This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनचत्वारिंशः सर्गः ॥३-३९॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे एकोनचत्वारिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ekonacatvāriṃśaḥ sargaḥ ..3..
एवमस्मि तदा मुक्तः कथंचित् तेन संयुगे । इदानीमपि यद् वृत्तं तच्छृणुष्व यदुत्तरम्॥ १॥
एवम् अस्मि तदा मुक्तः कथंचिद् तेन संयुगे । इदानीम् अपि यत् वृत्तम् तत् शृणुष्व यत् उत्तरम्॥ १॥
evam asmi tadā muktaḥ kathaṃcid tena saṃyuge . idānīm api yat vṛttam tat śṛṇuṣva yat uttaram.. 1..
राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथाकृतः । सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावने॥ २॥
राक्षसाभ्याम् अहम् द्वाभ्याम् अनिर्विण्णः तथाकृतः । सहितः मृग-रूपाभ्याम् प्रविष्टः दण्डक-वने॥ २॥
rākṣasābhyām aham dvābhyām anirviṇṇaḥ tathākṛtaḥ . sahitaḥ mṛga-rūpābhyām praviṣṭaḥ daṇḍaka-vane.. 2..
दीप्तजिह्वो महादंष्ट्रस्तीक्ष्णशृङ्गो महाबलः । व्यचरन् दण्डकारण्यं मांसभक्षो महामृगः॥ ३॥
दीप्त-जिह्वः महा-दंष्ट्रः तीक्ष्ण-शृङ्गः महा-बलः । व्यचरन् दण्डक-अरण्यम् मांसभक्षः महामृगः॥ ३॥
dīpta-jihvaḥ mahā-daṃṣṭraḥ tīkṣṇa-śṛṅgaḥ mahā-balaḥ . vyacaran daṇḍaka-araṇyam māṃsabhakṣaḥ mahāmṛgaḥ.. 3..
अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण । अत्यन्तघोरो व्यचरंस्तापसांस्तान् प्रधर्षयन्॥ ४॥
अग्निहोत्रेषु तीर्थेषु चैत्य-वृक्षेषु रावण । अत्यन्त-घोरः व्यचरन् तापसान् तान् प्रधर्षयन्॥ ४॥
agnihotreṣu tīrtheṣu caitya-vṛkṣeṣu rāvaṇa . atyanta-ghoraḥ vyacaran tāpasān tān pradharṣayan.. 4..
निहत्य दण्डकारण्ये तापसान् धर्मचारिणः । रुधिराणि पिबंस्तेषां तन्मांसानि च भक्षयन्॥ ५॥
निहत्य दण्डक-अरण्ये तापसान् धर्म-चारिणः । रुधिराणि पिबन् तेषाम् तद्-मांसानि च भक्षयन्॥ ५॥
nihatya daṇḍaka-araṇye tāpasān dharma-cāriṇaḥ . rudhirāṇi piban teṣām tad-māṃsāni ca bhakṣayan.. 5..
ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान् । तदा रुधिरमत्तोऽहं व्यचरं दण्डकावनम्॥ ६॥
ऋषि-मांस-अशनः क्रूरः त्रासयन् वन-गोचरान् । तदा रुधिर-मत्तः अहम् व्यचरम् दण्डक-वनम्॥ ६॥
ṛṣi-māṃsa-aśanaḥ krūraḥ trāsayan vana-gocarān . tadā rudhira-mattaḥ aham vyacaram daṇḍaka-vanam.. 6..
तदाहं दण्डकारण्ये विचरन् धर्मदूषकः । आसादयं तदा रामं तापसं धर्ममाश्रितम्॥ ७॥
तदा अहम् दण्डक-अरण्ये विचरन् धर्म-दूषकः । आसादयम् तदा रामम् तापसम् धर्मम् आश्रितम्॥ ७॥
tadā aham daṇḍaka-araṇye vicaran dharma-dūṣakaḥ . āsādayam tadā rāmam tāpasam dharmam āśritam.. 7..
वैदेहीं च महाभागां लक्ष्मणं च महारथम् । तापसं नियताहारं सर्वभूतहिते रतम्॥ ८॥
वैदेहीम् च महाभागाम् लक्ष्मणम् च महा-रथम् । तापसम् नियत-आहारम् सर्व-भूत-हिते रतम्॥ ८॥
vaidehīm ca mahābhāgām lakṣmaṇam ca mahā-ratham . tāpasam niyata-āhāram sarva-bhūta-hite ratam.. 8..
सोऽहं वनगतं रामं परिभूय महाबलम् । तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन्॥ ९॥
सः अहम् वन-गतम् रामम् परिभूय महा-बलम् । तापसः अयम् इति ज्ञात्वा पूर्व-वैरम् अनुस्मरन्॥ ९॥
saḥ aham vana-gatam rāmam paribhūya mahā-balam . tāpasaḥ ayam iti jñātvā pūrva-vairam anusmaran.. 9..
अभ्यधावं सुसंक्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः । जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन्॥ १०॥
अभ्यधावम् सु संक्रुद्धः तीक्ष्ण-शृङ्गः मृग-आकृतिः । जिघांसुः अ कृत-प्रज्ञः तम् प्रहारम् अनुस्मरन्॥ १०॥
abhyadhāvam su saṃkruddhaḥ tīkṣṇa-śṛṅgaḥ mṛga-ākṛtiḥ . jighāṃsuḥ a kṛta-prajñaḥ tam prahāram anusmaran.. 10..
तेन त्यक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः । विकृष्य सुमहच्चापं सुपर्णानिलतुल्यगाः॥ ११॥
तेन त्यक्ताः त्रयः बाणाः शिताः शत्रु-निबर्हणाः । विकृष्य सु महत् चापम् सुपर्ण-अनिल-तुल्य-गाः॥ ११॥
tena tyaktāḥ trayaḥ bāṇāḥ śitāḥ śatru-nibarhaṇāḥ . vikṛṣya su mahat cāpam suparṇa-anila-tulya-gāḥ.. 11..
ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाः । आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः॥ १२॥
ते बाणाः वज्र-संकाशाः सु घोराः रक्त-भोजनाः । आजग्मुः सहिताः सर्वे त्रयः संनत-पर्वणः॥ १२॥
te bāṇāḥ vajra-saṃkāśāḥ su ghorāḥ rakta-bhojanāḥ . ājagmuḥ sahitāḥ sarve trayaḥ saṃnata-parvaṇaḥ.. 12..
पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा । समुत्क्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ॥ १३॥
पराक्रम-ज्ञः रामस्य शठः दृष्ट-भयः पुरा । समुत्क्रान्तः ततस् मुक्तः तौ उभौ राक्षसौ हतौ॥ १३॥
parākrama-jñaḥ rāmasya śaṭhaḥ dṛṣṭa-bhayaḥ purā . samutkrāntaḥ tatas muktaḥ tau ubhau rākṣasau hatau.. 13..
शरेण मुक्तो रामस्य कथंचित् प्राप्य जीवितम् । इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः॥ १४॥
शरेण मुक्तः रामस्य कथंचिद् प्राप्य जीवितम् । इह प्रव्राजितः युक्तः तापसः अहम् समाहितः॥ १४॥
śareṇa muktaḥ rāmasya kathaṃcid prāpya jīvitam . iha pravrājitaḥ yuktaḥ tāpasaḥ aham samāhitaḥ.. 14..
वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम् । गृहीतधनुषं रामं पाशहस्तमिवान्तकम्॥ १५॥
वृक्षे वृक्षे हि पश्यामि चीर-कृष्ण-अजिन-अम्बरम् । रामम् पाश-हस्तम् इव अन्तकम्॥ १५॥
vṛkṣe vṛkṣe hi paśyāmi cīra-kṛṣṇa-ajina-ambaram . rāmam pāśa-hastam iva antakam.. 15..
अपि रामसहस्राणि भीतः पश्यामि रावण । रामभूतमिदं सर्वमरण्यं प्रतिभाति मे॥ १६॥
अपि राम-सहस्राणि भीतः पश्यामि रावण । राम-भूतम् इदम् सर्वम् अरण्यम् प्रतिभाति मे॥ १६॥
api rāma-sahasrāṇi bhītaḥ paśyāmi rāvaṇa . rāma-bhūtam idam sarvam araṇyam pratibhāti me.. 16..
राममेव हि पश्यामि रहिते राक्षसेश्वर । दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः॥ १७॥
रामम् एव हि पश्यामि रहिते राक्षस-ईश्वर । दृष्ट्वा स्वप्न-गतम् रामम् उद्भ्रमामि विचेतनः॥ १७॥
rāmam eva hi paśyāmi rahite rākṣasa-īśvara . dṛṣṭvā svapna-gatam rāmam udbhramāmi vicetanaḥ.. 17..
रकारादीनि नामानि रामत्रस्तस्य रावण । रत्नानि च रथाश्चैव वित्रासं जनयन्ति मे॥ १८॥
रकार-आदीनि नामानि राम-त्रस्तस्य रावण । रत्नानि च रथाः च एव वित्रासम् जनयन्ति मे॥ १८॥
rakāra-ādīni nāmāni rāma-trastasya rāvaṇa . ratnāni ca rathāḥ ca eva vitrāsam janayanti me.. 18..
अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् । बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः॥ १९॥
अहम् तस्य प्रभाव-ज्ञः न युद्धम् तेन ते क्षमम् । बलिम् वा नमुचिम् वा अपि हन्यात् हि रघुनन्दनः॥ १९॥
aham tasya prabhāva-jñaḥ na yuddham tena te kṣamam . balim vā namucim vā api hanyāt hi raghunandanaḥ.. 19..
रणे रामेण युद्धस्व क्षमां वा कुरु रावण । न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि॥ २०॥
रणे रामेण युद्धस्व क्षमाम् वा कुरु रावण । न ते राम-कथा कार्या यदि माम् द्रष्टुम् इच्छसि॥ २०॥
raṇe rāmeṇa yuddhasva kṣamām vā kuru rāvaṇa . na te rāma-kathā kāryā yadi mām draṣṭum icchasi.. 20..
बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः । परेषामपराधेन विनष्टाः सपरिच्छदाः॥ २१॥
बहवः साधवः लोके युक्ताः धर्मम् अनुष्ठिताः । परेषाम् अपराधेन विनष्टाः स परिच्छदाः॥ २१॥
bahavaḥ sādhavaḥ loke yuktāḥ dharmam anuṣṭhitāḥ . pareṣām aparādhena vinaṣṭāḥ sa paricchadāḥ.. 21..
सोऽहं परापराधेन विनशेयं निशाचर । कुरु यत् ते क्षमं तत्त्वमहं त्वां नानुयामि वै॥ २२॥
सः अहम् पर-अपराधेन विनशेयम् निशाचर । कुरु यत् ते क्षमम् तत्त्वम् अहम् त्वाम् न अनुयामि वै॥ २२॥
saḥ aham para-aparādhena vinaśeyam niśācara . kuru yat te kṣamam tattvam aham tvām na anuyāmi vai.. 22..
रामश्च हि महातेजा महासत्त्वो महाबलः । अपि राक्षसलोकस्य भवेदन्तकरोऽपि हि॥ २३॥
रामः च हि महा-तेजाः महासत्त्वः महा-बलः । अपि राक्षस-लोकस्य भवेत् अन्त-करः अपि हि॥ २३॥
rāmaḥ ca hi mahā-tejāḥ mahāsattvaḥ mahā-balaḥ . api rākṣasa-lokasya bhavet anta-karaḥ api hi.. 23..
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः । अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा । अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः॥ २४॥
यदि शूर्पणखा-हेतोः जनस्थान-गतः खरः । अतिवृत्तः हतः पूर्वम् रामेण अक्लिष्ट-कर्मणा । अत्र ब्रूहि यथातत्त्वम् कः रामस्य व्यतिक्रमः॥ २४॥
yadi śūrpaṇakhā-hetoḥ janasthāna-gataḥ kharaḥ . ativṛttaḥ hataḥ pūrvam rāmeṇa akliṣṭa-karmaṇā . atra brūhi yathātattvam kaḥ rāmasya vyatikramaḥ.. 24..
इदं वचो बन्धुहितार्थिना मया यथोच्यमानं यदि नाभिपत्स्यसे । सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोऽद्य रामेण शरैरजिह्मगैः॥ २५॥
इदम् वचः बन्धु-हित-अर्थिना मया यथा उच्यमानम् यदि ना अभिपत्स्यसे । स बान्धवः त्यक्ष्यसि जीवितम् रणे हतः अद्य रामेण शरैः अजिह्मगैः॥ २५॥
idam vacaḥ bandhu-hita-arthinā mayā yathā ucyamānam yadi nā abhipatsyase . sa bāndhavaḥ tyakṣyasi jīvitam raṇe hataḥ adya rāmeṇa śaraiḥ ajihmagaiḥ.. 25..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनचत्वारिंशः सर्गः ॥३-३९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे एकोनचत्वारिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ekonacatvāriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In