This overlay will guide you through the buttons:

| |
|
त्वां तु वेदितुमिच्छामि कस्य त्वं कासि कस्य वा । त्वं हि तावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे॥ १८॥
त्वाम् तु वेदितुम् इच्छामि कस्य त्वम् का असि कस्य वा । त्वम् हि तावत् मनोज्ञ-अङ्गी राक्षसी प्रतिभासि मे॥ १८॥
tvām tu veditum icchāmi kasya tvam kā asi kasya vā . tvam hi tāvat manojña-aṅgī rākṣasī pratibhāsi me.. 18..
इह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वतः । साब्रवीद् वचनं श्रुत्वा राक्षसी मदनार्दिता॥ १९॥
इह वा किंनिमित्तम् त्वम् आगता ब्रूहि तत्त्वतः । सा ब्रवीत् वचनम् श्रुत्वा राक्षसी मदन-अर्दिता॥ १९॥
iha vā kiṃnimittam tvam āgatā brūhi tattvataḥ . sā bravīt vacanam śrutvā rākṣasī madana-arditā.. 19..
श्रूयतां राम तत्त्वार्थं वक्ष्यामि वचनं मम । अहं शूर्पणखा नाम राक्षसी कामरूपिणी॥ २०॥
श्रूयताम् राम तत्त्व-अर्थम् वक्ष्यामि वचनम् मम । अहम् शूर्पणखा नाम राक्षसी कामरूपिणी॥ २०॥
śrūyatām rāma tattva-artham vakṣyāmi vacanam mama . aham śūrpaṇakhā nāma rākṣasī kāmarūpiṇī.. 20..
अरण्यं विचरामीदमेका सर्वभयंकरा । रावणो नाम मे भ्राता यदि ते श्रोत्रमागतः॥ २१॥
अरण्यम् विचरामि इदम् एका सर्व-भयंकरा । रावणः नाम मे भ्राता यदि ते श्रोत्रम् आगतः॥ २१॥
araṇyam vicarāmi idam ekā sarva-bhayaṃkarā . rāvaṇaḥ nāma me bhrātā yadi te śrotram āgataḥ.. 21..
वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः । प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः॥ २२॥
वीरः विश्रवसः पुत्रः यदि ते श्रोत्रम् आगतः । प्रवृद्ध-निद्रः च सदा कुम्भकर्णः महा-बलः॥ २२॥
vīraḥ viśravasaḥ putraḥ yadi te śrotram āgataḥ . pravṛddha-nidraḥ ca sadā kumbhakarṇaḥ mahā-balaḥ.. 22..
विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः । प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ॥ २३॥
विभीषणः तु धर्म-आत्मा न तु राक्षस-चेष्टितः । प्रख्यात-वीर्यौ च रणे भ्रातरौ खर-दूषणौ॥ २३॥
vibhīṣaṇaḥ tu dharma-ātmā na tu rākṣasa-ceṣṭitaḥ . prakhyāta-vīryau ca raṇe bhrātarau khara-dūṣaṇau.. 23..
तानहं समतिक्रान्तां राम त्वापूर्वदर्शनात् । समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम्॥ २४॥
तान् अहम् समतिक्रान्ताम् राम त्वा अपूर्व-दर्शनात् । समुपेता अस्मि भावेन भर्तारम् पुरुषोत्तमम्॥ २४॥
tān aham samatikrāntām rāma tvā apūrva-darśanāt . samupetā asmi bhāvena bhartāram puruṣottamam.. 24..
अहं प्रभावसम्पन्ना स्वच्छन्दबलगामिनी । चिराय भव भर्ता मे सीतया किं करिष्यसि॥ २५॥
अहम् प्रभाव-सम्पन्ना स्वच्छन्द-बल-गामिनी । चिराय भव भर्ता मे सीतया किम् करिष्यसि॥ २५॥
aham prabhāva-sampannā svacchanda-bala-gāminī . cirāya bhava bhartā me sītayā kim kariṣyasi.. 25..
विकृता च विरूपा च न सेयं सदृशी तव । अहमेवानुरूपा ते भार्यारूपेण पश्य माम्॥ २६॥
विकृता च विरूपा च न सा इयम् सदृशी तव । अहम् एव अनुरूपा ते भार्या-रूपेण पश्य माम्॥ २६॥
vikṛtā ca virūpā ca na sā iyam sadṛśī tava . aham eva anurūpā te bhāryā-rūpeṇa paśya mām.. 26..
इमां विरूपामसतीं करालां निर्णतोदरीम् । अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम्॥ २७॥
इमाम् विरूपाम् असतीम् करालाम् निर्णतोदरीम् । अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम्॥ २७॥
imām virūpām asatīm karālām nirṇatodarīm . anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm.. 27..
ततः पर्वतशृङ्गाणि वनानि विविधानि च । पश्यन् सह मया कामी दण्डकान् विचरिष्यसि॥ २८॥
ततस् पर्वत-शृङ्गाणि वनानि विविधानि च । पश्यन् सह मया कामी दण्डकान् विचरिष्यसि॥ २८॥
tatas parvata-śṛṅgāṇi vanāni vividhāni ca . paśyan saha mayā kāmī daṇḍakān vicariṣyasi.. 28..
इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् । इदं वचनमारेभे वक्तुं वाक्यविशारदः॥ २९॥
इति एवम् उक्तः काकुत्स्थः प्रहस्य मदिरा-ईक्षणाम् । इदम् वचनम् आरेभे वक्तुम् वाक्य-विशारदः॥ २९॥
iti evam uktaḥ kākutsthaḥ prahasya madirā-īkṣaṇām . idam vacanam ārebhe vaktum vākya-viśāradaḥ.. 29..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तदशः सर्गः ॥३-१७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे सप्तदशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe saptadaśaḥ sargaḥ ..3..
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टादशः सर्गः ॥३-१८॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे अष्टादशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe aṣṭādaśaḥ sargaḥ ..3..
तां तु शूर्पणखां रामः कामपाशावपाशिताम् । स्वेच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत्॥ १॥
ताम् तु शूर्पणखाम् रामः काम-पाश-अवपाशिताम् । स्व-इच्छया श्लक्ष्णया वाचा स्मित-पूर्वम् अथ अब्रवीत्॥ १॥
tām tu śūrpaṇakhām rāmaḥ kāma-pāśa-avapāśitām . sva-icchayā ślakṣṇayā vācā smita-pūrvam atha abravīt.. 1..
कृतदारोऽस्मि भवति भार्येयं दयिता मम । त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता॥ २॥
कृतदारः अस्मि भवति भार्या इयम् दयिता मम । त्वद्विधानाम् तु नारीणाम् सु दुःखा स सपत्न-ता॥ २॥
kṛtadāraḥ asmi bhavati bhāryā iyam dayitā mama . tvadvidhānām tu nārīṇām su duḥkhā sa sapatna-tā.. 2..
अनुजस्त्वेष मे भ्राता शीलवान् प्रियदर्शनः । श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान्॥ ३॥
अनुजः तु एष मे भ्राता शीलवान् प्रिय-दर्शनः । श्रीमान् अकृत-दारः च लक्ष्मणः नाम वीर्यवान्॥ ३॥
anujaḥ tu eṣa me bhrātā śīlavān priya-darśanaḥ . śrīmān akṛta-dāraḥ ca lakṣmaṇaḥ nāma vīryavān.. 3..
अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः । अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति॥ ४॥
अपूर्वी भार्यया च अर्थी तरुणः प्रिय-दर्शनः । अनुरूपः च ते भर्ता रूपस्य अस्य भविष्यति॥ ४॥
apūrvī bhāryayā ca arthī taruṇaḥ priya-darśanaḥ . anurūpaḥ ca te bhartā rūpasya asya bhaviṣyati.. 4..
एनं भज विशालाक्षि भर्तारं भ्रातरं मम । असपत्ना वरारोहे मेरुमर्कप्रभा यथा॥ ५॥
एनम् भज विशाल-अक्षि भर्तारम् भ्रातरम् मम । असपत्ना वरारोहे मेरुम् अर्क-प्रभा यथा॥ ५॥
enam bhaja viśāla-akṣi bhartāram bhrātaram mama . asapatnā varārohe merum arka-prabhā yathā.. 5..
इति रामेण सा प्रोक्ता राक्षसी काममोहिता । विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत्॥ ६॥
इति रामेण सा प्रोक्ता राक्षसी काम-मोहिता । विसृज्य रामम् सहसा ततस् लक्ष्मणम् अब्रवीत्॥ ६॥
iti rāmeṇa sā proktā rākṣasī kāma-mohitā . visṛjya rāmam sahasā tatas lakṣmaṇam abravīt.. 6..
अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी । मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि॥ ७॥
अस्य रूपस्य ते युक्ता भार्या अहम् वरवर्णिनी । मया सह सुखम् सर्वान् दण्डकान् विचरिष्यसि॥ ७॥
asya rūpasya te yuktā bhāryā aham varavarṇinī . mayā saha sukham sarvān daṇḍakān vicariṣyasi.. 7..
एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः । ततः शूर्पनखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत्॥ ८॥
एवम् उक्तः तु सौमित्रिः राक्षस्या वाक्य-कोविदः । ततस् शूर्प-नखीम् स्मित्वा लक्ष्मणः युक्तम् अब्रवीत्॥ ८॥
evam uktaḥ tu saumitriḥ rākṣasyā vākya-kovidaḥ . tatas śūrpa-nakhīm smitvā lakṣmaṇaḥ yuktam abravīt.. 8..
कथं दासस्य मे दासी भार्या भवितुमिच्छसि । सोऽहमार्येण परवान् भ्रात्रा कमलवर्णिनि॥ ९॥
कथम् दासस्य मे दासी भार्या भवितुम् इच्छसि । सः अहम् आर्येण परवान् भ्रात्रा कमल-वर्णिनि॥ ९॥
katham dāsasya me dāsī bhāryā bhavitum icchasi . saḥ aham āryeṇa paravān bhrātrā kamala-varṇini.. 9..
समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी । आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी॥ १०॥
समृद्ध-अर्थस्य सिद्धार्था मुदित-अमल-वर्णिनी । आर्यस्य त्वम् विशाल-अक्षि भार्या भव यवीयसी॥ १०॥
samṛddha-arthasya siddhārthā mudita-amala-varṇinī . āryasya tvam viśāla-akṣi bhāryā bhava yavīyasī.. 10..
एतां विरूपामसतीं करालां निर्णतोदरीम् । भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति॥ ११॥
एताम् विरूपाम् असतीम् करालाम् निर्णतोदरीम् । भार्याम् वृद्धाम् परित्यज्य त्वाम् एव एष भजिष्यति॥ ११॥
etām virūpām asatīm karālām nirṇatodarīm . bhāryām vṛddhām parityajya tvām eva eṣa bhajiṣyati.. 11..
को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनि । मानुषीषु वरारोहे कुर्याद् भावं विचक्षणः॥ १२॥
कः हि रूपम् इदम् श्रेष्ठम् संत्यज्य वरवर्णिनि । मानुषीषु वरारोहे कुर्यात् भावम् विचक्षणः॥ १२॥
kaḥ hi rūpam idam śreṣṭham saṃtyajya varavarṇini . mānuṣīṣu varārohe kuryāt bhāvam vicakṣaṇaḥ.. 12..
इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी । मन्यते तद्वचः सत्यं परिहासाविचक्षणा॥ १३॥
इति सा लक्ष्मणेन उक्ता कराला निर्णत-उदरी । मन्यते तद्-वचः सत्यम् परिहास-अविचक्षणा॥ १३॥
iti sā lakṣmaṇena uktā karālā nirṇata-udarī . manyate tad-vacaḥ satyam parihāsa-avicakṣaṇā.. 13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In