This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षड्विंशः सर्गः ॥३-२६॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे षड्विंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ṣaḍviṃśaḥ sargaḥ ..3..
दूषणस्तु स्वकं सैन्यं हन्यमानं विलोक्य च । संदिदेश महाबाहुर्भीमवेगान् दुरासदान्॥ १॥
दूषणः तु स्वकम् सैन्यम् हन्यमानम् विलोक्य च । संदिदेश महा-बाहुः भीम-वेगान् दुरासदान्॥ १॥
dūṣaṇaḥ tu svakam sainyam hanyamānam vilokya ca . saṃdideśa mahā-bāhuḥ bhīma-vegān durāsadān.. 1..
राक्षसान् पञ्चसाहस्रान् समरेष्वनिवर्तिनः । ते शूलैः पट्टिशैः खड्गैः शिलावर्षैर्द्रुमैरपि॥ २॥
राक्षसान् पञ्च-साहस्रान् समरेषु अनिवर्तिनः । ते शूलैः पट्टिशैः खड्गैः शिला-वर्षैः द्रुमैः अपि॥ २॥
rākṣasān pañca-sāhasrān samareṣu anivartinaḥ . te śūlaiḥ paṭṭiśaiḥ khaḍgaiḥ śilā-varṣaiḥ drumaiḥ api.. 2..
शरवर्षैरविच्छिन्नं ववर्षुस्तं समन्ततः । तद् द्रुमाणां शिलानां च वर्षं प्राणहरं महत्॥ ३॥
शर-वर्षैः अविच्छिन्नम् ववर्षुः तम् समन्ततः । तत् द्रुमाणाम् शिलानाम् च वर्षम् प्राण-हरम् महत्॥ ३॥
śara-varṣaiḥ avicchinnam vavarṣuḥ tam samantataḥ . tat drumāṇām śilānām ca varṣam prāṇa-haram mahat.. 3..
प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः । प्रतिगृह्य च तद् वर्षं निमीलित इवर्षभः॥ ४॥
प्रतिजग्राह धर्म-आत्मा राघवः तीक्ष्ण-सायकैः । प्रतिगृह्य च तत् वर्षम् निमीलितः इव ऋषभः॥ ४॥
pratijagrāha dharma-ātmā rāghavaḥ tīkṣṇa-sāyakaiḥ . pratigṛhya ca tat varṣam nimīlitaḥ iva ṛṣabhaḥ.. 4..
रामः क्रोधं परं लेभे वधार्थं सर्वरक्षसाम् । ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा॥ ५॥
रामः क्रोधम् परम् लेभे वध-अर्थम् सर्व-रक्षसाम् । ततस् क्रोध-समाविष्टः प्रदीप्तः इव तेजसा॥ ५॥
rāmaḥ krodham param lebhe vadha-artham sarva-rakṣasām . tatas krodha-samāviṣṭaḥ pradīptaḥ iva tejasā.. 5..
शरैरभ्यकिरत् सैन्यं सर्वतः सहदूषणम् । ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः॥ ६॥
शरैः अभ्यकिरत् सैन्यम् सर्वतस् सह दूषणम् । ततस् सेनापतिः क्रुद्धः दूषणः शत्रु-दूषणः॥ ६॥
śaraiḥ abhyakirat sainyam sarvatas saha dūṣaṇam . tatas senāpatiḥ kruddhaḥ dūṣaṇaḥ śatru-dūṣaṇaḥ.. 6..
शरैरशनिकल्पैस्तं राघवं समवारयत् । ततो रामः सुसंक्रुद्धः क्षुरेणास्य महद् धनुः॥ ७॥
शरैः अशनि-कल्पैः तम् राघवम् समवारयत् । ततस् रामः सु संक्रुद्धः क्षुरेण अस्य महत् धनुः॥ ७॥
śaraiḥ aśani-kalpaiḥ tam rāghavam samavārayat . tatas rāmaḥ su saṃkruddhaḥ kṣureṇa asya mahat dhanuḥ.. 7..
चिच्छेद समरे वीरश्चर्तुभिश्चतुरो हयान् । हत्वा चाश्वान् शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः॥ ८॥
चिच्छेद समरे वीरः च ऋतुभिः चतुरः हयान् । हत्वा च अश्वान् शरैः तीक्ष्णैः अर्धचन्द्रेण सारथेः॥ ८॥
ciccheda samare vīraḥ ca ṛtubhiḥ caturaḥ hayān . hatvā ca aśvān śaraiḥ tīkṣṇaiḥ ardhacandreṇa sāratheḥ.. 8..
शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि । स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः॥ ९॥
शिरः जहार तत् रक्षः त्रिभिः विव्याध वक्षसि । स छिन्न-धन्वा विरथः हत-अश्वः हत-सारथिः॥ ९॥
śiraḥ jahāra tat rakṣaḥ tribhiḥ vivyādha vakṣasi . sa chinna-dhanvā virathaḥ hata-aśvaḥ hata-sārathiḥ.. 9..
जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् । वेष्टितं काञ्चनैः पट्टैर्देवसैन्याभिमर्दनम्॥ १०॥
जग्राह गिरि-शृङ्ग-आभम् परिघम् रोम-हर्षणम् । वेष्टितम् काञ्चनैः पट्टैः देव-सैन्य-अभिमर्दनम्॥ १०॥
jagrāha giri-śṛṅga-ābham parigham roma-harṣaṇam . veṣṭitam kāñcanaiḥ paṭṭaiḥ deva-sainya-abhimardanam.. 10..
आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम् । वज्राशनिसमस्पर्शं परगोपुरदारणम्॥ ११॥
आयसैः शङ्कुभिः तीक्ष्णैः कीर्णम् पर-वसा-उक्षितम् । वज्र-अशनि-सम-स्पर्शम् पर-गोपुर-दारणम्॥ ११॥
āyasaiḥ śaṅkubhiḥ tīkṣṇaiḥ kīrṇam para-vasā-ukṣitam . vajra-aśani-sama-sparśam para-gopura-dāraṇam.. 11..
तं महोरगसंकाशं प्रगृह्य परिघं रणे । दूषणोऽभ्यपतद् रामं क्रूरकर्मा निशाचरः॥ १२॥
तम् महा-उरग-संकाशम् प्रगृह्य परिघम् रणे । दूषणः अभ्यपतत् रामम् क्रूर-कर्मा निशाचरः॥ १२॥
tam mahā-uraga-saṃkāśam pragṛhya parigham raṇe . dūṣaṇaḥ abhyapatat rāmam krūra-karmā niśācaraḥ.. 12..
तस्याभिपतमानस्य दूषणस्य च राघवः । द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ॥ १३॥
तस्य अभिपतमानस्य दूषणस्य च राघवः । द्वाभ्याम् शराभ्याम् चिच्छेद स हस्त-आभरणौ भुजौ॥ १३॥
tasya abhipatamānasya dūṣaṇasya ca rāghavaḥ . dvābhyām śarābhyām ciccheda sa hasta-ābharaṇau bhujau.. 13..
भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि । परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः॥ १४॥
भ्रष्टः तस्य महा-कायः पपात रण-मूर्धनि । परिघः छिन्न-हस्तस्य शक्र-ध्वजः इव अग्रतस्॥ १४॥
bhraṣṭaḥ tasya mahā-kāyaḥ papāta raṇa-mūrdhani . parighaḥ chinna-hastasya śakra-dhvajaḥ iva agratas.. 14..
कराभ्यां च विकीर्णाभ्यां पपात भुवि दूषणः । विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः॥ १५॥
कराभ्याम् च विकीर्णाभ्याम् पपात भुवि दूषणः । विषाणाभ्याम् विशीर्णाभ्याम् मनस्वी इव महा-गजः॥ १५॥
karābhyām ca vikīrṇābhyām papāta bhuvi dūṣaṇaḥ . viṣāṇābhyām viśīrṇābhyām manasvī iva mahā-gajaḥ.. 15..
दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे । साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन्॥ १६॥
दृष्ट्वा तम् पतितम् भूमौ दूषणम् निहतम् रणे । साधु साधु इति काकुत्स्थम् सर्व-भूतानि अपूजयन्॥ १६॥
dṛṣṭvā tam patitam bhūmau dūṣaṇam nihatam raṇe . sādhu sādhu iti kākutstham sarva-bhūtāni apūjayan.. 16..
एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः । संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः॥ १७॥
एतस्मिन् अन्तरे क्रुद्धाः त्रयः सेना-अग्र-यायिनः । संहत्य अभ्यद्रवन् रामम् मृत्यु-पाश-अवपाशिताः॥ १७॥
etasmin antare kruddhāḥ trayaḥ senā-agra-yāyinaḥ . saṃhatya abhyadravan rāmam mṛtyu-pāśa-avapāśitāḥ.. 17..
महाकपालः स्थूलाक्षः प्रमाथी च महाबलः । महाकपालो विपुलं शूलमुद्यम्य राक्षसः॥ १८॥
च । महा-कपालः विपुलम् शूलम् उद्यम्य राक्षसः॥ १८॥
ca . mahā-kapālaḥ vipulam śūlam udyamya rākṣasaḥ.. 18..
स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् । दृष्ट्वैवापततस्तांस्तु राघवः सायकैः शितैः॥ १९॥
स्थूल-अक्षः पट्टिशम् गृह्य प्रमाथी च परश्वधम् । दृष्ट्वा एव आपततः तान् तु राघवः सायकैः शितैः॥ १९॥
sthūla-akṣaḥ paṭṭiśam gṛhya pramāthī ca paraśvadham . dṛṣṭvā eva āpatataḥ tān tu rāghavaḥ sāyakaiḥ śitaiḥ.. 19..
तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव । महाकपालस्य शिरश्चिच्छेद रघुनन्दनः॥ २०॥
तीक्ष्ण-अग्रैः प्रतिजग्राह सम्प्राप्तान् अतिथीन् इव । महाकपालस्य शिरः चिच्छेद रघुनन्दनः॥ २०॥
tīkṣṇa-agraiḥ pratijagrāha samprāptān atithīn iva . mahākapālasya śiraḥ ciccheda raghunandanaḥ.. 20..
असंख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् । स्थूलाक्षस्याक्षिणी स्थूले पूरयामास सायकैः॥ २१॥
असंख्येयैः तु बाण-ओघैः प्रममाथ प्रमाथिनम् । स्थूलाक्षस्य अक्षिणी स्थूले पूरयामास सायकैः॥ २१॥
asaṃkhyeyaiḥ tu bāṇa-oghaiḥ pramamātha pramāthinam . sthūlākṣasya akṣiṇī sthūle pūrayāmāsa sāyakaiḥ.. 21..
स पपात हतो भूमौ विटपीव महाद्रुमः । दूषणस्यानुगान् पञ्चसाहस्रान् कुपितः क्षणात्॥ २२॥
स पपात हतः भूमौ विटपी इव महा-द्रुमः । दूषणस्य अनुगान् पञ्च-साहस्रान् कुपितः क्षणात्॥ २२॥
sa papāta hataḥ bhūmau viṭapī iva mahā-drumaḥ . dūṣaṇasya anugān pañca-sāhasrān kupitaḥ kṣaṇāt.. 22..
हत्वा तु पञ्चसाहस्रैरनयद् यमसादनम् । दूषणं निहतं श्रुत्वा तस्य चैव पदानुगान्॥ २३॥
हत्वा तु पञ्च-साहस्रैः अनयत् यम-सादनम् । दूषणम् निहतम् श्रुत्वा तस्य च एव पदानुगान्॥ २३॥
hatvā tu pañca-sāhasraiḥ anayat yama-sādanam . dūṣaṇam nihatam śrutvā tasya ca eva padānugān.. 23..
व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान् महाबलान् । अयं विनिहतः संख्ये दूषणः सपदानुगः॥ २४॥
व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान् महा-बलान् । अयम् विनिहतः संख्ये दूषणः स पदानुगः॥ २४॥
vyādideśa kharaḥ kruddhaḥ senādhyakṣān mahā-balān . ayam vinihataḥ saṃkhye dūṣaṇaḥ sa padānugaḥ.. 24..
महत्या सेनया सार्धं युद्ध्वा रामं कुमानुषम् । शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः॥ २५॥
महत्या सेनया सार्धम् युद्ध्वा रामम् कुमानुषम् । शस्त्रैः नानाविध-आकारैः हनध्वम् सर्व-राक्षसाः॥ २५॥
mahatyā senayā sārdham yuddhvā rāmam kumānuṣam . śastraiḥ nānāvidha-ākāraiḥ hanadhvam sarva-rākṣasāḥ.. 25..
एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे । श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः॥ २६॥
एवम् उक्त्वा खरः क्रुद्धः रामम् एव अभिदुद्रुवे । श्येनगामी पृथुग्रीवः यज्ञशत्रुः विहंगमः॥ २६॥
evam uktvā kharaḥ kruddhaḥ rāmam eva abhidudruve . śyenagāmī pṛthugrīvaḥ yajñaśatruḥ vihaṃgamaḥ.. 26..
दुर्जयः करवीराक्षः परुषः कालकार्मुकः । हेममाली महामाली सर्पास्यो रुधिराशनः॥ २७॥
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ | hemamālī mahāmālī sarpāsyo rudhirāśanaḥ || 27 ||
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ | hemamālī mahāmālī sarpāsyo rudhirāśanaḥ || 27 ||
द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः । राममेवाभ्यधावन्त विसृजन्तः शरोत्तमान्॥ २८॥
द्वादशा एते महा-वीर्याः बलाध्यक्षाः स सैनिकाः । रामम् एव अभ्यधावन्त विसृजन्तः शर-उत्तमान्॥ २८॥
dvādaśā ete mahā-vīryāḥ balādhyakṣāḥ sa sainikāḥ . rāmam eva abhyadhāvanta visṛjantaḥ śara-uttamān.. 28..
ततः पावकसंकाशैर्हेमवज्रविभूषितैः । जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः॥ २९॥
ततस् पावक-संकाशैः हेम-वज्र-विभूषितैः । जघान शेषम् तेजस्वी तस्य सैन्यस्य सायकैः॥ २९॥
tatas pāvaka-saṃkāśaiḥ hema-vajra-vibhūṣitaiḥ . jaghāna śeṣam tejasvī tasya sainyasya sāyakaiḥ.. 29..
ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः । निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान्॥ ३०॥
ते रुक्म-पुङ्खाः विशिखाः स धूमाः इव पावकाः । निजघ्नुः तानि रक्षांसि वज्राः इव महा-द्रुमान्॥ ३०॥
te rukma-puṅkhāḥ viśikhāḥ sa dhūmāḥ iva pāvakāḥ . nijaghnuḥ tāni rakṣāṃsi vajrāḥ iva mahā-drumān.. 30..
रक्षसां तु शतं रामः शतेनैकेन किर्णना । सहस्रं तु सहस्रेण जघान रणमूर्धनि॥ ३१॥
रक्षसाम् तु शतम् रामः शतेन एकेन किर्णना । सहस्रम् तु सहस्रेण जघान रण-मूर्धनि॥ ३१॥
rakṣasām tu śatam rāmaḥ śatena ekena kirṇanā . sahasram tu sahasreṇa jaghāna raṇa-mūrdhani.. 31..
तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः । निपेतुः शोणितादिग्धा धरण्यां रजनीचराः॥ ३२॥
तैः भिन्न-वर्म-आभरणाः छिन्न-भिन्न-शरासनाः । निपेतुः शोणित-आदिग्धाः धरण्याम् रजनीचराः॥ ३२॥
taiḥ bhinna-varma-ābharaṇāḥ chinna-bhinna-śarāsanāḥ . nipetuḥ śoṇita-ādigdhāḥ dharaṇyām rajanīcarāḥ.. 32..
तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः । विस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव॥ ३३॥
तैः मुक्तकेशैः समरे पतितैः शोणित-उक्षितैः । विस्तीर्णा वसुधा कृत्स्ना महा-वेदिः कुशैः इव॥ ३३॥
taiḥ muktakeśaiḥ samare patitaiḥ śoṇita-ukṣitaiḥ . vistīrṇā vasudhā kṛtsnā mahā-vediḥ kuśaiḥ iva.. 33..
तत्क्षणे तु महाघोरं वनं निहतराक्षसम् । बभूव निरयप्रख्यं मांसशोणितकर्दमम्॥ ३४॥
तद्-क्षणे तु महा-घोरम् वनम् निहत-राक्षसम् । बभूव निरय-प्रख्यम् मांस-शोणित-कर्दमम्॥ ३४॥
tad-kṣaṇe tu mahā-ghoram vanam nihata-rākṣasam . babhūva niraya-prakhyam māṃsa-śoṇita-kardamam.. 34..
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् । हतान्येकेन रामेण मानुषेण पदातिना॥ ३५॥
चतुर्दश-सहस्राणि रक्षसाम् भीम-कर्मणाम् । हतानि एकेन रामेण मानुषेण पदातिना॥ ३५॥
caturdaśa-sahasrāṇi rakṣasām bhīma-karmaṇām . hatāni ekena rāmeṇa mānuṣeṇa padātinā.. 35..
तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः । राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः॥ ३६॥
तस्य सैन्यस्य सर्वस्य खरः शेषः महा-रथः । राक्षसः त्रिशिराः च एव रामः च रिपु-सूदनः॥ ३६॥
tasya sainyasya sarvasya kharaḥ śeṣaḥ mahā-rathaḥ . rākṣasaḥ triśirāḥ ca eva rāmaḥ ca ripu-sūdanaḥ.. 36..
शेषा हता महावीर्या राक्षसा रणमूर्धनि । घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते॥ ३७॥
शेषाः हताः महा-वीर्याः राक्षसाः रण-मूर्धनि । घोराः दुर्विषहाः सर्वे लक्ष्मणस्य अग्रजेन ते॥ ३७॥
śeṣāḥ hatāḥ mahā-vīryāḥ rākṣasāḥ raṇa-mūrdhani . ghorāḥ durviṣahāḥ sarve lakṣmaṇasya agrajena te.. 37..
ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा । रथेन रामं महता खरस्ततः समाससादेन्द्र इवोद्यताशनिः॥ ३८॥
ततस् तु तत् भीम-बलम् महा-आहवे समीक्ष्य रामेण हतम् बलीयसा । रथेन रामम् महता खरः ततस् समाससाद इन्द्रः इव उद्यत-अशनिः॥ ३८॥
tatas tu tat bhīma-balam mahā-āhave samīkṣya rāmeṇa hatam balīyasā . rathena rāmam mahatā kharaḥ tatas samāsasāda indraḥ iva udyata-aśaniḥ.. 38..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षड्विंशः सर्गः ॥३-२६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे षड्विंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ṣaḍviṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In