This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुर्विंशः सर्गः ॥३-२४॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे चतुर्विंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe caturviṃśaḥ sargaḥ ..3..
आश्रमं प्रतियाते तु खरे खरपराक्रमे । तानेवौत्पातिकान् रामः सह भ्रात्रा ददर्श ह॥ १॥
आश्रमम् प्रतियाते तु खरे खर-पराक्रमे । तान् एव औत्पातिकान् रामः सह भ्रात्रा ददर्श ह॥ १॥
āśramam pratiyāte tu khare khara-parākrame . tān eva autpātikān rāmaḥ saha bhrātrā dadarśa ha.. 1..
तानुत्पातान् महाघोरान् रामो दृष्ट्वात्यमर्षणः । प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत्॥ २॥
तान् उत्पातान् महा-घोरान् रामः दृष्ट्वा अति अमर्षणः । प्रजानाम् अहितान् दृष्ट्वा वाक्यम् लक्ष्मणम् अब्रवीत्॥ २॥
tān utpātān mahā-ghorān rāmaḥ dṛṣṭvā ati amarṣaṇaḥ . prajānām ahitān dṛṣṭvā vākyam lakṣmaṇam abravīt.. 2..
इमान् पश्य महाबाहो सर्वभूतापहारिणः । समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान्॥ ३॥
इमान् पश्य महा-बाहो सर्व-भूत-अपहारिणः । समुत्थितान् महा-उत्पातान् संहर्तुम् सर्व-राक्षसान्॥ ३॥
imān paśya mahā-bāho sarva-bhūta-apahāriṇaḥ . samutthitān mahā-utpātān saṃhartum sarva-rākṣasān.. 3..
अमी रुधिरधारास्तु विसृजन्ते खरस्वनाः । व्योम्नि मेघा निवर्तन्ते परुषा गर्दभारुणाः॥ ४॥
अमी रुधिर-धाराः तु विसृजन्ते खर-स्वनाः । व्योम्नि मेघाः निवर्तन्ते परुषाः गर्दभ-अरुणाः॥ ४॥
amī rudhira-dhārāḥ tu visṛjante khara-svanāḥ . vyomni meghāḥ nivartante paruṣāḥ gardabha-aruṇāḥ.. 4..
सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिताः । रुक्मपृष्ठानि चापानि विचेष्टन्ते विचक्षण॥ ५॥
स धूमाः च शराः सर्वे मम युद्ध-अभिनन्दिताः । रुक्म-पृष्ठानि चापानि विचेष्टन्ते विचक्षण॥ ५॥
sa dhūmāḥ ca śarāḥ sarve mama yuddha-abhinanditāḥ . rukma-pṛṣṭhāni cāpāni viceṣṭante vicakṣaṇa.. 5..
यादृशा इह कूजन्ति पक्षिणो वनचारिणः । अग्रतो नोऽभयं प्राप्तं संशयो जीवितस्य च॥ ६॥
यादृशाः इह कूजन्ति पक्षिणः वन-चारिणः । अग्रतस् नः अभयम् प्राप्तम् संशयः जीवितस्य च॥ ६॥
yādṛśāḥ iha kūjanti pakṣiṇaḥ vana-cāriṇaḥ . agratas naḥ abhayam prāptam saṃśayaḥ jīvitasya ca.. 6..
सम्प्रहारस्तु सुमहान् भविष्यति न संशयः । अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः॥ ७॥
सम्प्रहारः तु सु महान् भविष्यति न संशयः । अयम् आख्याति मे बाहुः स्फुरमाणः मुहुर् मुहुर्॥ ७॥
samprahāraḥ tu su mahān bhaviṣyati na saṃśayaḥ . ayam ākhyāti me bāhuḥ sphuramāṇaḥ muhur muhur.. 7..
संनिकर्षे तु नः शूर जयं शत्रोः पराजयम् । सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते॥ ८॥
संनिकर्षे तु नः शूर जयम् शत्रोः पराजयम् । सु प्रभम् च प्रसन्नम् च तव वक्त्रम् हि लक्ष्यते॥ ८॥
saṃnikarṣe tu naḥ śūra jayam śatroḥ parājayam . su prabham ca prasannam ca tava vaktram hi lakṣyate.. 8..
उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण । निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः॥ ९॥
उद्यतानाम् हि युद्ध-अर्थम् येषाम् भवति लक्ष्मण । निष्प्रभम् वदनम् तेषाम् भवति आयुः परिक्षयः॥ ९॥
udyatānām hi yuddha-artham yeṣām bhavati lakṣmaṇa . niṣprabham vadanam teṣām bhavati āyuḥ parikṣayaḥ.. 9..
रक्षसां नर्दतां घोरः श्रूयतेऽयं महाध्वनिः । आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः॥ १०॥
रक्षसाम् नर्दताम् घोरः श्रूयते अयम् महा-ध्वनिः । आहतानाम् च भेरीणाम् राक्षसैः क्रूर-कर्मभिः॥ १०॥
rakṣasām nardatām ghoraḥ śrūyate ayam mahā-dhvaniḥ . āhatānām ca bherīṇām rākṣasaiḥ krūra-karmabhiḥ.. 10..
अनागतविधानं तु कर्तव्यं शुभमिच्छता । आपदं शङ्कमानेन पुरुषेण विपश्चिता॥ ११॥
अनागत-विधानम् तु कर्तव्यम् शुभम् इच्छता । आपदम् शङ्कमानेन पुरुषेण विपश्चिता॥ ११॥
anāgata-vidhānam tu kartavyam śubham icchatā . āpadam śaṅkamānena puruṣeṇa vipaścitā.. 11..
तस्माद् गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः । गुहामाश्रय शैलस्य दुर्गां पादपसंकुलाम्॥ १२॥
तस्मात् गृहीत्वा वैदेहीम् शर-पाणिः धनुः-धरः । गुहाम् आश्रय शैलस्य दुर्गाम् पादप-संकुलाम्॥ १२॥
tasmāt gṛhītvā vaidehīm śara-pāṇiḥ dhanuḥ-dharaḥ . guhām āśraya śailasya durgām pādapa-saṃkulām.. 12..
प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया । शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम्॥ १३॥
प्रतिकूलितुम् इच्छामि न हि वाक्यम् इदम् त्वया । शापितः मम पादाभ्याम् गम्यताम् वत्स मा चिरम्॥ १३॥
pratikūlitum icchāmi na hi vākyam idam tvayā . śāpitaḥ mama pādābhyām gamyatām vatsa mā ciram.. 13..
त्वं हि शूरश्च बलवान् हन्या एतान् न संशयः । स्वयं निहन्तुमिच्छामि सर्वानेव निशाचरान्॥ १४॥
त्वम् हि शूरः च बलवान् हन्याः एतान् न संशयः । स्वयम् निहन्तुम् इच्छामि सर्वान् एव निशाचरान्॥ १४॥
tvam hi śūraḥ ca balavān hanyāḥ etān na saṃśayaḥ . svayam nihantum icchāmi sarvān eva niśācarān.. 14..
एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया । शरानादाय चापं च गुहां दुर्गां समाश्रयत्॥ १५॥
एवम् उक्तः तु रामेण लक्ष्मणः सह सीतया । शरान् आदाय चापम् च गुहाम् दुर्गाम् समाश्रयत्॥ १५॥
evam uktaḥ tu rāmeṇa lakṣmaṇaḥ saha sītayā . śarān ādāya cāpam ca guhām durgām samāśrayat.. 15..
तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया । हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत्॥ १६॥
तस्मिन् प्रविष्टे तु गुहाम् लक्ष्मणे सह सीतया । हन्त निर्युक्तम् इति उक्त्वा रामः कवचम् आविशत्॥ १६॥
tasmin praviṣṭe tu guhām lakṣmaṇe saha sītayā . hanta niryuktam iti uktvā rāmaḥ kavacam āviśat.. 16..
स तेनाग्निनिकाशेन कवचेन विभूषितः । बभूव रामस्तिमिरे महानग्निरिवोत्थितः॥ १७॥
स तेन अग्नि-निकाशेन कवचेन विभूषितः । बभूव रामः तिमिरे महान् अग्निः इव उत्थितः॥ १७॥
sa tena agni-nikāśena kavacena vibhūṣitaḥ . babhūva rāmaḥ timire mahān agniḥ iva utthitaḥ.. 17..
स चापमुद्यम्य महच्छरानादाय वीर्यवान् । सम्बभूवास्थितस्तत्र ज्यास्वनैः पूरयन् दिशः॥ १८॥
स चापम् उद्यम्य महत् शरान् आदाय वीर्यवान् । सम्बभूव आस्थितः तत्र ज्या-स्वनैः पूरयन् दिशः॥ १८॥
sa cāpam udyamya mahat śarān ādāya vīryavān . sambabhūva āsthitaḥ tatra jyā-svanaiḥ pūrayan diśaḥ.. 18..
ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः । समेयुश्च महात्मानो युद्धदर्शनकांक्षया॥ १९॥
ततस् देवाः स गन्धर्वाः सिद्धाः च सह चारणैः । समेयुः च महात्मानः युद्ध-दर्शन-कांक्षया॥ १९॥
tatas devāḥ sa gandharvāḥ siddhāḥ ca saha cāraṇaiḥ . sameyuḥ ca mahātmānaḥ yuddha-darśana-kāṃkṣayā.. 19..
ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः । समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः॥ २०॥
ऋषयः च महात्मानः लोके ब्रह्म-ऋषि-सत्तमाः । समेत्य च ऊचुः सहिताः ते अन्योन्यम् पुण्य-कर्मणः॥ २०॥
ṛṣayaḥ ca mahātmānaḥ loke brahma-ṛṣi-sattamāḥ . sametya ca ūcuḥ sahitāḥ te anyonyam puṇya-karmaṇaḥ.. 20..
स्वस्ति गोब्राह्मणानां च लोकानां चेति संस्थिताः । जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान्॥ २१॥
स्वस्ति गो-ब्राह्मणानाम् च लोकानाम् च इति संस्थिताः । जयताम् राघवः युद्धे पौलस्त्यान् रजनीचरान्॥ २१॥
svasti go-brāhmaṇānām ca lokānām ca iti saṃsthitāḥ . jayatām rāghavaḥ yuddhe paulastyān rajanīcarān.. 21..
चक्रहस्तो यथा युद्धे सर्वानसुरपुंगवान् । एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम्॥ २२॥
चक्र-हस्तः यथा युद्धे सर्वान् असुर-पुंगवान् । एवम् उक्त्वा पुनर् प्रोचुः आलोक्य च परस्परम्॥ २२॥
cakra-hastaḥ yathā yuddhe sarvān asura-puṃgavān . evam uktvā punar procuḥ ālokya ca parasparam.. 22..
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति॥ २३॥
चतुर्दश सहस्राणि रक्षसाम् भीम-कर्मणाम् । एकः च रामः धर्म-आत्मा कथम् युद्धम् भविष्यति॥ २३॥
caturdaśa sahasrāṇi rakṣasām bhīma-karmaṇām . ekaḥ ca rāmaḥ dharma-ātmā katham yuddham bhaviṣyati.. 23..
इति राजर्षयः सिद्धाः सगणाश्च द्विजर्षभाः । जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः॥ २४॥
इति राजर्षयः सिद्धाः स गणाः च द्विजर्षभाः । जात-कौतूहलाः तस्थुः विमान-स्थाः च देवताः॥ २४॥
iti rājarṣayaḥ siddhāḥ sa gaṇāḥ ca dvijarṣabhāḥ . jāta-kautūhalāḥ tasthuḥ vimāna-sthāḥ ca devatāḥ.. 24..
आविष्टं तेजसा रामं संग्रामशिरसि स्थितम् । दृष्ट्वा सर्वाणि भूतानि भयाद् विव्यथिरे तदा॥ २५॥
आविष्टम् तेजसा रामम् संग्राम-शिरसि स्थितम् । दृष्ट्वा सर्वाणि भूतानि भयात् विव्यथिरे तदा॥ २५॥
āviṣṭam tejasā rāmam saṃgrāma-śirasi sthitam . dṛṣṭvā sarvāṇi bhūtāni bhayāt vivyathire tadā.. 25..
रूपमप्रतिमं तस्य रामस्याक्लिष्टकर्मणः । बभूव रूपं क्रुद्धस्य रुद्रस्येव महात्मनः॥ २६॥
रूपम् अप्रतिमम् तस्य रामस्य अक्लिष्ट-कर्मणः । बभूव रूपम् क्रुद्धस्य रुद्रस्य इव महात्मनः॥ २६॥
rūpam apratimam tasya rāmasya akliṣṭa-karmaṇaḥ . babhūva rūpam kruddhasya rudrasya iva mahātmanaḥ.. 26..
इति सम्भाष्यमाणे तु देवगन्धर्वचारणैः । ततो गम्भीरनिर्ह्रादं घोरचर्मायुधध्वजम्॥ २७॥
इति सम्भाष्यमाणे तु देव-गन्धर्व-चारणैः । ततस् गम्भीर-निर्ह्रादम् घोर-चर्म-आयुध-ध्वजम्॥ २७॥
iti sambhāṣyamāṇe tu deva-gandharva-cāraṇaiḥ . tatas gambhīra-nirhrādam ghora-carma-āyudha-dhvajam.. 27..
अनीकं यातुधानानां समन्तात् प्रत्यपद्यत । वीरालापान् विसृजतामन्योन्यमभिगच्छताम्॥ २८॥
अनीकम् यातुधानानाम् समन्तात् प्रत्यपद्यत । वीर-आलापान् विसृजताम् अन्योन्यम् अभिगच्छताम्॥ २८॥
anīkam yātudhānānām samantāt pratyapadyata . vīra-ālāpān visṛjatām anyonyam abhigacchatām.. 28..
चापानि विस्फारयतां जृम्भतां चाप्यभीक्ष्णशः । विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम्॥ २९॥
चापानि विस्फारयताम् जृम्भताम् च अपि अभीक्ष्णशस् । विप्रघुष्ट-स्वनानाम् च दुन्दुभीन् च अपि निघ्नताम्॥ २९॥
cāpāni visphārayatām jṛmbhatām ca api abhīkṣṇaśas . vipraghuṣṭa-svanānām ca dundubhīn ca api nighnatām.. 29..
तेषां सुतुमुलः शब्दः पूरयामास तद् वनम् । तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः॥ ३०॥
तेषाम् सु तुमुलः शब्दः पूरयामास तत् वनम् । तेन शब्देन वित्रस्ताः श्वापदाः वन-चारिणः॥ ३०॥
teṣām su tumulaḥ śabdaḥ pūrayāmāsa tat vanam . tena śabdena vitrastāḥ śvāpadāḥ vana-cāriṇaḥ.. 30..
दुद्रुवुर्यत्र निःशब्दं पृष्ठतो नावलोकयन् । तच्चानीकं महावेगं रामं समनुवर्तत॥ ३१॥
दुद्रुवुः यत्र निःशब्दम् पृष्ठतस् न अवलोकयन् । तत् च अनीकम् महा-वेगम् रामम् समनुवर्तत॥ ३१॥
dudruvuḥ yatra niḥśabdam pṛṣṭhatas na avalokayan . tat ca anīkam mahā-vegam rāmam samanuvartata.. 31..
धृतनानाप्रहरणं गम्भीरं सागरोपमम् । रामोऽपि चारयंश्चक्षुः सर्वतो रणपण्डितः॥ ३२॥
धृत-नाना प्रहरणम् गम्भीरम् सागर-उपमम् । रामः अपि चारयन् चक्षुः सर्वतस् रण-पण्डितः॥ ३२॥
dhṛta-nānā praharaṇam gambhīram sāgara-upamam . rāmaḥ api cārayan cakṣuḥ sarvatas raṇa-paṇḍitaḥ.. 32..
ददर्श खरसैन्यं तद् युद्धायाभिमुखो गतः । वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान्॥ ३३॥
ददर्श खर-सैन्यम् तत् युद्धाय अभिमुखः गतः । वितत्य च धनुः भीमम् तूण्याः च उद्धृत्य सायकान्॥ ३३॥
dadarśa khara-sainyam tat yuddhāya abhimukhaḥ gataḥ . vitatya ca dhanuḥ bhīmam tūṇyāḥ ca uddhṛtya sāyakān.. 33..
क्रोधमाहारयत् तीव्रं वधार्थं सर्वरक्षसाम् । दुष्प्रेक्ष्यश्चाभवत् क्रुद्धो युगान्ताग्निरिव ज्वलन्॥ ३४॥
क्रोधम् आहारयत् तीव्रम् वध-अर्थम् सर्व-रक्षसाम् । दुष्प्रेक्ष्यः च अभवत् क्रुद्धः युगान्त-अग्निः इव ज्वलन्॥ ३४॥
krodham āhārayat tīvram vadha-artham sarva-rakṣasām . duṣprekṣyaḥ ca abhavat kruddhaḥ yugānta-agniḥ iva jvalan.. 34..
तं दृष्ट्वा तेजसाऽऽविष्टं प्राव्यथन् वनदेवताः । तस्य रुष्टस्य रूपं तु रामस्य ददृशे तदा । दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः॥ ३५॥
तम् दृष्ट्वा तेजसा आविष्टम् प्राव्यथन् वन-देवताः । तस्य रुष्टस्य रूपम् तु रामस्य ददृशे तदा । दक्षस्य इव क्रतुम् हन्तुम् उद्यतस्य पिनाकिनः॥ ३५॥
tam dṛṣṭvā tejasā āviṣṭam prāvyathan vana-devatāḥ . tasya ruṣṭasya rūpam tu rāmasya dadṛśe tadā . dakṣasya iva kratum hantum udyatasya pinākinaḥ.. 35..
तत्कार्मुकैराभरणै रथैश्च तद्वर्मभिश्चाग्निसमानवर्णैः । बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रजालम्॥ ३६॥
तद्-कार्मुकैः आभरणैः रथैः च तद्-वर्मभिः च अग्नि-समान-वर्णैः । बभूव सैन्यम् पिशिताशनानाम् सूर्य-उदये नीलम् इव अभ्र-जालम्॥ ३६॥
tad-kārmukaiḥ ābharaṇaiḥ rathaiḥ ca tad-varmabhiḥ ca agni-samāna-varṇaiḥ . babhūva sainyam piśitāśanānām sūrya-udaye nīlam iva abhra-jālam.. 36..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुर्विंशः सर्गः ॥३-२४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे चतुर्विंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe caturviṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In