This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे तृतीयः सर्गः ॥३-३॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे तृतीयः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe tṛtīyaḥ sargaḥ ..3..
अथोवाच पुनर्वाक्यं विराधः पूरयन् वनम् । पृच्छतो मम हि ब्रूतं कौ युवां क्व गमिष्यथः॥ १॥
अथा उवाच पुनर् वाक्यम् विराधः पूरयन् वनम् । पृच्छतः मम हि ब्रूतम् कौ युवाम् क्व गमिष्यथः॥ १॥
athā uvāca punar vākyam virādhaḥ pūrayan vanam . pṛcchataḥ mama hi brūtam kau yuvām kva gamiṣyathaḥ.. 1..
तमुवाच ततो रामो राक्षसं ज्वलिताननम् । पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः॥ २॥
तम् उवाच ततस् रामः राक्षसम् ज्वलित-आननम् । पृच्छन्तम् सु महा-तेजाः इक्ष्वाकु-कुलम् आत्मनः॥ २॥
tam uvāca tatas rāmaḥ rākṣasam jvalita-ānanam . pṛcchantam su mahā-tejāḥ ikṣvāku-kulam ātmanaḥ.. 2..
क्षत्रियौ वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ । त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान्॥ ३॥
क्षत्रियौ वृत्त-सम्पन्नौ विद्धि नौ वन-गोचरौ । त्वाम् तु वेदितुम् इच्छावः कः त्वम् चरसि दण्डकान्॥ ३॥
kṣatriyau vṛtta-sampannau viddhi nau vana-gocarau . tvām tu veditum icchāvaḥ kaḥ tvam carasi daṇḍakān.. 3..
तमुवाच विराधस्तु रामं सत्यपराक्रमम् । हन्त वक्ष्यामि ते राजन् निबोध मम राघव॥ ४॥
तम् उवाच विराधः तु रामम् सत्य-पराक्रमम् । हन्त वक्ष्यामि ते राजन् निबोध मम राघव॥ ४॥
tam uvāca virādhaḥ tu rāmam satya-parākramam . hanta vakṣyāmi te rājan nibodha mama rāghava.. 4..
पुत्रः किल जवस्याहं माता मम शतह्रदा । विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः॥ ५॥
पुत्रः किल जवस्य अहम् माता मम शतह्रदा । विराधः इति माम् आहुः पृथिव्याम् सर्व-राक्षसाः॥ ५॥
putraḥ kila javasya aham mātā mama śatahradā . virādhaḥ iti mām āhuḥ pṛthivyām sarva-rākṣasāḥ.. 5..
तपसा चाभिसम्प्राप्ता ब्रह्मणो हि प्रसादजा । शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च॥ ६॥
तपसा च अभिसम्प्राप्ता ब्रह्मणः हि प्रसाद-जा । शस्त्रेण अवध्य-ता लोके अच्छेद्य-अभेद्य-त्वम् एव च॥ ६॥
tapasā ca abhisamprāptā brahmaṇaḥ hi prasāda-jā . śastreṇa avadhya-tā loke acchedya-abhedya-tvam eva ca.. 6..
उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम् । त्वरमाणौ पलायेथां न वां जीवितमाददे॥ ७॥
उत्सृज्य प्रमदाम् एनाम् अनपेक्षौ यथागतम् । त्वरमाणौ पलायेथाम् न वाम् जीवितम् आददे॥ ७॥
utsṛjya pramadām enām anapekṣau yathāgatam . tvaramāṇau palāyethām na vām jīvitam ādade.. 7..
तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः । राक्षसं विकृताकारं विराधं पापचेतसम्॥ ८॥
तम् रामः प्रत्युवाच इदम् कोप-संरक्त-लोचनः । राक्षसम् विकृत-आकारम् विराधम् पाप-चेतसम्॥ ८॥
tam rāmaḥ pratyuvāca idam kopa-saṃrakta-locanaḥ . rākṣasam vikṛta-ākāram virādham pāpa-cetasam.. 8..
क्षुद्र धिक् त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम् । रणे प्राप्स्यसि संतिष्ठ न मे जीवन् विमोक्ष्यसे॥ ९॥
क्षुद्र धिक् त्वाम् तु हीन-अर्थम् मृत्युम् अन्वेषसे ध्रुवम् । रणे प्राप्स्यसि संतिष्ठ न मे जीवन् विमोक्ष्यसे॥ ९॥
kṣudra dhik tvām tu hīna-artham mṛtyum anveṣase dhruvam . raṇe prāpsyasi saṃtiṣṭha na me jīvan vimokṣyase.. 9..
ततः सज्यं धनुः कृत्वा रामः सुनिशितान् शरान् । सुशीघ्रमभिसंधाय राक्षसं निजघान ह॥ १०॥
ततस् सज्यम् धनुः कृत्वा रामः सु निशितान् शरान् । सु शीघ्रम् अभिसंधाय राक्षसम् निजघान ह॥ १०॥
tatas sajyam dhanuḥ kṛtvā rāmaḥ su niśitān śarān . su śīghram abhisaṃdhāya rākṣasam nijaghāna ha.. 10..
धनुषा ज्यागुणवता सप्त बाणान् मुमोच ह । रुक्मपुङ्खान् महावेगान् सुपर्णानिलतुल्यगान्॥ ११॥
धनुषा ज्या-गुणवता सप्त बाणान् मुमोच ह । रुक्म-पुङ्खान् महा-वेगान् सुपर्ण-अनिल-तुल्य-गान्॥ ११॥
dhanuṣā jyā-guṇavatā sapta bāṇān mumoca ha . rukma-puṅkhān mahā-vegān suparṇa-anila-tulya-gān.. 11..
ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः । निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः॥ १२॥
ते शरीरम् विराधस्य भित्त्वा बर्हिण-वाससः । निपेतुः शोणित-आदिग्धाः धरण्याम् पावक-उपमाः॥ १२॥
te śarīram virādhasya bhittvā barhiṇa-vāsasaḥ . nipetuḥ śoṇita-ādigdhāḥ dharaṇyām pāvaka-upamāḥ.. 12..
स विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः । अभ्यद्रवत् सुसंक्रुद्धस्तदा रामं सलक्ष्मणम्॥ १३॥
स विद्धः न्यस्य वैदेहीम् शूलम् उद्यम्य राक्षसः । अभ्यद्रवत् सु संक्रुद्धः तदा रामम् स लक्ष्मणम्॥ १३॥
sa viddhaḥ nyasya vaidehīm śūlam udyamya rākṣasaḥ . abhyadravat su saṃkruddhaḥ tadā rāmam sa lakṣmaṇam.. 13..
स विनद्य महानादं शूलं शक्रध्वजोपमम् । प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः॥ १४॥
स विनद्य महा-नादम् शूलम् शक्र-ध्वज-उपमम् । प्रगृह्य अशोभत तदा व्यात्त-आननः इव अन्तकः॥ १४॥
sa vinadya mahā-nādam śūlam śakra-dhvaja-upamam . pragṛhya aśobhata tadā vyātta-ānanaḥ iva antakaḥ.. 14..
अथ तौ भ्रातरौ दीप्तं शरवर्षं ववर्षतुः । विराधे राक्षसे तस्मिन् कालान्तकयमोपमे॥ १५॥
अथ तौ भ्रातरौ दीप्तम् शर-वर्षम् ववर्षतुः । विराधे राक्षसे तस्मिन् काल-अन्तक-यम-उपमे॥ १५॥
atha tau bhrātarau dīptam śara-varṣam vavarṣatuḥ . virādhe rākṣase tasmin kāla-antaka-yama-upame.. 15..
स प्रहस्य महारौद्रः स्थित्वाजृम्भत राक्षसः । जृम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः॥ १६॥
स प्रहस्य महा-रौद्रः स्थित्वा अजृम्भत राक्षसः । जृम्भमाणस्य ते बाणाः कायात् निष्पेतुः आशुगाः॥ १६॥
sa prahasya mahā-raudraḥ sthitvā ajṛmbhata rākṣasaḥ . jṛmbhamāṇasya te bāṇāḥ kāyāt niṣpetuḥ āśugāḥ.. 16..
स्पर्शात् तु वरदानेन प्राणान् संरोध्य राक्षसः । विराधः शूलमुद्यम्य राघवावभ्यधावत॥ १७॥
स्पर्शात् तु वर-दानेन प्राणान् संरोध्य राक्षसः । विराधः शूलम् उद्यम्य राघवौ अभ्यधावत॥ १७॥
sparśāt tu vara-dānena prāṇān saṃrodhya rākṣasaḥ . virādhaḥ śūlam udyamya rāghavau abhyadhāvata.. 17..
तच्छूलं वज्रसंकाशं गगने ज्वलनोपमम् । द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः॥ १८॥
तत् शूलम् वज्र-संकाशम् गगने ज्वलन-उपमम् । द्वाभ्याम् शराभ्याम् चिच्छेद रामः शस्त्रभृताम् वरः॥ १८॥
tat śūlam vajra-saṃkāśam gagane jvalana-upamam . dvābhyām śarābhyām ciccheda rāmaḥ śastrabhṛtām varaḥ.. 18..
तद् रामविशिखैश्छिन्नं शूलं तस्यापतद् भुवि । पपाताशनिना छिन्नं मेरोरिव शिलातलम्॥ १९॥
तत् राम-विशिखैः छिन्नम् शूलम् तस्य अपतत् भुवि । पपात अशनिना छिन्नम् मेरोः इव शिला-तलम्॥ १९॥
tat rāma-viśikhaiḥ chinnam śūlam tasya apatat bhuvi . papāta aśaninā chinnam meroḥ iva śilā-talam.. 19..
तौ खड्गौ क्षिप्रमुद्यम्य कृष्णसर्पाविवोद्यतौ । तूर्णमापेततुस्तस्य तदा प्रहरतां बलात्॥ २०॥
तौ खड्गौ क्षिप्रम् उद्यम्य कृष्ण-सर्पौ इव उद्यतौ । तूर्णम् आपेततुः तस्य तदा प्रहरताम् बलात्॥ २०॥
tau khaḍgau kṣipram udyamya kṛṣṇa-sarpau iva udyatau . tūrṇam āpetatuḥ tasya tadā praharatām balāt.. 20..
स वध्यमानः सुभृशं भुजाभ्यां परिगृह्य तौ । अप्रकम्प्यौ नरव्याघ्रौ रौद्रः प्रस्थातुमैच्छत॥ २१॥
स वध्यमानः सु भृशम् भुजाभ्याम् परिगृह्य तौ । अप्रकम्प्यौ नर-व्याघ्रौ रौद्रः प्रस्थातुम् ऐच्छत॥ २१॥
sa vadhyamānaḥ su bhṛśam bhujābhyām parigṛhya tau . aprakampyau nara-vyāghrau raudraḥ prasthātum aicchata.. 21..
तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत् । वहत्वयमलं तावत् पथानेन तु राक्षसः॥ २२॥
तस्य अभिप्रायम् आज्ञाय रामः लक्ष्मणम् अब्रवीत् । वहतु अयम् अलम् तावत् पथा अनेन तु राक्षसः॥ २२॥
tasya abhiprāyam ājñāya rāmaḥ lakṣmaṇam abravīt . vahatu ayam alam tāvat pathā anena tu rākṣasaḥ.. 22..
यथा चेच्छति सौमित्रे तथा वहतु राक्षसः । अयमेव हि नः पन्था येन याति निशाचरः॥ २३॥
यथा च इच्छति सौमित्रे तथा वहतु राक्षसः । अयम् एव हि नः पन्थाः येन याति निशाचरः॥ २३॥
yathā ca icchati saumitre tathā vahatu rākṣasaḥ . ayam eva hi naḥ panthāḥ yena yāti niśācaraḥ.. 23..
स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः । बालाविव स्कन्धगतौ चकारातिबलोद्धतः॥ २४॥
स तु स्व-बल-वीर्येण समुत्क्षिप्य निशाचरः । बालौ इव स्कन्ध-गतौ चकार अति बल-उद्धतः॥ २४॥
sa tu sva-bala-vīryeṇa samutkṣipya niśācaraḥ . bālau iva skandha-gatau cakāra ati bala-uddhataḥ.. 24..
तावारोप्य ततः स्कन्धं राघवौ रजनीचरः । विराधो विनदन् घोरं जगामाभिमुखो वनम्॥ २५॥
तौ आरोप्य ततस् स्कन्धम् राघवौ रजनीचरः । विराधः विनदन् घोरम् जगाम अभिमुखः वनम्॥ २५॥
tau āropya tatas skandham rāghavau rajanīcaraḥ . virādhaḥ vinadan ghoram jagāma abhimukhaḥ vanam.. 25..
वनं महामेघनिभं प्रविष्टो द्रुमैर्महद्भिर्विविधैरुपेतम् । नानाविधैः पक्षिकुलैर्विचित्रं शिवायुतं व्यालमृगैर्विकीर्णम्॥ २६॥
वनम् महा-मेघ-निभम् प्रविष्टः द्रुमैः महद्भिः विविधैः उपेतम् । नानाविधैः पक्षि-कुलैः विचित्रम् शिव-आयुतम् व्याल-मृगैः विकीर्णम्॥ २६॥
vanam mahā-megha-nibham praviṣṭaḥ drumaiḥ mahadbhiḥ vividhaiḥ upetam . nānāvidhaiḥ pakṣi-kulaiḥ vicitram śiva-āyutam vyāla-mṛgaiḥ vikīrṇam.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे तृतीयः सर्गः ॥३-३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे तृतीयः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe tṛtīyaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In