This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तविंशः सर्गः ॥३-२७॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे सप्तविंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe saptaviṃśaḥ sargaḥ ..3..
खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः । राक्षसस्त्रिशिरा नाम संनिपत्येदमब्रवीत्॥ १॥
खरम् तु राम-अभिमुखम् प्रयान्तम् वाहिनीपतिः । राक्षसः त्रिशिराः नाम संनिपत्य इदम् अब्रवीत्॥ १॥
kharam tu rāma-abhimukham prayāntam vāhinīpatiḥ . rākṣasaḥ triśirāḥ nāma saṃnipatya idam abravīt.. 1..
मां नियोजय विक्रान्तं त्वं निवर्तस्व साहसात् । पश्य रामं महाबाहुं संयुगे विनिपातितम्॥ २॥
माम् नियोजय विक्रान्तम् त्वम् निवर्तस्व साहसात् । पश्य रामम् महा-बाहुम् संयुगे विनिपातितम्॥ २॥
mām niyojaya vikrāntam tvam nivartasva sāhasāt . paśya rāmam mahā-bāhum saṃyuge vinipātitam.. 2..
प्रतिजानामि ते सत्यमायुधं चाहमालभे । यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम्॥ ३॥
प्रतिजानामि ते सत्यम् आयुधम् च अहम् आलभे । यथा रामम् वधिष्यामि वध-अर्हम् सर्व-रक्षसाम्॥ ३॥
pratijānāmi te satyam āyudham ca aham ālabhe . yathā rāmam vadhiṣyāmi vadha-arham sarva-rakṣasām.. 3..
अहं वास्य रणे मृत्युरेष वा समरे मम । विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव॥ ४॥
अहम् वा अस्य रणे मृत्युः एष वा समरे मम । विनिवर्त्य रण-उत्साहम् मुहूर्तम् प्राश्निकः भव॥ ४॥
aham vā asya raṇe mṛtyuḥ eṣa vā samare mama . vinivartya raṇa-utsāham muhūrtam prāśnikaḥ bhava.. 4..
प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि । मयि वा निहते रामं संयुगाय प्रयास्यसि॥ ५॥
प्रहृष्टः वा हते रामे जनस्थानम् प्रयास्यसि । मयि वा निहते रामम् संयुगाय प्रयास्यसि॥ ५॥
prahṛṣṭaḥ vā hate rāme janasthānam prayāsyasi . mayi vā nihate rāmam saṃyugāya prayāsyasi.. 5..
खरस्त्रिशिरसा तेन मृत्युलोभात् प्रसादितः । गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ॥ ६॥
खरः त्रिशिरसा तेन मृत्यु-लोभात् प्रसादितः । गच्छ युध्य इति अनुज्ञातः राघव-अभिमुखः ययौ॥ ६॥
kharaḥ triśirasā tena mṛtyu-lobhāt prasāditaḥ . gaccha yudhya iti anujñātaḥ rāghava-abhimukhaḥ yayau.. 6..
त्रिशिरास्तु रथेनैव वाजियुक्तेन भास्वता । अभ्यद्रवद् रणे रामं त्रिशृङ्ग इव पर्वतः॥ ७॥
त्रिशिराः तु रथेन एव वाजि-युक्तेन भास्वता । अभ्यद्रवत् रणे रामम् त्रिशृङ्गः इव पर्वतः॥ ७॥
triśirāḥ tu rathena eva vāji-yuktena bhāsvatā . abhyadravat raṇe rāmam triśṛṅgaḥ iva parvataḥ.. 7..
शरधारासमूहान् स महामेघ इवोत्सृजन् । व्यसृजत् सदृशं नादं जलार्द्रस्येव दुन्दुभेः॥ ८॥
शर-धारा-समूहान् स महा-मेघः इव उत्सृजन् । व्यसृजत् सदृशम् नादम् जल-आर्द्रस्य इव दुन्दुभेः॥ ८॥
śara-dhārā-samūhān sa mahā-meghaḥ iva utsṛjan . vyasṛjat sadṛśam nādam jala-ārdrasya iva dundubheḥ.. 8..
आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः । धनुषा प्रतिजग्राह विधुन्वन् सायकान् शितान्॥ ९॥
आगच्छन्तम् त्रिशिरसम् राक्षसम् प्रेक्ष्य राघवः । धनुषा प्रतिजग्राह विधुन्वन् सायकान् शितान्॥ ९॥
āgacchantam triśirasam rākṣasam prekṣya rāghavaḥ . dhanuṣā pratijagrāha vidhunvan sāyakān śitān.. 9..
स सम्प्रहारस्तुमुलो रामत्रिशिरसोस्तदा । सम्बभूवातिबलिनोः सिंहकुञ्जरयोरिव॥ १०॥
स सम्प्रहारः तुमुलः राम-त्रिशिरसोः तदा । सम्बभूव अति बलिनोः सिंह-कुञ्जरयोः इव॥ १०॥
sa samprahāraḥ tumulaḥ rāma-triśirasoḥ tadā . sambabhūva ati balinoḥ siṃha-kuñjarayoḥ iva.. 10..
ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः । अमर्षी कुपितो रामः संरब्ध इदमब्रवीत्॥ ११॥
ततस् त्रिशिरसा बाणैः ललाटे ताडितः त्रिभिः । अमर्षी कुपितः रामः संरब्धः इदम् अब्रवीत्॥ ११॥
tatas triśirasā bāṇaiḥ lalāṭe tāḍitaḥ tribhiḥ . amarṣī kupitaḥ rāmaḥ saṃrabdhaḥ idam abravīt.. 11..
अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् । पुष्पैरिव शरैर्योऽहं ललाटेऽस्मि परिक्षतः॥ १२॥
अहो विक्रम-शूरस्य राक्षसस्य ईदृशम् बलम् । पुष्पैः इव शरैः यः अहम् ललाटे अस्मि परिक्षतः॥ १२॥
aho vikrama-śūrasya rākṣasasya īdṛśam balam . puṣpaiḥ iva śaraiḥ yaḥ aham lalāṭe asmi parikṣataḥ.. 12..
ममापि प्रतिगृह्णीष्व शरांश्चापगुणाच्च्युतान् । एवमुक्त्वा सुसंरब्धः शरानाशीविषोपमान्॥ १३॥
मम अपि प्रतिगृह्णीष्व शरान् चाप-गुणात् च्युतान् । एवम् उक्त्वा सु संरब्धः शरान् आशीविष-उपमान्॥ १३॥
mama api pratigṛhṇīṣva śarān cāpa-guṇāt cyutān . evam uktvā su saṃrabdhaḥ śarān āśīviṣa-upamān.. 13..
त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश । चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिः॥ १४॥
त्रिशिरः-वक्षसि क्रुद्धः निजघान चतुर्दश । चतुर्भिः तुरगानस्य शरैः संनत-पर्वभिः॥ १४॥
triśiraḥ-vakṣasi kruddhaḥ nijaghāna caturdaśa . caturbhiḥ turagānasya śaraiḥ saṃnata-parvabhiḥ.. 14..
न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः । अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत्॥ १५॥
न्यपातयत तेजस्वी चतुरः तस्य वाजिनः । अष्टभिः सायकैः सूतम् रथोपस्थे न्यपातयत्॥ १५॥
nyapātayata tejasvī caturaḥ tasya vājinaḥ . aṣṭabhiḥ sāyakaiḥ sūtam rathopasthe nyapātayat.. 15..
रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् । ततो हतरथात् तस्मादुत्पतन्तं निशाचरम्॥ १६॥
रामः चिच्छेद बाणेन ध्वजम् च अस्य समुच्छ्रितम् । ततस् हतरथात् तस्मात् उत्पतन्तम् निशाचरम्॥ १६॥
rāmaḥ ciccheda bāṇena dhvajam ca asya samucchritam . tatas hatarathāt tasmāt utpatantam niśācaram.. 16..
चिच्छेद रामस्तं बाणैर्हृदये सोऽभवज्जडः । सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः॥ १७॥
चिच्छेद रामः तम् बाणैः हृदये सः अभवत् जडः । सायकैः च अप्रमेय-आत्मा स अमर्षः तस्य रक्षसः॥ १७॥
ciccheda rāmaḥ tam bāṇaiḥ hṛdaye saḥ abhavat jaḍaḥ . sāyakaiḥ ca aprameya-ātmā sa amarṣaḥ tasya rakṣasaḥ.. 17..
शिरांस्यपातयत् त्रीणि वेगवद्भिस्त्रिभिः शरैः । स धूमशोणितोद्गारी रामबाणाभिपीडितः॥ १८॥
शिरांसि अपातयत् त्रीणि वेगवद्भिः त्रिभिः शरैः । स धूम-शोणित-उद्गारी राम-बाण-अभिपीडितः॥ १८॥
śirāṃsi apātayat trīṇi vegavadbhiḥ tribhiḥ śaraiḥ . sa dhūma-śoṇita-udgārī rāma-bāṇa-abhipīḍitaḥ.. 18..
न्यपतत् पतितैः पूर्वं समरस्थो निशाचरः । हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः॥ १९॥
न्यपतत् पतितैः पूर्वम् समर-स्थः निशाचरः । हत-शेषाः ततस् भग्नाः राक्षसाः खर-संश्रयाः॥ १९॥
nyapatat patitaiḥ pūrvam samara-sthaḥ niśācaraḥ . hata-śeṣāḥ tatas bhagnāḥ rākṣasāḥ khara-saṃśrayāḥ.. 19..
द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव । तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितस्त्वरन् । राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा॥ २०॥
द्रवन्ति स्म न तिष्ठन्ति व्याघ्र-त्रस्ताः मृगाः इव । तान् खरः द्रवतः दृष्ट्वा निवर्त्य रुषितः त्वरन् । रामम् एव अभिदुद्राव राहुः चन्द्रमसम् यथा॥ २०॥
dravanti sma na tiṣṭhanti vyāghra-trastāḥ mṛgāḥ iva . tān kharaḥ dravataḥ dṛṣṭvā nivartya ruṣitaḥ tvaran . rāmam eva abhidudrāva rāhuḥ candramasam yathā.. 20..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तविंशः सर्गः ॥३-२७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे सप्तविंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe saptaviṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In