This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टाविंशः सर्गः ॥३-२८॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे अष्टाविंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe aṣṭāviṃśaḥ sargaḥ ..3..
निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह । खरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम्॥ १॥
निहतम् दूषणम् दृष्ट्वा रणे त्रिशिरसा सह । खरस्य अपि अभवत् त्रासः दृष्ट्वा रामस्य विक्रमम्॥ १॥
nihatam dūṣaṇam dṛṣṭvā raṇe triśirasā saha . kharasya api abhavat trāsaḥ dṛṣṭvā rāmasya vikramam.. 1..
स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम् । हतमेकेन रामेण दूषणस्त्रिशिरा अपि॥ २॥
स दृष्ट्वा राक्षसम् सैन्यम् अविषह्यम् महा-बलम् । हतम् एकेन रामेण दूषणः त्रिशिराः अपि॥ २॥
sa dṛṣṭvā rākṣasam sainyam aviṣahyam mahā-balam . hatam ekena rāmeṇa dūṣaṇaḥ triśirāḥ api.. 2..
तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः । आससाद खरो रामं नमुचिर्वासवं यथा॥ ३॥
तत् बलम् हत-भूयिष्ठम् विमनाः प्रेक्ष्य राक्षसः । आससाद खरः रामम् नमुचिः वासवम् यथा॥ ३॥
tat balam hata-bhūyiṣṭham vimanāḥ prekṣya rākṣasaḥ . āsasāda kharaḥ rāmam namuciḥ vāsavam yathā.. 3..
विकृष्य बलवच्चापं नाराचान् रक्तभोजनान् । खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव॥ ४॥
विकृष्य बलवत् चापम् नाराचान् रक्त-भोजनान् । खरः चिक्षेप रामाय क्रुद्धान् आशीविषान् इव॥ ४॥
vikṛṣya balavat cāpam nārācān rakta-bhojanān . kharaḥ cikṣepa rāmāya kruddhān āśīviṣān iva.. 4..
ज्यां विधुन्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् । चचार समरे मार्गान् शरै रथगतः खरः॥ ५॥
ज्याम् विधुन्वन् सु बहुशस् शिक्षया अस्त्राणि दर्शयन् । चचार समरे मार्गान् शरैः रथ-गतः खरः॥ ५॥
jyām vidhunvan su bahuśas śikṣayā astrāṇi darśayan . cacāra samare mārgān śaraiḥ ratha-gataḥ kharaḥ.. 5..
स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः । पूरयामास तं दृष्ट्वा रामोऽपि सुमहद् धनुः॥ ६॥
स सर्वाः च दिशः बाणैः प्रदिशः च महा-रथः । पूरयामास तम् दृष्ट्वा रामः अपि सु महत् धनुः॥ ६॥
sa sarvāḥ ca diśaḥ bāṇaiḥ pradiśaḥ ca mahā-rathaḥ . pūrayāmāsa tam dṛṣṭvā rāmaḥ api su mahat dhanuḥ.. 6..
स सायकैर्दुर्विषहैर्विस्फुलिङ्गैरिवाग्निभिः । नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः॥ ७॥
स सायकैः दुर्विषहैः विस्फुलिङ्गैः इव अग्निभिः । नभः चकार अ विवरम् पर्जन्यः इव वृष्टिभिः॥ ७॥
sa sāyakaiḥ durviṣahaiḥ visphuliṅgaiḥ iva agnibhiḥ . nabhaḥ cakāra a vivaram parjanyaḥ iva vṛṣṭibhiḥ.. 7..
तद् बभूव शितैर्बाणैः खररामविसर्जितैः । पर्याकाशमनाकाशं सर्वतः शरसंकुलम्॥ ८॥
तत् बभूव शितैः बाणैः खर-राम-विसर्जितैः । परि आकाशम् अन् आकाशम् सर्वतस् शर-संकुलम्॥ ८॥
tat babhūva śitaiḥ bāṇaiḥ khara-rāma-visarjitaiḥ . pari ākāśam an ākāśam sarvatas śara-saṃkulam.. 8..
शरजालावृतः सूर्यो न तदा स्म प्रकाशते । अन्योन्यवधसंरम्भादुभयोः सम्प्रयुध्यतोः॥ ९॥
शर-जाल-आवृतः सूर्यः न तदा स्म प्रकाशते । अन्योन्य-वध-संरम्भात् उभयोः सम्प्रयुध्यतोः॥ ९॥
śara-jāla-āvṛtaḥ sūryaḥ na tadā sma prakāśate . anyonya-vadha-saṃrambhāt ubhayoḥ samprayudhyatoḥ.. 9..
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः । आजघान रणे रामं तोत्रैरिव महाद्विपम्॥ १०॥
ततस् नालीक-नाराचैः तीक्ष्ण-अग्रैः च विकर्णिभिः । आजघान रणे रामम् तोत्रैः इव महा-द्विपम्॥ १०॥
tatas nālīka-nārācaiḥ tīkṣṇa-agraiḥ ca vikarṇibhiḥ . ājaghāna raṇe rāmam totraiḥ iva mahā-dvipam.. 10..
तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् । ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम्॥ ११॥
तम् रथ-स्थम् धनुष्पाणिम् राक्षसम् पर्यवस्थितम् । ददृशुः सर्व-भूतानि पाश-हस्तम् इव अन्तकम्॥ ११॥
tam ratha-stham dhanuṣpāṇim rākṣasam paryavasthitam . dadṛśuḥ sarva-bhūtāni pāśa-hastam iva antakam.. 11..
हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम् । परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा॥ १२॥
हन्तारम् सर्व-सैन्यस्य पौरुषे पर्यवस्थितम् । परिश्रान्तम् महा-सत्त्वम् मेने रामम् खरः तदा॥ १२॥
hantāram sarva-sainyasya pauruṣe paryavasthitam . pariśrāntam mahā-sattvam mene rāmam kharaḥ tadā.. 12..
तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् । दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा॥ १३॥
तम् सिंहम् इव विक्रान्तम् सिंह-विक्रान्त-गामिनम् । दृष्ट्वा न उद्विजते रामः सिंहः क्षुद्र-मृगम् यथा॥ १३॥
tam siṃham iva vikrāntam siṃha-vikrānta-gāminam . dṛṣṭvā na udvijate rāmaḥ siṃhaḥ kṣudra-mṛgam yathā.. 13..
ततः सूर्यनिकाशेन रथेन महता खरः । आससादाथ तं रामं पतङ्ग इव पावकम्॥ १४॥
ततस् सूर्य-निकाशेन रथेन महता खरः । आससाद अथ तम् रामम् पतङ्गः इव पावकम्॥ १४॥
tatas sūrya-nikāśena rathena mahatā kharaḥ . āsasāda atha tam rāmam pataṅgaḥ iva pāvakam.. 14..
ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः । खरश्चिच्छेद रामस्य दर्शयन् हस्तलाघवम्॥ १५॥
ततस् अस्य स शरम् चापम् मुष्टिदेशे महात्मनः । खरः चिच्छेद रामस्य दर्शयन् हस्त-लाघवम्॥ १५॥
tatas asya sa śaram cāpam muṣṭideśe mahātmanaḥ . kharaḥ ciccheda rāmasya darśayan hasta-lāghavam.. 15..
स पुनस्त्वपरान् सप्त शरानादाय मर्मणि । निजघान रणे क्रुद्धः शक्राशनिसमप्रभान्॥ १६॥
स पुनर् तु अपरान् सप्त शरान् आदाय मर्मणि । निजघान रणे क्रुद्धः शक्र-अशनि-सम-प्रभान्॥ १६॥
sa punar tu aparān sapta śarān ādāya marmaṇi . nijaghāna raṇe kruddhaḥ śakra-aśani-sama-prabhān.. 16..
ततः शरसहस्रेण राममप्रतिमौजसम् । अर्दयित्वा महानादं ननाद समरे खरः॥ १७॥
ततस् शर-सहस्रेण रामम् अप्रतिम-ओजसम् । अर्दयित्वा महा-नादम् ननाद समरे खरः॥ १७॥
tatas śara-sahasreṇa rāmam apratima-ojasam . ardayitvā mahā-nādam nanāda samare kharaḥ.. 17..
ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः । पपात कवचं भूमौ रामस्यादित्यवर्चसम्॥ १८॥
ततस् तत् प्रहतम् बाणैः खर-मुक्तैः सु पर्वभिः । पपात कवचम् भूमौ रामस्य आदित्य-वर्चसम्॥ १८॥
tatas tat prahatam bāṇaiḥ khara-muktaiḥ su parvabhiḥ . papāta kavacam bhūmau rāmasya āditya-varcasam.. 18..
स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः । रराज समरे रामो विधूमोऽग्निरिव ज्वलन्॥ १९॥
स शरैः अर्पितः क्रुद्धः सर्व-गात्रेषु राघवः । रराज समरे रामः विधूमः अग्निः इव ज्वलन्॥ १९॥
sa śaraiḥ arpitaḥ kruddhaḥ sarva-gātreṣu rāghavaḥ . rarāja samare rāmaḥ vidhūmaḥ agniḥ iva jvalan.. 19..
ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः । चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः॥ २०॥
ततस् गम्भीर-निर्ह्रादम् रामः शत्रु-निबर्हणः । चकार अन्ताय स रिपोः सज्यम् अन्यत् महत् धनुः॥ २०॥
tatas gambhīra-nirhrādam rāmaḥ śatru-nibarhaṇaḥ . cakāra antāya sa ripoḥ sajyam anyat mahat dhanuḥ.. 20..
सुमहद् वैष्णवं यत् तदतिसृष्टं महर्षिणा । वरं तद् धनुरुद्यम्य खरं समभिधावत॥ २१॥
सु महत् वैष्णवम् यत् तत् अतिसृष्टम् महा-ऋषिणा । वरम् तत् धनुः उद्यम्य खरम् समभिधावत॥ २१॥
su mahat vaiṣṇavam yat tat atisṛṣṭam mahā-ṛṣiṇā . varam tat dhanuḥ udyamya kharam samabhidhāvata.. 21..
ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः । चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम्॥ २२॥
ततस् कनक-पुङ्खैः तु शरैः संनत-पर्वभिः । चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम्॥ २२॥
tatas kanaka-puṅkhaiḥ tu śaraiḥ saṃnata-parvabhiḥ . ciccheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam.. 22..
स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः । जगाम धरणीं सूर्यो देवतानामिवाज्ञया॥ २३॥
स दर्शनीयः बहुधा विच्छिन्नः काञ्चनः ध्वजः । जगाम धरणीम् सूर्यः देवतानाम् इव आज्ञया॥ २३॥
sa darśanīyaḥ bahudhā vicchinnaḥ kāñcanaḥ dhvajaḥ . jagāma dharaṇīm sūryaḥ devatānām iva ājñayā.. 23..
तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः । विव्याध हृदि मर्मज्ञो मातङ्गमिव तोमरैः॥ २४॥
तम् चतुर्भिः खरः क्रुद्धः रामम् गात्रेषु मार्गणैः । विव्याध हृदि मर्म-ज्ञः मातङ्गम् इव तोमरैः॥ २४॥
tam caturbhiḥ kharaḥ kruddhaḥ rāmam gātreṣu mārgaṇaiḥ . vivyādha hṛdi marma-jñaḥ mātaṅgam iva tomaraiḥ.. 24..
स रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः । विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम्॥ २५॥
स रामः बहुभिः बाणैः खर-कार्मुक-निःसृतैः । विद्धः रुधिर-सिक्त-अङ्गः बभूव रुषितः भृशम्॥ २५॥
sa rāmaḥ bahubhiḥ bāṇaiḥ khara-kārmuka-niḥsṛtaiḥ . viddhaḥ rudhira-sikta-aṅgaḥ babhūva ruṣitaḥ bhṛśam.. 25..
स धनुर्धन्विनां श्रेष्ठः संगृह्य परमाहवे । मुमोच परमेष्वासः षट् शरानभिलक्षितान्॥ २६॥
स धनुः धन्विनाम् श्रेष्ठः संगृह्य परम-आहवे । मुमोच परम-इष्वासः षट् शरान् अभिलक्षितान्॥ २६॥
sa dhanuḥ dhanvinām śreṣṭhaḥ saṃgṛhya parama-āhave . mumoca parama-iṣvāsaḥ ṣaṭ śarān abhilakṣitān.. 26..
शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत् । त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह॥ २७॥
शिरसि एकेन बाणेन द्वाभ्याम् बाह्वोः अथ अर्पयत् । त्रिभिः चन्द्र-अर्ध-वक्त्रैः च वक्षसि अभिजघान ह॥ २७॥
śirasi ekena bāṇena dvābhyām bāhvoḥ atha arpayat . tribhiḥ candra-ardha-vaktraiḥ ca vakṣasi abhijaghāna ha.. 27..
ततः पश्चान्महातेजा नाराचान् भास्करोपमान् । जघान राक्षसं क्रुद्धस्त्रयोदश शिलाशितान्॥ २८॥
ततस् पश्चात् महा-तेजाः नाराचान् भास्कर-उपमान् । जघान राक्षसम् क्रुद्धः त्रयोदश शिला-शितान्॥ २८॥
tatas paścāt mahā-tejāḥ nārācān bhāskara-upamān . jaghāna rākṣasam kruddhaḥ trayodaśa śilā-śitān.. 28..
रथस्य युगमेकेन चतुर्भिः शबलान् हयान् । षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः॥ २९॥
रथस्य युगम् एकेन चतुर्भिः शबलान् हयान् । षष्ठेन च शिरः संख्ये चिच्छेद खर-सारथेः॥ २९॥
rathasya yugam ekena caturbhiḥ śabalān hayān . ṣaṣṭhena ca śiraḥ saṃkhye ciccheda khara-sāratheḥ.. 29..
त्रिभिस्त्रिवेणून् बलवान् द्वाभ्यामक्षं महाबलः । द्वादशेन तु बाणेन खरस्य सशरं धनुः॥ ३०॥
त्रिभिः त्रिवेणून् बलवान् द्वाभ्याम् अक्षम् महा-बलः । द्वादशेन तु बाणेन खरस्य स शरम् धनुः॥ ३०॥
tribhiḥ triveṇūn balavān dvābhyām akṣam mahā-balaḥ . dvādaśena tu bāṇena kharasya sa śaram dhanuḥ.. 30..
छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव । त्रयोदशेनेन्द्रसमो बिभेद समरे खरम्॥ ३१॥
छित्त्वा वज्र-निकाशेन राघवः प्रहसन् इव । त्रयोदशेन इन्द्र-समः बिभेद समरे खरम्॥ ३१॥
chittvā vajra-nikāśena rāghavaḥ prahasan iva . trayodaśena indra-samaḥ bibheda samare kharam.. 31..
प्रभग्नधन्वा विरथो हताश्वो हतसारथिः । गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा॥ ३२॥
प्रभग्न-धन्वा विरथः हत-अश्वः हत-सारथिः । गदा-पाणिः अवप्लुत्य तस्थौ भूमौ खरः तदा॥ ३२॥
prabhagna-dhanvā virathaḥ hata-aśvaḥ hata-sārathiḥ . gadā-pāṇiḥ avaplutya tasthau bhūmau kharaḥ tadā.. 32..
तत् कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च । अपूजयन् प्राञ्जलयः प्रहृष्टा- स्तदा विमानाग्रगताः समेताः॥ ३३॥
तत् कर्म रामस्य महा-रथस्य समेत्य देवाः च महा-ऋषयः च । अपूजयन् प्राञ्जलयः प्रहृष्टाः तदा विमान-अग्र-गताः समेताः॥ ३३॥
tat karma rāmasya mahā-rathasya sametya devāḥ ca mahā-ṛṣayaḥ ca . apūjayan prāñjalayaḥ prahṛṣṭāḥ tadā vimāna-agra-gatāḥ sametāḥ.. 33..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टाविंशः सर्गः ॥३-२८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे अष्टाविंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe aṣṭāviṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In