This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तत्रिंशः सर्गः ॥३-३७॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे सप्तत्रिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe saptatriṃśaḥ sargaḥ ..3..
तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः । प्रत्युवाच महातेजा मारीचो राक्षसेश्वरम्॥ १॥
तत् श्रुत्वा राक्षस-इन्द्रस्य वाक्यम् वाक्य-विशारदः । प्रत्युवाच महा-तेजाः मारीचः राक्षसेश्वरम्॥ १॥
tat śrutvā rākṣasa-indrasya vākyam vākya-viśāradaḥ . pratyuvāca mahā-tejāḥ mārīcaḥ rākṣaseśvaram.. 1..
सुलभाः पुरुषा राजन् सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः॥ २॥
सुलभाः पुरुषाः राजन् सततम् प्रिय-वादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः॥ २॥
sulabhāḥ puruṣāḥ rājan satatam priya-vādinaḥ . apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ.. 2..
न नूनं बुध्यसे रामं महावीर्यगुणोन्नतम् । अयुक्तचारश्चपलो महेन्द्रवरुणोपमम्॥ ३॥
न नूनम् बुध्यसे रामम् महा-वीर्य-गुण-उन्नतम् । अ युक्त-चारः चपलः महा-इन्द्र-वरुण-उपमम्॥ ३॥
na nūnam budhyase rāmam mahā-vīrya-guṇa-unnatam . a yukta-cāraḥ capalaḥ mahā-indra-varuṇa-upamam.. 3..
अपि स्वस्ति भवेत् तात सर्वेषामपि रक्षसाम् । अपि रामो न संक्रुद्धः कुर्याल्लोकानराक्षसान्॥ ४॥
अपि स्वस्ति भवेत् तात सर्वेषाम् अपि रक्षसाम् । अपि रामः न संक्रुद्धः कुर्यात् लोकान् अराक्षसान्॥ ४॥
api svasti bhavet tāta sarveṣām api rakṣasām . api rāmaḥ na saṃkruddhaḥ kuryāt lokān arākṣasān.. 4..
अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा । अपि सीतानिमित्तं च न भवेद् व्यसनं महत्॥ ५॥
अपि ते जीवित-अन्ताय ना उत्पन्ना जनकात्मजा । अपि सीता-निमित्तम् च न भवेत् व्यसनम् महत्॥ ५॥
api te jīvita-antāya nā utpannā janakātmajā . api sītā-nimittam ca na bhavet vyasanam mahat.. 5..
अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् । न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा॥ ६॥
अपि त्वाम् ईश्वरम् प्राप्य काम-वृत्तम् निरङ्कुशम् । न विनश्येत् पुरी लङ्का त्वया सह स राक्षसा॥ ६॥
api tvām īśvaram prāpya kāma-vṛttam niraṅkuśam . na vinaśyet purī laṅkā tvayā saha sa rākṣasā.. 6..
त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः । आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः॥ ७॥
त्वद्विधः काम-वृत्तः हि दुःशीलः पाप-मन्त्रितः । आत्मानम् स्व-जनम् राष्ट्रम् स राजा हन्ति दुर्मतिः॥ ७॥
tvadvidhaḥ kāma-vṛttaḥ hi duḥśīlaḥ pāpa-mantritaḥ . ātmānam sva-janam rāṣṭram sa rājā hanti durmatiḥ.. 7..
न च पित्रा परित्यक्तो नामर्यादः कथंचन । न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः॥ ८॥
न च पित्रा परित्यक्तः न अमर्यादः कथंचन । न लुब्धः न च दुःशीलः न च क्षत्रिय-पांसनः॥ ८॥
na ca pitrā parityaktaḥ na amaryādaḥ kathaṃcana . na lubdhaḥ na ca duḥśīlaḥ na ca kṣatriya-pāṃsanaḥ.. 8..
न च धर्मगुणैर्हीनः कौसल्यानन्दवर्धनः । न च तीक्ष्णो हि भूतानां सर्वभूतहिते रतः॥ ९॥
न च धर्म-गुणैः हीनः कौसल्या-आनन्द-वर्धनः । न च तीक्ष्णः हि भूतानाम् सर्व-भूत-हिते रतः॥ ९॥
na ca dharma-guṇaiḥ hīnaḥ kausalyā-ānanda-vardhanaḥ . na ca tīkṣṇaḥ hi bhūtānām sarva-bhūta-hite rataḥ.. 9..
वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् । करिष्यामीति धर्मात्मा ततः प्रव्रजितो वनम्॥ १०॥
वञ्चितम् पितरम् दृष्ट्वा कैकेय्या सत्य-वादिनम् । करिष्यामि इति धर्म-आत्मा ततस् प्रव्रजितः वनम्॥ १०॥
vañcitam pitaram dṛṣṭvā kaikeyyā satya-vādinam . kariṣyāmi iti dharma-ātmā tatas pravrajitaḥ vanam.. 10..
कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च । हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम्॥ ११॥
कैकेय्याः प्रिय-काम-अर्थम् पितुः दशरथस्य च । हित्वा राज्यम् च भोगान् च प्रविष्टः दण्डक-वनम्॥ ११॥
kaikeyyāḥ priya-kāma-artham pituḥ daśarathasya ca . hitvā rājyam ca bhogān ca praviṣṭaḥ daṇḍaka-vanam.. 11..
न रामः कर्कशस्तात नाविद्वान् नाजितेन्द्रियः । अनृतं न श्रुतं चैव नैव त्वं वक्तुमर्हसि॥ १२॥
न रामः कर्कशः तात न अ विद्वान् न अजित-इन्द्रियः । अनृतम् न श्रुतम् च एव ना एव त्वम् वक्तुम् अर्हसि॥ १२॥
na rāmaḥ karkaśaḥ tāta na a vidvān na ajita-indriyaḥ . anṛtam na śrutam ca eva nā eva tvam vaktum arhasi.. 12..
रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः । राजा सर्वस्य लोकस्य देवानामिव वासवः॥ १३॥
रामः विग्रहवान् धर्मः साधुः सत्य-पराक्रमः । राजा सर्वस्य लोकस्य देवानाम् इव वासवः॥ १३॥
rāmaḥ vigrahavān dharmaḥ sādhuḥ satya-parākramaḥ . rājā sarvasya lokasya devānām iva vāsavaḥ.. 13..
कथं नु तस्य वैदेहीं रक्षितां स्वेन तेजसा । इच्छसे प्रसभं हर्तुं प्रभामिव विवस्वतः॥ १४॥
कथम् नु तस्य वैदेहीम् रक्षिताम् स्वेन तेजसा । इच्छसे प्रसभम् हर्तुम् प्रभाम् इव विवस्वतः॥ १४॥
katham nu tasya vaidehīm rakṣitām svena tejasā . icchase prasabham hartum prabhām iva vivasvataḥ.. 14..
शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणे । रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि॥ १५॥
शर-अर्चिषम् अनाधृष्यम् चाप-खड्ग-इन्धनम् रणे । राम-अग्निम् सहसा दीप्तम् न प्रवेष्टुम् त्वम् अर्हसि॥ १५॥
śara-arciṣam anādhṛṣyam cāpa-khaḍga-indhanam raṇe . rāma-agnim sahasā dīptam na praveṣṭum tvam arhasi.. 15..
धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम् । चापबाणधरं तीक्ष्णं शत्रुसेनापहारिणम्॥ १६॥
धनुः-व्यादित-दीप्त-आस्यम् शर-अर्चिषम् अमर्षणम् । चाप-बाण-धरम् तीक्ष्णम् शत्रु-सेना-अपहारिणम्॥ १६॥
dhanuḥ-vyādita-dīpta-āsyam śara-arciṣam amarṣaṇam . cāpa-bāṇa-dharam tīkṣṇam śatru-senā-apahāriṇam.. 16..
राज्यं सुखं च संत्यज्य जीवितं चेष्टमात्मनः । नात्यासादयितुं तात रामान्तकमिहार्हसि॥ १७॥
राज्यम् सुखम् च संत्यज्य जीवितम् च इष्टम् आत्मनः । न अत्यासादयितुम् तात राम-अन्तकम् इह अर्हसि॥ १७॥
rājyam sukham ca saṃtyajya jīvitam ca iṣṭam ātmanaḥ . na atyāsādayitum tāta rāma-antakam iha arhasi.. 17..
अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा । न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने॥ १८॥
अप्रमेयम् हि तत् तेजः यस्य सा जनकात्मजा । न त्वम् समर्थः ताम् हर्तुम् राम-चाप-आश्रयाम् वने॥ १८॥
aprameyam hi tat tejaḥ yasya sā janakātmajā . na tvam samarthaḥ tām hartum rāma-cāpa-āśrayām vane.. 18..
तस्य वै नरसिंहस्य सिंहोरस्कस्य भामिनी । प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता॥ १९॥
तस्य वै नरसिंहस्य सिंह-उरस्कस्य भामिनी । प्राणेभ्यः अपि प्रियतरा भार्या नित्यम् अनुव्रता॥ १९॥
tasya vai narasiṃhasya siṃha-uraskasya bhāminī . prāṇebhyaḥ api priyatarā bhāryā nityam anuvratā.. 19..
न सा धर्षयितुं शक्या मैथिल्योजस्विनः प्रिया । दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा॥ २०॥
न सा धर्षयितुम् शक्या मैथिली ओजस्विनः प्रिया । दीप्तस्य इव हुताशस्य शिखा सीता सुमध्यमा॥ २०॥
na sā dharṣayitum śakyā maithilī ojasvinaḥ priyā . dīptasya iva hutāśasya śikhā sītā sumadhyamā.. 20..
किमुद्यमं व्यर्थमिमं कृत्वा ते राक्षसाधिप । दृष्टश्चेत् त्वं रणे तेन तदन्तमुपजीवितम्॥ २१॥
किम् उद्यमम् व्यर्थम् इमम् कृत्वा ते राक्षस-अधिप । दृष्टः चेद् त्वम् रणे तेन तद्-अन्तम् उपजीवितम्॥ २१॥
kim udyamam vyartham imam kṛtvā te rākṣasa-adhipa . dṛṣṭaḥ ced tvam raṇe tena tad-antam upajīvitam.. 21..
जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् । यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम्॥ २२॥
जीवितम् च सुखम् च एव राज्यम् च एव सु दुर्लभम् । यदि इच्छसि चिरम् भोक्तुम् मा कृथाः राम-विप्रियम्॥ २२॥
jīvitam ca sukham ca eva rājyam ca eva su durlabham . yadi icchasi ciram bhoktum mā kṛthāḥ rāma-vipriyam.. 22..
स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः । मन्त्रयित्वा स धर्मिष्ठैः कृत्वा निश्चयमात्मनः । दोषाणां च गुणानां च सम्प्रधार्य बलाबलम्॥ २३॥
स सर्वैः सचिवैः सार्धम् विभीषण-पुरस्कृतैः । मन्त्रयित्वा स धर्मिष्ठैः कृत्वा निश्चयम् आत्मनः । दोषाणाम् च गुणानाम् च सम्प्रधार्य बलाबलम्॥ २३॥
sa sarvaiḥ sacivaiḥ sārdham vibhīṣaṇa-puraskṛtaiḥ . mantrayitvā sa dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ . doṣāṇām ca guṇānām ca sampradhārya balābalam.. 23..
आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः । हितं हि तव निश्चित्य क्षमं त्वं कर्तुमर्हसि॥ २४॥
आत्मनः च बलम् ज्ञात्वा राघवस्य च तत्त्वतः । हितम् हि तव निश्चित्य क्षमम् त्वम् कर्तुम् अर्हसि॥ २४॥
ātmanaḥ ca balam jñātvā rāghavasya ca tattvataḥ . hitam hi tava niścitya kṣamam tvam kartum arhasi.. 24..
अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना । इदं हि भूयः शृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचराधिप॥ २५॥
अहम् तु मन्ये तव न क्षमम् रणे समागमम् कोसल-राज-सूनुना । इदम् हि भूयस् शृणु वाक्यम् उत्तमम् क्षमम् च युक्तम् च निशाचर-अधिप॥ २५॥
aham tu manye tava na kṣamam raṇe samāgamam kosala-rāja-sūnunā . idam hi bhūyas śṛṇu vākyam uttamam kṣamam ca yuktam ca niśācara-adhipa.. 25..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तत्रिंशः सर्गः ॥३-३७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे सप्तत्रिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe saptatriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In