This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकचत्वारिंशः सर्गः ॥३-४१॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे एकचत्वारिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ekacatvāriṃśaḥ sargaḥ ..3..
आज्ञप्तो रावणेनेत्थं प्रतिकूलं च राजवत् । अब्रवीत् परुषं वाक्यं निःशङ्को राक्षसाधिपम्॥ १॥
आज्ञप्तः रावणेन इत्थम् प्रतिकूलम् च राज-वत् । अब्रवीत् परुषम् वाक्यम् निःशङ्कः राक्षस-अधिपम्॥ १॥
ājñaptaḥ rāvaṇena ittham pratikūlam ca rāja-vat . abravīt paruṣam vākyam niḥśaṅkaḥ rākṣasa-adhipam.. 1..
केनायमुपदिष्टस्ते विनाशः पापकर्मणा । सपुत्रस्य सराज्यस्य सामात्यस्य निशाचर॥ २॥
केन अयम् उपदिष्टः ते विनाशः पाप-कर्मणा । स पुत्रस्य स राज्यस्य स अमात्यस्य निशाचर॥ २॥
kena ayam upadiṣṭaḥ te vināśaḥ pāpa-karmaṇā . sa putrasya sa rājyasya sa amātyasya niśācara.. 2..
कस्त्वया सुखिना राजन् नाभिनन्दति पापकृत् । केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः॥ ३॥
कः त्वया सुखिना राजन् न अभिनन्दति पाप-कृत् । केन इदम् उपदिष्टम् ते मृत्यु-द्वारम् उपायतः॥ ३॥
kaḥ tvayā sukhinā rājan na abhinandati pāpa-kṛt . kena idam upadiṣṭam te mṛtyu-dvāram upāyataḥ.. 3..
शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचर । इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा॥ ४॥
शत्रवः तव सु व्यक्तम् हीन-वीर्याः निशाचर । इच्छन्ति त्वाम् विनश्यन्तम् उपरुद्धम् बलीयसा॥ ४॥
śatravaḥ tava su vyaktam hīna-vīryāḥ niśācara . icchanti tvām vinaśyantam uparuddham balīyasā.. 4..
केनेदमुपदिष्टं ते क्षुद्रेणाहितबुद्धिना । यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर॥ ५॥
केन इदम् उपदिष्टम् ते क्षुद्रेण अहितबुद्धिना । यः त्वाम् इच्छति नश्यन्तम् स्व-कृतेन निशाचर॥ ५॥
kena idam upadiṣṭam te kṣudreṇa ahitabuddhinā . yaḥ tvām icchati naśyantam sva-kṛtena niśācara.. 5..
वध्याः खलु न वध्यन्ते सचिवास्तव रावण । ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः॥ ६॥
वध्याः खलु न वध्यन्ते सचिवाः तव रावण । ये त्वाम् उत्पथम् आरूढम् न निगृह्णन्ति सर्वशस्॥ ६॥
vadhyāḥ khalu na vadhyante sacivāḥ tava rāvaṇa . ye tvām utpatham ārūḍham na nigṛhṇanti sarvaśas.. 6..
अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः । निग्राह्यः सर्वथा सद्भिः स निग्राह्यो न गृह्यसे॥ ७॥
अमात्यैः काम-वृत्तः हि राजा कापथम् आश्रितः । निग्राह्यः सर्वथा सद्भिः स निग्राह्यः न गृह्यसे॥ ७॥
amātyaiḥ kāma-vṛttaḥ hi rājā kāpatham āśritaḥ . nigrāhyaḥ sarvathā sadbhiḥ sa nigrāhyaḥ na gṛhyase.. 7..
धर्ममर्थं च कामं च यशश्च जयतां वर । स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर॥ ८॥
धर्मम् अर्थम् च कामम् च यशः च जयताम् वर । स्वामि-प्रसादात् सचिवाः प्राप्नुवन्ति निशाचर॥ ८॥
dharmam artham ca kāmam ca yaśaḥ ca jayatām vara . svāmi-prasādāt sacivāḥ prāpnuvanti niśācara.. 8..
विपर्यये तु तत्सर्वं व्यर्थं भवति रावण । व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः॥ ९॥
विपर्यये तु तत् सर्वम् व्यर्थम् भवति रावण । व्यसनम् स्वामि-वैगुण्यात् प्राप्नुवन्ति इतरे जनाः॥ ९॥
viparyaye tu tat sarvam vyartham bhavati rāvaṇa . vyasanam svāmi-vaiguṇyāt prāpnuvanti itare janāḥ.. 9..
राजमूलो हि धर्मश्च यशश्च जयतां वर । तस्मात् सर्वास्ववस्थासु रक्षितव्या नराधिपाः॥ १०॥
राज-मूलः हि धर्मः च यशः च जयताम् वर । तस्मात् सर्वासु अवस्थासु रक्षितव्याः नराधिपाः॥ १०॥
rāja-mūlaḥ hi dharmaḥ ca yaśaḥ ca jayatām vara . tasmāt sarvāsu avasthāsu rakṣitavyāḥ narādhipāḥ.. 10..
राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर । न चातिप्रतिकूलेन नाविनीतेन राक्षस॥ ११॥
राज्यम् पालयितुम् शक्यम् न तीक्ष्णेन निशाचर । न च अति प्रतिकूलेन न अविनीतेन राक्षस॥ ११॥
rājyam pālayitum śakyam na tīkṣṇena niśācara . na ca ati pratikūlena na avinītena rākṣasa.. 11..
ये तीक्ष्णमन्त्राः सचिवा भुज्यन्ते सह तेन वै । विषमेषु रथाः शीघ्रं मन्दसारथयो यथा॥ १२॥
ये तीक्ष्ण-मन्त्राः सचिवाः भुज्यन्ते सह तेन वै । विषमेषु रथाः शीघ्रम् मन्द-सारथयः यथा॥ १२॥
ye tīkṣṇa-mantrāḥ sacivāḥ bhujyante saha tena vai . viṣameṣu rathāḥ śīghram manda-sārathayaḥ yathā.. 12..
बहवः साधवो लोके युक्तधर्ममनुष्ठिताः । परेषामपराधेन विनष्टाः सपरिच्छदाः॥ १३॥
बहवः साधवः लोके युक्त-धर्मम् अनुष्ठिताः । परेषाम् अपराधेन विनष्टाः स परिच्छदाः॥ १३॥
bahavaḥ sādhavaḥ loke yukta-dharmam anuṣṭhitāḥ . pareṣām aparādhena vinaṣṭāḥ sa paricchadāḥ.. 13..
स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण । रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा॥ १४॥
स्वामिना प्रतिकूलेन प्रजाः तीक्ष्णेन रावण । रक्ष्यमाणाः न वर्धन्ते मेषाः गोमायुना यथा॥ १४॥
svāminā pratikūlena prajāḥ tīkṣṇena rāvaṇa . rakṣyamāṇāḥ na vardhante meṣāḥ gomāyunā yathā.. 14..
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः॥ १५॥
अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः । येषाम् त्वम् कर्कशः राजा दुर्बुद्धिः अजित-इन्द्रियः॥ १५॥
avaśyam vinaśiṣyanti sarve rāvaṇa rākṣasāḥ . yeṣām tvam karkaśaḥ rājā durbuddhiḥ ajita-indriyaḥ.. 15..
तदिदं काकतालीयं घोरमासादितं मया । अत्र त्वं शोचनीयोऽसि ससैन्यो विनशिष्यसि॥ १६॥
तत् इदम् काकतालीयम् घोरम् आसादितम् मया । अत्र त्वम् शोचनीयः असि स सैन्यः विनशिष्यसि॥ १६॥
tat idam kākatālīyam ghoram āsāditam mayā . atra tvam śocanīyaḥ asi sa sainyaḥ vinaśiṣyasi.. 16..
मां निहत्य तु रामोऽसावचिरात् त्वां वधिष्यति । अनेन कृतकृत्योऽस्मि म्रिये चाप्यरिणा हतः॥ १७॥
माम् निहत्य तु रामः असौ अचिरात् त्वाम् वधिष्यति । अनेन कृतकृत्यः अस्मि म्रिये च अपि अरिणा हतः॥ १७॥
mām nihatya tu rāmaḥ asau acirāt tvām vadhiṣyati . anena kṛtakṛtyaḥ asmi mriye ca api ariṇā hataḥ.. 17..
दर्शनादेव रामस्य हतं मामवधारय । आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम्॥ १८॥
दर्शनात् एव रामस्य हतम् माम् अवधारय । आत्मानम् च हतम् विद्धि हृत्वा सीताम् स बान्धवम्॥ १८॥
darśanāt eva rāmasya hatam mām avadhāraya . ātmānam ca hatam viddhi hṛtvā sītām sa bāndhavam.. 18..
आनयिष्यसि चेत् सीतामाश्रमात् सहितो मया । नैव त्वमपि नाहं वै नैव लङ्का न राक्षसाः॥ १९॥
आनयिष्यसि चेद् सीताम् आश्रमात् सहितः मया । ना एव त्वम् अपि ना अहम् वै ना एव लङ्का न राक्षसाः॥ १९॥
ānayiṣyasi ced sītām āśramāt sahitaḥ mayā . nā eva tvam api nā aham vai nā eva laṅkā na rākṣasāḥ.. 19..
निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर । परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम्॥ २०॥
निवार्यमाणः तु मया हित-एषिणा न मृष्यसे वाक्यम् इदम् निशाचर । परेत-कल्पाः हि गत-आयुषः नराः हितम् न गृह्णन्ति सुहृद्भिः ईरितम्॥ २०॥
nivāryamāṇaḥ tu mayā hita-eṣiṇā na mṛṣyase vākyam idam niśācara . pareta-kalpāḥ hi gata-āyuṣaḥ narāḥ hitam na gṛhṇanti suhṛdbhiḥ īritam.. 20..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकचत्वारिंशः सर्गः ॥३-४१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे एकचत्वारिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ekacatvāriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In