This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयस्त्रिंशः सर्गः ॥३-३३॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे त्रयस्त्रिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe trayastriṃśaḥ sargaḥ ..3..
ततः शूर्पणखा दीना रावणं लोकरावणम् । अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत्॥ १॥
ततस् शूर्पणखा दीना रावणम् लोक-रावणम् । अमात्य-मध्ये संक्रुद्धा परुषम् वाक्यम् अब्रवीत्॥ १॥
tatas śūrpaṇakhā dīnā rāvaṇam loka-rāvaṇam . amātya-madhye saṃkruddhā paruṣam vākyam abravīt.. 1..
प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः । समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे॥ २॥
प्रमत्तः काम-भोगेषु स्वैर-वृत्तः निरङ्कुशः । समुत्पन्नम् भयम् घोरम् बोद्धव्यम् ना अवबुध्यसे॥ २॥
pramattaḥ kāma-bhogeṣu svaira-vṛttaḥ niraṅkuśaḥ . samutpannam bhayam ghoram boddhavyam nā avabudhyase.. 2..
सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् । लुब्धं न बहु मन्यन्ते श्मशानाग्निमिव प्रजाः॥ ३॥
सक्तम् ग्राम्येषु भोगेषु काम-वृत्तम् महीपतिम् । लुब्धम् न बहु मन्यन्ते श्मशान-अग्निम् इव प्रजाः॥ ३॥
saktam grāmyeṣu bhogeṣu kāma-vṛttam mahīpatim . lubdham na bahu manyante śmaśāna-agnim iva prajāḥ.. 3..
स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः । स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति॥ ४॥
स्वयम् कार्याणि यः काले न अनुतिष्ठति पार्थिवः । स तु वै सह राज्येन तैः च कार्यैः विनश्यति॥ ४॥
svayam kāryāṇi yaḥ kāle na anutiṣṭhati pārthivaḥ . sa tu vai saha rājyena taiḥ ca kāryaiḥ vinaśyati.. 4..
अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम् । वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः॥ ५॥
अयुक्त-चारम् दुर्दर्शम् अस्वाधीनम् नराधिपम् । वर्जयन्ति नराः दूरात् नदी-पङ्कम् इव द्विपाः॥ ५॥
ayukta-cāram durdarśam asvādhīnam narādhipam . varjayanti narāḥ dūrāt nadī-paṅkam iva dvipāḥ.. 5..
ये न रक्षन्ति विषयमस्वाधीनं नराधिपाः । ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा॥ ६॥
ये न रक्षन्ति विषयम् अस्वाधीनम् नराधिपाः । ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा॥ ६॥
ye na rakṣanti viṣayam asvādhīnam narādhipāḥ . te na vṛddhyā prakāśante girayaḥ sāgare yathā.. 6..
आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः । अयुक्तचारश्चपलः कथं राजा भविष्यसि॥ ७॥
आत्मवद्भिः विगृह्य त्वम् देव-गन्धर्व-दानवैः । अ युक्त-चारः चपलः कथम् राजा भविष्यसि॥ ७॥
ātmavadbhiḥ vigṛhya tvam deva-gandharva-dānavaiḥ . a yukta-cāraḥ capalaḥ katham rājā bhaviṣyasi.. 7..
त्वं तु बालस्वभावश्च बुद्धिहीनश्च राक्षस । ज्ञातव्यं तन्न जानीषे कथं राजा भविष्यसि॥ ८॥
त्वम् तु बाल-स्वभावः च बुद्धि-हीनः च राक्षस । ज्ञातव्यम् तत् न जानीषे कथम् राजा भविष्यसि॥ ८॥
tvam tu bāla-svabhāvaḥ ca buddhi-hīnaḥ ca rākṣasa . jñātavyam tat na jānīṣe katham rājā bhaviṣyasi.. 8..
येषां चाराश्च कोशश्च नयश्च जयतां वर । अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः॥ ९॥
येषाम् चाराः च कोशः च नयः च जयताम् वर । अस्वाधीनाः नरेन्द्राणाम् प्राकृतैः ते जनैः समाः॥ ९॥
yeṣām cārāḥ ca kośaḥ ca nayaḥ ca jayatām vara . asvādhīnāḥ narendrāṇām prākṛtaiḥ te janaiḥ samāḥ.. 9..
यस्मात् पश्यन्ति दूरस्थान् सर्वानर्थान् नराधिपाः । चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः॥ १०॥
यस्मात् पश्यन्ति दूर-स्थान् सर्वान् अर्थान् नराधिपाः । चारेण तस्मात् उच्यन्ते राजानः दीर्घ-चक्षुषः॥ १०॥
yasmāt paśyanti dūra-sthān sarvān arthān narādhipāḥ . cāreṇa tasmāt ucyante rājānaḥ dīrgha-cakṣuṣaḥ.. 10..
अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्युतः । स्वजनं च जनस्थानं निहतं नावबुध्यसे॥ ११॥
अयुक्त-चारम् मन्ये त्वाम् प्राकृतैः सचिवैः युतः । स्व-जनम् च जनस्थानम् निहतम् न अवबुध्यसे॥ ११॥
ayukta-cāram manye tvām prākṛtaiḥ sacivaiḥ yutaḥ . sva-janam ca janasthānam nihatam na avabudhyase.. 11..
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । हतान्येकेन रामेण खरश्च सहदूषणः॥ १२॥
चतुर्दश सहस्राणि रक्षसाम् भीम-कर्मणाम् । हतानि एकेन रामेण खरः च सह दूषणः॥ १२॥
caturdaśa sahasrāṇi rakṣasām bhīma-karmaṇām . hatāni ekena rāmeṇa kharaḥ ca saha dūṣaṇaḥ.. 12..
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः । धर्षितं च जनस्थानं रामेणाक्लिष्टकारिणा॥ १३॥
ऋषीणाम् अभयम् दत्तम् कृत-क्षेमाः च दण्डकाः । धर्षितम् च जनस्थानम् रामेण अक्लिष्ट-कारिणा॥ १३॥
ṛṣīṇām abhayam dattam kṛta-kṣemāḥ ca daṇḍakāḥ . dharṣitam ca janasthānam rāmeṇa akliṣṭa-kāriṇā.. 13..
त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च राक्षस । विषये स्वे समुत्पन्नं यद् भयं नावबुध्यसे॥ १४॥
त्वम् तु लुब्धः प्रमत्तः च पर-अधीनः च राक्षस । विषये स्वे समुत्पन्नम् यत् भयम् न अवबुध्यसे॥ १४॥
tvam tu lubdhaḥ pramattaḥ ca para-adhīnaḥ ca rākṣasa . viṣaye sve samutpannam yat bhayam na avabudhyase.. 14..
तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम् । व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम्॥ १५॥
तीक्ष्णम् अल्प-प्रदातारम् प्रमत्तम् गर्वितम् शठम् । व्यसने सर्व-भूतानि न अभिधावन्ति पार्थिवम्॥ १५॥
tīkṣṇam alpa-pradātāram pramattam garvitam śaṭham . vyasane sarva-bhūtāni na abhidhāvanti pārthivam.. 15..
अतिमानिनमग्राह्यमात्मसम्भावितं नरम् । क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम्॥ १६॥
अतिमानिनम् अग्राह्यम् आत्म-सम्भावितम् नरम् । क्रोधनम् व्यसने हन्ति स्व-जनः अपि नराधिपम्॥ १६॥
atimāninam agrāhyam ātma-sambhāvitam naram . krodhanam vyasane hanti sva-janaḥ api narādhipam.. 16..
नानुतिष्ठति कार्याणि भयेषु न बिभेति च । क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भवेदिह॥ १७॥
न अनुतिष्ठति कार्याणि भयेषु न बिभेति च । क्षिप्रम् राज्यात् च्युतः दीनः तृणैः तुल्यः भवेत् इह॥ १७॥
na anutiṣṭhati kāryāṇi bhayeṣu na bibheti ca . kṣipram rājyāt cyutaḥ dīnaḥ tṛṇaiḥ tulyaḥ bhavet iha.. 17..
शुष्ककाष्ठैर्भवेत् कार्यं लोष्ठैरपि च पांसुभिः । न तु स्थानात् परिभ्रष्टैः कार्यं स्याद् वसुधाधिपैः॥ १८॥
शुष्क-काष्ठैः भवेत् कार्यम् लोष्ठैः अपि च पांसुभिः । न तु स्थानात् परिभ्रष्टैः कार्यम् स्यात् वसुधाधिपैः॥ १८॥
śuṣka-kāṣṭhaiḥ bhavet kāryam loṣṭhaiḥ api ca pāṃsubhiḥ . na tu sthānāt paribhraṣṭaiḥ kāryam syāt vasudhādhipaiḥ.. 18..
उपभुक्तं यथा वासः स्रजो वा मृदिता यथा । एवं राज्यात् परिभ्रष्टः समर्थोऽपि निरर्थकः॥ १९॥
उपभुक्तम् यथा वासः स्रजः वा मृदिताः यथा । एवम् राज्यात् परिभ्रष्टः समर्थः अपि निरर्थकः॥ १९॥
upabhuktam yathā vāsaḥ srajaḥ vā mṛditāḥ yathā . evam rājyāt paribhraṣṭaḥ samarthaḥ api nirarthakaḥ.. 19..
अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः । कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम्॥ २०॥
अप्रमत्तः च यः राजा सर्वज्ञः विजित-इन्द्रियः । कृतज्ञः धर्म-शीलः च स राजा तिष्ठते चिरम्॥ २०॥
apramattaḥ ca yaḥ rājā sarvajñaḥ vijita-indriyaḥ . kṛtajñaḥ dharma-śīlaḥ ca sa rājā tiṣṭhate ciram.. 20..
नयनाभ्यां प्रसुप्तो वा जागर्ति नयचक्षुषा । व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः॥ २१॥
नयनाभ्याम् प्रसुप्तः वा जागर्ति नय-चक्षुषा । व्यक्त-क्रोध-प्रसादः च स राजा पूज्यते जनैः॥ २१॥
nayanābhyām prasuptaḥ vā jāgarti naya-cakṣuṣā . vyakta-krodha-prasādaḥ ca sa rājā pūjyate janaiḥ.. 21..
त्वं तु रावण दुर्बुद्धिर्गुणैरेतैर्विवर्जितः । यस्य तेऽविदितश्चारै रक्षसां सुमहान् वधः॥ २२॥
त्वम् तु रावण दुर्बुद्धिः गुणैः एतैः विवर्जितः । यस्य ते अ विदितः चारैः रक्षसाम् सु महान् वधः॥ २२॥
tvam tu rāvaṇa durbuddhiḥ guṇaiḥ etaiḥ vivarjitaḥ . yasya te a viditaḥ cāraiḥ rakṣasām su mahān vadhaḥ.. 22..
परावमन्ता विषयेषु सङ्गवान् न देशकालप्रविभागतत्त्ववित् । अयुक्तबुद्धिर्गुणदोषनिश्चये विपन्नराज्यो न चिराद् विपत्स्यसे॥ २३॥
पर-अवमन्ता विषयेषु सङ्गवान् न देश-काल-प्रविभाग-तत्त्व-विद् । अयुक्त-बुद्धिः गुण-दोष-निश्चये विपन्न-राज्यः न चिरात् विपत्स्यसे॥ २३॥
para-avamantā viṣayeṣu saṅgavān na deśa-kāla-pravibhāga-tattva-vid . ayukta-buddhiḥ guṇa-doṣa-niścaye vipanna-rājyaḥ na cirāt vipatsyase.. 23..
इति स्वदोषान् परिकीर्तितांस्तथा समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः । धनेन दर्पेण बलेन चान्वितो विचिन्तयामास चिरं स रावणः॥ २४॥
इति स्व-दोषान् परिकीर्तितान् तथा समीक्ष्य बुद्ध्या क्षणदाचर-ईश्वरः । धनेन दर्पेण बलेन च अन्वितः विचिन्तयामास चिरम् स रावणः॥ २४॥
iti sva-doṣān parikīrtitān tathā samīkṣya buddhyā kṣaṇadācara-īśvaraḥ . dhanena darpeṇa balena ca anvitaḥ vicintayāmāsa ciram sa rāvaṇaḥ.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रयस्त्रिंशः सर्गः ॥३-३३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे त्रयस्त्रिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe trayastriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In