This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वितीयः सर्गः ॥३-२॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे द्वितीयः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe dvitīyaḥ sargaḥ ..3..
कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति । आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत॥ १॥
कृत-आतिथ्यः अथ रामः तु सूर्यस्य उदयनम् प्रति । आमन्त्र्य स मुनीन् सर्वान् वनम् एव अन्वगाहत॥ १॥
kṛta-ātithyaḥ atha rāmaḥ tu sūryasya udayanam prati . āmantrya sa munīn sarvān vanam eva anvagāhata.. 1..
नानामृगगणाकीर्णमृक्षशार्दूलसेवितम् । ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम्॥ २॥
नाना मृग-गण-आकीर्णम् ऋक्ष-शार्दूल-सेवितम् । ध्वस्त-वृक्ष-लता-गुल्मम् दुर्दर्श-सलिलाशयम्॥ २॥
nānā mṛga-gaṇa-ākīrṇam ṛkṣa-śārdūla-sevitam . dhvasta-vṛkṣa-latā-gulmam durdarśa-salilāśayam.. 2..
निष्कूजमानशकुनिं झिल्लिकागणनादितम् । लक्ष्मणानुचरो रामो वनमध्यं ददर्श ह॥ ३॥
निष्कूजमान-शकुनिम् झिल्लिका-गण-नादितम् । लक्ष्मण-अनुचरः रामः वन-मध्यम् ददर्श ह॥ ३॥
niṣkūjamāna-śakunim jhillikā-gaṇa-nāditam . lakṣmaṇa-anucaraḥ rāmaḥ vana-madhyam dadarśa ha.. 3..
सीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते । ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम्॥ ४॥
सीतया सह काकुत्स्थः तस्मिन् घोर-मृग-आयुते । ददर्श गिरि-शृङ्ग-आभम् पुरुषादम् महा-स्वनम्॥ ४॥
sītayā saha kākutsthaḥ tasmin ghora-mṛga-āyute . dadarśa giri-śṛṅga-ābham puruṣādam mahā-svanam.. 4..
गभीराक्षं महावक्त्रं विकटं विकटोदरम् । बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम्॥ ५॥
गभीर-अक्षम् महा-वक्त्रम् विकटम् विकट-उदरम् । बीभत्सम् विषमम् दीर्घम् विकृतम् घोर-दर्शनम्॥ ५॥
gabhīra-akṣam mahā-vaktram vikaṭam vikaṭa-udaram . bībhatsam viṣamam dīrgham vikṛtam ghora-darśanam.. 5..
वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम् । त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम्॥ ६॥
वसानम् चर्म वैयाघ्रम् वसा-आर्द्रम् रुधिर-उक्षितम् । त्रासनम् सर्व-भूतानाम् व्यादित-आस्यम् इव अन्तकम्॥ ६॥
vasānam carma vaiyāghram vasā-ārdram rudhira-ukṣitam . trāsanam sarva-bhūtānām vyādita-āsyam iva antakam.. 6..
त्रीन् सिंहांश्चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश । सविषाणं वसादिग्धं गजस्य च शिरो महत्॥ ७॥
त्रीन् सिंहान् चतुरः व्याघ्रान् द्वौ वृकौ पृषतान् दश । स विषाणम् वसा-दिग्धम् गजस्य च शिरः महत्॥ ७॥
trīn siṃhān caturaḥ vyāghrān dvau vṛkau pṛṣatān daśa . sa viṣāṇam vasā-digdham gajasya ca śiraḥ mahat.. 7..
अवसज्यायसे शूले विनदन्तं महास्वनम् । स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम्॥ ८॥
अवसज्यायसे शूले विनदन्तम् महा-स्वनम् । स रामम् लक्ष्मणम् च एव सीताम् दृष्ट्वा च मैथिलीम्॥ ८॥
avasajyāyase śūle vinadantam mahā-svanam . sa rāmam lakṣmaṇam ca eva sītām dṛṣṭvā ca maithilīm.. 8..
अभ्यधावत् सुसंक्रुद्धः प्रजाः काल इवान्तकःस कृत्वा भैरवं नादं चालयन्निव मेदिनीम्॥ ९॥
अभ्यधावत् सु संक्रुद्धः प्रजाः कालः इव अन्तकः स कृत्वा भैरवम् नादम् चालयन् इव मेदिनीम्॥ ९॥
abhyadhāvat su saṃkruddhaḥ prajāḥ kālaḥ iva antakaḥ sa kṛtvā bhairavam nādam cālayan iva medinīm.. 9..
अङ्केनादाय वैदेहीमपक्रम्य तदाब्रवीत् । युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ॥ १०॥
अङ्केन आदाय वैदेहीम् अपक्रम्य तदा ब्रवीत् । युवाम् जटा-चीर-धरौ स भार्यौ क्षीण-जीवितौ॥ १०॥
aṅkena ādāya vaidehīm apakramya tadā bravīt . yuvām jaṭā-cīra-dharau sa bhāryau kṣīṇa-jīvitau.. 10..
प्रविष्टौ दण्डकारण्यं शरचापासिपाणिनौ । कथं तापसयोर्वां च वासः प्रमदया सह॥ ११॥
प्रविष्टौ दण्डक-अरण्यम् शर-चाप-असि-पाणिनौ । कथम् तापसयोः वाम् च वासः प्रमदया सह॥ ११॥
praviṣṭau daṇḍaka-araṇyam śara-cāpa-asi-pāṇinau . katham tāpasayoḥ vām ca vāsaḥ pramadayā saha.. 11..
अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ । अहं वनमिदं दुर्गं विराधो नाम राक्षसः॥ १२॥
अधर्म-चारिणौ पापौ कौ युवाम् मुनि-दूषकौ । अहम् वनम् इदम् दुर्गम् विराधः नाम राक्षसः॥ १२॥
adharma-cāriṇau pāpau kau yuvām muni-dūṣakau . aham vanam idam durgam virādhaḥ nāma rākṣasaḥ.. 12..
चरामि सायुधो नित्यमृषिमांसानि भक्षयन् । इयं नारी वरारोहा मम भार्या भविष्यति॥ १३॥
चरामि स आयुधः नित्यम् ऋषि-मांसानि भक्षयन् । इयम् नारी वर-आरोहा मम भार्या भविष्यति॥ १३॥
carāmi sa āyudhaḥ nityam ṛṣi-māṃsāni bhakṣayan . iyam nārī vara-ārohā mama bhāryā bhaviṣyati.. 13..
युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे । तस्यैवं ब्रुवतो दुष्टं विराधस्य दुरात्मनः॥ १४॥
युवयोः पापयोः च अहम् पास्यामि रुधिरम् मृधे । तस्य एवम् ब्रुवतः दुष्टम् विराधस्य दुरात्मनः॥ १४॥
yuvayoḥ pāpayoḥ ca aham pāsyāmi rudhiram mṛdhe . tasya evam bruvataḥ duṣṭam virādhasya durātmanaḥ.. 14..
श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा । सीता प्रवेपितोद्वेगात् प्रवाते कदली यथा॥ १५॥
श्रुत्वा स गर्वितम् वाक्यम् सम्भ्रान्ता जनकात्मजा । सीता प्रवेपिता उद्वेगात् प्रवाते कदली यथा॥ १५॥
śrutvā sa garvitam vākyam sambhrāntā janakātmajā . sītā pravepitā udvegāt pravāte kadalī yathā.. 15..
तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् । अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता॥ १६॥
ताम् दृष्ट्वा राघवः सीताम् विराध-अङ्क-गताम् शुभाम् । अब्रवीत् लक्ष्मणम् वाक्यम् मुखेन परिशुष्यता॥ १६॥
tām dṛṣṭvā rāghavaḥ sītām virādha-aṅka-gatām śubhām . abravīt lakṣmaṇam vākyam mukhena pariśuṣyatā.. 16..
पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम् । मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम्॥ १७॥
पश्य सौम्य नरेन्द्रस्य जनकस्य आत्मसम्भवाम् । मम भार्याम् शुभ-आचाराम् विराध-अङ्के प्रवेशिताम्॥ १७॥
paśya saumya narendrasya janakasya ātmasambhavām . mama bhāryām śubha-ācārām virādha-aṅke praveśitām.. 17..
अत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम् । यदभिप्रेतमस्मासु प्रियं वरवृतं च यत्॥ १८॥
अत्यन्त-सुख-संवृद्धाम् राज-पुत्रीम् यशस्विनीम् । यत् अभिप्रेतम् अस्मासु प्रियम् वर-वृतम् च यत्॥ १८॥
atyanta-sukha-saṃvṛddhām rāja-putrīm yaśasvinīm . yat abhipretam asmāsu priyam vara-vṛtam ca yat.. 18..
कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण । या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी॥ १९॥
कैकेय्याः तु सु संवृत्तम् क्षिप्रम् अद्य एव लक्ष्मण । या न तुष्यति राज्येन पुत्र-अर्थे दीर्घ-दर्शिनी॥ १९॥
kaikeyyāḥ tu su saṃvṛttam kṣipram adya eva lakṣmaṇa . yā na tuṣyati rājyena putra-arthe dīrgha-darśinī.. 19..
ययाहं सर्वभूतानां प्रियः प्रस्थापितो वनम् । अद्येदानीं सकामा सा या माता मध्यमा मम॥ २०॥
यया अहम् सर्व-भूतानाम् प्रियः प्रस्थापितः वनम् । अद्या इदानीम् स कामा सा या माता मध्यमा मम॥ २०॥
yayā aham sarva-bhūtānām priyaḥ prasthāpitaḥ vanam . adyā idānīm sa kāmā sā yā mātā madhyamā mama.. 20..
परस्पर्शात् तु वैदेह्या न दुःखतरमस्ति मे । पितुर्विनाशात् सौमित्रे स्वराज्य हरणात् तथा॥ २१॥
पर-स्पर्शात् तु वैदेह्याः न दुःखतरम् अस्ति मे । पितुः विनाशात् सौमित्रे स्व-राज्य हरणात् तथा॥ २१॥
para-sparśāt tu vaidehyāḥ na duḥkhataram asti me . pituḥ vināśāt saumitre sva-rājya haraṇāt tathā.. 21..
इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुतः । अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन्॥ २२॥
इति ब्रुवति काकुत्स्थे बाष्प-शोक-परिप्लुतः । अब्रवीत् लक्ष्मणः क्रुद्धः रुद्धः नागः इव श्वसन्॥ २२॥
iti bruvati kākutsthe bāṣpa-śoka-pariplutaḥ . abravīt lakṣmaṇaḥ kruddhaḥ ruddhaḥ nāgaḥ iva śvasan.. 22..
अनाथ इव भूतानां नाथस्त्वं वासवोपमः । मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे॥ २३॥
अनाथः इव भूतानाम् नाथः त्वम् वासव-उपमः । मया प्रेष्येण काकुत्स्थ किमर्थम् परितप्यसे॥ २३॥
anāthaḥ iva bhūtānām nāthaḥ tvam vāsava-upamaḥ . mayā preṣyeṇa kākutstha kimartham paritapyase.. 23..
शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः । विराधस्य गतासोर्हि मही पास्यति शोणितम्॥ २४॥
शरेण निहतस्य अद्य मया क्रुद्धेन रक्षसः । विराधस्य गतासोः हि मही पास्यति शोणितम्॥ २४॥
śareṇa nihatasya adya mayā kruddhena rakṣasaḥ . virādhasya gatāsoḥ hi mahī pāsyati śoṇitam.. 24..
राज्यकामे मम क्रोधो भरते यो बभूव ह । तं विराधे विमोक्ष्यामि वज्री वज्रमिवाचले॥ २५॥
राज्य-कामे मम क्रोधः भरते यः बभूव ह । तम् विराधे विमोक्ष्यामि वज्री वज्रम् इव अचले॥ २५॥
rājya-kāme mama krodhaḥ bharate yaḥ babhūva ha . tam virādhe vimokṣyāmi vajrī vajram iva acale.. 25..
मम भुजबलवेगवेगितः पततु शरोऽस्य महान् महोरसि । व्यपनयतु तनोश्च जीवितं पततु ततश्च महीं विघूर्णितः॥ २६॥
मम भुज-बल-वेग-वेगितः पततु शरः अस्य महान् महा-उरसि । व्यपनयतु तनोः च जीवितम् पततु ततस् च महीम् विघूर्णितः॥ २६॥
mama bhuja-bala-vega-vegitaḥ patatu śaraḥ asya mahān mahā-urasi . vyapanayatu tanoḥ ca jīvitam patatu tatas ca mahīm vighūrṇitaḥ.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्वितीयः सर्गः ॥३-२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे द्वितीयः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe dvitīyaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In