This overlay will guide you through the buttons:

| |
|
सा रामं पर्णशालायामुपविष्टं परंतपम् । सीतया सह दुर्धर्षमब्रवीत् काममोहिता॥ १४॥
सा रामम् पर्ण-शालायाम् उपविष्टम् परंतपम् । सीतया सह दुर्धर्षम् अब्रवीत् काम-मोहिता॥ १४॥
sā rāmam parṇa-śālāyām upaviṣṭam paraṃtapam . sītayā saha durdharṣam abravīt kāma-mohitā.. 14..
इमां विरूपामसतीं करालां निर्णतोदरीम् । वृद्धां भार्यामवष्टभ्य न मां त्वं बहु मन्यसे॥ १५॥
इमाम् विरूपाम् असतीम् करालाम् निर्णतोदरीम् । वृद्धाम् भार्याम् अवष्टभ्य न माम् त्वम् बहु मन्यसे॥ १५॥
imām virūpām asatīm karālām nirṇatodarīm . vṛddhām bhāryām avaṣṭabhya na mām tvam bahu manyase.. 15..
अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम् । त्वया सह चरिष्यामि निःसपत्ना यथासुखम्॥ १६॥
अद्या इमाम् भक्षयिष्यामि पश्यतः तव मानुषीम् । त्वया सह चरिष्यामि निःसपत्ना यथासुखम्॥ १६॥
adyā imām bhakṣayiṣyāmi paśyataḥ tava mānuṣīm . tvayā saha cariṣyāmi niḥsapatnā yathāsukham.. 16..
इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा । अभ्यगच्छत् सुसंक्रुद्धा महोल्का रोहिणीमिव॥ १७॥
इति उक्त्वा मृगशावाक्षीम् अलात-सदृश-ईक्षणा । अभ्यगच्छत् सु संक्रुद्धा महा-उल्का रोहिणीम् इव॥ १७॥
iti uktvā mṛgaśāvākṣīm alāta-sadṛśa-īkṣaṇā . abhyagacchat su saṃkruddhā mahā-ulkā rohiṇīm iva.. 17..
तां मृत्युपाशप्रतिमामापतन्तीं महाबलः । विगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत्॥ १८॥
ताम् मृत्यु-पाश-प्रतिमाम् आपतन्तीम् महा-बलः । विगृह्य रामः कुपितः ततस् लक्ष्मणम् अब्रवीत्॥ १८॥
tām mṛtyu-pāśa-pratimām āpatantīm mahā-balaḥ . vigṛhya rāmaḥ kupitaḥ tatas lakṣmaṇam abravīt.. 18..
क्रूरैरनार्यैः सौमित्रे परिहासः कथंचन । न कार्यः पश्य वैदेहीं कथंचित् सौम्य जीवतीम्॥ १९॥
क्रूरैः अनार्यैः सौमित्रे परिहासः कथंचन । न कार्यः पश्य वैदेहीम् कथंचिद् सौम्य जीवतीम्॥ १९॥
krūraiḥ anāryaiḥ saumitre parihāsaḥ kathaṃcana . na kāryaḥ paśya vaidehīm kathaṃcid saumya jīvatīm.. 19..
इमां विरूपामसतीमतिमत्तां महोदरीम् । राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि॥ २०॥
इमाम् विरूपाम् असतीम् अतिमत्ताम् महोदरीम् । राक्षसीम् पुरुष-व्याघ्र विरूपयितुम् अर्हसि॥ २०॥
imām virūpām asatīm atimattām mahodarīm . rākṣasīm puruṣa-vyāghra virūpayitum arhasi.. 20..
इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पश्यतः । उद्धृत्य खड्गं चिच्छेद कर्णनासे महाबलः॥ २१॥
इति उक्तः लक्ष्मणः तस्याः क्रुद्धः रामस्य पश्यतः । उद्धृत्य खड्गम् चिच्छेद कर्ण-नासे महा-बलः॥ २१॥
iti uktaḥ lakṣmaṇaḥ tasyāḥ kruddhaḥ rāmasya paśyataḥ . uddhṛtya khaḍgam ciccheda karṇa-nāse mahā-balaḥ.. 21..
निकृत्तकर्णनासा तु विस्वरं सा विनद्य च । यथागतं प्रदुद्राव घोरा शूर्पणखा वनम्॥ २२॥
निकृत्त-कर्ण-नासा तु विस्वरम् सा विनद्य च । यथागतम् प्रदुद्राव घोरा शूर्पणखा वनम्॥ २२॥
nikṛtta-karṇa-nāsā tu visvaram sā vinadya ca . yathāgatam pradudrāva ghorā śūrpaṇakhā vanam.. 22..
सा विरूपा महाघोरा राक्षसी शोणितोक्षिता । ननाद विविधान् नादान् यथा प्रावृषि तोयदः॥ २३॥
सा विरूपा महा-घोरा राक्षसी शोणित-उक्षिता । ननाद विविधान् नादान् यथा प्रावृषि तोयदः॥ २३॥
sā virūpā mahā-ghorā rākṣasī śoṇita-ukṣitā . nanāda vividhān nādān yathā prāvṛṣi toyadaḥ.. 23..
सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना । प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम्॥ २४॥
सा विक्षरन्ती रुधिरम् बहुधा घोर-दर्शना । प्रगृह्य बाहू गर्जन्ती प्रविवेश महा-वनम्॥ २४॥
sā vikṣarantī rudhiram bahudhā ghora-darśanā . pragṛhya bāhū garjantī praviveśa mahā-vanam.. 24..
ततस्तु सा राक्षससङ्घसंवृतं खरं जनस्थानगतं विरूपिता । उपेत्य तं भ्रातरमुग्रतेजसं पपात भूमौ गगनाद् यथाशनिः॥ २५॥
ततस् तु सा राक्षस-सङ्घ-संवृतम् खरम् जनस्थान-गतम् विरूपिता । उपेत्य तम् भ्रातरम् उग्र-तेजसम् पपात भूमौ गगनात् यथा अशनिः॥ २५॥
tatas tu sā rākṣasa-saṅgha-saṃvṛtam kharam janasthāna-gatam virūpitā . upetya tam bhrātaram ugra-tejasam papāta bhūmau gaganāt yathā aśaniḥ.. 25..
ततः सभार्यं भयमोहमूर्च्छिता सलक्ष्मणं राघवमागतं वनम् । विरूपणं चात्मनि शोणितोक्षिता शशंस सर्वं भगिनी खरस्य सा॥ २६॥
ततस् स भार्यम् भय-मोह-मूर्च्छिता स लक्ष्मणम् राघवम् आगतम् वनम् । विरूपणम् च आत्मनि शोणित-उक्षिता शशंस सर्वम् भगिनी खरस्य सा॥ २६॥
tatas sa bhāryam bhaya-moha-mūrcchitā sa lakṣmaṇam rāghavam āgatam vanam . virūpaṇam ca ātmani śoṇita-ukṣitā śaśaṃsa sarvam bhaginī kharasya sā.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टादशः सर्गः ॥३-१८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे अष्टादशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe aṣṭādaśaḥ sargaḥ ..3..
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनविंशः सर्गः ॥३-१९॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे एकोनविंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ekonaviṃśaḥ sargaḥ ..3..
तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् । भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः॥ १॥
ताम् तथा पतिताम् दृष्ट्वा विरूपाम् शोणित-उक्षिताम् । भगिनीम् क्रोध-संतप्तः खरः पप्रच्छ राक्षसः॥ १॥
tām tathā patitām dṛṣṭvā virūpām śoṇita-ukṣitām . bhaginīm krodha-saṃtaptaḥ kharaḥ papraccha rākṣasaḥ.. 1..
उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम् । व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता॥ २॥
उत्तिष्ठ तावत् आख्याहि प्रमोहम् जहि सम्भ्रमम् । व्यक्तम् आख्याहि केन त्वम् एवंरूपा विरूपिता॥ २॥
uttiṣṭha tāvat ākhyāhi pramoham jahi sambhramam . vyaktam ākhyāhi kena tvam evaṃrūpā virūpitā.. 2..
कः कृष्णसर्पमासीनमाशीविषमनागसम् । तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया॥ ३॥
कः कृष्ण-सर्पम् आसीनम् आशीविषम् अनागसम् । तुदति अभिसमापन्नम् अङ्गुलि-अग्रेण लीलया॥ ३॥
kaḥ kṛṣṇa-sarpam āsīnam āśīviṣam anāgasam . tudati abhisamāpannam aṅguli-agreṇa līlayā.. 3..
कालपाशं समासज्य कण्ठे मोहान्न बुध्यते । यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम्॥ ४॥
काल-पाशम् समासज्य कण्ठे मोहात् न बुध्यते । यः त्वाम् अद्य समासाद्य पीतवान् विषम् उत्तमम्॥ ४॥
kāla-pāśam samāsajya kaṇṭhe mohāt na budhyate . yaḥ tvām adya samāsādya pītavān viṣam uttamam.. 4..
बलविक्रमसम्पन्ना कामगा कामरूपिणी । इमामवस्थां नीता त्वं केनान्तकसमागता॥ ५॥
बल-विक्रम-सम्पन्ना कामगा कामरूपिणी । इमाम् अवस्थाम् नीता त्वम् केन अन्तक-समागता॥ ५॥
bala-vikrama-sampannā kāmagā kāmarūpiṇī . imām avasthām nītā tvam kena antaka-samāgatā.. 5..
देवगन्धर्वभूतानामृषीणां च महात्मनाम् । कोऽयमेवं महावीर्यस्त्वां विरूपां चकार ह॥ ६॥
देव-गन्धर्व-भूतानाम् ऋषीणाम् च महात्मनाम् । कः अयम् एवम् महा-वीर्यः त्वाम् विरूपाम् चकार ह॥ ६॥
deva-gandharva-bhūtānām ṛṣīṇām ca mahātmanām . kaḥ ayam evam mahā-vīryaḥ tvām virūpām cakāra ha.. 6..
नहि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् । अमरेषु सहस्राक्षं महेन्द्रं पाकशासनम्॥ ७॥
नहि पश्यामि अहम् लोके यः कुर्यात् मम विप्रियम् । अमरेषु सहस्राक्षम् महा-इन्द्रम् पाकशासनम्॥ ७॥
nahi paśyāmi aham loke yaḥ kuryāt mama vipriyam . amareṣu sahasrākṣam mahā-indram pākaśāsanam.. 7..
अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तगैः । सलिले क्षीरमासक्तं निष्पिबन्निव सारसः॥ ८॥
अद्य अहम् मार्गणैः प्राणान् आदास्ये जीवितान्त-गैः । सलिले क्षीरम् आसक्तम् निष्पिबन् इव सारसः॥ ८॥
adya aham mārgaṇaiḥ prāṇān ādāsye jīvitānta-gaiḥ . salile kṣīram āsaktam niṣpiban iva sārasaḥ.. 8..
निहतस्य मया संख्ये शरसंकृत्तमर्मणः । सफेनं रुधिरं कस्य मेदिनी पातुमिच्छति॥ ९॥
निहतस्य मया संख्ये शर-संकृत्त-मर्मणः । स फेनम् रुधिरम् कस्य मेदिनी पातुम् इच्छति॥ ९॥
nihatasya mayā saṃkhye śara-saṃkṛtta-marmaṇaḥ . sa phenam rudhiram kasya medinī pātum icchati.. 9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In