This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुर्थः सर्गः ॥३-४॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे चतुर्थः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe caturthaḥ sargaḥ ..3..
ह्रियमाणौ तु काकुत्स्थौ दृष्ट्वा सीता रघूत्तमौ । उच्चैः स्वरेण चुक्रोश प्रगृह्य सुमहाभुजौ॥ १॥
ह्रियमाणौ तु काकुत्स्थौ दृष्ट्वा सीता रघूत्तमौ । उच्चैस् स्वरेण चुक्रोश प्रगृह्य सु महा-भुजौ॥ १॥
hriyamāṇau tu kākutsthau dṛṣṭvā sītā raghūttamau . uccais svareṇa cukrośa pragṛhya su mahā-bhujau.. 1..
एष दाशरथी रामः सत्यवाञ्छीलवान् शुचिः । रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः॥ २॥
एष दाशरथिः रामः सत्यवान् शीलवान् शुचिः । रक्षसा रौद्र-रूपेण ह्रियते सहलक्ष्मणः॥ २॥
eṣa dāśarathiḥ rāmaḥ satyavān śīlavān śuciḥ . rakṣasā raudra-rūpeṇa hriyate sahalakṣmaṇaḥ.. 2..
मामृक्षा भक्षयिष्यन्ति शार्दूलद्वीपिनस्तथा । मां हरोत्सृज काकुत्स्थौ नमस्ते राक्षसोत्तम॥ ३॥
माम् ऋक्षाः भक्षयिष्यन्ति शार्दूल-द्वीपिनः तथा । माम् हर उत्सृज काकुत्स्थौ नमः ते राक्षस-उत्तम॥ ३॥
mām ṛkṣāḥ bhakṣayiṣyanti śārdūla-dvīpinaḥ tathā . mām hara utsṛja kākutsthau namaḥ te rākṣasa-uttama.. 3..
तस्यास्तद् वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ । वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः॥ ४॥
तस्याः तत् वचनम् श्रुत्वा वैदेह्याः राम-लक्ष्मणौ । वेगम् प्रचक्रतुः वीरौ वधे तस्य दुरात्मनः॥ ४॥
tasyāḥ tat vacanam śrutvā vaidehyāḥ rāma-lakṣmaṇau . vegam pracakratuḥ vīrau vadhe tasya durātmanaḥ.. 4..
तस्य रौद्रस्य सौमित्रिः सव्यं बाहुं बभञ्ज ह । रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः॥ ५॥
तस्य रौद्रस्य सौमित्रिः सव्यम् बाहुम् बभञ्ज ह । रामः तु दक्षिणम् बाहुम् तरसा तस्य रक्षसः॥ ५॥
tasya raudrasya saumitriḥ savyam bāhum babhañja ha . rāmaḥ tu dakṣiṇam bāhum tarasā tasya rakṣasaḥ.. 5..
स भग्नबाहुः संविग्नः पपाताशु विमूर्च्छितः । धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः॥ ६॥
स भग्न-बाहुः संविग्नः पपात आशु विमूर्च्छितः । धरण्याम् मेघ-संकाशः वज्र-भिन्नः इव अचलः॥ ६॥
sa bhagna-bāhuḥ saṃvignaḥ papāta āśu vimūrcchitaḥ . dharaṇyām megha-saṃkāśaḥ vajra-bhinnaḥ iva acalaḥ.. 6..
मुष्टिभिर्बाहुभिः पद्भिः सूदयन्तौ तु राक्षसम् । उद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः॥ ७॥
मुष्टिभिः बाहुभिः पद्भिः सूदयन्तौ तु राक्षसम् । उद्यम्य उद्यम्य च अपि एनम् स्थण्डिले निष्पिपेषतुः॥ ७॥
muṣṭibhiḥ bāhubhiḥ padbhiḥ sūdayantau tu rākṣasam . udyamya udyamya ca api enam sthaṇḍile niṣpipeṣatuḥ.. 7..
स विद्धौ बहुभिर्बाणैः खड्गाभ्यां च परिक्षतः । निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः॥ ८॥
स विद्धौ बहुभिः बाणैः खड्गाभ्याम् च परिक्षतः । निष्पिष्टः बहुधा भूमौ न ममार स राक्षसः॥ ८॥
sa viddhau bahubhiḥ bāṇaiḥ khaḍgābhyām ca parikṣataḥ . niṣpiṣṭaḥ bahudhā bhūmau na mamāra sa rākṣasaḥ.. 8..
तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम् । भयेष्वभयदः श्रीमानिदं वचनमब्रवीत्॥ ९॥
तम् प्रेक्ष्य रामः सु भृशम् अवध्यम् अचल-उपमम् । भयेषु अभय-दः श्रीमान् इदम् वचनम् अब्रवीत्॥ ९॥
tam prekṣya rāmaḥ su bhṛśam avadhyam acala-upamam . bhayeṣu abhaya-daḥ śrīmān idam vacanam abravīt.. 9..
तपसा पुरुषव्याघ्र राक्षसोऽयं न शक्यते । शस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे॥ १०॥
तपसा पुरुष-व्याघ्र राक्षसः अयम् न शक्यते । शस्त्रेण युधि निर्जेतुम् राक्षसम् निखनावहे॥ १०॥
tapasā puruṣa-vyāghra rākṣasaḥ ayam na śakyate . śastreṇa yudhi nirjetum rākṣasam nikhanāvahe.. 10..
कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण । वनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौद्रवर्चसः॥ ११॥
कुञ्जरस्य इव रौद्रस्य राक्षसस्य अस्य लक्ष्मण । वने अस्मिन् सु महत् श्वभ्रम् खन्यताम् रौद्र-वर्चसः॥ ११॥
kuñjarasya iva raudrasya rākṣasasya asya lakṣmaṇa . vane asmin su mahat śvabhram khanyatām raudra-varcasaḥ.. 11..
इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति । तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान्॥ १२॥
इति उक्त्वा लक्ष्मणम् रामः प्रदरः खन्यताम् इति । तस्थौ विराधम् आक्रम्य कण्ठे पादेन वीर्यवान्॥ १२॥
iti uktvā lakṣmaṇam rāmaḥ pradaraḥ khanyatām iti . tasthau virādham ākramya kaṇṭhe pādena vīryavān.. 12..
तच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः । इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम्॥ १३॥
तत् श्रुत्वा राघवेण उक्तम् राक्षसः प्रश्रितम् वचः । इदम् प्रोवाच काकुत्स्थम् विराधः पुरुष-ऋषभम्॥ १३॥
tat śrutvā rāghaveṇa uktam rākṣasaḥ praśritam vacaḥ . idam provāca kākutstham virādhaḥ puruṣa-ṛṣabham.. 13..
हतोऽहं पुरुषव्याघ्र शक्रतुल्यबलेन वै । मया तु पूर्वं त्वं मोहान्न ज्ञातः पुरुषर्षभ॥ १४॥
हतः अहम् पुरुष-व्याघ्र शक्र-तुल्य-बलेन वै । मया तु पूर्वम् त्वम् मोहात् न ज्ञातः पुरुष-ऋषभ॥ १४॥
hataḥ aham puruṣa-vyāghra śakra-tulya-balena vai . mayā tu pūrvam tvam mohāt na jñātaḥ puruṣa-ṛṣabha.. 14..
कौसल्या सुप्रजास्तात रामस्त्वं विदितो मया । वैदेही च महाभागा लक्ष्मणश्च महायशाः॥ १५॥
कौसल्या सुप्रजाः तात रामः त्वम् विदितः मया । वैदेही च महाभागा लक्ष्मणः च महा-यशाः॥ १५॥
kausalyā suprajāḥ tāta rāmaḥ tvam viditaḥ mayā . vaidehī ca mahābhāgā lakṣmaṇaḥ ca mahā-yaśāḥ.. 15..
अभिशापादहं घोरां प्रविष्टो राक्षसीं तनुम् । तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन हि॥ १६॥
अभिशापात् अहम् घोराम् प्रविष्टः राक्षसीम् तनुम् । तुम्बुरुः नाम गन्धर्वः शप्तः वैश्रवणेन हि॥ १६॥
abhiśāpāt aham ghorām praviṣṭaḥ rākṣasīm tanum . tumburuḥ nāma gandharvaḥ śaptaḥ vaiśravaṇena hi.. 16..
प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः । यदा दाशरथी रामस्त्वां वधिष्यति संयुगे॥ १७॥
प्रसाद्यमानः च मया सः अब्रवीत् माम् महा-यशाः । यदा दाशरथिः रामः त्वाम् वधिष्यति संयुगे॥ १७॥
prasādyamānaḥ ca mayā saḥ abravīt mām mahā-yaśāḥ . yadā dāśarathiḥ rāmaḥ tvām vadhiṣyati saṃyuge.. 17..
तदा प्रकृतिमापन्नो भवान् स्वर्गं गमिष्यति । अनुपस्थीयमानो मां स क्रुद्धो व्याजहार ह॥ १८॥
तदा प्रकृतिम् आपन्नः भवान् स्वर्गम् गमिष्यति । अन् उपस्थीयमानः माम् स क्रुद्धः व्याजहार ह॥ १८॥
tadā prakṛtim āpannaḥ bhavān svargam gamiṣyati . an upasthīyamānaḥ mām sa kruddhaḥ vyājahāra ha.. 18..
इति वैश्रवणो राजा रम्भासक्तमुवाच ह । तव प्रसादान्मुक्तोऽहमभिशापात् सुदारुणात्॥ १९॥
इति वैश्रवणः राजा रम्भा-सक्तम् उवाच ह । तव प्रसादात् मुक्तः अहम् अभिशापात् सु दारुणात्॥ १९॥
iti vaiśravaṇaḥ rājā rambhā-saktam uvāca ha . tava prasādāt muktaḥ aham abhiśāpāt su dāruṇāt.. 19..
भुवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परंतप । इतो वसति धर्मात्मा शरभङ्गः प्रतापवान्॥ २०॥
भुवनम् स्वम् गमिष्यामि स्वस्ति वः अस्तु परंतप । इतस् वसति धर्म-आत्मा शरभङ्गः प्रतापवान्॥ २०॥
bhuvanam svam gamiṣyāmi svasti vaḥ astu paraṃtapa . itas vasati dharma-ātmā śarabhaṅgaḥ pratāpavān.. 20..
अध्यर्धयोजने तात महर्षिः सूर्यसंनिभः । तं क्षिप्रमभिगच्छ त्वं स ते श्रेयोऽभिधास्यति॥ २१॥
अध्यर्ध-योजने तात महा-ऋषिः सूर्य-संनिभः । तम् क्षिप्रम् अभिगच्छ त्वम् स ते श्रेयः अभिधास्यति॥ २१॥
adhyardha-yojane tāta mahā-ṛṣiḥ sūrya-saṃnibhaḥ . tam kṣipram abhigaccha tvam sa te śreyaḥ abhidhāsyati.. 21..
अवटे चापि मां राम निक्षिप्य कुशली व्रज । रक्षसां गतसत्त्वानामेष धर्मः सनातनः॥ २२॥
अवटे च अपि माम् राम निक्षिप्य कुशली व्रज । रक्षसाम् गत-सत्त्वानाम् एष धर्मः सनातनः॥ २२॥
avaṭe ca api mām rāma nikṣipya kuśalī vraja . rakṣasām gata-sattvānām eṣa dharmaḥ sanātanaḥ.. 22..
अवटे ये निधीयन्ते तेषां लोकाः सनातनाः । एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः॥ २३॥
अवटे ये निधीयन्ते तेषाम् लोकाः सनातनाः । एवम् उक्त्वा तु काकुत्स्थम् विराधः शर-पीडितः॥ २३॥
avaṭe ye nidhīyante teṣām lokāḥ sanātanāḥ . evam uktvā tu kākutstham virādhaḥ śara-pīḍitaḥ.. 23..
बभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः । तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह॥ २४॥
बभूव स्वर्ग-सम्प्राप्तः न्यस्त-देहः महा-बलः । तत् श्रुत्वा राघवः वाक्यम् लक्ष्मणम् व्यादिदेश ह॥ २४॥
babhūva svarga-samprāptaḥ nyasta-dehaḥ mahā-balaḥ . tat śrutvā rāghavaḥ vākyam lakṣmaṇam vyādideśa ha.. 24..
कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण । वनेऽस्मिन्सुमहान् श्वभ्रः खन्यतां रौद्रकर्मणः॥ २५॥
कुञ्जरस्य इव रौद्रस्य राक्षसस्य अस्य लक्ष्मण । वने अस्मिन् सु महान् श्वभ्रः खन्यताम् रौद्र-कर्मणः॥ २५॥
kuñjarasya iva raudrasya rākṣasasya asya lakṣmaṇa . vane asmin su mahān śvabhraḥ khanyatām raudra-karmaṇaḥ.. 25..
इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति । तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान्॥ २६॥
इति उक्त्वा लक्ष्मणम् रामः प्रदरः खन्यताम् इति । तस्थौ विराधम् आक्रम्य कण्ठे पादेन वीर्यवान्॥ २६॥
iti uktvā lakṣmaṇam rāmaḥ pradaraḥ khanyatām iti . tasthau virādham ākramya kaṇṭhe pādena vīryavān.. 26..
ततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम् । अखनत् पार्श्वतस्तस्य विराधस्य महात्मनः॥ २७॥
ततस् खनित्रम् आदाय लक्ष्मणः श्वभ्रम् उत्तमम् । अखनत् पार्श्वतस् तस्य विराधस्य महात्मनः॥ २७॥
tatas khanitram ādāya lakṣmaṇaḥ śvabhram uttamam . akhanat pārśvatas tasya virādhasya mahātmanaḥ.. 27..
तं मुक्तकण्ठमुत्क्षिप्य शङ्कुकर्णं महास्वनम् । विराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम्॥ २८॥
तम् मुक्त-कण्ठम् उत्क्षिप्य शङ्कु-कर्णम् महा-स्वनम् । विराधम् प्राक्षिपत् श्वभ्रे नदन्तम् भैरव-स्वनम्॥ २८॥
tam mukta-kaṇṭham utkṣipya śaṅku-karṇam mahā-svanam . virādham prākṣipat śvabhre nadantam bhairava-svanam.. 28..
तमाहवे दारुणमाशुविक्रमौ स्थिरावुभौ संयति रामलक्ष्मणौ । मुदान्वितौ चिक्षिपतुर्भयावहं नदन्तमुत्क्षिप्य बलेन राक्षसम्॥ २९॥
तम् आहवे दारुणम् आशु-विक्रमौ स्थिरौ उभौ संयति राम-लक्ष्मणौ । मुदा-अन्वितौ चिक्षिपतुः भय-आवहम् नदन्तम् उत्क्षिप्य बलेन राक्षसम्॥ २९॥
tam āhave dāruṇam āśu-vikramau sthirau ubhau saṃyati rāma-lakṣmaṇau . mudā-anvitau cikṣipatuḥ bhaya-āvaham nadantam utkṣipya balena rākṣasam.. 29..
अवध्यतां प्रेक्ष्य महासुरस्य तौ शितेन शस्त्रेण तदा नरर्षभौ । समर्थ्य चात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः॥ ३०॥
अवध्य-ताम् प्रेक्ष्य महा-असुरस्य तौ शितेन शस्त्रेण तदा नर-ऋषभौ । समर्थ्य च अत्यर्थ-विशारदौ उभौ बिले विराधस्य वधम् प्रचक्रतुः॥ ३०॥
avadhya-tām prekṣya mahā-asurasya tau śitena śastreṇa tadā nara-ṛṣabhau . samarthya ca atyartha-viśāradau ubhau bile virādhasya vadham pracakratuḥ.. 30..
स्वयं विराधेन हि मृत्युमात्मनः प्रसह्य रामेण यथार्थमीप्सितः । निवेदितः काननचारिणा स्वयं न मे वधः शस्त्रकृतो भवेदिति॥ ३१॥
स्वयम् विराधेन हि मृत्युम् आत्मनः प्रसह्य रामेण यथार्थम् ईप्सितः । निवेदितः कानन-चारिणा स्वयम् न मे वधः शस्त्र-कृतः भवेत् इति॥ ३१॥
svayam virādhena hi mṛtyum ātmanaḥ prasahya rāmeṇa yathārtham īpsitaḥ . niveditaḥ kānana-cāriṇā svayam na me vadhaḥ śastra-kṛtaḥ bhavet iti.. 31..
तदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने । बिलं च तेनातिबलेन रक्षसा प्रवेश्यमानेन वनं विनादितम्॥ ३२॥
तत् एव रामेण निशम्य भाषितम् कृता मतिः तस्य बिल-प्रवेशने । बिलम् च तेन अतिबलेन रक्षसा प्रवेश्यमानेन वनम् विनादितम्॥ ३२॥
tat eva rāmeṇa niśamya bhāṣitam kṛtā matiḥ tasya bila-praveśane . bilam ca tena atibalena rakṣasā praveśyamānena vanam vināditam.. 32..
प्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुर्व्यां प्रदरे निपात्य तम् । ननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम्॥ ३३॥
प्रहृष्ट-रूपौ इव राम-लक्ष्मणौ विराधम् उर्व्याम् प्रदरे निपात्य तम् । ननन्दतुः वीत-भयौ महा-वने शिलाभिः अन्तर्दधतुः च राक्षसम्॥ ३३॥
prahṛṣṭa-rūpau iva rāma-lakṣmaṇau virādham urvyām pradare nipātya tam . nanandatuḥ vīta-bhayau mahā-vane śilābhiḥ antardadhatuḥ ca rākṣasam.. 33..
ततस्तु तौ काञ्चनचित्रकार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम् । विजह्रतुस्तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविव॥ ३४॥
ततस् तु तौ काञ्चन-चित्र-कार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम् । विजह्रतुः तौ मुदितौ महा-वने दिवि स्थितौ चन्द्र-दिवाकरौ इव॥ ३४॥
tatas tu tau kāñcana-citra-kārmukau nihatya rakṣaḥ parigṛhya maithilīm . vijahratuḥ tau muditau mahā-vane divi sthitau candra-divākarau iva.. 34..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुर्थः सर्गः ॥३-४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे चतुर्थः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe caturthaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In