This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुस्त्रिंशः सर्गः ॥३-३४॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे चतुस्त्रिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe catustriṃśaḥ sargaḥ ..3..
ततः शूर्पणखां दृष्ट्वा ब्रुवन्तीं परुषं वचः । अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः॥ १॥
ततस् शूर्पणखाम् दृष्ट्वा ब्रुवन्तीम् परुषम् वचः । अमात्य-मध्ये संक्रुद्धः परिपप्रच्छ रावणः॥ १॥
tatas śūrpaṇakhām dṛṣṭvā bruvantīm paruṣam vacaḥ . amātya-madhye saṃkruddhaḥ paripapraccha rāvaṇaḥ.. 1..
कश्च रामः कथंवीर्यः किंरूपः किंपराक्रमः । किमर्थं दण्डकारण्यं प्रविष्टश्च सुदुस्तरम्॥ २॥
कः च रामः कथंवीर्यः किंरूपः किंपराक्रमः । किमर्थम् दण्डक-अरण्यम् प्रविष्टः च सु दुस्तरम्॥ २॥
kaḥ ca rāmaḥ kathaṃvīryaḥ kiṃrūpaḥ kiṃparākramaḥ . kimartham daṇḍaka-araṇyam praviṣṭaḥ ca su dustaram.. 2..
आयुधं किं च रामस्य येन ते राक्षसा हताः । खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा॥ ३॥
आयुधम् किम् च रामस्य येन ते राक्षसाः हताः । खरः च निहतः संख्ये दूषणः त्रिशिराः तथा॥ ३॥
āyudham kim ca rāmasya yena te rākṣasāḥ hatāḥ . kharaḥ ca nihataḥ saṃkhye dūṣaṇaḥ triśirāḥ tathā.. 3..
तत्त्वं ब्रूहि मनोज्ञाङ्गि केन त्वं च विरूपिता । इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्च्छिता॥ ४॥
तत् त्वम् ब्रूहि मनोज्ञ-अङ्गि केन त्वम् च विरूपिता । इति उक्ता राक्षस-इन्द्रेण राक्षसी क्रोध-मूर्च्छिता॥ ४॥
tat tvam brūhi manojña-aṅgi kena tvam ca virūpitā . iti uktā rākṣasa-indreṇa rākṣasī krodha-mūrcchitā.. 4..
ततो रामं यथान्यायमाख्यातुमुपचक्रमे । दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः॥ ५॥
ततस् रामम् यथान्यायम् आख्यातुम् उपचक्रमे । दीर्घ-बाहुः विशाल-अक्षः चीर-कृष्ण-अजिन-अम्बरः॥ ५॥
tatas rāmam yathānyāyam ākhyātum upacakrame . dīrgha-bāhuḥ viśāla-akṣaḥ cīra-kṛṣṇa-ajina-ambaraḥ.. 5..
कन्दर्पसमरूपश्च रामो दशरथात्मजः । शक्रचापनिभं चापं विकृष्य कनकाङ्गदम्॥ ६॥
कन्दर्प-सम-रूपः च रामः दशरथ-आत्मजः । शक्र-चाप-निभम् चापम् विकृष्य कनक-अङ्गदम्॥ ६॥
kandarpa-sama-rūpaḥ ca rāmaḥ daśaratha-ātmajaḥ . śakra-cāpa-nibham cāpam vikṛṣya kanaka-aṅgadam.. 6..
दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान् । नाददानं शरान् घोरान् विमुञ्चन्तं महाबलम्॥ ७॥
दीप्तान् क्षिपति नाराचान् सर्पान् इव महाविषान् । न आददानम् शरान् घोरान् विमुञ्चन्तम् महा-बलम्॥ ७॥
dīptān kṣipati nārācān sarpān iva mahāviṣān . na ādadānam śarān ghorān vimuñcantam mahā-balam.. 7..
न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे । हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः॥ ८॥
न कार्मुकम् विकर्षन्तम् रामम् पश्यामि संयुगे । हन्यमानम् तु तत् सैन्यम् पश्यामि शर-वृष्टिभिः॥ ८॥
na kārmukam vikarṣantam rāmam paśyāmi saṃyuge . hanyamānam tu tat sainyam paśyāmi śara-vṛṣṭibhiḥ.. 8..
इन्द्रेणेवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः । रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश॥ ९॥
इन्द्रेण इव उत्तमम् सस्यम् आहतम् तु अश्म-वृष्टिभिः । रक्षसाम् भीम-वीर्याणाम् सहस्राणि चतुर्दश॥ ९॥
indreṇa iva uttamam sasyam āhatam tu aśma-vṛṣṭibhiḥ . rakṣasām bhīma-vīryāṇām sahasrāṇi caturdaśa.. 9..
निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना । अर्धाधिकमुहूर्तेन खरश्च सहदूषणः॥ १०॥
निहतानि शरैः तीक्ष्णैः तेन एकेन पदातिना । अर्ध-अधिक-मुहूर्तेन खरः च सह दूषणः॥ १०॥
nihatāni śaraiḥ tīkṣṇaiḥ tena ekena padātinā . ardha-adhika-muhūrtena kharaḥ ca saha dūṣaṇaḥ.. 10..
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः॥ ११॥
ऋषीणाम् अभयम् दत्तम् कृत-क्षेमाः च दण्डकाः॥ ११॥
ṛṣīṇām abhayam dattam kṛta-kṣemāḥ ca daṇḍakāḥ.. 11..
एका कथंचिन्मुक्ताहं परिभूय महात्मना । स्त्रीवधं शङ्कमानेन रामेण विदितात्मना॥ १२॥
एका कथंचिद् मुक्ता अहम् परिभूय महात्मना । स्त्री-वधम् शङ्कमानेन रामेण विदित-आत्मना॥ १२॥
ekā kathaṃcid muktā aham paribhūya mahātmanā . strī-vadham śaṅkamānena rāmeṇa vidita-ātmanā.. 12..
भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः । अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान्॥ १३॥
भ्राता च अस्य महा-तेजाः गुणतः तुल्य-विक्रमः । अनुरक्तः च भक्तः च लक्ष्मणः नाम वीर्यवान्॥ १३॥
bhrātā ca asya mahā-tejāḥ guṇataḥ tulya-vikramaḥ . anuraktaḥ ca bhaktaḥ ca lakṣmaṇaḥ nāma vīryavān.. 13..
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली । रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः॥ १४॥
अमर्षी दुर्जयः जेता विक्रान्तः बुद्धिमान् बली । रामस्य दक्षिणः बाहुः नित्यम् प्राणः बहिश्चरः॥ १४॥
amarṣī durjayaḥ jetā vikrāntaḥ buddhimān balī . rāmasya dakṣiṇaḥ bāhuḥ nityam prāṇaḥ bahiścaraḥ.. 14..
रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना । धर्मपत्नी प्रिया नित्यं भर्तुः प्रियहिते रता॥ १५॥
रामस्य तु विशाल-अक्षी पूर्ण-इन्दु-सदृश-आनना । धर्मपत्नी प्रिया नित्यम् भर्तुः प्रिय-हिते रता॥ १५॥
rāmasya tu viśāla-akṣī pūrṇa-indu-sadṛśa-ānanā . dharmapatnī priyā nityam bhartuḥ priya-hite ratā.. 15..
सा सुकेशी सुनासोरूः सुरूपा च यशस्विनी । देवतेव वनस्यास्य राजते श्रीरिवापरा॥ १६॥
सा सु केशी सु नासा-ऊरूः सुरूपा च यशस्विनी । देवता इव वनस्य अस्य राजते श्रीः इव अपरा॥ १६॥
sā su keśī su nāsā-ūrūḥ surūpā ca yaśasvinī . devatā iva vanasya asya rājate śrīḥ iva aparā.. 16..
तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा । सीता नाम वरारोहा वैदेही तनुमध्यमा॥ १७॥
तप्त-काञ्चन-वर्ण-आभा रक्त-तुङ्ग-नखी शुभा । सीता नाम वरारोहा वैदेही तनु-मध्यमा॥ १७॥
tapta-kāñcana-varṇa-ābhā rakta-tuṅga-nakhī śubhā . sītā nāma varārohā vaidehī tanu-madhyamā.. 17..
नैव देवी न गन्धर्वी न यक्षी न च किंनरी । तथारूपा मया नारी दृष्टपूर्वा महीतले॥ १८॥
ना एव देवी न गन्धर्वी न यक्षी न च किंनरी । तथारूपा मया नारी दृष्ट-पूर्वा मही-तले॥ १८॥
nā eva devī na gandharvī na yakṣī na ca kiṃnarī . tathārūpā mayā nārī dṛṣṭa-pūrvā mahī-tale.. 18..
यस्य सीता भवेद् भार्या यं च हृष्टा परिष्वजेत् । अभिजीवेत् स सर्वेषु लोकेष्वपि पुरंदरात्॥ १९॥
यस्य सीता भवेत् भार्या यम् च हृष्टा परिष्वजेत् । अभिजीवेत् स सर्वेषु लोकेषु अपि पुरंदरात्॥ १९॥
yasya sītā bhavet bhāryā yam ca hṛṣṭā pariṣvajet . abhijīvet sa sarveṣu lokeṣu api puraṃdarāt.. 19..
सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि । तवानुरूपा भार्या सा त्वं च तस्याः पतिर्वरः॥ २०॥
सा सु शीला वपुः-श्लाघ्या रूपेण अप्रतिमा भुवि । तव अनुरूपा भार्या सा त्वम् च तस्याः पतिः वरः॥ २०॥
sā su śīlā vapuḥ-ślāghyā rūpeṇa apratimā bhuvi . tava anurūpā bhāryā sā tvam ca tasyāḥ patiḥ varaḥ.. 20..
तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम् । भार्यार्थे तु तवानेतुमुद्यताहं वराननाम्॥ २१॥
ताम् तु विस्तीर्ण-जघनाम् पीन-उत्तुङ्ग-पयोधराम् । भार्या-अर्थे तु तव आनेतुम् उद्यता अहम् वराननाम्॥ २१॥
tām tu vistīrṇa-jaghanām pīna-uttuṅga-payodharām . bhāryā-arthe tu tava ānetum udyatā aham varānanām.. 21..
विरूपितास्मि क्रूरेण लक्ष्मणेन महाभुज । तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम्॥ २२॥
विरूपिता अस्मि क्रूरेण लक्ष्मणेन महा-भुज । ताम् तु दृष्ट्वा अद्य वैदेहीम् पूर्ण-चन्द्र-निभ-आननाम्॥ २२॥
virūpitā asmi krūreṇa lakṣmaṇena mahā-bhuja . tām tu dṛṣṭvā adya vaidehīm pūrṇa-candra-nibha-ānanām.. 22..
मन्मथस्य शराणां च त्वं विधेयो भविष्यसि । यदि तस्यामभिप्रायो भार्यात्वे तव जायते । शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः॥ २३॥
मन्मथस्य शराणाम् च त्वम् विधेयः भविष्यसि । यदि तस्याम् अभिप्रायः भार्या-त्वे तव जायते । शीघ्रम् उद्ध्रियताम् पादः जय-अर्थम् इह दक्षिणः॥ २३॥
manmathasya śarāṇām ca tvam vidheyaḥ bhaviṣyasi . yadi tasyām abhiprāyaḥ bhāryā-tve tava jāyate . śīghram uddhriyatām pādaḥ jaya-artham iha dakṣiṇaḥ.. 23..
रोचते यदि ते वाक्यं ममैतद् राक्षसेश्वर । क्रियतां निर्विशङ्केन वचनं मम रावण॥ २४॥
रोचते यदि ते वाक्यम् मम एतत् राक्षस-ईश्वर । क्रियताम् निर्विशङ्केन वचनम् मम रावण॥ २४॥
rocate yadi te vākyam mama etat rākṣasa-īśvara . kriyatām nirviśaṅkena vacanam mama rāvaṇa.. 24..
विज्ञायैषामशक्तिं च क्रियतां च महाबल । सीता तवानवद्याङ्गी भार्यात्वे राक्षसेश्वर॥ २५॥
विज्ञाय एषाम् अशक्तिम् च क्रियताम् च महा-बल । सीता तव अनवद्य-अङ्गी भार्या-त्वे राक्षस-ईश्वर॥ २५॥
vijñāya eṣām aśaktim ca kriyatām ca mahā-bala . sītā tava anavadya-aṅgī bhāryā-tve rākṣasa-īśvara.. 25..
निशम्य रामेण शरैरजिह्मगै- र्हताञ्जनस्थानगतान् निशाचरान् । खरं च दृष्ट्वा निहतं च दूषणं त्वमद्य कृत्यं प्रतिपत्तुमर्हसि॥ २६॥
निशम्य रामेण शरैः अजिह्मगैः हतान् जन-स्थान-गतान् निशाचरान् । खरम् च दृष्ट्वा निहतम् च दूषणम् त्वम् अद्य कृत्यम् प्रतिपत्तुम् अर्हसि॥ २६॥
niśamya rāmeṇa śaraiḥ ajihmagaiḥ hatān jana-sthāna-gatān niśācarān . kharam ca dṛṣṭvā nihatam ca dūṣaṇam tvam adya kṛtyam pratipattum arhasi.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुस्त्रिंशः सर्गः ॥३-३४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे चतुस्त्रिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe catustriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In