This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्त्रिंशः सर्गः ॥३-३६॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे षट्त्रिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ṣaṭtriṃśaḥ sargaḥ ..3..
मारीच श्रूयतां तात वचनं मम भाषतः । आर्तोऽस्मि मम चार्तस्य भवान् हि परमा गतिः॥ १॥
मारीच श्रूयताम् तात वचनम् मम भाषतः । आर्तः अस्मि मम च आर्तस्य भवान् हि परमा गतिः॥ १॥
mārīca śrūyatām tāta vacanam mama bhāṣataḥ . ārtaḥ asmi mama ca ārtasya bhavān hi paramā gatiḥ.. 1..
जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम । दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे॥ २॥
जानीषे त्वम् जनस्थानम् भ्राता यत्र खरः मम । दूषणः च महा-बाहुः स्वसा शूर्पणखा च मे॥ २॥
jānīṣe tvam janasthānam bhrātā yatra kharaḥ mama . dūṣaṇaḥ ca mahā-bāhuḥ svasā śūrpaṇakhā ca me.. 2..
त्रिशिराश्च महाबाहू राक्षसः पिशिताशनः । अन्ये च बहवः शूरा लब्धलक्षा निशाचराः॥ ३॥
त्रिशिराः च महा-बाहुः राक्षसः पिशित-अशनः । अन्ये च बहवः शूराः लब्धलक्षाः निशाचराः॥ ३॥
triśirāḥ ca mahā-bāhuḥ rākṣasaḥ piśita-aśanaḥ . anye ca bahavaḥ śūrāḥ labdhalakṣāḥ niśācarāḥ.. 3..
वसन्ति मन्नियोगेन अधिवासं च राक्षसाः । बाधमाना महारण्ये मुनीन् ये धर्मचारिणः॥ ४॥
वसन्ति मद्-नियोगेन अधिवासम् च राक्षसाः । बाधमानाः महा-अरण्ये मुनीन् ये धर्म-चारिणः॥ ४॥
vasanti mad-niyogena adhivāsam ca rākṣasāḥ . bādhamānāḥ mahā-araṇye munīn ye dharma-cāriṇaḥ.. 4..
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम्॥ ५॥
चतुर्दश सहस्राणि रक्षसाम् भीम-कर्मणाम् । शूराणाम् लब्धलक्षाणाम् खर-चित्त-अनुवर्तिनाम्॥ ५॥
caturdaśa sahasrāṇi rakṣasām bhīma-karmaṇām . śūrāṇām labdhalakṣāṇām khara-citta-anuvartinām.. 5..
ते त्विदानीं जनस्थाने वसमाना महाबलाः । सङ्गताः परमायत्ता रामेण सह संयुगे॥ ६॥
ते तु इदानीम् जनस्थाने वसमानाः महा-बलाः । सङ्गताः परम-आयत्ताः रामेण सह संयुगे॥ ६॥
te tu idānīm janasthāne vasamānāḥ mahā-balāḥ . saṅgatāḥ parama-āyattāḥ rāmeṇa saha saṃyuge.. 6..
नानाशस्त्रप्रहरणाः खरप्रमुखराक्षसाः । तेन संजातरोषेण रामेण रणमूर्धनि॥ ७॥
नाना शस्त्र-प्रहरणाः खर-प्रमुख-राक्षसाः । तेन संजात-रोषेण रामेण रण-मूर्धनि॥ ७॥
nānā śastra-praharaṇāḥ khara-pramukha-rākṣasāḥ . tena saṃjāta-roṣeṇa rāmeṇa raṇa-mūrdhani.. 7..
अनुक्त्वा परुषं किंचिच्छरैर्व्यापारितं धनुः । चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम्॥ ८॥
अन् उक्त्वा परुषम् किंचिद् शरैः व्यापारितम् धनुः । चतुर्दश सहस्राणि रक्षसाम् उग्र-तेजसाम्॥ ८॥
an uktvā paruṣam kiṃcid śaraiḥ vyāpāritam dhanuḥ . caturdaśa sahasrāṇi rakṣasām ugra-tejasām.. 8..
निहतानि शरैर्दीप्तैर्मानुषेण पदातिना । खरश्च निहतः संख्ये दूषणश्च निपातितः॥ ९॥
निहतानि शरैः दीप्तैः मानुषेण पदातिना । खरः च निहतः संख्ये दूषणः च निपातितः॥ ९॥
nihatāni śaraiḥ dīptaiḥ mānuṣeṇa padātinā . kharaḥ ca nihataḥ saṃkhye dūṣaṇaḥ ca nipātitaḥ.. 9..
हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः । पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः॥ १०॥
हत्वा त्रिशिरसम् च अपि निर्भयाः दण्डकाः कृताः । पित्रा निरस्तः क्रुद्धेन स भार्यः क्षीण-जीवितः॥ १०॥
hatvā triśirasam ca api nirbhayāḥ daṇḍakāḥ kṛtāḥ . pitrā nirastaḥ kruddhena sa bhāryaḥ kṣīṇa-jīvitaḥ.. 10..
स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः । अशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः॥ ११॥
स हन्ता तस्य सैन्यस्य रामः क्षत्रिय-पांसनः । अशीलः कर्कशः तीक्ष्णः मूर्खः लुब्धः अजित-इन्द्रियः॥ ११॥
sa hantā tasya sainyasya rāmaḥ kṣatriya-pāṃsanaḥ . aśīlaḥ karkaśaḥ tīkṣṇaḥ mūrkhaḥ lubdhaḥ ajita-indriyaḥ.. 11..
त्यक्तधर्मा त्वधर्मात्मा भूतानामहिते रतः । येन वैरं विनारण्ये सत्त्वमास्थाय केवलम्॥ १२॥
त्यक्त-धर्मा तु अधर्म-आत्मा भूतानाम् अहिते रतः । येन वैरम् विना अरण्ये सत्त्वम् आस्थाय केवलम्॥ १२॥
tyakta-dharmā tu adharma-ātmā bhūtānām ahite rataḥ . yena vairam vinā araṇye sattvam āsthāya kevalam.. 12..
कर्णनासापहारेण भगिनी मे विरूपिता । अस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम्॥ १३॥
कर्ण-नासा-अपहारेण भगिनी मे विरूपिता । अस्य भार्याम् जनस्थानात् सीताम् सुर-सुता-उपमाम्॥ १३॥
karṇa-nāsā-apahāreṇa bhaginī me virūpitā . asya bhāryām janasthānāt sītām sura-sutā-upamām.. 13..
आनयिष्यामि विक्रम्य सहायस्तत्र मे भव । त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल॥ १४॥
आनयिष्यामि विक्रम्य सहायः तत्र मे भव । त्वया हि अहम् सहायेन पार्श्व-स्थेन महा-बल॥ १४॥
ānayiṣyāmi vikramya sahāyaḥ tatra me bhava . tvayā hi aham sahāyena pārśva-sthena mahā-bala.. 14..
भ्रातृभिश्च सुरान् सर्वान् नाहमत्राभिचिन्तये । तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस॥ १५॥
भ्रातृभिः च सुरान् सर्वान् न अहम् अत्र अभिचिन्तये । तद्-सहायः भव त्वम् मे समर्थः हि असि राक्षस॥ १५॥
bhrātṛbhiḥ ca surān sarvān na aham atra abhicintaye . tad-sahāyaḥ bhava tvam me samarthaḥ hi asi rākṣasa.. 15..
वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव । उपायतो महान् शूरो महामायाविशारदः॥ १६॥
वीर्ये युद्धे च दर्पे च न हि अस्ति सदृशः तव । उपायतस् महान् शूरः महा-माया-विशारदः॥ १६॥
vīrye yuddhe ca darpe ca na hi asti sadṛśaḥ tava . upāyatas mahān śūraḥ mahā-māyā-viśāradaḥ.. 16..
एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर । शृणु तत् कर्म साहाय्ये यत् कार्यं वचनान्मम॥ १७॥
एतद्-अर्थम् अहम् प्राप्तः त्वद्-समीपम् निशाचर । शृणु तत् कर्म साहाय्ये यत् कार्यम् वचनात् मम॥ १७॥
etad-artham aham prāptaḥ tvad-samīpam niśācara . śṛṇu tat karma sāhāyye yat kāryam vacanāt mama.. 17..
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः । आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर॥ १८॥
सौवर्णः त्वम् मृगः भूत्वा चित्रः रजत-बिन्दुभिः । आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर॥ १८॥
sauvarṇaḥ tvam mṛgaḥ bhūtvā citraḥ rajata-bindubhiḥ . āśrame tasya rāmasya sītāyāḥ pramukhe cara.. 18..
त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम् । गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति॥ १९॥
त्वाम् तु निःसंशयम् सीता दृष्ट्वा तु मृग-रूपिणम् । गृह्यताम् इति भर्तारम् लक्ष्मणम् च अभिधास्यति॥ १९॥
tvām tu niḥsaṃśayam sītā dṛṣṭvā tu mṛga-rūpiṇam . gṛhyatām iti bhartāram lakṣmaṇam ca abhidhāsyati.. 19..
ततस्तयोरपाये तु शून्ये सीतां यथासुखम् । निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव॥ २०॥
ततस् तयोः अपाये तु शून्ये सीताम् यथासुखम् । निराबाधः हरिष्यामि राहुः चन्द्र-प्रभाम् इव॥ २०॥
tatas tayoḥ apāye tu śūnye sītām yathāsukham . nirābādhaḥ hariṣyāmi rāhuḥ candra-prabhām iva.. 20..
ततः पश्चात् सुखं रामे भार्याहरणकर्शिते । विश्रब्धं प्रहरिष्यामि कृतार्थेनान्तरात्मना॥ २१॥
ततस् पश्चात् सुखम् रामे भार्या-हरण-कर्शिते । विश्रब्धम् प्रहरिष्यामि कृतार्थेन अन्तरात्मना॥ २१॥
tatas paścāt sukham rāme bhāryā-haraṇa-karśite . viśrabdham prahariṣyāmi kṛtārthena antarātmanā.. 21..
तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः । शुष्कं समभवद् वक्त्रं परित्रस्तो बभूव च॥ २२॥
तस्य राम-कथाम् श्रुत्वा मारीचस्य महात्मनः । शुष्कम् समभवत् वक्त्रम् परित्रस्तः बभूव च॥ २२॥
tasya rāma-kathām śrutvā mārīcasya mahātmanaḥ . śuṣkam samabhavat vaktram paritrastaḥ babhūva ca.. 22..
ओष्ठौ परिलिहन् शुष्कौ नेत्रैरनिमिषैरिव । मृतभूत इवार्तस्तु रावणं समुदैक्षत॥ २३॥
ओष्ठौ परिलिहन् शुष्कौ नेत्रैः अनिमिषैः इव । मृत-भूतः इव आर्तः तु रावणम् समुदैक्षत॥ २३॥
oṣṭhau parilihan śuṣkau netraiḥ animiṣaiḥ iva . mṛta-bhūtaḥ iva ārtaḥ tu rāvaṇam samudaikṣata.. 23..
स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः । कृताञ्जलिस्तत्त्वमुवाच वाक्यं हितं च तस्मै हितमात्मनश्च॥ २४॥
स रावणम् त्रस्त-विषण्ण-चेताः महा-वने राम-पराक्रम-ज्ञः । कृताञ्जलिः तत्त्वम् उवाच वाक्यम् हितम् च तस्मै हितम् आत्मनः च॥ २४॥
sa rāvaṇam trasta-viṣaṇṇa-cetāḥ mahā-vane rāma-parākrama-jñaḥ . kṛtāñjaliḥ tattvam uvāca vākyam hitam ca tasmai hitam ātmanaḥ ca.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षट्त्रिंशः सर्गः ॥३-३६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे षट्त्रिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ṣaṭtriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In