāsa-sahāyaḥ te bhaviṣyāmi yadi icchasi . idam durgam hi kāntāram mṛga-rākṣasa-sevitam sītām ca tāta rakṣiṣye tvayi yāte salakṣmaṇe ..3..
जटायुषम् तु प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतो अभवत् । पितुर् हि शुश्राव सखित्वम् आत्मवान् जटायुषा संकथितम् पुनः पुनः ॥३-१४-३५॥
जटायुषम् तु प्रतिपूज्य राघवः मुदा परिष्वज्य च सन्नतः अभवत् । पितुः हि शुश्राव सखि-त्वम् आत्मवान् जटायुषा संकथितम् पुनर् पुनर् ॥३॥
jaṭāyuṣam tu pratipūjya rāghavaḥ mudā pariṣvajya ca sannataḥ abhavat . pituḥ hi śuśrāva sakhi-tvam ātmavān jaṭāyuṣā saṃkathitam punar punar ..3..
स तत्र सीताम् परिदाय मैथिलीम् सह एव तेन अतिबलेन पक्षिणा । जगाम ताम् पंचवटीम् सलक्ष्मणो रिपून् दिधक्षन् शलभान् इव अनलः ॥३-१४-३६॥
स तत्र सीताम् परिदाय मैथिलीम् सह एव तेन अतिबलेन पक्षिणा । जगाम ताम् पंचवटीम् सलक्ष्मणः रिपून् दिधक्षन् शलभान् इव अनलः ॥३॥
sa tatra sītām paridāya maithilīm saha eva tena atibalena pakṣiṇā . jagāma tām paṃcavaṭīm salakṣmaṇaḥ ripūn didhakṣan śalabhān iva analaḥ ..3..
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुर्दशः सर्गः ॥३-१४॥
इति वाल्मीकि-रामायणे आदि-काव्ये अरण्यकाण्डे चतुर्दशः सर्गः ॥३॥
iti vālmīki-rāmāyaṇe ādi-kāvye araṇyakāṇḍe caturdaśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In