This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिंशः सर्गः ॥३-३०॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे त्रिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe triṃśaḥ sargaḥ ..3..
भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः । स्मयमान इदं वाक्यं संरब्धमिदमब्रवीत्॥ १॥
भित्त्वा तु ताम् गदाम् बाणैः राघवः धर्म-वत्सलः । स्मयमानः इदम् वाक्यम् संरब्धम् इदम् अब्रवीत्॥ १॥
bhittvā tu tām gadām bāṇaiḥ rāghavaḥ dharma-vatsalaḥ . smayamānaḥ idam vākyam saṃrabdham idam abravīt.. 1..
एतत् ते बलसर्वस्वं दर्शितं राक्षसाधम । शक्तिहीनतरो मत्तो वृथा त्वमुपगर्जसि॥ २॥
एतत् ते बल-सर्वस्वम् दर्शितम् राक्षस-अधम । शक्ति-हीनतरः मत्तः वृथा त्वम् उपगर्जसि॥ २॥
etat te bala-sarvasvam darśitam rākṣasa-adhama . śakti-hīnataraḥ mattaḥ vṛthā tvam upagarjasi.. 2..
एषा बाणविनिर्भिन्ना गदा भूमितलं गता । अभिधानप्रगल्भस्य तव प्रत्ययघातिनी॥ ३॥
एषा बाण-विनिर्भिन्ना गदा भूमि-तलम् गता । अभिधान-प्रगल्भस्य तव प्रत्यय-घातिनी॥ ३॥
eṣā bāṇa-vinirbhinnā gadā bhūmi-talam gatā . abhidhāna-pragalbhasya tava pratyaya-ghātinī.. 3..
यत् त्वयोक्तं विनष्टानामिदमश्रुप्रमार्जनम् । राक्षसानां करोमीति मिथ्या तदपि ते वचः॥ ४॥
यत् त्वया उक्तम् विनष्टानाम् इदम् अश्रु-प्रमार्जनम् । राक्षसानाम् करोमि इति मिथ्या तत् अपि ते वचः॥ ४॥
yat tvayā uktam vinaṣṭānām idam aśru-pramārjanam . rākṣasānām karomi iti mithyā tat api te vacaḥ.. 4..
नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः । प्राणानपहरिष्यामि गरुत्मानमृतं यथा॥ ५॥
नीचस्य क्षुद्र-शीलस्य मिथ्या वृत्तस्य रक्षसः । प्राणान् अपहरिष्यामि गरुत्मान् अमृतम् यथा॥ ५॥
nīcasya kṣudra-śīlasya mithyā vṛttasya rakṣasaḥ . prāṇān apahariṣyāmi garutmān amṛtam yathā.. 5..
अद्य ते भिन्नकण्ठस्य फेनबुद्बुदभूषितम् । विदारितस्य मद्बाणैर्मही पास्यति शोणितम्॥ ६॥
अद्य ते भिन्न-कण्ठस्य फेन-बुद्बुद-भूषितम् । विदारितस्य मद्-बाणैः मही पास्यति शोणितम्॥ ६॥
adya te bhinna-kaṇṭhasya phena-budbuda-bhūṣitam . vidāritasya mad-bāṇaiḥ mahī pāsyati śoṇitam.. 6..
पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः । स्वप्स्यसे गां समाश्लिष्य दुर्लभां प्रमदामिव॥ ७॥
पांसु-रूषित-सर्व-अङ्गः स्रस्त-न्यस्त-भुज-द्वयः । स्वप्स्यसे गाम् समाश्लिष्य दुर्लभाम् प्रमदाम् इव॥ ७॥
pāṃsu-rūṣita-sarva-aṅgaḥ srasta-nyasta-bhuja-dvayaḥ . svapsyase gām samāśliṣya durlabhām pramadām iva.. 7..
प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने । भविष्यन्ति शरण्यानां शरण्या दण्डका इमे॥ ८॥
प्रवृद्ध-निद्रे शयिते त्वयि राक्षस-पांसने । भविष्यन्ति शरण्यानाम् शरण्याः दण्डकाः इमे॥ ८॥
pravṛddha-nidre śayite tvayi rākṣasa-pāṃsane . bhaviṣyanti śaraṇyānām śaraṇyāḥ daṇḍakāḥ ime.. 8..
जनस्थाने हतस्थाने तव राक्षस मच्छरैः । निर्भया विचरिष्यन्ति सर्वतो मुनयो वने॥ ९॥
जनस्थाने हत-स्थाने तव राक्षस मद्-शरैः । निर्भयाः विचरिष्यन्ति सर्वतस् मुनयः वने॥ ९॥
janasthāne hata-sthāne tava rākṣasa mad-śaraiḥ . nirbhayāḥ vicariṣyanti sarvatas munayaḥ vane.. 9..
अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः । बाष्पार्द्रवदना दीना भयादन्यभयावहाः॥ १०॥
अद्य विप्रसरिष्यन्ति राक्षस्यः हत-बान्धवाः । बाष्प-आर्द्र-वदनाः दीनाः भयात् अन्य-भय-आवहाः॥ १०॥
adya viprasariṣyanti rākṣasyaḥ hata-bāndhavāḥ . bāṣpa-ārdra-vadanāḥ dīnāḥ bhayāt anya-bhaya-āvahāḥ.. 10..
अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थिकाः । अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः॥ ११॥
अद्य शोक-रसज्ञाः ताः भविष्यन्ति निरर्थिकाः । अनुरूप-कुलाः पत्न्यः यासाम् त्वम् पतिः ईदृशः॥ ११॥
adya śoka-rasajñāḥ tāḥ bhaviṣyanti nirarthikāḥ . anurūpa-kulāḥ patnyaḥ yāsām tvam patiḥ īdṛśaḥ.. 11..
नृशंसशील क्षुद्रात्मन् नित्यं ब्राह्मणकण्टक । त्वत्कृते शङ्कितैरग्नौ मुनिभिः पात्यते हविः॥ १२॥
नृशंस-शील क्षुद्र-आत्मन् नित्यम् ब्राह्मण-कण्टक । त्वद्-कृते शङ्कितैः अग्नौ मुनिभिः पात्यते हविः॥ १२॥
nṛśaṃsa-śīla kṣudra-ātman nityam brāhmaṇa-kaṇṭaka . tvad-kṛte śaṅkitaiḥ agnau munibhiḥ pātyate haviḥ.. 12..
तमेवमभिसंरब्धं ब्रुवाणं राघवं वने । खरो निर्भर्त्सयामास रोषात् खरतरस्वरः॥ १३॥
तम् एवम् अभिसंरब्धम् ब्रुवाणम् राघवम् वने । खरः निर्भर्त्सयामास रोषात् खरतर-स्वरः॥ १३॥
tam evam abhisaṃrabdham bruvāṇam rāghavam vane . kharaḥ nirbhartsayāmāsa roṣāt kharatara-svaraḥ.. 13..
दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः । वाच्यावाच्यं ततो हि त्वं मृत्योर्वश्यो न बुध्यसे॥ १४॥
दृढम् खलु अवलिप्तः असि भयेषु अपि च निर्भयः । वाच्य-अवाच्यम् ततस् हि त्वम् मृत्योः वश्यः न बुध्यसे॥ १४॥
dṛḍham khalu avaliptaḥ asi bhayeṣu api ca nirbhayaḥ . vācya-avācyam tatas hi tvam mṛtyoḥ vaśyaḥ na budhyase.. 14..
कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये । कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः॥ १५॥
काल-पाश-परिक्षिप्ताः भवन्ति पुरुषाः हि ये । कार्य-अकार्यम् न जानन्ति ते निरस्त-षष्-इन्द्रियाः॥ १५॥
kāla-pāśa-parikṣiptāḥ bhavanti puruṣāḥ hi ye . kārya-akāryam na jānanti te nirasta-ṣaṣ-indriyāḥ.. 15..
एवमुक्त्वा ततो रामं संरुध्य भृकुटिं ततः । स ददर्श महासालमविदूरे निशाचरः॥ १६॥
एवम् उक्त्वा ततस् रामम् संरुध्य भृकुटिम् ततस् । स ददर्श महा-सालम् अविदूरे निशाचरः॥ १६॥
evam uktvā tatas rāmam saṃrudhya bhṛkuṭim tatas . sa dadarśa mahā-sālam avidūre niśācaraḥ.. 16..
रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् । स तमुत्पाटयामास संदष्टदशनच्छदम्॥ १७॥
रणे प्रहरणस्य अर्थे सर्वतस् हि अवलोकयन् । स तम् उत्पाटयामास संदष्ट-दशनच्छदम्॥ १७॥
raṇe praharaṇasya arthe sarvatas hi avalokayan . sa tam utpāṭayāmāsa saṃdaṣṭa-daśanacchadam.. 17..
तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः । राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत्॥ १८॥
तम् समुत्क्षिप्य बाहुभ्याम् विनर्दित्वा महा-बलः । रामम् उद्दिश्य चिक्षेप हतः त्वम् इति च अब्रवीत्॥ १८॥
tam samutkṣipya bāhubhyām vinarditvā mahā-balaḥ . rāmam uddiśya cikṣepa hataḥ tvam iti ca abravīt.. 18..
तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान् । रोषमाहारयत् तीव्रं निहन्तुं समरे खरम्॥ १९॥
तम् आपतन्तम् बाण-ओघैः छित्त्वा रामः प्रतापवान् । रोषम् आहारयत् तीव्रम् निहन्तुम् समरे खरम्॥ १९॥
tam āpatantam bāṇa-oghaiḥ chittvā rāmaḥ pratāpavān . roṣam āhārayat tīvram nihantum samare kharam.. 19..
जातस्वेदस्ततो रामो रोषरक्तान्तलोचनः । निर्बिभेद सहस्रेण बाणानां समरे खरम्॥ २०॥
जात-स्वेदः ततस् रामः रोष-रक्त-अन्त-लोचनः । निर्बिभेद सहस्रेण बाणानाम् समरे खरम्॥ २०॥
jāta-svedaḥ tatas rāmaḥ roṣa-rakta-anta-locanaḥ . nirbibheda sahasreṇa bāṇānām samare kharam.. 20..
तस्य बाणान्तराद् रक्तं बहु सुस्राव फेनिलम् । गिरेः प्रस्रवणस्येव धाराणां च परिस्रवः॥ २१॥
तस्य बाण-अन्तरात् रक्तम् बहु सुस्राव फेनिलम् । गिरेः प्रस्रवणस्य इव धाराणाम् च परिस्रवः॥ २१॥
tasya bāṇa-antarāt raktam bahu susrāva phenilam . gireḥ prasravaṇasya iva dhārāṇām ca parisravaḥ.. 21..
विकलः स कृतो बाणैः खरो रामेण संयुगे । मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद् द्रुतम्॥ २२॥
विकलः स कृतः बाणैः खरः रामेण संयुगे । मत्तः रुधिर-गन्धेन तम् एवा अभ्यद्रवत् द्रुतम्॥ २२॥
vikalaḥ sa kṛtaḥ bāṇaiḥ kharaḥ rāmeṇa saṃyuge . mattaḥ rudhira-gandhena tam evā abhyadravat drutam.. 22..
तमापतन्तं संक्रुद्धं कृतास्त्रो रुधिराप्लुतम् । अपासर्पद् द्वित्रिपदं किंचित्त्वरितविक्रमः॥ २३॥
तम् आपतन्तम् संक्रुद्धम् कृत-अस्त्रः रुधिर-आप्लुतम् । अपासर्पत् द्वि-त्रि-पदम् किंचिद् त्वरित-विक्रमः॥ २३॥
tam āpatantam saṃkruddham kṛta-astraḥ rudhira-āplutam . apāsarpat dvi-tri-padam kiṃcid tvarita-vikramaḥ.. 23..
ततः पावकसंकाशं वधाय समरे शरम् । खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम्॥ २४॥
ततस् पावक-संकाशम् वधाय समरे शरम् । खरस्य रामः जग्राह ब्रह्मदण्डम् इव अपरम्॥ २४॥
tatas pāvaka-saṃkāśam vadhāya samare śaram . kharasya rāmaḥ jagrāha brahmadaṇḍam iva aparam.. 24..
स तद् दत्तं मघवता सुरराजेन धीमता । संदधे च स धर्मात्मा मुमोच च खरं प्रति॥ २५॥
स तत् दत्तम् मघवता सुरराजेन धीमता । संदधे च स धर्म-आत्मा मुमोच च खरम् प्रति॥ २५॥
sa tat dattam maghavatā surarājena dhīmatā . saṃdadhe ca sa dharma-ātmā mumoca ca kharam prati.. 25..
स विमुक्तो महाबाणो निर्घातसमनिःस्वनः । रामेण धनुरायम्य खरस्योरसि चापतत्॥ २६॥
स विमुक्तः महा-बाणः निर्घात-सम-निःस्वनः । रामेण धनुः आयम्य खरस्य उरसि च अपतत्॥ २६॥
sa vimuktaḥ mahā-bāṇaḥ nirghāta-sama-niḥsvanaḥ . rāmeṇa dhanuḥ āyamya kharasya urasi ca apatat.. 26..
स पपात खरो भूमौ दह्यमानः शराग्निना । रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथान्धकः॥ २७॥
स पपात खरः भूमौ दह्यमानः शर-अग्निना । रुद्रेण इव विनिर्दग्धः श्वेत-अरण्ये यथा अन्धकः॥ २७॥
sa papāta kharaḥ bhūmau dahyamānaḥ śara-agninā . rudreṇa iva vinirdagdhaḥ śveta-araṇye yathā andhakaḥ.. 27..
स वृत्र इव वज्रेण फेनेन नमुचिर्यथा । बलो वेन्द्राशनिहतो निपपात हतः खरः॥ २८॥
स वृत्रः इव वज्रेण फेनेन नमुचिः यथा । बलः वा इन्द्र-अशनि-हतः निपपात हतः खरः॥ २८॥
sa vṛtraḥ iva vajreṇa phenena namuciḥ yathā . balaḥ vā indra-aśani-hataḥ nipapāta hataḥ kharaḥ.. 28..
एतस्मिन्नन्तरे देवाश्चारणैः सह संगताः । दुन्दुभींश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः॥ २९॥
एतस्मिन् अन्तरे देवाः चारणैः सह संगताः । दुन्दुभीन् च अभिनिघ्नन्तः पुष्प-वर्षम् समन्ततः॥ २९॥
etasmin antare devāḥ cāraṇaiḥ saha saṃgatāḥ . dundubhīn ca abhinighnantaḥ puṣpa-varṣam samantataḥ.. 29..
रामस्योपरि संहृष्टा ववर्षुर्विस्मितास्तदा । अर्धाधिकमुहूर्तेन रामेण निशितैः शरैः॥ ३०॥
रामस्य उपरि संहृष्टाः ववर्षुः विस्मिताः तदा । अर्ध-अधिक-मुहूर्तेन रामेण निशितैः शरैः॥ ३०॥
rāmasya upari saṃhṛṣṭāḥ vavarṣuḥ vismitāḥ tadā . ardha-adhika-muhūrtena rāmeṇa niśitaiḥ śaraiḥ.. 30..
चतुर्दश सहस्राणि रक्षसां कामरूपिणाम् । खरदूषणमुख्यानां निहतानि महामृधे॥ ३१॥
चतुर्दश सहस्राणि रक्षसाम् कामरूपिणाम् । खर-दूषण-मुख्यानाम् निहतानि महा-मृधे॥ ३१॥
caturdaśa sahasrāṇi rakṣasām kāmarūpiṇām . khara-dūṣaṇa-mukhyānām nihatāni mahā-mṛdhe.. 31..
अहो बत महत्कर्म रामस्य विदितात्मनः । अहो वीर्यमहो दार्ढ्यं विष्णोरिव हि दृश्यते॥ ३२॥
अहो बत महत् कर्म रामस्य विदित-आत्मनः । अहो वीर्यम् अहो दार्ढ्यम् विष्णोः इव हि दृश्यते॥ ३२॥
aho bata mahat karma rāmasya vidita-ātmanaḥ . aho vīryam aho dārḍhyam viṣṇoḥ iva hi dṛśyate.. 32..
इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम् । ततो राजर्षयः सर्वे संगताः परमर्षयः॥ ३३॥
इति एवम् उक्त्वा ते सर्वे ययुः देवाः यथागतम् । ततस् राज-ऋषयः सर्वे संगताः परम-ऋषयः॥ ३३॥
iti evam uktvā te sarve yayuḥ devāḥ yathāgatam . tatas rāja-ṛṣayaḥ sarve saṃgatāḥ parama-ṛṣayaḥ.. 33..
सभाज्य मुदिता रामं सागस्त्या इदमब्रुवन् । एतदर्थं महातेजा महेन्द्रः पाकशासनः॥ ३४॥
सभाज्य मुदिताः रामम् स अगस्त्याः इदम् अब्रुवन् । एतद्-अर्थम् महा-तेजाः महा-इन्द्रः पाकशासनः॥ ३४॥
sabhājya muditāḥ rāmam sa agastyāḥ idam abruvan . etad-artham mahā-tejāḥ mahā-indraḥ pākaśāsanaḥ.. 34..
शरभङ्गाश्रमं पुण्यमाजगाम पुरंदरः । आनीतस्त्वमिमं देशमुपायेन महर्षिभिः॥ ३५॥
शरभङ्ग-आश्रमम् पुण्यम् आजगाम पुरंदरः । आनीतः त्वम् इमम् देशम् उपायेन महा-ऋषिभिः॥ ३५॥
śarabhaṅga-āśramam puṇyam ājagāma puraṃdaraḥ . ānītaḥ tvam imam deśam upāyena mahā-ṛṣibhiḥ.. 35..
एषां वधार्थं शत्रूणां रक्षसां पापकर्मणाम् । तदिदं नः कृतं कार्यं त्वया दशरथात्मज॥ ३६॥
एषाम् वध-अर्थम् शत्रूणाम् रक्षसाम् पाप-कर्मणाम् । तत् इदम् नः कृतम् कार्यम् त्वया दशरथ-आत्मज॥ ३६॥
eṣām vadha-artham śatrūṇām rakṣasām pāpa-karmaṇām . tat idam naḥ kṛtam kāryam tvayā daśaratha-ātmaja.. 36..
स्वधर्मं प्रचरिष्यन्ति दण्डकेषु महर्षयः । एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया॥ ३७॥
स्वधर्मम् प्रचरिष्यन्ति दण्डकेषु महा-ऋषयः । एतस्मिन् अन्तरे वीरः लक्ष्मणः सह सीतया॥ ३७॥
svadharmam pracariṣyanti daṇḍakeṣu mahā-ṛṣayaḥ . etasmin antare vīraḥ lakṣmaṇaḥ saha sītayā.. 37..
गिरिदुर्गाद् विनिष्क्रम्य संविवेशाश्रमे सुखी ततो रामस्तु विजयी पूज्यमानो महर्षिभिः॥ ३८॥
गिरि-दुर्गात् विनिष्क्रम्य संविवेश आश्रमे सुखी ततस् रामः तु विजयी पूज्यमानः महा-ऋषिभिः॥ ३८॥
giri-durgāt viniṣkramya saṃviveśa āśrame sukhī tatas rāmaḥ tu vijayī pūjyamānaḥ mahā-ṛṣibhiḥ.. 38..
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः । तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्॥ ३९॥
प्रविवेश आश्रमम् वीरः लक्ष्मणेन अभिपूजितः । तम् दृष्ट्वा शत्रु-हन्तारम् महा-ऋषीणाम् सुख-आवहम्॥ ३९॥
praviveśa āśramam vīraḥ lakṣmaṇena abhipūjitaḥ . tam dṛṣṭvā śatru-hantāram mahā-ṛṣīṇām sukha-āvaham.. 39..
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे । मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान् । रामं चैवाव्ययं दृष्ट्वा तुतोष जनकात्मजा॥ ४०॥
बभूव हृष्टा वैदेही भर्तारम् परिषस्वजे । मुदा परमया युक्ताः दृष्ट्वा रक्षः-गणान् हतान् । रामम् च एव अव्ययम् दृष्ट्वा तुतोष जनकात्मजा॥ ४०॥
babhūva hṛṣṭā vaidehī bhartāram pariṣasvaje . mudā paramayā yuktāḥ dṛṣṭvā rakṣaḥ-gaṇān hatān . rāmam ca eva avyayam dṛṣṭvā tutoṣa janakātmajā.. 40..
ततस्तु तं राक्षससङ्घमर्दनं सम्पूज्यमानं मुदितैर्महात्मभिः । पुनः परिष्वज्य मुदान्वितानना बभूव हृष्टा जनकात्मजा तदा॥ ४१॥
ततस् तु तम् राक्षस-सङ्घ-मर्दनम् सम्पूज्यमानम् मुदितैः महात्मभिः । पुनर् परिष्वज्य मुदा अन्वित-आनना बभूव हृष्टा जनकात्मजा तदा॥ ४१॥
tatas tu tam rākṣasa-saṅgha-mardanam sampūjyamānam muditaiḥ mahātmabhiḥ . punar pariṣvajya mudā anvita-ānanā babhūva hṛṣṭā janakātmajā tadā.. 41..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रिंशः सर्गः ॥३-३०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे त्रिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe triṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In