This overlay will guide you through the buttons:

| |
|
फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ । वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ॥ ८॥
फल-मूल-अशनौ दान्तौ तापसौ ब्रह्मचारिणौ । वसन्तौ दण्डक-अरण्ये किमर्थम् उपहिंसथ॥ ८॥
phala-mūla-aśanau dāntau tāpasau brahmacāriṇau . vasantau daṇḍaka-araṇye kimartham upahiṃsatha.. 8..
युष्मान् पापात्मकान् हन्तुं विप्रकारान् महाहवे । ऋषीणां तु नियोगेन सम्प्राप्तः सशरासनः॥ ९॥
युष्मान् पाप-आत्मकान् हन्तुम् विप्रकारान् महा-आहवे । ऋषीणाम् तु नियोगेन सम्प्राप्तः स शरासनः॥ ९॥
yuṣmān pāpa-ātmakān hantum viprakārān mahā-āhave . ṛṣīṇām tu niyogena samprāptaḥ sa śarāsanaḥ.. 9..
तिष्ठतैवात्र संतुष्टा नोपवर्तितुमर्हथ । यदि प्राणैरिहार्थो वो निवर्तध्वं निशाचराः॥ १०॥
तिष्ठत एव अत्र संतुष्टाः न उपवर्तितुम् अर्हथ । यदि प्राणैः इह अर्थः वः निवर्तध्वम् निशाचराः॥ १०॥
tiṣṭhata eva atra saṃtuṣṭāḥ na upavartitum arhatha . yadi prāṇaiḥ iha arthaḥ vaḥ nivartadhvam niśācarāḥ.. 10..
तस्य तद् वचनं श्रुत्वा राक्षसास्ते चतुर्दश । ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नाः शूलपाणयः॥ ११॥
तस्य तत् वचनम् श्रुत्वा राक्षसाः ते चतुर्दश । ऊचुः वाचम् सु संक्रुद्धाः ब्रह्म-घ्नाः शूल-पाणयः॥ ११॥
tasya tat vacanam śrutvā rākṣasāḥ te caturdaśa . ūcuḥ vācam su saṃkruddhāḥ brahma-ghnāḥ śūla-pāṇayaḥ.. 11..
संरक्तनयना घोरा रामं संरक्तलोचनम् । परुषा मधुराभाषं हृष्टा दृष्टपराक्रमम्॥ १२॥
संरक्त-नयनाः घोराः रामम् संरक्त-लोचनम् । परुषा मधुर-आभाषम् हृष्टाः दृष्ट-पराक्रमम्॥ १२॥
saṃrakta-nayanāḥ ghorāḥ rāmam saṃrakta-locanam . paruṣā madhura-ābhāṣam hṛṣṭāḥ dṛṣṭa-parākramam.. 12..
क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः । त्वमेव हास्यसे प्राणान् सद्योऽस्माभिर्हतो युधि॥ १३॥
क्रोधम् उत्पाद्य नः भर्तुः खरस्य सु महात्मनः । त्वम् एव हास्यसे प्राणान् सद्यस् अस्माभिः हतः युधि॥ १३॥
krodham utpādya naḥ bhartuḥ kharasya su mahātmanaḥ . tvam eva hāsyase prāṇān sadyas asmābhiḥ hataḥ yudhi.. 13..
का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि । अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे॥ १४॥
का हि ते शक्तिः एकस्य बहूनाम् रण-मूर्धनि । अस्माकम् अग्रतस् स्थातुम् किम् पुनर् योद्धुम् आहवे॥ १४॥
kā hi te śaktiḥ ekasya bahūnām raṇa-mūrdhani . asmākam agratas sthātum kim punar yoddhum āhave.. 14..
एभिर्बाहुप्रयुक्तैश्च परिघैः शूलपट्टिशैः । प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम्॥ १५॥
एभिः बाहु-प्रयुक्तैः च परिघैः शूल-पट्टिशैः । प्राणान् त्यक्ष्यसि वीर्यम् च धनुः च कर-पीडितम्॥ १५॥
ebhiḥ bāhu-prayuktaiḥ ca parighaiḥ śūla-paṭṭiśaiḥ . prāṇān tyakṣyasi vīryam ca dhanuḥ ca kara-pīḍitam.. 15..
इत्येवमुक्त्वा संरब्धा राक्षसास्ते चतुर्दश । उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः॥ १६॥
इति एवम् उक्त्वा संरब्धाः राक्षसाः ते चतुर्दश । उद्यत-आयुध-निस्त्रिंशाः रामम् एव अभिदुद्रुवुः॥ १६॥
iti evam uktvā saṃrabdhāḥ rākṣasāḥ te caturdaśa . udyata-āyudha-nistriṃśāḥ rāmam eva abhidudruvuḥ.. 16..
चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् । तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश॥ १७॥
चिक्षिपुः तानि शूलानि राघवम् प्रति दुर्जयम् । तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश॥ १७॥
cikṣipuḥ tāni śūlāni rāghavam prati durjayam . tāni śūlāni kākutsthaḥ samastāni caturdaśa.. 17..
तावद्भिरेव चिच्छेद शरैः काञ्चनभूषितैः । ततः पश्चान्महातेजा नाराचान् सूर्यसंनिभान्॥ १८॥
तावद्भिः एव चिच्छेद शरैः काञ्चन-भूषितैः । ततस् पश्चात् महा-तेजाः नाराचान् सूर्य-संनिभान्॥ १८॥
tāvadbhiḥ eva ciccheda śaraiḥ kāñcana-bhūṣitaiḥ . tatas paścāt mahā-tejāḥ nārācān sūrya-saṃnibhān.. 18..
जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् । गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान्॥ १९॥
जग्राह परम-क्रुद्धः चतुर्दश शिला-शितान् । गृहीत्वा धनुः आयम्य लक्ष्यान् उद्दिश्य राक्षसान्॥ १९॥
jagrāha parama-kruddhaḥ caturdaśa śilā-śitān . gṛhītvā dhanuḥ āyamya lakṣyān uddiśya rākṣasān.. 19..
मुमोच राघवो बाणान् वज्रानिव शतक्रतुः । ते भित्त्वा रक्षसां वेगाद् वक्षांसि रुधिरप्लुताः॥ २०॥
मुमोच राघवः बाणान् वज्रान् इव शतक्रतुः । ते भित्त्वा रक्षसाम् वेगात् वक्षांसि रुधिर-प्लुताः॥ २०॥
mumoca rāghavaḥ bāṇān vajrān iva śatakratuḥ . te bhittvā rakṣasām vegāt vakṣāṃsi rudhira-plutāḥ.. 20..
विनिष्पेतुस्तदा भूमौ वल्मीकादिव पन्नगाः । तैर्भग्नहृदया भूमौ छिन्नमूला इव द्रुमाः॥ २१॥
विनिष्पेतुः तदा भूमौ वल्मीकात् इव पन्नगाः । तैः भग्न-हृदयाः भूमौ छिन्न-मूलाः इव द्रुमाः॥ २१॥
viniṣpetuḥ tadā bhūmau valmīkāt iva pannagāḥ . taiḥ bhagna-hṛdayāḥ bhūmau chinna-mūlāḥ iva drumāḥ.. 21..
निपेतुः शोणितस्नाता विकृता विगतासवः । तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोधमूर्छिता॥ २२॥
निपेतुः शोणित-स्नाताः विकृताः विगत-असवः । तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोध-मूर्छिता॥ २२॥
nipetuḥ śoṇita-snātāḥ vikṛtāḥ vigata-asavaḥ . tān bhūmau patitān dṛṣṭvā rākṣasī krodha-mūrchitā.. 22..
उपगम्य खरं सा तु किंचित्संशुष्कशोणिता । पपात पुनरेवार्ता सनिर्यासेव वल्लरी॥ २३॥
उपगम्य खरम् सा तु किंचिद् संशुष्क-शोणिता । पपात पुनर् एव आर्ता स निर्यासा इव वल्लरी॥ २३॥
upagamya kharam sā tu kiṃcid saṃśuṣka-śoṇitā . papāta punar eva ārtā sa niryāsā iva vallarī.. 23..
भ्रातुः समीपे शोकार्ता ससर्ज निनदं महत् । सस्वरं मुमुचे बाष्पं विवर्णवदना तदा॥ २४॥
भ्रातुः समीपे शोक-आर्ता ससर्ज निनदम् महत् । स स्वरम् मुमुचे बाष्पम् विवर्ण-वदना तदा॥ २४॥
bhrātuḥ samīpe śoka-ārtā sasarja ninadam mahat . sa svaram mumuce bāṣpam vivarṇa-vadanā tadā.. 24..
निपातितान् प्रेक्ष्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस्ततः । वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगिनी खरस्य सा॥ २५॥
निपातितान् प्रेक्ष्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनर् ततस् । वधम् च तेषाम् निखिलेन रक्षसाम् शशंस सर्वम् भगिनी खरस्य सा॥ २५॥
nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punar tatas . vadham ca teṣām nikhilena rakṣasām śaśaṃsa sarvam bhaginī kharasya sā.. 25..
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे विंशः सर्गः ॥३-२०॥
इति वाल्मीकि-रामायणे आदि-काव्ये अरण्यकाण्डे विंशः सर्गः ॥३॥
iti vālmīki-rāmāyaṇe ādi-kāvye araṇyakāṇḍe viṃśaḥ sargaḥ ..3..
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकविंशः सर्गः ॥३-२१॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे एकविंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ekaviṃśaḥ sargaḥ ..3..
स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां पुनः । उवाच व्यक्तया वाचा तामनर्थार्थमागताम्॥ १॥
स पुनर् पतिताम् दृष्ट्वा क्रोधात् शूर्पणखाम् पुनर् । उवाच व्यक्तया वाचा ताम् अनर्थ-अर्थम् आगताम्॥ १॥
sa punar patitām dṛṣṭvā krodhāt śūrpaṇakhām punar . uvāca vyaktayā vācā tām anartha-artham āgatām.. 1..
मया त्विदानीं शूरास्ते राक्षसाः पिशिताशनाः । त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः॥ २॥
मया तु इदानीम् शूराः ते राक्षसाः पिशित-अशनाः । त्वद्-प्रिय-अर्थम् विनिर्दिष्टाः किमर्थम् रुद्यते पुनर्॥ २॥
mayā tu idānīm śūrāḥ te rākṣasāḥ piśita-aśanāḥ . tvad-priya-artham vinirdiṣṭāḥ kimartham rudyate punar.. 2..
भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः । हन्यमाना न हन्यन्ते न न कुर्युर्वचो मम॥ ३॥
भक्ताः च एव अनुरक्ताः च हिताः च मम नित्यशस् । हन्यमानाः न हन्यन्ते न न कुर्युः वचः मम॥ ३॥
bhaktāḥ ca eva anuraktāḥ ca hitāḥ ca mama nityaśas . hanyamānāḥ na hanyante na na kuryuḥ vacaḥ mama.. 3..
किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः । हा नाथेति विनर्दन्ती सर्पवच्चेष्टसे क्षितौ॥ ४॥
किम् एतत् श्रोतुम् इच्छामि कारणम् यद्-कृते पुनर् । हा नाथ इति विनर्दन्ती सर्प-वत् चेष्टसे क्षितौ॥ ४॥
kim etat śrotum icchāmi kāraṇam yad-kṛte punar . hā nātha iti vinardantī sarpa-vat ceṣṭase kṣitau.. 4..
अनाथवद् विलपसि किं नु नाथे मयि स्थिते । उत्तिष्ठोत्तिष्ठ मा मैवं वैक्लव्यं त्यज्यतामिति॥ ५॥
अनाथ-वत् विलपसि किम् नु नाथे मयि स्थिते । उत्तिष्ठ उत्तिष्ठ मा मा एवम् वैक्लव्यम् त्यज्यताम् इति॥ ५॥
anātha-vat vilapasi kim nu nāthe mayi sthite . uttiṣṭha uttiṣṭha mā mā evam vaiklavyam tyajyatām iti.. 5..
इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता । विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत्॥ ६॥
इति एवम् उक्ता दुर्धर्षा खरेण परिसान्त्विता । विमृज्य नयने स अस्रे खरम् भ्रातरम् अब्रवीत्॥ ६॥
iti evam uktā durdharṣā khareṇa parisāntvitā . vimṛjya nayane sa asre kharam bhrātaram abravīt.. 6..
अस्मीदानीमहं प्राप्ता हतश्रवणनासिका । शोणितौघपरिक्लिन्ना त्वया च परिसान्त्विता॥ ७॥
अस्मि इदानीम् अहम् प्राप्ता हत-श्रवण-नासिका । शोणित-ओघ-परिक्लिन्ना त्वया च परिसान्त्विता॥ ७॥
asmi idānīm aham prāptā hata-śravaṇa-nāsikā . śoṇita-ogha-pariklinnā tvayā ca parisāntvitā.. 7..
प्रेषिताश्च त्वया शूरा राक्षसास्ते चतुर्दश । निहन्तुं राघवं घोरं मत्प्रियार्थं सलक्ष्मणम्॥ ८॥
प्रेषिताः च त्वया शूराः राक्षसाः ते चतुर्दश । निहन्तुम् राघवम् घोरम् मद्-प्रिय-अर्थम् स लक्ष्मणम्॥ ८॥
preṣitāḥ ca tvayā śūrāḥ rākṣasāḥ te caturdaśa . nihantum rāghavam ghoram mad-priya-artham sa lakṣmaṇam.. 8..
ते तु रामेण सामर्षाः शूलपट्टिशपाणयः । समरे निहताः सर्वे सायकैर्मर्मभेदिभिः॥ ९॥
ते तु रामेण स अमर्षाः शूल-पट्टिश-पाणयः । समरे निहताः सर्वे सायकैः मर्म-भेदिभिः॥ ९॥
te tu rāmeṇa sa amarṣāḥ śūla-paṭṭiśa-pāṇayaḥ . samare nihatāḥ sarve sāyakaiḥ marma-bhedibhiḥ.. 9..
तान् भूमौ पतितान् दृष्ट्वा क्षणेनैव महाजवान् । रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम॥ १०॥
तान् भूमौ पतितान् दृष्ट्वा क्षणेन एव महा-जवान् । रामस्य च महत् कर्म महान् त्रासः अभवत् मम॥ १०॥
tān bhūmau patitān dṛṣṭvā kṣaṇena eva mahā-javān . rāmasya ca mahat karma mahān trāsaḥ abhavat mama.. 10..
सास्मि भीता समुद्विग्ना विषण्णा च निशाचर । शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी॥ ११॥
सा अस्मि भीता समुद्विग्ना विषण्णा च निशाचर । शरणम् त्वाम् पुनर् प्राप्ता सर्वतस् भय-दर्शिनी॥ ११॥
sā asmi bhītā samudvignā viṣaṇṇā ca niśācara . śaraṇam tvām punar prāptā sarvatas bhaya-darśinī.. 11..
विषादनक्राध्युषिते परित्रासोर्मिमालिनि । किं मां न त्रायसे मग्नां विपुले शोकसागरे॥ १२॥
विषाद-नक्र-अध्युषिते परित्रास-ऊर्मि-मालिनि । किम् माम् न त्रायसे मग्नाम् विपुले शोक-सागरे॥ १२॥
viṣāda-nakra-adhyuṣite paritrāsa-ūrmi-mālini . kim mām na trāyase magnām vipule śoka-sāgare.. 12..
एते च निहता भूमौ रामेण निशितैः शरैः । ये च मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः॥ १३॥
एते च निहताः भूमौ रामेण निशितैः शरैः । ये च मे पदवीम् प्राप्ताः राक्षसाः पिशित-अशनाः॥ १३॥
ete ca nihatāḥ bhūmau rāmeṇa niśitaiḥ śaraiḥ . ye ca me padavīm prāptāḥ rākṣasāḥ piśita-aśanāḥ.. 13..
मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च । रामेण यदि शक्तिस्ते तेजो वास्ति निशाचर॥ १४॥
मयि ते यदि अनुक्रोशः यदि रक्षःसु तेषु च । रामेण यदि शक्तिः ते तेजः वा अस्ति निशाचर॥ १४॥
mayi te yadi anukrośaḥ yadi rakṣaḥsu teṣu ca . rāmeṇa yadi śaktiḥ te tejaḥ vā asti niśācara.. 14..
दण्डकारण्यनिलयं जहि राक्षसकण्टकम् । यदि रामममित्रघ्नं न त्वमद्य वधिष्यसि॥ १५॥
दण्डक-अरण्य-निलयम् जहि राक्षस-कण्टकम् । यदि रामम् अमित्र-घ्नम् न त्वम् अद्य वधिष्यसि॥ १५॥
daṇḍaka-araṇya-nilayam jahi rākṣasa-kaṇṭakam . yadi rāmam amitra-ghnam na tvam adya vadhiṣyasi.. 15..
तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा । बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे॥ १६॥
तव च एव अग्रतस् प्राणान् त्यक्ष्यामि निरपत्रपा । बुद्ध्या अहम् अनुपश्यामि न त्वम् रामस्य संयुगे॥ १६॥
tava ca eva agratas prāṇān tyakṣyāmi nirapatrapā . buddhyā aham anupaśyāmi na tvam rāmasya saṃyuge.. 16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In