This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकत्रिंशः सर्गः ॥३-३१॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे एकत्रिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ekatriṃśaḥ sargaḥ ..3..
त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः । प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत्॥ १॥
त्वरमाणः ततस् गत्वा जनस्थानात् अकम्पनः । प्रविश्य लङ्काम् वेगेन रावणम् वाक्यम् अब्रवीत्॥ १॥
tvaramāṇaḥ tatas gatvā janasthānāt akampanaḥ . praviśya laṅkām vegena rāvaṇam vākyam abravīt.. 1..
जनस्थानस्थिता राजन् राक्षसा बहवो हताः । खरश्च निहतः संख्ये कथंचिदहमागतः॥ २॥
जनस्थान-स्थिताः राजन् राक्षसाः बहवः हताः । खरः च निहतः संख्ये कथंचिद् अहम् आगतः॥ २॥
janasthāna-sthitāḥ rājan rākṣasāḥ bahavaḥ hatāḥ . kharaḥ ca nihataḥ saṃkhye kathaṃcid aham āgataḥ.. 2..
एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः । अकम्पनमुवाचेदं निर्दहन्निव तेजसा॥ ३॥
एवम् उक्तः दशग्रीवः क्रुद्धः संरक्त-लोचनः । अकम्पनम् उवाच इदम् निर्दहन् इव तेजसा॥ ३॥
evam uktaḥ daśagrīvaḥ kruddhaḥ saṃrakta-locanaḥ . akampanam uvāca idam nirdahan iva tejasā.. 3..
केन भीमं जनस्थानं हतं मम परासुना । को हि सर्वेषु लोकेषु गतिं नाधिगमिष्यति॥ ४॥
केन भीमम् जनस्थानम् हतम् मम परासुना । कः हि सर्वेषु लोकेषु गतिम् न अधिगमिष्यति॥ ४॥
kena bhīmam janasthānam hatam mama parāsunā . kaḥ hi sarveṣu lokeṣu gatim na adhigamiṣyati.. 4..
न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम् । प्राप्तुं वैश्रवणेनापि न यमेन च विष्णुना॥ ५॥
न हि मे विप्रियम् कृत्वा शक्यम् मघवता सुखम् । प्राप्तुम् वैश्रवणेन अपि न यमेन च विष्णुना॥ ५॥
na hi me vipriyam kṛtvā śakyam maghavatā sukham . prāptum vaiśravaṇena api na yamena ca viṣṇunā.. 5..
कालस्य चाप्यहं कालो दहेयमपि पावकम् । मृत्युं मरणधर्मेण संयोजयितुमुत्सहे॥ ६॥
कालस्य च अपि अहम् कालः दहेयम् अपि पावकम् । मृत्युम् मरण-धर्मेण संयोजयितुम् उत्सहे॥ ६॥
kālasya ca api aham kālaḥ daheyam api pāvakam . mṛtyum maraṇa-dharmeṇa saṃyojayitum utsahe.. 6..
वातस्य तरसा वेगं निहन्तुमपि चोत्सहे । दहेयमपि संक्रुद्धस्तेजसाऽऽदित्यपावकौ॥ ७॥
वातस्य तरसा वेगम् निहन्तुम् अपि च उत्सहे । दहेयम् अपि संक्रुद्धः तेजसा आदित्य-पावकौ॥ ७॥
vātasya tarasā vegam nihantum api ca utsahe . daheyam api saṃkruddhaḥ tejasā āditya-pāvakau.. 7..
तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः । भयात् संदिग्धया वाचा रावणं याचतेऽभयम्॥ ८॥
तथा क्रुद्धम् दशग्रीवम् कृताञ्जलिः अकम्पनः । भयात् संदिग्धया वाचा रावणम् याचते अभयम्॥ ८॥
tathā kruddham daśagrīvam kṛtāñjaliḥ akampanaḥ . bhayāt saṃdigdhayā vācā rāvaṇam yācate abhayam.. 8..
दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः । स विस्रब्धोऽब्रवीद् वाक्यमसंदिग्धमकम्पनः॥ ९॥
दशग्रीवः अभयम् तस्मै प्रददौ रक्षसाम् वरः । स विस्रब्धः अब्रवीत् वाक्यम् असंदिग्धम् अकम्पनः॥ ९॥
daśagrīvaḥ abhayam tasmai pradadau rakṣasām varaḥ . sa visrabdhaḥ abravīt vākyam asaṃdigdham akampanaḥ.. 9..
पुत्रो दशरथस्यास्ते सिंहसंहननो युवा । रामो नाम महास्कन्धो वृत्तायतमहाभुजः॥ १०॥
पुत्रः दशरथस्य आस्ते सिंह-संहननः युवा । रामः नाम महा-स्कन्धः वृत्त-आयत-महा-भुजः॥ १०॥
putraḥ daśarathasya āste siṃha-saṃhananaḥ yuvā . rāmaḥ nāma mahā-skandhaḥ vṛtta-āyata-mahā-bhujaḥ.. 10..
श्यामः पृथुयशाः श्रीमानतुल्यबलविक्रमः । हतस्तेन जनस्थाने खरश्च सहदूषणः॥ ११॥
श्यामः पृथु-यशाः श्रीमान् अतुल्य-बल-विक्रमः । हतः तेन जनस्थाने खरः च सह दूषणः॥ ११॥
śyāmaḥ pṛthu-yaśāḥ śrīmān atulya-bala-vikramaḥ . hataḥ tena janasthāne kharaḥ ca saha dūṣaṇaḥ.. 11..
अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः । नागेन्द्र इव निःश्वस्य इदं वचनमब्रवीत्॥ १२॥
अकम्पन-वचः श्रुत्वा रावणः राक्षस-अधिपः । नाग-इन्द्रः इव निःश्वस्य इदम् वचनम् अब्रवीत्॥ १२॥
akampana-vacaḥ śrutvā rāvaṇaḥ rākṣasa-adhipaḥ . nāga-indraḥ iva niḥśvasya idam vacanam abravīt.. 12..
स सुरेन्द्रेण संयुक्तो रामः सर्वामरैः सह । उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन॥ १३॥
स सुर-इन्द्रेण संयुक्तः रामः सर्व-अमरैः सह । उपयातः जनस्थानम् ब्रूहि कच्चित् अकम्पन॥ १३॥
sa sura-indreṇa saṃyuktaḥ rāmaḥ sarva-amaraiḥ saha . upayātaḥ janasthānam brūhi kaccit akampana.. 13..
रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः । आचचक्षे बलं तस्य विक्रमं च महात्मनः॥ १४॥
रावणस्य पुनर् वाक्यम् निशम्य तत् अकम्पनः । आचचक्षे बलम् तस्य विक्रमम् च महात्मनः॥ १४॥
rāvaṇasya punar vākyam niśamya tat akampanaḥ . ācacakṣe balam tasya vikramam ca mahātmanaḥ.. 14..
रामो नाम महातेजाः श्रेष्ठः सर्वधनुष्मताम् । दिव्यास्त्रगुणसम्पन्नः परं धर्मं गतो युधि॥ १५॥
रामः नाम महा-तेजाः श्रेष्ठः सर्व-धनुष्मताम् । दिव्य-अस्त्र-गुण-सम्पन्नः परम् धर्मम् गतः युधि॥ १५॥
rāmaḥ nāma mahā-tejāḥ śreṣṭhaḥ sarva-dhanuṣmatām . divya-astra-guṇa-sampannaḥ param dharmam gataḥ yudhi.. 15..
तस्यानुरूपो बलवान् रक्ताक्षो दुन्दुभिस्वनः । कनीयाँल्लक्ष्मणो भ्राता राकाशशिनिभाननः॥ १६॥
तस्य अनुरूपः बलवान् रक्त-अक्षः दुन्दुभि-स्वनः । कनीयान् लक्ष्मणः भ्राता राका-शशि-निभ-आननः॥ १६॥
tasya anurūpaḥ balavān rakta-akṣaḥ dundubhi-svanaḥ . kanīyān lakṣmaṇaḥ bhrātā rākā-śaśi-nibha-ānanaḥ.. 16..
स तेन सह संयुक्तः पावकेनानिलो यथा । श्रीमान् राजवरस्तेन जनस्थानं निपातितम्॥ १७॥
स तेन सह संयुक्तः पावकेन अनिलः यथा । श्रीमान् राज-वरः तेन जनस्थानम् निपातितम्॥ १७॥
sa tena saha saṃyuktaḥ pāvakena anilaḥ yathā . śrīmān rāja-varaḥ tena janasthānam nipātitam.. 17..
नैव देवा महात्मानो नात्र कार्या विचारणा । शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्त्रिणः॥ १८॥
ना एव देवाः महात्मानः ना अत्र कार्या विचारणा । शराः रामेण तु उत्सृष्टाः रुक्म-पुङ्खाः पतत्त्रिणः॥ १८॥
nā eva devāḥ mahātmānaḥ nā atra kāryā vicāraṇā . śarāḥ rāmeṇa tu utsṛṣṭāḥ rukma-puṅkhāḥ patattriṇaḥ.. 18..
सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान् । येन येन च गच्छन्ति राक्षसा भयकर्षिताः॥ १९॥
सर्पाः पञ्च-आननाः भूत्वा भक्षयन्ति स्म राक्षसान् । येन येन च गच्छन्ति राक्षसाः भय-कर्षिताः॥ १९॥
sarpāḥ pañca-ānanāḥ bhūtvā bhakṣayanti sma rākṣasān . yena yena ca gacchanti rākṣasāḥ bhaya-karṣitāḥ.. 19..
तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम् । इत्थं विनाशितं तेन जनस्थानं तवानघ॥ २०॥
तेन तेन स्म पश्यन्ति रामम् एव अग्रतस् स्थितम् । इत्थम् विनाशितम् तेन जनस्थानम् तव अनघ॥ २०॥
tena tena sma paśyanti rāmam eva agratas sthitam . ittham vināśitam tena janasthānam tava anagha.. 20..
अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत् । गमिष्यामि जनस्थानं रामं हन्तुं सलक्ष्मणम्॥ २१॥
अकम्पन-वचः श्रुत्वा रावणः वाक्यम् अब्रवीत् । गमिष्यामि जनस्थानम् रामम् हन्तुम् स लक्ष्मणम्॥ २१॥
akampana-vacaḥ śrutvā rāvaṇaḥ vākyam abravīt . gamiṣyāmi janasthānam rāmam hantum sa lakṣmaṇam.. 21..
अथैवमुक्ते वचने प्रोवाचेदमकम्पनः । शृणु राजन् यथावृत्तं रामस्य बलपौरुषम्॥ २२॥
अथा एवम् उक्ते वचने प्रोवाच इदम् अकम्पनः । शृणु राजन् यथावृत्तम् रामस्य बल-पौरुषम्॥ २२॥
athā evam ukte vacane provāca idam akampanaḥ . śṛṇu rājan yathāvṛttam rāmasya bala-pauruṣam.. 22..
असाध्यः कुपितो रामो विक्रमेण महायशाः । आपगायास्तु पूर्णाया वेगं परिहरेच्छरैः॥ २३॥
असाध्यः कुपितः रामः विक्रमेण महा-यशाः । आपगायाः तु पूर्णायाः वेगम् परिहरेत् शरैः॥ २३॥
asādhyaḥ kupitaḥ rāmaḥ vikrameṇa mahā-yaśāḥ . āpagāyāḥ tu pūrṇāyāḥ vegam pariharet śaraiḥ.. 23..
सताराग्रहनक्षत्रं नभश्चाप्यवसादयेत् । असौ रामस्तु सीदन्तीं श्रीमानभ्युद्धरेन्महीम्॥ २४॥
स तारा-ग्रह-नक्षत्रम् नभः च अपि अवसादयेत् । असौ रामः तु सीदन्तीम् श्रीमान् अभ्युद्धरेत् महीम्॥ २४॥
sa tārā-graha-nakṣatram nabhaḥ ca api avasādayet . asau rāmaḥ tu sīdantīm śrīmān abhyuddharet mahīm.. 24..
भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद् विभुः । वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः॥ २५॥
भित्त्वा वेलाम् समुद्रस्य लोकान् आप्लावयेत् विभुः । वेगम् वा अपि समुद्रस्य वायुम् वा विधमेत् शरैः॥ २५॥
bhittvā velām samudrasya lokān āplāvayet vibhuḥ . vegam vā api samudrasya vāyum vā vidhamet śaraiḥ.. 25..
संहृत्य वा पुनर्लोकान् विक्रमेण महायशाः । शक्तः श्रेष्ठः स पुरुषः स्रष्टुं पुनरपि प्रजाः॥ २६॥
संहृत्य वा पुनर् लोकान् विक्रमेण महा-यशाः । शक्तः श्रेष्ठः स पुरुषः स्रष्टुम् पुनर् अपि प्रजाः॥ २६॥
saṃhṛtya vā punar lokān vikrameṇa mahā-yaśāḥ . śaktaḥ śreṣṭhaḥ sa puruṣaḥ sraṣṭum punar api prajāḥ.. 26..
नहि रामो दशग्रीव शक्यो जेतुं रणे त्वया । रक्षसां वापि लोकेन स्वर्गः पापजनैरिव॥ २७॥
नहि रामः दशग्रीव शक्यः जेतुम् रणे त्वया । रक्षसाम् वा अपि लोकेन स्वर्गः पाप-जनैः इव॥ २७॥
nahi rāmaḥ daśagrīva śakyaḥ jetum raṇe tvayā . rakṣasām vā api lokena svargaḥ pāpa-janaiḥ iva.. 27..
न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि । अयं तस्य वधोपायस्तन्ममैकमनाः शृणु॥ २८॥
न तम् वध्यम् अहम् मन्ये सर्वैः देव-असुरैः अपि । अयम् तस्य वध-उपायः तत् मम एकमनाः शृणु॥ २८॥
na tam vadhyam aham manye sarvaiḥ deva-asuraiḥ api . ayam tasya vadha-upāyaḥ tat mama ekamanāḥ śṛṇu.. 28..
भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा । श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता॥ २९॥
भार्या तस्य उत्तमा लोके सीता नाम सुमध्यमा । श्यामा सम-विभक्त-अङ्गी स्त्री-रत्नम् रत्न-भूषिता॥ २९॥
bhāryā tasya uttamā loke sītā nāma sumadhyamā . śyāmā sama-vibhakta-aṅgī strī-ratnam ratna-bhūṣitā.. 29..
नैव देवी न गन्धर्वी नाप्सरा न च पन्नगी । तुल्या सीमन्तिनी तस्या मानुषी तु कुतो भवेत्॥ ३०॥
ना एव देवी न गन्धर्वी ना अप्सराः न च पन्नगी । तुल्या सीमन्तिनी तस्याः मानुषी तु कुतस् भवेत्॥ ३०॥
nā eva devī na gandharvī nā apsarāḥ na ca pannagī . tulyā sīmantinī tasyāḥ mānuṣī tu kutas bhavet.. 30..
तस्यापहर भार्यां त्वं तं प्रमथ्य महावने । सीतया रहितो रामो न चैव हि भविष्यति॥ ३१॥
तस्य अपहर भार्याम् त्वम् तम् प्रमथ्य महा-वने । सीतया रहितः रामः न च एव हि भविष्यति॥ ३१॥
tasya apahara bhāryām tvam tam pramathya mahā-vane . sītayā rahitaḥ rāmaḥ na ca eva hi bhaviṣyati.. 31..
अरोचयत तद्वाक्यं रावणो राक्षसाधिपः । चिन्तयित्वा महाबाहुरकम्पनमुवाच ह॥ ३२॥
अरोचयत तत् वाक्यम् रावणः राक्षस-अधिपः । चिन्तयित्वा महा-बाहुः अकम्पनम् उवाच ह॥ ३२॥
arocayata tat vākyam rāvaṇaḥ rākṣasa-adhipaḥ . cintayitvā mahā-bāhuḥ akampanam uvāca ha.. 32..
बाढं कल्यं गमिष्यामि ह्येकः सारथिना सह । आनेष्यामि च वैदेहीमिमां हृष्टो महापुरीम्॥ ३३॥
बाढम् कल्यम् गमिष्यामि हि एकः सारथिना सह । आनेष्यामि च वैदेहीम् इमाम् हृष्टः महा-पुरीम्॥ ३३॥
bāḍham kalyam gamiṣyāmi hi ekaḥ sārathinā saha . āneṣyāmi ca vaidehīm imām hṛṣṭaḥ mahā-purīm.. 33..
तदेवमुक्त्वा प्रययौ खरयुक्तेन रावणः । रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन्॥ ३४॥
तत् एवम् उक्त्वा प्रययौ खर-युक्तेन रावणः । रथेन आदित्य-वर्णेन दिशः सर्वाः प्रकाशयन्॥ ३४॥
tat evam uktvā prayayau khara-yuktena rāvaṇaḥ . rathena āditya-varṇena diśaḥ sarvāḥ prakāśayan.. 34..
स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान् । चञ्चूर्यमाणः शुशुभे जलदे चन्द्रमा इव॥ ३५॥
स रथः राक्षस-इन्द्रस्य नक्षत्र-पथ-गः महान् । चञ्चूर्यमाणः शुशुभे जलदे चन्द्रमाः इव॥ ३५॥
sa rathaḥ rākṣasa-indrasya nakṣatra-patha-gaḥ mahān . cañcūryamāṇaḥ śuśubhe jalade candramāḥ iva.. 35..
स दूरे चाश्रमं गत्वा ताटकेयमुपागमत् । मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः॥ ३६॥
स दूरे च आश्रमम् गत्वा ताटकेयम् उपागमत् । मारीचेन अर्चितः राजा भक्ष्य-भोज्यैः अमानुषैः॥ ३६॥
sa dūre ca āśramam gatvā tāṭakeyam upāgamat . mārīcena arcitaḥ rājā bhakṣya-bhojyaiḥ amānuṣaiḥ.. 36..
तं स्वयं पूजयित्वा तु आसनेनोदकेन च । अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्॥ ३७॥
तम् स्वयम् पूजयित्वा तु आसनेन उदकेन च । अर्थ-उपहितया वाचा मारीचः वाक्यम् अब्रवीत्॥ ३७॥
tam svayam pūjayitvā tu āsanena udakena ca . artha-upahitayā vācā mārīcaḥ vākyam abravīt.. 37..
कच्चित् सकुशलं राजँल्लोकानां राक्षसाधिप । आशङ्के नाधिजाने त्वं यतस्तूर्णमुपागतः॥ ३८॥
कच्चित् स कुशलम् राजन् लोकानाम् राक्षस-अधिप । आशङ्के न अधिजाने त्वम् यतस् तूर्णम् उपागतः॥ ३८॥
kaccit sa kuśalam rājan lokānām rākṣasa-adhipa . āśaṅke na adhijāne tvam yatas tūrṇam upāgataḥ.. 38..
एवमुक्तो महातेजा मारीचेन स रावणः । ततः पश्चादिदं वाक्यमब्रवीद् वाक्यकोविदः॥ ३९॥
एवम् उक्तः महा-तेजाः मारीचेन स रावणः । ततस् पश्चात् इदम् वाक्यम् अब्रवीत् वाक्य-कोविदः॥ ३९॥
evam uktaḥ mahā-tejāḥ mārīcena sa rāvaṇaḥ . tatas paścāt idam vākyam abravīt vākya-kovidaḥ.. 39..
आरक्षो मे हतस्तात रामेणाक्लिष्टकारिणा । जनस्थानमवध्यं तत् सर्वं युधि निपातितम्॥ ४०॥
आरक्षः मे हतः तात रामेण अक्लिष्ट-कारिणा । जनस्थानम् अवध्यम् तत् सर्वम् युधि निपातितम्॥ ४०॥
ārakṣaḥ me hataḥ tāta rāmeṇa akliṣṭa-kāriṇā . janasthānam avadhyam tat sarvam yudhi nipātitam.. 40..
तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे । राक्षसेन्द्रवचः श्रुत्वा मारीचो वाक्यमब्रवीत्॥ ४१॥
तस्य मे कुरु साचिव्यम् तस्य भार्या-अपहारणे । राक्षस-इन्द्र-वचः श्रुत्वा मारीचः वाक्यम् अब्रवीत्॥ ४१॥
tasya me kuru sācivyam tasya bhāryā-apahāraṇe . rākṣasa-indra-vacaḥ śrutvā mārīcaḥ vākyam abravīt.. 41..
आख्याता केन वा सीता मित्ररूपेण शत्रुणा । त्वया राक्षसशार्दूल को न नन्दति नन्दितः॥ ४२॥
आख्याता केन वा सीता मित्र-रूपेण शत्रुणा । त्वया राक्षस-शार्दूल कः न नन्दति नन्दितः॥ ४२॥
ākhyātā kena vā sītā mitra-rūpeṇa śatruṇā . tvayā rākṣasa-śārdūla kaḥ na nandati nanditaḥ.. 42..
सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे । रक्षोलोकस्य सर्वस्य कः शृङ्गं छेत्तुमिच्छति॥ ४३॥
सीताम् इह आनयस्व इति कः ब्रवीति ब्रवीहि मे । रक्षः-लोकस्य सर्वस्य कः शृङ्गम् छेत्तुम् इच्छति॥ ४३॥
sītām iha ānayasva iti kaḥ bravīti bravīhi me . rakṣaḥ-lokasya sarvasya kaḥ śṛṅgam chettum icchati.. 43..
प्रोत्साहयति यश्च त्वां स च शत्रुरसंशयम् । आशीविषमुखाद् दंष्ट्रामुद्धर्तुं चेच्छति त्वया॥ ४४॥
प्रोत्साहयति यः च त्वाम् स च शत्रुः असंशयम् । आशीविष-मुखात् दंष्ट्राम् उद्धर्तुम् च इच्छति त्वया॥ ४४॥
protsāhayati yaḥ ca tvām sa ca śatruḥ asaṃśayam . āśīviṣa-mukhāt daṃṣṭrām uddhartum ca icchati tvayā.. 44..
कर्मणानेन केनासि कापथं प्रतिपादितः । सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि॥ ४५॥
कर्मणा अनेन केन असि कापथम् प्रतिपादितः । सुख-सुप्तस्य ते राजन् प्रहृतम् केन मूर्धनि॥ ४५॥
karmaṇā anena kena asi kāpatham pratipāditaḥ . sukha-suptasya te rājan prahṛtam kena mūrdhani.. 45..
विशुद्धवंशाभिजनाग्रहस्त- तेजोमदः संस्थितदोर्विषाणः । उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती॥ ४६॥
। उदीक्षितुम् रावण ना इह युक्तः स संयुगे राघव-गन्धहस्ती॥ ४६॥
. udīkṣitum rāvaṇa nā iha yuktaḥ sa saṃyuge rāghava-gandhahastī.. 46..
असौ रणान्तःस्थितिसंधिवालो विदग्धरक्षोमृगहा नृसिंहः । सुप्तस्त्वया बोधयितुं न शक्यः शराङ्गपूर्णो निशितासिदंष्ट्रः॥ ४७॥
असौ रण-अन्तर् स्थिति-संधि-वालः विदग्ध-रक्षः-मृग-हा नृ-सिंहः । सुप्तः त्वया बोधयितुम् न शक्यः शर-अङ्ग-पूर्णः निशित-असि-दंष्ट्रः॥ ४७॥
asau raṇa-antar sthiti-saṃdhi-vālaḥ vidagdha-rakṣaḥ-mṛga-hā nṛ-siṃhaḥ . suptaḥ tvayā bodhayitum na śakyaḥ śara-aṅga-pūrṇaḥ niśita-asi-daṃṣṭraḥ.. 47..
चापापहारे भुजवेगपङ्के शरोर्मिमाले सुमहाहवौघे । न रामपातालमुखेऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम्॥ ४८॥
चाप-अपहारे भुज-वेग-पङ्के शर-ऊर्मि-माले सु महा-आहव-ओघे । न राम-पाताल-मुखे अति घोरे प्रस्कन्दितुम् राक्षस-राज युक्तम्॥ ४८॥
cāpa-apahāre bhuja-vega-paṅke śara-ūrmi-māle su mahā-āhava-oghe . na rāma-pātāla-mukhe ati ghore praskanditum rākṣasa-rāja yuktam.. 48..
प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां प्रसन्नो भव साधु गच्छ । त्वं स्वेषु दारेषु रमस्व नित्यं रामः सभार्यो रमतां वनेषु॥ ४९॥
प्रसीद लङ्का-ईश्वर राक्षस-इन्द्र लङ्काम् प्रसन्नः भव साधु गच्छ । त्वम् स्वेषु दारेषु रमस्व नित्यम् रामः स भार्यः रमताम् वनेषु॥ ४९॥
prasīda laṅkā-īśvara rākṣasa-indra laṅkām prasannaḥ bhava sādhu gaccha . tvam sveṣu dāreṣu ramasva nityam rāmaḥ sa bhāryaḥ ramatām vaneṣu.. 49..
एवमुक्तो दशग्रीवो मारीचेन स रावणः । न्यवर्तत पुरीं लङ्कां विवेश च गृहोत्तमम्॥ ५०॥
एवम् उक्तः दशग्रीवः मारीचेन स रावणः । न्यवर्तत पुरीम् लङ्काम् विवेश च गृह-उत्तमम्॥ ५०॥
evam uktaḥ daśagrīvaḥ mārīcena sa rāvaṇaḥ . nyavartata purīm laṅkām viveśa ca gṛha-uttamam.. 50..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकत्रिंशः सर्गः ॥३-३१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे एकत्रिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ekatriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In