This overlay will guide you through the buttons:

| |
|
कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताः । प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे॥ १०॥
कस्य पत्ररथाः कायात् मांसम् उत्कृत्य संगताः । प्रहृष्टाः भक्षयिष्यन्ति निहतस्य मया रणे॥ १०॥
kasya patrarathāḥ kāyāt māṃsam utkṛtya saṃgatāḥ . prahṛṣṭāḥ bhakṣayiṣyanti nihatasya mayā raṇe.. 10..
तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः । मयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे॥ ११॥
तम् न देवाः न गन्धर्वाः न पिशाचाः न राक्षसाः । मया अपकृष्टम् कृपणम् शक्ताः त्रातुम् महा-आहवे॥ ११॥
tam na devāḥ na gandharvāḥ na piśācāḥ na rākṣasāḥ . mayā apakṛṣṭam kṛpaṇam śaktāḥ trātum mahā-āhave.. 11..
उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि । येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता॥ १२॥
उपलभ्य शनैस् संज्ञाम् तम् मे शंसितुम् अर्हसि । येन त्वम् दुर्विनीतेन वने विक्रम्य निर्जिता॥ १२॥
upalabhya śanais saṃjñām tam me śaṃsitum arhasi . yena tvam durvinītena vane vikramya nirjitā.. 12..
इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः । ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत्॥ १३॥
इति भ्रातुः वचः श्रुत्वा क्रुद्धस्य च विशेषतः । ततस् शूर्पणखा वाक्यम् स बाष्पम् इदम् अब्रवीत्॥ १३॥
iti bhrātuḥ vacaḥ śrutvā kruddhasya ca viśeṣataḥ . tatas śūrpaṇakhā vākyam sa bāṣpam idam abravīt.. 13..
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ॥ १४॥
तरुणौ रूप-सम्पन्नौ सुकुमारौ महा-बलौ । पुण्डरीक-विशाल-अक्षौ चीर-कृष्ण-अजिन-अम्बरौ॥ १४॥
taruṇau rūpa-sampannau sukumārau mahā-balau . puṇḍarīka-viśāla-akṣau cīra-kṛṣṇa-ajina-ambarau.. 14..
फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ॥ १५॥
फल-मूल-अशनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्य आस्ताम् भ्रातरौ राम-लक्ष्मणौ॥ १५॥
phala-mūla-aśanau dāntau tāpasau brahmacāriṇau . putrau daśarathasya āstām bhrātarau rāma-lakṣmaṇau.. 15..
गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ । देवौ वा दानवावेतौ न तर्कयितुमुत्सहे॥ १६॥
गन्धर्वराज-प्रतिमौ पार्थिव-व्यञ्जन-अन्वितौ । देवौ वा दानवौ एतौ न तर्कयितुम् उत्सहे॥ १६॥
gandharvarāja-pratimau pārthiva-vyañjana-anvitau . devau vā dānavau etau na tarkayitum utsahe.. 16..
तरुणी रूपसम्पन्ना सर्वाभरणभूषिता । दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा॥ १७॥
तरुणी रूप-सम्पन्ना सर्व-आभरण-भूषिता । दृष्टा तत्र मया नारी तयोः मध्ये सुमध्यमा॥ १७॥
taruṇī rūpa-sampannā sarva-ābharaṇa-bhūṣitā . dṛṣṭā tatra mayā nārī tayoḥ madhye sumadhyamā.. 17..
ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम् । इमामवस्थां नीताहं यथानाथासती तथा॥ १८॥
ताभ्याम् उभाभ्याम् सम्भूय प्रमदाम् अधिकृत्य ताम् । इमाम् अवस्थाम् नीता अहम् यथा अनाथा असती तथा॥ १८॥
tābhyām ubhābhyām sambhūya pramadām adhikṛtya tām . imām avasthām nītā aham yathā anāthā asatī tathā.. 18..
तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् । सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि॥ १९॥
तस्याः च अनृजु-वृत्तायाः तयोः च हतयोः अहम् । स फेनम् पातुम् इच्छामि रुधिरम् रण-मूर्धनि॥ १९॥
tasyāḥ ca anṛju-vṛttāyāḥ tayoḥ ca hatayoḥ aham . sa phenam pātum icchāmi rudhiram raṇa-mūrdhani.. 19..
एष मे प्रथमः कामः कृतस्तत्र त्वया भवेत् । तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे॥ २०॥
एष मे प्रथमः कामः कृतः तत्र त्वया भवेत् । तस्याः तयोः च रुधिरम् पिबेयम् अहम् आहवे॥ २०॥
eṣa me prathamaḥ kāmaḥ kṛtaḥ tatra tvayā bhavet . tasyāḥ tayoḥ ca rudhiram pibeyam aham āhave.. 20..
इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् । व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान्॥ २१॥
इति तस्याम् ब्रुवाणायाम् चतुर्दश महा-बलान् । व्यादिदेश खरः क्रुद्धः राक्षसान् अनन्त-क-उपमान्॥ २१॥
iti tasyām bruvāṇāyām caturdaśa mahā-balān . vyādideśa kharaḥ kruddhaḥ rākṣasān ananta-ka-upamān.. 21..
मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ । प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह॥ २२॥
मानुषौ शस्त्र-सम्पन्नौ चीर-कृष्ण-अजिन-अम्बरौ । प्रविष्टौ दण्डक-अरण्यम् घोरम् प्रमदया सह॥ २२॥
mānuṣau śastra-sampannau cīra-kṛṣṇa-ajina-ambarau . praviṣṭau daṇḍaka-araṇyam ghoram pramadayā saha.. 22..
तौ हत्वा तां च दुर्वृत्तामुपावर्तितुमर्हथ । इयं च भगिनी तेषां रुधिरं मम पास्यति॥ २३॥
तौ हत्वा ताम् च दुर्वृत्ताम् उपावर्तितुम् अर्हथ । इयम् च भगिनी तेषाम् रुधिरम् मम पास्यति॥ २३॥
tau hatvā tām ca durvṛttām upāvartitum arhatha . iyam ca bhaginī teṣām rudhiram mama pāsyati.. 23..
मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः । शीघ्रं सम्पाद्यतां गत्वा तौ प्रमथ्य स्वतेजसा॥ २४॥
मनोरथः अयम् इष्टः अस्याः भगिन्याः मम राक्षसाः । शीघ्रम् सम्पाद्यताम् गत्वा तौ प्रमथ्य स्व-तेजसा॥ २४॥
manorathaḥ ayam iṣṭaḥ asyāḥ bhaginyāḥ mama rākṣasāḥ . śīghram sampādyatām gatvā tau pramathya sva-tejasā.. 24..
युष्माभिर्निहतौ दृष्ट्वा तावुभौ भ्रातरौ रणे । इयं प्रहृष्टा मुदिता रुधिरं युधि पास्यति॥ २५॥
युष्माभिः निहतौ दृष्ट्वा तौ उभौ भ्रातरौ रणे । इयम् प्रहृष्टा मुदिता रुधिरम् युधि पास्यति॥ २५॥
yuṣmābhiḥ nihatau dṛṣṭvā tau ubhau bhrātarau raṇe . iyam prahṛṣṭā muditā rudhiram yudhi pāsyati.. 25..
इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश । तत्र जग्मुस्तया सार्धं घना वातेरिता इव॥ २६॥
इति प्रतिसमादिष्टाः राक्षसाः ते चतुर्दश । तत्र जग्मुः तया सार्धम् घनाः वात-ईरिताः इव॥ २६॥
iti pratisamādiṣṭāḥ rākṣasāḥ te caturdaśa . tatra jagmuḥ tayā sārdham ghanāḥ vāta-īritāḥ iva.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनविंशः सर्गः ॥३-१९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे एकोनविंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ekonaviṃśaḥ sargaḥ ..3..
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे विंशः सर्गः ॥३-२०॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे विंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe viṃśaḥ sargaḥ ..3..
ततः शूर्पणखा घोरा राघवाश्रममागता । राक्षसानाचचक्षे तौ भ्रातरौ सह सीतया॥ १॥
ततस् शूर्पणखा घोरा राघव-आश्रमम् आगता । राक्षसान् आचचक्षे तौ भ्रातरौ सह सीतया॥ १॥
tatas śūrpaṇakhā ghorā rāghava-āśramam āgatā . rākṣasān ācacakṣe tau bhrātarau saha sītayā.. 1..
ते रामं पर्णशालायामुपविष्टं महाबलम् । ददृशुः सीतया सार्धं लक्ष्मणेनापि सेवितम्॥ २॥
ते रामम् पर्ण-शालायाम् उपविष्टम् महा-बलम् । ददृशुः सीतया सार्धम् लक्ष्मणेन अपि सेवितम्॥ २॥
te rāmam parṇa-śālāyām upaviṣṭam mahā-balam . dadṛśuḥ sītayā sārdham lakṣmaṇena api sevitam.. 2..
तां दृष्ट्वा राघवः श्रीमानागतांस्तांश्च राक्षसान् । अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम्॥ ३॥
ताम् दृष्ट्वा राघवः श्रीमान् आगतान् तान् च राक्षसान् । अब्रवीत् भ्रातरम् रामः लक्ष्मणम् दीप्त-तेजसम्॥ ३॥
tām dṛṣṭvā rāghavaḥ śrīmān āgatān tān ca rākṣasān . abravīt bhrātaram rāmaḥ lakṣmaṇam dīpta-tejasam.. 3..
मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः । इमानस्या वधिष्यामि पदवीमागतानिह॥ ४॥
मुहूर्तम् भव सौमित्रे सीतायाः प्रत्यनन्तरः । इमान् अस्याः वधिष्यामि पदवीम् आगतान् इह॥ ४॥
muhūrtam bhava saumitre sītāyāḥ pratyanantaraḥ . imān asyāḥ vadhiṣyāmi padavīm āgatān iha.. 4..
वाक्यमेतत् ततः श्रुत्वा रामस्य विदितात्मनः । तथेति लक्ष्मणो वाक्यं राघवस्य प्रपूजयन्॥ ५॥
वाक्यम् एतत् ततस् श्रुत्वा रामस्य विदित-आत्मनः । तथा इति लक्ष्मणः वाक्यम् राघवस्य प्रपूजयन्॥ ५॥
vākyam etat tatas śrutvā rāmasya vidita-ātmanaḥ . tathā iti lakṣmaṇaḥ vākyam rāghavasya prapūjayan.. 5..
राघवोऽपि महच्चापं चामीकरविभूषितम् । चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत्॥ ६॥
राघवः अपि महत् चापम् चामीकर-विभूषितम् । चकार सज्यम् धर्म-आत्मा तानि रक्षांसि च अब्रवीत्॥ ६॥
rāghavaḥ api mahat cāpam cāmīkara-vibhūṣitam . cakāra sajyam dharma-ātmā tāni rakṣāṃsi ca abravīt.. 6..
पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ । प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम्॥ ७॥
पुत्रौ दशरथस्य आवाम् भ्रातरौ राम-लक्ष्मणौ । प्रविष्टौ सीतया सार्धम् दुश्चरम् दण्डक-वनम्॥ ७॥
putrau daśarathasya āvām bhrātarau rāma-lakṣmaṇau . praviṣṭau sītayā sārdham duścaram daṇḍaka-vanam.. 7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In