This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टात्रिंशः सर्गः ॥३-३८॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे अष्टात्रिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe aṣṭātriṃśaḥ sargaḥ ..3..
कदाचिदप्यहं वीर्यात् पर्यटन् पृथिवीमिमाम् । बलं नागसहस्रस्य धारयन् पर्वतोपमः॥ १॥
कदाचिद् अपि अहम् वीर्यात् पर्यटन् पृथिवीम् इमाम् । बलम् नाग-सहस्रस्य धारयन् पर्वत-उपमः॥ १॥
kadācid api aham vīryāt paryaṭan pṛthivīm imām . balam nāga-sahasrasya dhārayan parvata-upamaḥ.. 1..
नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः । भयं लोकस्य जनयन् किरीटी परिघायुधः॥ २॥
नील-जीमूत-संकाशः तप्त-काञ्चन-कुण्डलः । भयम् लोकस्य जनयन् किरीटी परिघ-आयुधः॥ २॥
nīla-jīmūta-saṃkāśaḥ tapta-kāñcana-kuṇḍalaḥ . bhayam lokasya janayan kirīṭī parigha-āyudhaḥ.. 2..
व्यचरन् दण्डकारण्यमृषिमांसानि भक्षयन् । विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः॥ ३॥
व्यचरन् दण्डक-अरण्यम् ऋषि-मांसानि भक्षयन् । विश्वामित्रः अथ धर्म-आत्मा मद्-वित्रस्तः महा-मुनिः॥ ३॥
vyacaran daṇḍaka-araṇyam ṛṣi-māṃsāni bhakṣayan . viśvāmitraḥ atha dharma-ātmā mad-vitrastaḥ mahā-muniḥ.. 3..
स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत् । अयं रक्षतु मां रामः पर्वकाले समाहितः॥ ४॥
स्वयम् गत्वा दशरथम् नरेन्द्रम् इदम् अब्रवीत् । अयम् रक्षतु माम् रामः पर्व-काले समाहितः॥ ४॥
svayam gatvā daśaratham narendram idam abravīt . ayam rakṣatu mām rāmaḥ parva-kāle samāhitaḥ.. 4..
मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर । इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा॥ ५॥
मारीचात् मे भयम् घोरम् समुत्पन्नम् नरेश्वर । इति एवम् उक्तः धर्म-आत्मा राजा दशरथः तदा॥ ५॥
mārīcāt me bhayam ghoram samutpannam nareśvara . iti evam uktaḥ dharma-ātmā rājā daśarathaḥ tadā.. 5..
प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् । ऊनद्वादशवर्षोऽयमकृतास्त्रश्च राघवः॥ ६॥
प्रत्युवाच महाभागम् विश्वामित्रम् महा-मुनिम् । ऊन-द्वादश-वर्षः अयम् अकृत-अस्त्रः च राघवः॥ ६॥
pratyuvāca mahābhāgam viśvāmitram mahā-munim . ūna-dvādaśa-varṣaḥ ayam akṛta-astraḥ ca rāghavaḥ.. 6..
कामं तु मम तत् सैन्यं मया सह गमिष्यति । बलेन चतुरङ्गेण स्वयमेत्य निशाचरम्॥ ७॥
कामम् तु मम तत् सैन्यम् मया सह गमिष्यति । बलेन चतुरङ्गेण स्वयम् एत्य निशाचरम्॥ ७॥
kāmam tu mama tat sainyam mayā saha gamiṣyati . balena caturaṅgeṇa svayam etya niśācaram.. 7..
वधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम् । एवमुक्तः स तु मुनी राजानमिदमब्रवीत्॥ ८॥
वधिष्यामि मुनि-श्रेष्ठ शत्रुम् तव यथा ईप्सितम् । एवम् उक्तः स तु मुनिः राजानम् इदम् अब्रवीत्॥ ८॥
vadhiṣyāmi muni-śreṣṭha śatrum tava yathā īpsitam . evam uktaḥ sa tu muniḥ rājānam idam abravīt.. 8..
रामान्नान्यद् बलं लोके पर्याप्तं तस्य रक्षसः । देवतानामपि भवान् समरेष्वभिपालकः॥ ९॥
रामात् ना अन्यत् बलम् लोके पर्याप्तम् तस्य रक्षसः । देवतानाम् अपि भवान् समरेषु अभिपालकः॥ ९॥
rāmāt nā anyat balam loke paryāptam tasya rakṣasaḥ . devatānām api bhavān samareṣu abhipālakaḥ.. 9..
आसीत् तव कृतं कर्म त्रिलोकविदितं नृप । काममस्ति महत् सैन्यं तिष्ठत्विह परंतप॥ १०॥
आसीत् तव कृतम् कर्म त्रिलोक-विदितम् नृप । कामम् अस्ति महत् सैन्यम् तिष्ठतु इह परंतप॥ १०॥
āsīt tava kṛtam karma triloka-viditam nṛpa . kāmam asti mahat sainyam tiṣṭhatu iha paraṃtapa.. 10..
बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहे । गमिष्ये राममादाय स्वस्ति तेऽस्तु परंतप॥ ११॥
बालः अपि एष महा-तेजाः समर्थः तस्य निग्रहे । गमिष्ये रामम् आदाय स्वस्ति ते अस्तु परंतप॥ ११॥
bālaḥ api eṣa mahā-tejāḥ samarthaḥ tasya nigrahe . gamiṣye rāmam ādāya svasti te astu paraṃtapa.. 11..
इत्येवमुक्त्वा स मुनिस्तमादाय नृपात्मजम् । जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम्॥ १२॥
इति एवम् उक्त्वा स मुनिः तम् आदाय नृप-आत्मजम् । जगाम परम-प्रीतः विश्वामित्रः स्वम् आश्रमम्॥ १२॥
iti evam uktvā sa muniḥ tam ādāya nṛpa-ātmajam . jagāma parama-prītaḥ viśvāmitraḥ svam āśramam.. 12..
तं तथा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम् । बभूवोपस्थितो रामश्चित्रं विस्फारयन् धनुः॥ १३॥
तम् तथा दण्डक-अरण्ये यज्ञम् उद्दिश्य दीक्षितम् । बभूव उपस्थितः रामः चित्रम् विस्फारयन् धनुः॥ १३॥
tam tathā daṇḍaka-araṇye yajñam uddiśya dīkṣitam . babhūva upasthitaḥ rāmaḥ citram visphārayan dhanuḥ.. 13..
अजातव्यञ्जनः श्रीमान् बालः श्यामः शुभेक्षणः । एकवस्त्रधरो धन्वी शिखी कनकमालया॥ १४॥
अजात-व्यञ्जनः श्रीमान् बालः श्यामः शुभ-ईक्षणः । एक-वस्त्र-धरः धन्वी शिखी कनक-मालया॥ १४॥
ajāta-vyañjanaḥ śrīmān bālaḥ śyāmaḥ śubha-īkṣaṇaḥ . eka-vastra-dharaḥ dhanvī śikhī kanaka-mālayā.. 14..
शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा । अदृश्यत तदा रामो बालचन्द्र इवोदितः॥ १५॥
शोभयन् दण्डक-अरण्यम् दीप्तेन स्वेन तेजसा । अदृश्यत तदा रामः बाल-चन्द्रः इव उदितः॥ १५॥
śobhayan daṇḍaka-araṇyam dīptena svena tejasā . adṛśyata tadā rāmaḥ bāla-candraḥ iva uditaḥ.. 15..
ततोऽहं मेघसंकाशस्तप्तकाञ्चनकुण्डलः । बली दत्तवरो दर्पादाजगामाश्रमान्तरम्॥ १६॥
ततस् अहम् मेघ-संकाशः तप्त-काञ्चन-कुण्डलः । बली दत्त-वरः दर्पात् आजगाम आश्रम-अन्तरम्॥ १६॥
tatas aham megha-saṃkāśaḥ tapta-kāñcana-kuṇḍalaḥ . balī datta-varaḥ darpāt ājagāma āśrama-antaram.. 16..
तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः । मां तु दृष्ट्वा धनुः सज्यमसम्भ्रान्तश्चकार ह॥ १७॥
तेन दृष्टः प्रविष्टः अहम् सहसा एव उद्यत-आयुधः । माम् तु दृष्ट्वा धनुः सज्यम् असम्भ्रान्तः चकार ह॥ १७॥
tena dṛṣṭaḥ praviṣṭaḥ aham sahasā eva udyata-āyudhaḥ . mām tu dṛṣṭvā dhanuḥ sajyam asambhrāntaḥ cakāra ha.. 17..
अवजानन्नहं मोहाद् बालोऽयमिति राघवम् । विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः॥ १८॥
अवजानन् अहम् मोहात् बालः अयम् इति राघवम् । विश्वामित्रस्य ताम् वेदिम् अभ्यधावम् कृत-त्वरः॥ १८॥
avajānan aham mohāt bālaḥ ayam iti rāghavam . viśvāmitrasya tām vedim abhyadhāvam kṛta-tvaraḥ.. 18..
तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः । तेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने॥ १९॥
तेन मुक्तः ततस् बाणः शितः शत्रु-निबर्हणः । तेन अहम् ताडितः क्षिप्तः समुद्रे शत-योजने॥ १९॥
tena muktaḥ tatas bāṇaḥ śitaḥ śatru-nibarhaṇaḥ . tena aham tāḍitaḥ kṣiptaḥ samudre śata-yojane.. 19..
नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः । रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः॥ २०॥
न इच्छता तात माम् हन्तुम् तदा वीरेण रक्षितः । रामस्य शर-वेगेन निरस्तः भ्रान्त-चेतनः॥ २०॥
na icchatā tāta mām hantum tadā vīreṇa rakṣitaḥ . rāmasya śara-vegena nirastaḥ bhrānta-cetanaḥ.. 20..
पातितोऽहं तदा तेन गम्भीरे सागराम्भसि । प्राप्य संज्ञां चिरात् तात लङ्कां प्रति गतः पुरीम्॥ २१॥
पातितः अहम् तदा तेन गम्भीरे सागर-अम्भसि । प्राप्य संज्ञाम् चिरात् तात लङ्काम् प्रति गतः पुरीम्॥ २१॥
pātitaḥ aham tadā tena gambhīre sāgara-ambhasi . prāpya saṃjñām cirāt tāta laṅkām prati gataḥ purīm.. 21..
एवमस्मि तदा मुक्तः सहायास्ते निपातिताः । अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा॥ २२॥
एवम् अस्मि तदा मुक्तः सहायाः ते निपातिताः । अकृत-अस्त्रेण रामेण बालेन अक्लिष्ट-कर्मणा॥ २२॥
evam asmi tadā muktaḥ sahāyāḥ te nipātitāḥ . akṛta-astreṇa rāmeṇa bālena akliṣṭa-karmaṇā.. 22..
तन्मया वार्यमाणस्तु यदि रामेण विग्रहम् । करिष्यस्यापदां घोरां क्षिप्रं प्राप्य न शिष्यसि॥ २३॥
तत् मया वार्यमाणः तु यदि रामेण विग्रहम् । करिष्यसि आपदाम् घोराम् क्षिप्रम् प्राप्य न शिष्यसि॥ २३॥
tat mayā vāryamāṇaḥ tu yadi rāmeṇa vigraham . kariṣyasi āpadām ghorām kṣipram prāpya na śiṣyasi.. 23..
क्रीडारतिविधिज्ञानां समाजोत्सवदर्शिनाम् । रक्षसां चैव संतापमनर्थं चाहरिष्यसि॥ २४॥
क्रीडा-रति-विधि-ज्ञानाम् समाज-उत्सव-दर्शिनाम् । रक्षसाम् च एव संतापम् अनर्थम् च आहरिष्यसि॥ २४॥
krīḍā-rati-vidhi-jñānām samāja-utsava-darśinām . rakṣasām ca eva saṃtāpam anartham ca āhariṣyasi.. 24..
हर्म्यप्रासादसम्बाधां नानारत्नविभूषिताम् । द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते॥ २५॥
हर्म्य-प्रासाद-सम्बाधाम् नाना रत्न-विभूषिताम् । द्रक्ष्यसि त्वम् पुरीम् लङ्काम् विनष्टाम् मैथिली-कृते॥ २५॥
harmya-prāsāda-sambādhām nānā ratna-vibhūṣitām . drakṣyasi tvam purīm laṅkām vinaṣṭām maithilī-kṛte.. 25..
अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात् । परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा॥ २६॥
अकुर्वन्तः अपि पापानि शुचयः पाप-संश्रयात् । पर-पापैः विनश्यन्ति मत्स्याः नाग-ह्रदे यथा॥ २६॥
akurvantaḥ api pāpāni śucayaḥ pāpa-saṃśrayāt . para-pāpaiḥ vinaśyanti matsyāḥ nāga-hrade yathā.. 26..
दिव्यचन्दनदिग्धाङ्गान् दिव्याभरणभूषितान् । द्रक्ष्यस्यभिहतान् भूमौ तव दोषात् तु राक्षसान्॥ २७॥
दिव्य-चन्दन-दिग्ध-अङ्गान् दिव्य-आभरण-भूषितान् । द्रक्ष्यसि अभिहतान् भूमौ तव दोषात् तु राक्षसान्॥ २७॥
divya-candana-digdha-aṅgān divya-ābharaṇa-bhūṣitān . drakṣyasi abhihatān bhūmau tava doṣāt tu rākṣasān.. 27..
हृतदारान् सदारांश्च दश विद्रवतो दिशः । हतशेषानशरणान् द्रक्ष्यसि त्वं निशाचरान्॥ २८॥
हृत-दारान् स दारान् च दश विद्रवतः दिशः । हत-शेषान् अशरणान् द्रक्ष्यसि त्वम् निशाचरान्॥ २८॥
hṛta-dārān sa dārān ca daśa vidravataḥ diśaḥ . hata-śeṣān aśaraṇān drakṣyasi tvam niśācarān.. 28..
शरजालपरिक्षिप्तामग्निज्वालासमावृताम् । प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वमसंशयम्॥ २९॥
शर-जाल-परिक्षिप्ताम् अग्नि-ज्वाला-समावृताम् । प्रदग्ध-भवनाम् लङ्काम् द्रक्ष्यसि त्वम् असंशयम्॥ २९॥
śara-jāla-parikṣiptām agni-jvālā-samāvṛtām . pradagdha-bhavanām laṅkām drakṣyasi tvam asaṃśayam.. 29..
परदाराभिमर्शात् तु नान्यत् पापतरं महत् । प्रमदानां सहस्राणि तव राजन् परिग्रहे॥ ३०॥
पर-दार-अभिमर्शात् तु न अन्यत् पापतरम् महत् । प्रमदानाम् सहस्राणि तव राजन् परिग्रहे॥ ३०॥
para-dāra-abhimarśāt tu na anyat pāpataram mahat . pramadānām sahasrāṇi tava rājan parigrahe.. 30..
भव स्वदारनिरतः स्वकुलं रक्ष राक्षसान् । मानं वृद्धिं च राज्यं च जीवितं चेष्टमात्मनः॥ ३१॥
भव स्व-दार-निरतः स्व-कुलम् रक्ष राक्षसान् । मानम् वृद्धिम् च राज्यम् च जीवितम् च इष्टम् आत्मनः॥ ३१॥
bhava sva-dāra-nirataḥ sva-kulam rakṣa rākṣasān . mānam vṛddhim ca rājyam ca jīvitam ca iṣṭam ātmanaḥ.. 31..
कलत्राणि च सौम्यानि मित्रवर्गं तथैव च । यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम्॥ ३२॥
कलत्राणि च सौम्यानि मित्र-वर्गम् तथा एव च । यदि इच्छसि चिरम् भोक्तुम् मा कृथाः राम-विप्रियम्॥ ३२॥
kalatrāṇi ca saumyāni mitra-vargam tathā eva ca . yadi icchasi ciram bhoktum mā kṛthāḥ rāma-vipriyam.. 32..
निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि । गमिष्यसि क्षीणबलः सबान्धवो यमक्षयं रामशरास्तजीवितः॥ ३३॥
निवार्यमाणः सुहृदा मया भृशम् प्रसह्य सीताम् यदि धर्षयिष्यसि । गमिष्यसि क्षीण-बलः स बान्धवः यम-क्षयम् राम-शर-अस्त-जीवितः॥ ३३॥
nivāryamāṇaḥ suhṛdā mayā bhṛśam prasahya sītām yadi dharṣayiṣyasi . gamiṣyasi kṣīṇa-balaḥ sa bāndhavaḥ yama-kṣayam rāma-śara-asta-jīvitaḥ.. 33..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टात्रिंशः सर्गः ॥३-३८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे अष्टात्रिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe aṣṭātriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In