This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वात्रिंशः सर्गः ॥३-३२॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे द्वात्रिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe dvātriṃśaḥ sargaḥ ..3..
ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश । हतान्येकेन रामेण रक्षसां भीमकर्मणाम्॥ १॥
ततस् शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश । हतानि एकेन रामेण रक्षसाम् भीम-कर्मणाम्॥ १॥
tatas śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa . hatāni ekena rāmeṇa rakṣasām bhīma-karmaṇām.. 1..
दूषणं च खरं चैव हतं त्रिशिरसं रणे । दृष्ट्वा पुनर्महानादान् ननाद जलदोपमा॥ २॥
दूषणम् च खरम् च एव हतम् त्रिशिरसम् रणे । दृष्ट्वा पुनर् महा-नादान् ननाद जलद-उपमा॥ २॥
dūṣaṇam ca kharam ca eva hatam triśirasam raṇe . dṛṣṭvā punar mahā-nādān nanāda jalada-upamā.. 2..
सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम् । जगाम परमोद्विग्ना लङ्कां रावणपालिताम्॥ ३॥
सा दृष्ट्वा कर्म रामस्य कृतम् अन्यैः सु दुष्करम् । जगाम परम-उद्विग्ना लङ्काम् रावण-पालिताम्॥ ३॥
sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ su duṣkaram . jagāma parama-udvignā laṅkām rāvaṇa-pālitām.. 3..
सा ददर्श विमानाग्रे रावणं दीप्ततेजसम् । उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम्॥ ४॥
सा ददर्श विमान-अग्रे रावणम् दीप्त-तेजसम् । उपोपविष्टम् सचिवैः मरुद्भिः इव वासवम्॥ ४॥
sā dadarśa vimāna-agre rāvaṇam dīpta-tejasam . upopaviṣṭam sacivaiḥ marudbhiḥ iva vāsavam.. 4..
आसीनं सूर्यसंकाशे काञ्चने परमासने । रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम्॥ ५॥
आसीनम् सूर्य-संकाशे काञ्चने परम-आसने । रुक्म-वेदि-गतम् प्राज्यम् ज्वलन्तम् इव पावकम्॥ ५॥
āsīnam sūrya-saṃkāśe kāñcane parama-āsane . rukma-vedi-gatam prājyam jvalantam iva pāvakam.. 5..
देवगन्धर्वभूतानामृषीणां च महात्मनाम् । अजेयं समरे घोरं व्यात्ताननमिवान्तकम्॥ ६॥
देव-गन्धर्व-भूतानाम् ऋषीणाम् च महात्मनाम् । अजेयम् समरे घोरम् व्यात्त-आननम् इव अन्तकम्॥ ६॥
deva-gandharva-bhūtānām ṛṣīṇām ca mahātmanām . ajeyam samare ghoram vyātta-ānanam iva antakam.. 6..
देवासुरविमर्देषु वज्राशनिकृतव्रणम् । ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम्॥ ७॥
देव-असुर-विमर्देषु वज्र-अशनि-कृत-व्रणम् । ऐरावत-विषाण-अग्रैः उत्कृष्ट-किण-वक्षसम्॥ ७॥
deva-asura-vimardeṣu vajra-aśani-kṛta-vraṇam . airāvata-viṣāṇa-agraiḥ utkṛṣṭa-kiṇa-vakṣasam.. 7..
विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् । विशालवक्षसं वीरं राजलक्षणलक्षितम्॥ ८॥
विंशद्भुजम् दशग्रीवम् दर्शनीय-परिच्छदम् । विशाल-वक्षसम् वीरम् राज-लक्षण-लक्षितम्॥ ८॥
viṃśadbhujam daśagrīvam darśanīya-paricchadam . viśāla-vakṣasam vīram rāja-lakṣaṇa-lakṣitam.. 8..
नद्धवैदूर्यसंकाशं तप्तकाञ्चनभूषणम् । सुभुजं शुक्लदशनं महास्यं पर्वतोपमम्॥ ९॥
नद्ध-वैदूर्य-संकाशम् तप्त-काञ्चन-भूषणम् । सु भुजम् शुक्ल-दशनम् महा-आस्यम् पर्वत-उपमम्॥ ९॥
naddha-vaidūrya-saṃkāśam tapta-kāñcana-bhūṣaṇam . su bhujam śukla-daśanam mahā-āsyam parvata-upamam.. 9..
विष्णुचक्रनिपातैश्च शतशो देवसंयुगे । अन्यैः शस्त्रैः प्रहारैश्च महायुद्धेषु ताडितम्॥ १०॥
विष्णु-चक्र-निपातैः च शतशस् देव-संयुगे । अन्यैः शस्त्रैः प्रहारैः च महा-युद्धेषु ताडितम्॥ १०॥
viṣṇu-cakra-nipātaiḥ ca śataśas deva-saṃyuge . anyaiḥ śastraiḥ prahāraiḥ ca mahā-yuddheṣu tāḍitam.. 10..
अहताङ्गैः समस्तैस्तं देवप्रहरणैस्तदा । अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम्॥ ११॥
अहत-अङ्गैः समस्तैः तम् देव-प्रहरणैः तदा । अक्षोभ्याणाम् समुद्राणाम् क्षोभणम् क्षिप्रकारिणम्॥ ११॥
ahata-aṅgaiḥ samastaiḥ tam deva-praharaṇaiḥ tadā . akṣobhyāṇām samudrāṇām kṣobhaṇam kṣiprakāriṇam.. 11..
क्षेप्तारं पर्वताग्राणां सुराणां च प्रमर्दनम् । उच्छेत्तारं च धर्माणां परदाराभिमर्शनम्॥ १२॥
क्षेप्तारम् पर्वत-अग्राणाम् सुराणाम् च प्रमर्दनम् । उच्छेत्तारम् च धर्माणाम् परदार-अभिमर्शनम्॥ १२॥
kṣeptāram parvata-agrāṇām surāṇām ca pramardanam . ucchettāram ca dharmāṇām paradāra-abhimarśanam.. 12..
सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा । पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम्॥ १३॥
सर्व-दिव्य-अस्त्र-योक्तारम् यज्ञ-विघ्न-करम् सदा । पुरीम् भोगवतीम् गत्वा पराजित्य च वासुकिम्॥ १३॥
sarva-divya-astra-yoktāram yajña-vighna-karam sadā . purīm bhogavatīm gatvā parājitya ca vāsukim.. 13..
तक्षकस्य प्रियां भार्यां पराजित्य जहार यः । कैलासं पर्वतं गत्वा विजित्य नरवाहनम्॥ १४॥
तक्षकस्य प्रियाम् भार्याम् पराजित्य जहार यः । कैलासम् पर्वतम् गत्वा विजित्य नरवाहनम्॥ १४॥
takṣakasya priyām bhāryām parājitya jahāra yaḥ . kailāsam parvatam gatvā vijitya naravāhanam.. 14..
विमानं पुष्पकं तस्य कामगं वै जहार यः । वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम्॥ १५॥
विमानम् पुष्पकम् तस्य कामगम् वै जहार यः । वनम् चैत्ररथम् दिव्यम् नलिनीम् नन्दनम् वनम्॥ १५॥
vimānam puṣpakam tasya kāmagam vai jahāra yaḥ . vanam caitraratham divyam nalinīm nandanam vanam.. 15..
विनाशयति यः क्रोधाद् देवोद्यानानि वीर्यवान् । चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परंतपौ॥ १६॥
विनाशयति यः क्रोधात् देव-उद्यानानि वीर्यवान् । चन्द्र-सूर्यौ महाभागौ उत्तिष्ठन्तौ परंतपौ॥ १६॥
vināśayati yaḥ krodhāt deva-udyānāni vīryavān . candra-sūryau mahābhāgau uttiṣṭhantau paraṃtapau.. 16..
निवारयति बाहुभ्यां यः शैलशिखरोपमः । दशवर्षसहस्राणि तपस्तप्त्वा महावने॥ १७॥
निवारयति बाहुभ्याम् यः शैल-शिखर-उपमः । दश-वर्ष-सहस्राणि तपः तप्त्वा महा-वने॥ १७॥
nivārayati bāhubhyām yaḥ śaila-śikhara-upamaḥ . daśa-varṣa-sahasrāṇi tapaḥ taptvā mahā-vane.. 17..
पुरा स्वयंभुवे धीरः शिरांस्युपजहार यः । देवदानवगन्धर्वपिशाचपतगोरगैः॥ १८॥
पुरा स्वयंभुवे धीरः शिरांसि उपजहार यः । देव-दानव-गन्धर्व-पिशाच-पतग-उरगैः॥ १८॥
purā svayaṃbhuve dhīraḥ śirāṃsi upajahāra yaḥ . deva-dānava-gandharva-piśāca-pataga-uragaiḥ.. 18..
अभयं यस्य संग्रामे मृत्युतो मानुषादृते । मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः॥ १९॥
अभयम् यस्य संग्रामे मृत्युतः मानुषात् ऋते । मन्त्रैः अभिष्टुतम् पुण्यम् अध्वरेषु द्विजातिभिः॥ १९॥
abhayam yasya saṃgrāme mṛtyutaḥ mānuṣāt ṛte . mantraiḥ abhiṣṭutam puṇyam adhvareṣu dvijātibhiḥ.. 19..
हविर्धानेषु यः सोममुपहन्ति महाबलः । प्राप्तयज्ञहरं दुष्टं ब्रह्मघ्नं क्रूरकारिणम्॥ २०॥
हविर्धानेषु यः सोमम् उपहन्ति महा-बलः । प्राप्त-यज्ञ-हरम् दुष्टम् ब्रह्म-घ्नम् क्रूर-कारिणम्॥ २०॥
havirdhāneṣu yaḥ somam upahanti mahā-balaḥ . prāpta-yajña-haram duṣṭam brahma-ghnam krūra-kāriṇam.. 20..
कर्कशं निरनुक्रोशं प्रजानामहिते रतम् । रावणं सर्वभूतानां सर्वलोकभयावहम्॥ २१॥
कर्कशम् निरनुक्रोशम् प्रजानाम् अहिते रतम् । रावणम् सर्व-भूतानाम् सर्व-लोक-भय-आवहम्॥ २१॥
karkaśam niranukrośam prajānām ahite ratam . rāvaṇam sarva-bhūtānām sarva-loka-bhaya-āvaham.. 21..
राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम् । तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम्॥ २२॥
राक्षसी भ्रातरम् क्रूरम् सा ददर्श महा-बलम् । तम् दिव्य-वस्त्र-आभरणम् दिव्य-माल्य-उपशोभितम्॥ २२॥
rākṣasī bhrātaram krūram sā dadarśa mahā-balam . tam divya-vastra-ābharaṇam divya-mālya-upaśobhitam.. 22..
आसने सूपविष्टं तं काले कालमिवोद्यतम् । राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम्॥ २३॥
आसने सु उपविष्टम् तम् काले कालम् इव उद्यतम् । राक्षस-इन्द्रम् महाभागम् पौलस्त्य-कुल-नन्दनम्॥ २३॥
āsane su upaviṣṭam tam kāle kālam iva udyatam . rākṣasa-indram mahābhāgam paulastya-kula-nandanam.. 23..
उपगम्याब्रवीद् वाक्यं राक्षसी भयविह्वला । रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम्॥ २४॥
उपगम्य अब्रवीत् वाक्यम् राक्षसी भय-विह्वला । रावणम् शत्रु-हन्तारम् मन्त्रिभिः परिवारितम्॥ २४॥
upagamya abravīt vākyam rākṣasī bhaya-vihvalā . rāvaṇam śatru-hantāram mantribhiḥ parivāritam.. 24..
तमब्रवीद् दीप्तविशाललोचनं प्रदर्शयित्वा भयलोभमोहिता । सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता॥ २५॥
तम् अब्रवीत् दीप्त-विशाल-लोचनम् प्रदर्शयित्वा भय-लोभ-मोहिता । सु दारुणम् वाक्यम् अभीत-चारिणी महात्मना शूर्पणखा विरूपिता॥ २५॥
tam abravīt dīpta-viśāla-locanam pradarśayitvā bhaya-lobha-mohitā . su dāruṇam vākyam abhīta-cāriṇī mahātmanā śūrpaṇakhā virūpitā.. 25..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्वात्रिंशः सर्गः ॥३-३२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे द्वात्रिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe dvātriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In