This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयोविंशः सर्गः ॥३-२३॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे त्रयोविंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe trayoviṃśaḥ sargaḥ ..3..
तत्प्रयातं बलं घोरमशिवं शोणितोदकम् । अभ्यवर्षन्महाघोरस्तुमुलो गर्दभारुणः॥ १॥
तत् प्रयातम् बलम् घोरम् अशिवम् शोणित-उदकम् । अभ्यवर्षत् महा-घोरः तुमुलः गर्दभ-अरुणः॥ १॥
tat prayātam balam ghoram aśivam śoṇita-udakam . abhyavarṣat mahā-ghoraḥ tumulaḥ gardabha-aruṇaḥ.. 1..
निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः । समे पुष्पचिते देशे राजमार्गे यदृच्छया॥ २॥
निपेतुः तुरगाः तस्य रथ-युक्ताः महा-जवाः । समे पुष्प-चिते देशे राजमार्गे यदृच्छया॥ २॥
nipetuḥ turagāḥ tasya ratha-yuktāḥ mahā-javāḥ . same puṣpa-cite deśe rājamārge yadṛcchayā.. 2..
श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् । अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम्॥ ३॥
श्यामम् रुधिर-पर्यन्तम् बभूव परिवेषणम् । अलात-चक्र-प्रतिमम् प्रतिगृह्य दिवाकरम्॥ ३॥
śyāmam rudhira-paryantam babhūva pariveṣaṇam . alāta-cakra-pratimam pratigṛhya divākaram.. 3..
ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् । समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः॥ ४॥
ततस् ध्वजम् उपागम्य हेम-दण्डम् समुच्छ्रितम् । समाक्रम्य महा-कायः तस्थौ गृध्रः सु दारुणः॥ ४॥
tatas dhvajam upāgamya hema-daṇḍam samucchritam . samākramya mahā-kāyaḥ tasthau gṛdhraḥ su dāruṇaḥ.. 4..
जनस्थानसमीपे च समाक्रम्य खरस्वनाः । विस्वरान् विविधान् नादान् मांसादा मृगपक्षिणः॥ ५॥
जनस्थान-समीपे च समाक्रम्य खर-स्वनाः । विस्वरान् विविधान् नादान् मांसादाः मृग-पक्षिणः॥ ५॥
janasthāna-samīpe ca samākramya khara-svanāḥ . visvarān vividhān nādān māṃsādāḥ mṛga-pakṣiṇaḥ.. 5..
व्याजह्रुरभिदीप्तायां दिशि वै भैरवस्वनम् । अशिवं यातुधानानां शिवा घोरा महास्वनाः॥ ६॥
व्याजह्रुः अभिदीप्तायाम् दिशि वै भैरव-स्वनम् । अशिवम् यातुधानानाम् शिवाः घोराः महा-स्वनाः॥ ६॥
vyājahruḥ abhidīptāyām diśi vai bhairava-svanam . aśivam yātudhānānām śivāḥ ghorāḥ mahā-svanāḥ.. 6..
प्रभिन्नगजसंकाशास्तोयशोणितधारिणः । आकाशं तदनाकाशं चक्रुर्भीमाम्बुवाहकाः॥ ७॥
प्रभिन्न-गज-संकाशाः तोय-शोणित-धारिणः । आकाशम् तत् अनाकाशम् चक्रुः भीम-अम्बुवाहकाः॥ ७॥
prabhinna-gaja-saṃkāśāḥ toya-śoṇita-dhāriṇaḥ . ākāśam tat anākāśam cakruḥ bhīma-ambuvāhakāḥ.. 7..
बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् । दिशो वा प्रदिशो वापि सुव्यक्तं न चकाशिरे॥ ८॥
बभूव तिमिरम् घोरम् उद्धतम् रोम-हर्षणम् । दिशः वा प्रदिशः वा अपि सु व्यक्तम् न चकाशिरे॥ ८॥
babhūva timiram ghoram uddhatam roma-harṣaṇam . diśaḥ vā pradiśaḥ vā api su vyaktam na cakāśire.. 8..
क्षतजार्द्रसवर्णाभा संध्या कालं विना बभौ । खरं चाभिमुखं नेदुस्तदा घोरा मृगाः खगाः॥ ९॥
क्षतज-आर्द्र-सवर्ण-आभा संध्या कालम् विना बभौ । खरम् च अभिमुखम् नेदुः तदा घोराः मृगाः खगाः॥ ९॥
kṣataja-ārdra-savarṇa-ābhā saṃdhyā kālam vinā babhau . kharam ca abhimukham neduḥ tadā ghorāḥ mṛgāḥ khagāḥ.. 9..
कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः । नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः॥ १०॥
कङ्क-गोमायु-गृध्राः च चुक्रुशुः भय-शंसिनः । नित्य-अशिव-कराः युद्धे शिवाः घोर-निदर्शनाः॥ १०॥
kaṅka-gomāyu-gṛdhrāḥ ca cukruśuḥ bhaya-śaṃsinaḥ . nitya-aśiva-karāḥ yuddhe śivāḥ ghora-nidarśanāḥ.. 10..
नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः । कबन्धः परिघाभासो दृश्यते भास्करान्तिके॥ ११॥
नेदुः बलस्य अभिमुखम् ज्वाला-उद्गारिभिः आननैः । कबन्धः परिघ-आभासः दृश्यते भास्कर-अन्तिके॥ ११॥
neduḥ balasya abhimukham jvālā-udgāribhiḥ ānanaiḥ . kabandhaḥ parigha-ābhāsaḥ dṛśyate bhāskara-antike.. 11..
जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः । प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद् दिवाकरः॥ १२॥
जग्राह सूर्यम् स्वर्भानुः अपर्वणि महा-ग्रहः । प्रवाति मारुतः शीघ्रम् निष्प्रभः अभूत् दिवाकरः॥ १२॥
jagrāha sūryam svarbhānuḥ aparvaṇi mahā-grahaḥ . pravāti mārutaḥ śīghram niṣprabhaḥ abhūt divākaraḥ.. 12..
उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः । संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः॥ १३॥
उत्पेतुः च विना रात्रिम् ताराः खद्योत-सप्रभाः । संलीन-मीन-विहगाः नलिन्यः शुष्क-पङ्कजाः॥ १३॥
utpetuḥ ca vinā rātrim tārāḥ khadyota-saprabhāḥ . saṃlīna-mīna-vihagāḥ nalinyaḥ śuṣka-paṅkajāḥ.. 13..
तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः । उद्धूतश्च विना वातं रेणुर्जलधरारुणः॥ १४॥
तस्मिन् क्षणे बभूवुः च विना पुष्प-फलैः द्रुमाः । उद्धूतः च विना वातम् रेणुः जलधर-अरुणः॥ १४॥
tasmin kṣaṇe babhūvuḥ ca vinā puṣpa-phalaiḥ drumāḥ . uddhūtaḥ ca vinā vātam reṇuḥ jaladhara-aruṇaḥ.. 14..
चीचीकूचीति वाश्यन्त्यो बभूवुस्तत्र सारिकाः । उल्काश्चापि सनिर्घोषा निपेतुर्घोरदर्शनाः॥ १५॥
चीचीकूची इति वाश्यन्त्यः बभूवुः तत्र सारिकाः । उल्काः च अपि स निर्घोषाः निपेतुः घोर-दर्शनाः॥ १५॥
cīcīkūcī iti vāśyantyaḥ babhūvuḥ tatra sārikāḥ . ulkāḥ ca api sa nirghoṣāḥ nipetuḥ ghora-darśanāḥ.. 15..
प्रचचाल मही चापि सशैलवनकानना । खरस्य च रथस्थस्य नर्दमानस्य धीमतः॥ १६॥
प्रचचाल मही च अपि स शैल-वन-कानना । खरस्य च रथ-स्थस्य नर्दमानस्य धीमतः॥ १६॥
pracacāla mahī ca api sa śaila-vana-kānanā . kharasya ca ratha-sthasya nardamānasya dhīmataḥ.. 16..
प्राकम्पत भुजः सव्यः स्वरश्चास्यावसज्जत । सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः॥ १७॥
प्राकम्पत भुजः सव्यः स्वरः च अस्य अवसज्जत । स अस्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतस्॥ १७॥
prākampata bhujaḥ savyaḥ svaraḥ ca asya avasajjata . sa asrā sampadyate dṛṣṭiḥ paśyamānasya sarvatas.. 17..
ललाटे च रुजो जाता न च मोहान्न्यवर्तत । तान् समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान्॥ १८॥
ललाटे च रुजः जाताः न च मोहात् न्यवर्तत । तान् समीक्ष्य महा-उत्पातान् उत्थितान् रोम-हर्षणान्॥ १८॥
lalāṭe ca rujaḥ jātāḥ na ca mohāt nyavartata . tān samīkṣya mahā-utpātān utthitān roma-harṣaṇān.. 18..
अब्रवीद् राक्षसान् सर्वान् प्रहसन् स खरस्तदा । महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान्॥ १९॥
अब्रवीत् राक्षसान् सर्वान् प्रहसन् स खरः तदा । महा-उत्पातान् इमान् सर्वान् उत्थितान् घोर-दर्शनान्॥ १९॥
abravīt rākṣasān sarvān prahasan sa kharaḥ tadā . mahā-utpātān imān sarvān utthitān ghora-darśanān.. 19..
न चिन्तयाम्यहं वीर्याद् बलवान् दुर्बलानिव । तारा अपि शरैस्तीक्ष्णैः पातयेयं नभस्तलात्॥ २०॥
न चिन्तयामि अहम् वीर्यात् बलवान् दुर्बलान् इव । ताराः अपि शरैः तीक्ष्णैः पातयेयम् नभस्तलात्॥ २०॥
na cintayāmi aham vīryāt balavān durbalān iva . tārāḥ api śaraiḥ tīkṣṇaiḥ pātayeyam nabhastalāt.. 20..
मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम् । राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम्॥ २१॥
मृत्युम् मरण-धर्मेण संक्रुद्धः योजयामि अहम् । राघवम् तम् बल-उत्सिक्तम् भ्रातरम् च अपि लक्ष्मणम्॥ २१॥
mṛtyum maraṇa-dharmeṇa saṃkruddhaḥ yojayāmi aham . rāghavam tam bala-utsiktam bhrātaram ca api lakṣmaṇam.. 21..
अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे । यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः॥ २२॥
अ हत्वा सायकैः तीक्ष्णैः ना उपावर्तितुम् उत्सहे । यत् निमित्तम् तु रामस्य लक्ष्मणस्य विपर्ययः॥ २२॥
a hatvā sāyakaiḥ tīkṣṇaiḥ nā upāvartitum utsahe . yat nimittam tu rāmasya lakṣmaṇasya viparyayaḥ.. 22..
सकामा भगिनीमेऽस्तु पीत्वा तु रुधिरं तयोः । न क्वचित् प्राप्तपूर्वो मे संयुगेषु पराजयः॥ २३॥
स कामा भगिनी इमे अस्तु पीत्वा तु रुधिरम् तयोः । न क्वचिद् प्राप्त-पूर्वः मे संयुगेषु पराजयः॥ २३॥
sa kāmā bhaginī ime astu pītvā tu rudhiram tayoḥ . na kvacid prāpta-pūrvaḥ me saṃyugeṣu parājayaḥ.. 23..
युष्माकमेतत् प्रत्यक्षं नानृतं कथयाम्यहम् । देवराजमपि क्रुद्धो मत्तैरावतगामिनम्॥ २४॥
युष्माकम् एतत् प्रत्यक्षम् न अनृतम् कथयामि अहम् । देवराजम् अपि क्रुद्धः मत्त-ऐरावत-गामिनम्॥ २४॥
yuṣmākam etat pratyakṣam na anṛtam kathayāmi aham . devarājam api kruddhaḥ matta-airāvata-gāminam.. 24..
वज्रहस्तं रणे हन्यां किं पुनस्तौ च मानवौ । सा तस्य गर्जितं श्रुत्वा राक्षसानां महाचमूः॥ २५॥
वज्र-हस्तम् रणे हन्याम् किम् पुनर् तौ च मानवौ । सा तस्य गर्जितम् श्रुत्वा राक्षसानाम् महा-चमूः॥ २५॥
vajra-hastam raṇe hanyām kim punar tau ca mānavau . sā tasya garjitam śrutvā rākṣasānām mahā-camūḥ.. 25..
प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता । समेयुश्च महात्मानो युद्धदर्शनकांक्षिणः॥ २६॥
प्रहर्षम् अतुलम् लेभे मृत्यु-पाश-अवपाशिता । समेयुः च महात्मानः युद्ध-दर्शन-कांक्षिणः॥ २६॥
praharṣam atulam lebhe mṛtyu-pāśa-avapāśitā . sameyuḥ ca mahātmānaḥ yuddha-darśana-kāṃkṣiṇaḥ.. 26..
ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः । समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः॥ २७॥
ऋषयः देव-गन्धर्वाः सिद्धाः च सह चारणैः । समेत्य च ऊचुः सहिताः ते अन्योन्यम् पुण्य-कर्मणः॥ २७॥
ṛṣayaḥ deva-gandharvāḥ siddhāḥ ca saha cāraṇaiḥ . sametya ca ūcuḥ sahitāḥ te anyonyam puṇya-karmaṇaḥ.. 27..
स्वस्ति गोब्राह्मणेभ्यस्तु लोकानां ये च सम्मताः । जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान्॥ २८॥
स्वस्ति गो-ब्राह्मणेभ्यः तु लोकानाम् ये च सम्मताः । जयताम् राघवः युद्धे पौलस्त्यान् रजनीचरान्॥ २८॥
svasti go-brāhmaṇebhyaḥ tu lokānām ye ca sammatāḥ . jayatām rāghavaḥ yuddhe paulastyān rajanīcarān.. 28..
चक्रहस्तो यथा विष्णुः सर्वानसुरसत्तमान् । एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः॥ २९॥
चक्र-हस्तः यथा विष्णुः सर्वान् असुर-सत्तमान् । एतत् च अन्यत् च बहुशस् ब्रुवाणाः परम-ऋषयः॥ २९॥
cakra-hastaḥ yathā viṣṇuḥ sarvān asura-sattamān . etat ca anyat ca bahuśas bruvāṇāḥ parama-ṛṣayaḥ.. 29..
जातकौतूहलास्तत्र विमानस्थाश्च देवताः । ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम्॥ ३०॥
जात-कौतूहलाः तत्र विमान-स्थाः च देवताः । ददृशुः वाहिनीम् तेषाम् राक्षसानाम् गत-आयुषाम्॥ ३०॥
jāta-kautūhalāḥ tatra vimāna-sthāḥ ca devatāḥ . dadṛśuḥ vāhinīm teṣām rākṣasānām gata-āyuṣām.. 30..
रथेन तु खरो वेगात् सैन्यस्याग्राद् विनिःसृतः । श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः॥ ३१॥
रथेन तु खरः वेगात् सैन्यस्य अग्रात् विनिःसृतः । श्येनगामी पृथुग्रीवः यज्ञशत्रुः विहंगमः॥ ३१॥
rathena tu kharaḥ vegāt sainyasya agrāt viniḥsṛtaḥ . śyenagāmī pṛthugrīvaḥ yajñaśatruḥ vihaṃgamaḥ.. 31..
दुर्जयः करवीराक्षः परुषः कालकार्मुकः । हेममाली महामाली सर्पास्यो रुधिराशनः॥ ३२॥
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ | hemamālī mahāmālī sarpāsyo rudhirāśanaḥ || 32 ||
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ | hemamālī mahāmālī sarpāsyo rudhirāśanaḥ || 32 ||
द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् । महाकपालः स्थूलाक्षः प्रमाथस्त्रिशिरास्तथा । चत्वार एते सेनाग्रे दूषणं पृष्ठतोऽन्वयुः॥ ३३॥
द्वादशा एते महा-वीर्याः प्रतस्थुः अभितस् खरम् । महाकपालः स्थूलाक्षः प्रमाथः त्रिशिराः तथा । चत्वारः एते सेना-अग्रे दूषणम् पृष्ठतस् अन्वयुः॥ ३३॥
dvādaśā ete mahā-vīryāḥ pratasthuḥ abhitas kharam . mahākapālaḥ sthūlākṣaḥ pramāthaḥ triśirāḥ tathā . catvāraḥ ete senā-agre dūṣaṇam pṛṣṭhatas anvayuḥ.. 33..
सा भीमवेगा समराभिकांक्षिणी सुदारुणा राक्षसवीरसेना । तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यौ॥ ३४॥
सा भीम-वेगा समर-अभिकांक्षिणी सु दारुणा राक्षस-वीर-सेना । तौ राज-पुत्रौ सहसा अभ्युपेता माला ग्रहाणाम् इव चन्द्र-सूर्यौ॥ ३४॥
sā bhīma-vegā samara-abhikāṃkṣiṇī su dāruṇā rākṣasa-vīra-senā . tau rāja-putrau sahasā abhyupetā mālā grahāṇām iva candra-sūryau.. 34..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रयोविंशः सर्गः ॥३-२३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे त्रयोविंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe trayoviṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In