This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षोडशः सर्गः ॥३-१६॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे षोडशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ṣoḍaśaḥ sargaḥ ..3..
अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः । आससाद महाकायं गृध्रं भीमपराक्रमम्॥ १॥
अथ पञ्चवटीम् गच्छन् अन्तरा रघुनन्दनः । आससाद महा-कायम् गृध्रम् भीम-पराक्रमम्॥ १॥
atha pañcavaṭīm gacchan antarā raghunandanaḥ . āsasāda mahā-kāyam gṛdhram bhīma-parākramam.. 1..
तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ । मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति॥ २॥
तम् दृष्ट्वा तौ महाभागौ वन-स्थम् राम-लक्ष्मणौ । मेनाते राक्षसम् पक्षिम् ब्रुवाणौ कः भवान् इति॥ २॥
tam dṛṣṭvā tau mahābhāgau vana-stham rāma-lakṣmaṇau . menāte rākṣasam pakṣim bruvāṇau kaḥ bhavān iti.. 2..
ततो मधुरया वाचा सौम्यया प्रीणयन्निव । उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः॥ ३॥
ततस् मधुरया वाचा सौम्यया प्रीणयन् इव । उवाच वत्स माम् विद्धि वयस्यम् पितुः आत्मनः॥ ३॥
tatas madhurayā vācā saumyayā prīṇayan iva . uvāca vatsa mām viddhi vayasyam pituḥ ātmanaḥ.. 3..
स तं पितृसखं मत्वा पूजयामास राघवः । स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च॥ ४॥
स तम् पितृ-सखम् मत्वा पूजयामास राघवः । स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च॥ ४॥
sa tam pitṛ-sakham matvā pūjayāmāsa rāghavaḥ . sa tasya kulam avyagram atha papraccha nāma ca.. 4..
रामस्य वचनं श्रुत्वा कुलमात्मानमेव च । आचचक्षे द्विजस्तस्मै सर्वभूतसमुद्भवम्॥ ५॥
रामस्य वचनम् श्रुत्वा कुलम् आत्मानम् एव च । आचचक्षे द्विजः तस्मै सर्व-भूत-समुद्भवम्॥ ५॥
rāmasya vacanam śrutvā kulam ātmānam eva ca . ācacakṣe dvijaḥ tasmai sarva-bhūta-samudbhavam.. 5..
पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् । तान् मे निगदतः सर्वानादितः शृणु राघव॥ ६॥
पूर्व-काले महा-बाहो ये प्रजापतयः अभवन् । तान् मे निगदतः सर्व-अन् आदितः शृणु राघव॥ ६॥
pūrva-kāle mahā-bāho ye prajāpatayaḥ abhavan . tān me nigadataḥ sarva-an āditaḥ śṛṇu rāghava.. 6..
कर्दमः प्रथमस्तेषां विकृतस्तदनन्तरम् । शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान्॥ ७॥
कर्दमः प्रथमः तेषाम् विकृतः तद्-अनन्तरम् । शेषः च संश्रयः च एव बहुपुत्रः च वीर्यवान्॥ ७॥
kardamaḥ prathamaḥ teṣām vikṛtaḥ tad-anantaram . śeṣaḥ ca saṃśrayaḥ ca eva bahuputraḥ ca vīryavān.. 7..
स्थाणुर्मरीचरत्रिश्च क्रतुश्चैव महाबलः । पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा॥ ८॥
स्थाणुः मरीच-रत्रिः च क्रतुः च एव महा-बलः । पुलस्त्यः च अङ्गिराः च एव प्रचेताः पुलहः तथा॥ ८॥
sthāṇuḥ marīca-ratriḥ ca kratuḥ ca eva mahā-balaḥ . pulastyaḥ ca aṅgirāḥ ca eva pracetāḥ pulahaḥ tathā.. 8..
दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव । कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः॥ ९॥
दक्षः विवस्वान् अपरः अरिष्टनेमिः च राघव । कश्यपः च महा-तेजाः तेषाम् आसीत् च पश्चिमः॥ ९॥
dakṣaḥ vivasvān aparaḥ ariṣṭanemiḥ ca rāghava . kaśyapaḥ ca mahā-tejāḥ teṣām āsīt ca paścimaḥ.. 9..
प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुताः । षष्टिर्दुहितरो राम यशस्विन्यो महायशः॥ १०॥
प्रजापतेः तु दक्षस्य बभूवुः इति विश्रुताः । षष्टिः दुहितरः राम यशस्विन्यः महा-यशः॥ १०॥
prajāpateḥ tu dakṣasya babhūvuḥ iti viśrutāḥ . ṣaṣṭiḥ duhitaraḥ rāma yaśasvinyaḥ mahā-yaśaḥ.. 10..
कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः । अदितिं च दितिं चैव दनूमपि च कालकाम्॥ ११॥
कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः । अदितिम् च दितिम् च एव दनूम् अपि च कालकाम्॥ ११॥
kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ . aditim ca ditim ca eva danūm api ca kālakām.. 11..
ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि । तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत्॥ १२॥
ताम्राम् क्रोधवशाम् च एव मनुम् च अपि अनलाम् अपि । ताः तु कन्याः ततस् प्रीतः कश्यपः पुनर् अब्रवीत्॥ १२॥
tāmrām krodhavaśām ca eva manum ca api analām api . tāḥ tu kanyāḥ tatas prītaḥ kaśyapaḥ punar abravīt.. 12..
पुत्रांस्त्रैलोक्यभर्तॄन् वै जनयिष्यथ मत्समान् । अदितिस्तन्मना राम दितिश्च दनुरेव च॥ १३॥
पुत्रान् त्रैलोक्य-भर्तॄन् वै जनयिष्यथ मद्-समान् । अदितिः तन्मनाः राम दितिः च दनुः एव च॥ १३॥
putrān trailokya-bhartṝn vai janayiṣyatha mad-samān . aditiḥ tanmanāḥ rāma ditiḥ ca danuḥ eva ca.. 13..
कालका च महाबाहो शेषास्त्वमनसोऽभवन् । अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिंदम॥ १४॥
कालका च महा-बाहो शेषाः तु अमनसः अभवन् । अदित्याम् जज्ञिरे देवाः त्रयस्त्रिंशत् अरिंदम॥ १४॥
kālakā ca mahā-bāho śeṣāḥ tu amanasaḥ abhavan . adityām jajñire devāḥ trayastriṃśat ariṃdama.. 14..
आदित्या वसवो रुद्रा अश्विनौ च परंतप । दितिस्त्वजनयत् पुत्रान् दैत्यांस्तात यशस्विनः॥ १५॥
आदित्याः वसवः रुद्राः अश्विनौ च परंतप । दितिः तु अजनयत् पुत्रान् दैत्यान् तात यशस्विनः॥ १५॥
ādityāḥ vasavaḥ rudrāḥ aśvinau ca paraṃtapa . ditiḥ tu ajanayat putrān daityān tāta yaśasvinaḥ.. 15..
तेषामियं वसुमती पुराऽऽसीत् सवनार्णवा । दनुस्त्वजनयत् पुत्रमश्वग्रीवमरिंदम॥ १६॥
तेषाम् इयम् वसुमती पुरा आसीत् स वन-अर्णवा । दनुः तु अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम॥ १६॥
teṣām iyam vasumatī purā āsīt sa vana-arṇavā . danuḥ tu ajanayat putram aśvagrīvam ariṃdama.. 16..
नरकं कालकं चैव कालकापि व्यजायत । क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम्॥ १७॥
नरकम् कालकम् च एव कालका अपि व्यजायत । क्रौञ्चीम् भासीम् तथा श्येनीम् धृतराष्ट्रीम् तथा शुकीम्॥ १७॥
narakam kālakam ca eva kālakā api vyajāyata . krauñcīm bhāsīm tathā śyenīm dhṛtarāṣṭrīm tathā śukīm.. 17..
ताम्रा तु सुषुवे कन्याः पञ्चैता लोकविश्रुताः । उलूकाञ्जनयत् क्रौञ्ची भासी भासान् व्यजायत॥ १८॥
ताम्रा तु सुषुवे कन्याः पञ्च एताः लोक-विश्रुताः । उलूकान् जनयत् क्रौञ्ची भासी भासान् व्यजायत॥ १८॥
tāmrā tu suṣuve kanyāḥ pañca etāḥ loka-viśrutāḥ . ulūkān janayat krauñcī bhāsī bhāsān vyajāyata.. 18..
श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः । धृतराष्ट्री तु हंसांश्च कलहंसाश्च सर्वशः॥ १९॥
श्येनी श्येनान् च गृध्रान् च व्यजायत सु तेजसः । धृतराष्ट्री तु हंसान् च कलहंसाः च सर्वशस्॥ १९॥
śyenī śyenān ca gṛdhrān ca vyajāyata su tejasaḥ . dhṛtarāṣṭrī tu haṃsān ca kalahaṃsāḥ ca sarvaśas.. 19..
चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी । शुकी नतां विजज्ञे तु नतायां विनता सुता॥ २०॥
चक्रवाकान् च भद्रम् ते विजज्ञे सा अपि भामिनी । शुकी नताम् विजज्ञे तु नतायाम् विनता सुता॥ २०॥
cakravākān ca bhadram te vijajñe sā api bhāminī . śukī natām vijajñe tu natāyām vinatā sutā.. 20..
दश क्रोधवशा राम विजज्ञेऽप्यात्मसंभवाः । मृगीं च मृगमन्दां च हरीं भद्रमदामपि॥ २१॥
दश क्रोध-वशाः राम विजज्ञे अपि आत्म-संभवाः । मृगीम् च मृगमन्दाम् च हरीम् भद्रमदाम् अपि॥ २१॥
daśa krodha-vaśāḥ rāma vijajñe api ātma-saṃbhavāḥ . mṛgīm ca mṛgamandām ca harīm bhadramadām api.. 21..
मातङ्गीमथ शार्दूलीं श्वेतां च सुरभीं तथा । सर्वलक्षणसम्पन्नां सुरसां कद्रुकामपि॥ २२॥
मातङ्गीम् अथ शार्दूलीम् श्वेताम् च सुरभीम् तथा । सर्व-लक्षण-सम्पन्नाम् सुरसाम् कद्रुकाम् अपि॥ २२॥
mātaṅgīm atha śārdūlīm śvetām ca surabhīm tathā . sarva-lakṣaṇa-sampannām surasām kadrukām api.. 22..
अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम । ऋक्षाश्च मृगमन्दायाः सृमराश्चमरास्तथा॥ २३॥
अपत्यम् तु मृगाः सर्वे मृग्याः नर-वर-उत्तम । ऋक्षाः च मृगमन्दायाः सृमराः चमराः तथा॥ २३॥
apatyam tu mṛgāḥ sarve mṛgyāḥ nara-vara-uttama . ṛkṣāḥ ca mṛgamandāyāḥ sṛmarāḥ camarāḥ tathā.. 23..
ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम् । तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः॥ २४॥
ततस् तु इरावतीम् नाम जज्ञे भद्रमदा सुताम् । तस्याः तु ऐरावतः पुत्रः लोक-नाथः महागजः॥ २४॥
tatas tu irāvatīm nāma jajñe bhadramadā sutām . tasyāḥ tu airāvataḥ putraḥ loka-nāthaḥ mahāgajaḥ.. 24..
हर्याश्च हरयोऽपत्यं वानराश्च तपस्विनः । गोलाङ्गूलाश्च शार्दूली व्याघ्रांश्चाजनयत् सुतान्॥ २५॥
हर्याः च हरयः अपत्यम् वानराः च तपस्विनः । गोलाङ्गूलाः च शार्दूली व्याघ्रान् च अजनयत् सुतान्॥ २५॥
haryāḥ ca harayaḥ apatyam vānarāḥ ca tapasvinaḥ . golāṅgūlāḥ ca śārdūlī vyāghrān ca ajanayat sutān.. 25..
मातङ्ग्यास्त्वथ मातङ्गा अपत्यं मनुजर्षभ । दिशागजं तु काकुत्स्थ श्वेता व्यजनयत् सुतम्॥ २६॥
मातङ्ग्याः तु अथ मातङ्गाः अपत्यम् मनुज-ऋषभ । दिशागजम् तु काकुत्स्थ श्वेता व्यजनयत् सुतम्॥ २६॥
mātaṅgyāḥ tu atha mātaṅgāḥ apatyam manuja-ṛṣabha . diśāgajam tu kākutstha śvetā vyajanayat sutam.. 26..
ततो दुहितरौ राम सुरभिर्द्वे व्यजायत । रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम्॥ २७॥
ततस् दुहितरौ राम सुरभिः द्वे व्यजायत । रोहिणीम् नाम भद्रम् ते गन्धर्वीम् च यशस्विनीम्॥ २७॥
tatas duhitarau rāma surabhiḥ dve vyajāyata . rohiṇīm nāma bhadram te gandharvīm ca yaśasvinīm.. 27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In