This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चत्वारिंशः सर्गः ॥३-४०॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे चत्वारिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe catvāriṃśaḥ sargaḥ ..3..
मारीचस्य तु तद् वाक्यं क्षमं युक्तं च रावणः । उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम्॥ १॥
मारीचस्य तु तत् वाक्यम् क्षमम् युक्तम् च रावणः । उक्तः न प्रतिजग्राह मर्तु-कामः इव औषधम्॥ १॥
mārīcasya tu tat vākyam kṣamam yuktam ca rāvaṇaḥ . uktaḥ na pratijagrāha martu-kāmaḥ iva auṣadham.. 1..
तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः । अब्रवीत् परुषं वाक्यमयुक्तं कालचोदितः॥ २॥
तम् पथ्य-हित-वक्तारम् मारीचम् राक्षस-अधिपः । अब्रवीत् परुषम् वाक्यम् अयुक्तम् काल-चोदितः॥ २॥
tam pathya-hita-vaktāram mārīcam rākṣasa-adhipaḥ . abravīt paruṣam vākyam ayuktam kāla-coditaḥ.. 2..
दुष्कुलैतदयुक्तार्थं मारीच मयि कथ्यते । वाक्यं निष्फलमत्यर्थं बीजमुप्तमिवोषरे॥ ३॥
दुष्कुल-एतत् अयुक्त-अर्थम् मारीच मयि कथ्यते । वाक्यम् निष्फलम् अत्यर्थम् बीजम् उप्तम् इव ऊषरे॥ ३॥
duṣkula-etat ayukta-artham mārīca mayi kathyate . vākyam niṣphalam atyartham bījam uptam iva ūṣare.. 3..
त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे । मूर्खस्य पापशीलस्य मानुषस्य विशेषतः॥ ४॥
त्वद्-वाक्यैः न तु माम् शक्यम् भेत्तुम् रामस्य संयुगे । मूर्खस्य पाप-शीलस्य मानुषस्य विशेषतः॥ ४॥
tvad-vākyaiḥ na tu mām śakyam bhettum rāmasya saṃyuge . mūrkhasya pāpa-śīlasya mānuṣasya viśeṣataḥ.. 4..
यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा । स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः॥ ५॥
यः त्यक्त्वा सुहृदः राज्यम् मातरम् पितरम् तथा । स्त्री-वाक्यम् प्राकृतम् श्रुत्वा वनम् एक-पदे गतः॥ ५॥
yaḥ tyaktvā suhṛdaḥ rājyam mātaram pitaram tathā . strī-vākyam prākṛtam śrutvā vanam eka-pade gataḥ.. 5..
अवश्यं तु मया तस्य संयुगे खरघातिनः । प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ॥ ६॥
अवश्यम् तु मया तस्य संयुगे खर-घातिनः । प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ॥ ६॥
avaśyam tu mayā tasya saṃyuge khara-ghātinaḥ . prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau.. 6..
एवं मे निश्चिता बुद्धिर्हृदि मारीच विद्यते । न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः॥ ७॥
एवम् मे निश्चिता बुद्धिः हृदि मारीच विद्यते । न व्यावर्तयितुम् शक्या स इन्द्रैः अपि सुर-असुरैः॥ ७॥
evam me niścitā buddhiḥ hṛdi mārīca vidyate . na vyāvartayitum śakyā sa indraiḥ api sura-asuraiḥ.. 7..
दोषं गुणं वा सम्पृष्टस्त्वमेवं वक्तुमर्हसि । अपायं वा उपायं वा कार्यस्यास्य विनिश्चये॥ ८॥
दोषम् गुणम् वा सम्पृष्टः त्वम् एवम् वक्तुम् अर्हसि । अपायम् वा उपायम् वा कार्यस्य अस्य विनिश्चये॥ ८॥
doṣam guṇam vā sampṛṣṭaḥ tvam evam vaktum arhasi . apāyam vā upāyam vā kāryasya asya viniścaye.. 8..
सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता । उद्यताञ्जलिना राज्ञो य इच्छेद् भूतिमात्मनः॥ ९॥
सम्पृष्टेन तु वक्तव्यम् सचिवेन विपश्चिता । उद्यत-अञ्जलिना राज्ञः यः इच्छेत् भूतिम् आत्मनः॥ ९॥
sampṛṣṭena tu vaktavyam sacivena vipaścitā . udyata-añjalinā rājñaḥ yaḥ icchet bhūtim ātmanaḥ.. 9..
वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम् । उपचारेण वक्तव्यो युक्तं च वसुधाधिपः॥ १०॥
वाक्यम् अ प्रतिकूलम् तु मृदुपूर्वम् शुभम् हितम् । उपचारेण वक्तव्यः युक्तम् च वसुधाधिपः॥ १०॥
vākyam a pratikūlam tu mṛdupūrvam śubham hitam . upacāreṇa vaktavyaḥ yuktam ca vasudhādhipaḥ.. 10..
सावमर्दं तु यद्वाक्यमथवा हितमुच्यते । नाभिनन्देत तद् राजा मानार्थी मानवर्जितम्॥ ११॥
स अवमर्दम् तु यत् वाक्यम् अथवा हितम् उच्यते । न अभिनन्देत तत् राजा मान-अर्थी मान-वर्जितम्॥ ११॥
sa avamardam tu yat vākyam athavā hitam ucyate . na abhinandeta tat rājā māna-arthī māna-varjitam.. 11..
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः । अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च॥ १२॥
पञ्च रूपाणि राजानः धारयन्ति अमित-ओजसः । अग्नेः इन्द्रस्य सोमस्य यमस्य वरुणस्य च॥ १२॥
pañca rūpāṇi rājānaḥ dhārayanti amita-ojasaḥ . agneḥ indrasya somasya yamasya varuṇasya ca.. 12..
औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् । धारयन्ति महात्मानो राजानः क्षणदाचर॥ १३॥
औष्ण्यम् तथा विक्रमम् च सौम्यम् दण्डम् प्रसन्न-ताम् । धारयन्ति महात्मानः राजानः क्षणदा-चर॥ १३॥
auṣṇyam tathā vikramam ca saumyam daṇḍam prasanna-tām . dhārayanti mahātmānaḥ rājānaḥ kṣaṇadā-cara.. 13..
तस्मात् सर्वास्ववस्थासु मान्याः पूज्याश्च नित्यदा । त्वं तु धर्ममविज्ञाय केवलं मोहमाश्रितः॥ १४॥
तस्मात् सर्वासु अवस्थासु मान्याः पूज्याः च नित्यदा । त्वम् तु धर्मम् अ विज्ञाय केवलम् मोहम् आश्रितः॥ १४॥
tasmāt sarvāsu avasthāsu mānyāḥ pūjyāḥ ca nityadā . tvam tu dharmam a vijñāya kevalam moham āśritaḥ.. 14..
अभ्यागतं तु दौरात्म्यात् परुषं वदसीदृशम् । गुणदोषौ न पृच्छामि क्षेमं चात्मनि राक्षस॥ १५॥
अभ्यागतम् तु दौरात्म्यात् परुषम् वदसि ईदृशम् । गुण-दोषौ न पृच्छामि क्षेमम् च आत्मनि राक्षस॥ १५॥
abhyāgatam tu daurātmyāt paruṣam vadasi īdṛśam . guṇa-doṣau na pṛcchāmi kṣemam ca ātmani rākṣasa.. 15..
मयोक्तमपि चैतावत् त्वां प्रत्यमितविक्रम । अस्मिंस्तु स भवान् कृत्ये साहाय्यं कर्तुमर्हसि॥ १६॥
मया उक्तम् अपि च एतावत् त्वाम् प्रति अमित-विक्रम । अस्मिन् तु स भवान् कृत्ये साहाय्यम् कर्तुम् अर्हसि॥ १६॥
mayā uktam api ca etāvat tvām prati amita-vikrama . asmin tu sa bhavān kṛtye sāhāyyam kartum arhasi.. 16..
शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम । सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः॥ १७॥
शृणु तत् कर्म साहाय्ये यत् कार्यम् वचनात् मम । सौवर्णः त्वम् मृगः भूत्वा चित्रः रजत-बिन्दुभिः॥ १७॥
śṛṇu tat karma sāhāyye yat kāryam vacanāt mama . sauvarṇaḥ tvam mṛgaḥ bhūtvā citraḥ rajata-bindubhiḥ.. 17..
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर । प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि॥ १८॥
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर । प्रलोभयित्वा वैदेहीम् यथेष्टम् गन्तुम् अर्हसि॥ १८॥
āśrame tasya rāmasya sītāyāḥ pramukhe cara . pralobhayitvā vaidehīm yatheṣṭam gantum arhasi.. 18..
त्वां हि मायामयं दृष्ट्वा काञ्चनं जातविस्मया । आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली॥ १९॥
त्वाम् हि माया-मयम् दृष्ट्वा काञ्चनम् जात-विस्मया । आनय एनम् इति क्षिप्रम् रामम् वक्ष्यति मैथिली॥ १९॥
tvām hi māyā-mayam dṛṣṭvā kāñcanam jāta-vismayā . ānaya enam iti kṣipram rāmam vakṣyati maithilī.. 19..
अपक्रान्ते च काकुत्स्थे दूरं गत्वाप्युदाहर । हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम्॥ २०॥
अपक्रान्ते च काकुत्स्थे दूरम् गत्वा अपि उदाहर । हा सीते लक्ष्मण इति एवम् राम-वाक्य-अनुरूपकम्॥ २०॥
apakrānte ca kākutsthe dūram gatvā api udāhara . hā sīte lakṣmaṇa iti evam rāma-vākya-anurūpakam.. 20..
तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः । अनुगच्छति सम्भ्रान्तः सौमित्रिरपि सौहृदात्॥ २१॥
तत् श्रुत्वा राम-पदवीम् सीतया च प्रचोदितः । अनुगच्छति सम्भ्रान्तः सौमित्रिः अपि सौहृदात्॥ २१॥
tat śrutvā rāma-padavīm sītayā ca pracoditaḥ . anugacchati sambhrāntaḥ saumitriḥ api sauhṛdāt.. 21..
अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् । आहरिष्यामि वैदेहीं सहस्राक्षः शचीमिव॥ २२॥
अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् । आहरिष्यामि वैदेहीम् सहस्राक्षः शचीम् इव॥ २२॥
apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham . āhariṣyāmi vaidehīm sahasrākṣaḥ śacīm iva.. 22..
एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस । राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत॥ २३॥
एवम् कृत्वा तु इदम् कार्यम् यथेष्टम् गच्छ राक्षस । राज्यस्य अर्धम् प्रदास्यामि मारीच तव सुव्रत॥ २३॥
evam kṛtvā tu idam kāryam yatheṣṭam gaccha rākṣasa . rājyasya ardham pradāsyāmi mārīca tava suvrata.. 23..
गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये । अहं त्वानुगमिष्यामि सरथो दण्डकावनम्॥ २४॥
गच्छ सौम्य शिवम् मार्गम् कार्यस्य अस्य विवृद्धये । अहम् त्वा अनुगमिष्यामि स रथः दण्डक-वनम्॥ २४॥
gaccha saumya śivam mārgam kāryasya asya vivṛddhaye . aham tvā anugamiṣyāmi sa rathaḥ daṇḍaka-vanam.. 24..
प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम् । लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया॥ २५॥
प्राप्य सीताम् अयुद्धेन वञ्चयित्वा तु राघवम् । लङ्काम् प्रति गमिष्यामि कृत-कार्यः सह त्वया॥ २५॥
prāpya sītām ayuddhena vañcayitvā tu rāghavam . laṅkām prati gamiṣyāmi kṛta-kāryaḥ saha tvayā.. 25..
नो चेत् करोषि मारीच हन्मि त्वामहमद्य वै । एतत् कार्यमवश्यं मे बलादपि करिष्यसि । राज्ञो विप्रतिकूलस्थो न जातु सुखमेधते॥ २६॥
नो चेद् करोषि मारीच हन्मि त्वाम् अहम् अद्य वै । एतत् कार्यम् अवश्यम् मे बलात् अपि करिष्यसि । राज्ञः विप्रतिकूल-स्थः न जातु सुखम् एधते॥ २६॥
no ced karoṣi mārīca hanmi tvām aham adya vai . etat kāryam avaśyam me balāt api kariṣyasi . rājñaḥ vipratikūla-sthaḥ na jātu sukham edhate.. 26..
आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुध्यतः । एतद् यथावत् परिगण्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम्॥ २७॥
आसाद्य तम् जीवित-संशयः ते मृत्युः ध्रुवः हि अद्य मया विरुध्यतः । एतत् यथावत् परिगण्य बुद्ध्या यत् अत्र पथ्यम् कुरु तत् तथा त्वम्॥ २७॥
āsādya tam jīvita-saṃśayaḥ te mṛtyuḥ dhruvaḥ hi adya mayā virudhyataḥ . etat yathāvat parigaṇya buddhyā yat atra pathyam kuru tat tathā tvam.. 27..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चत्वारिंशः सर्गः ॥३-४०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे चत्वारिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe catvāriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In