This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विचत्वारिंशः सर्गः ॥३-४२॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे द्विचत्वारिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe dvicatvāriṃśaḥ sargaḥ ..3..
एवमुक्त्वा तु परुषं मारीचो रावणं ततः । गच्छावेत्यब्रवीद् दीनो भयाद् रात्रिंचरप्रभोः॥ १॥
एवम् उक्त्वा तु परुषम् मारीचः रावणम् ततस् । गच्छाव इति अब्रवीत् दीनः भयात् रात्रिंचर-प्रभोः॥ १॥
evam uktvā tu paruṣam mārīcaḥ rāvaṇam tatas . gacchāva iti abravīt dīnaḥ bhayāt rātriṃcara-prabhoḥ.. 1..
दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा । मद्वधोद्यतशस्त्रेण निहतं जीवितं च मे॥ २॥
दृष्टः च अहम् पुनर् तेन शर-चाप-असि-धारिणा । मद्-वध-उद्यत-शस्त्रेण निहतम् जीवितम् च मे॥ २॥
dṛṣṭaḥ ca aham punar tena śara-cāpa-asi-dhāriṇā . mad-vadha-udyata-śastreṇa nihatam jīvitam ca me.. 2..
नहि रामं पराक्रम्य जीवन् प्रतिनिवर्तते । वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते॥ ३॥
नहि रामम् पराक्रम्य जीवन् प्रतिनिवर्तते । वर्तते प्रतिरूपः असौ यम-दण्ड-हतस्य ते॥ ३॥
nahi rāmam parākramya jīvan pratinivartate . vartate pratirūpaḥ asau yama-daṇḍa-hatasya te.. 3..
किं नु कर्तुं मया शक्यमेवं त्वयि दुरात्मनि । एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर॥ ४॥
किम् नु कर्तुम् मया शक्यम् एवम् त्वयि दुरात्मनि । एष गच्छामि अहम् तात स्वस्ति ते अस्तु निशाचर॥ ४॥
kim nu kartum mayā śakyam evam tvayi durātmani . eṣa gacchāmi aham tāta svasti te astu niśācara.. 4..
प्रहृष्टस्त्वभवत् तेन वचनेन स राक्षसः । परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत्॥ ५॥
प्रहृष्टः तु अभवत् तेन वचनेन स राक्षसः । परिष्वज्य सु संश्लिष्टम् इदम् वचनम् अब्रवीत्॥ ५॥
prahṛṣṭaḥ tu abhavat tena vacanena sa rākṣasaḥ . pariṣvajya su saṃśliṣṭam idam vacanam abravīt.. 5..
एतच्छौटीर्ययुक्तं ते मच्छन्दवशवर्तिनः । इदानीमसि मारीचः पूर्वमन्यो हि राक्षसः॥ ६॥
एतत् शौटीर्य-युक्तम् ते मद्-छन्द-वशवर्तिनः । इदानीम् असि मारीचः पूर्वम् अन्यः हि राक्षसः॥ ६॥
etat śauṭīrya-yuktam te mad-chanda-vaśavartinaḥ . idānīm asi mārīcaḥ pūrvam anyaḥ hi rākṣasaḥ.. 6..
आरुह्यतामयं शीघ्रं खगो रत्नविभूषितः । मया सह रथो युक्तः पिशाचवदनैः खरैः॥ ७॥
आरुह्यताम् अयम् शीघ्रम् ख-गः रत्न-विभूषितः । मया सह रथः युक्तः पिशाच-वदनैः खरैः॥ ७॥
āruhyatām ayam śīghram kha-gaḥ ratna-vibhūṣitaḥ . mayā saha rathaḥ yuktaḥ piśāca-vadanaiḥ kharaiḥ.. 7..
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि । तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम्॥ ८॥
प्रलोभयित्वा वैदेहीम् यथेष्टम् गन्तुम् अर्हसि । ताम् शून्ये प्रसभम् सीताम् आनयिष्यामि मैथिलीम्॥ ८॥
pralobhayitvā vaidehīm yatheṣṭam gantum arhasi . tām śūnye prasabham sītām ānayiṣyāmi maithilīm.. 8..
ततस्तथेत्युवाचैनं रावणं ताटकासुतः । ततो रावणमारीचौ विमानमिव तं रथम्॥ ९॥
ततस् तथा इति उवाच एनम् रावणम् ताटकासुतः । ततस् रावण-मारीचौ विमानम् इव तम् रथम्॥ ९॥
tatas tathā iti uvāca enam rāvaṇam tāṭakāsutaḥ . tatas rāvaṇa-mārīcau vimānam iva tam ratham.. 9..
आरुह्याययतुः शीघ्रं तस्मादाश्रममण्डलात् । तथैव तत्र पश्यन्तौ पत्तनानि वनानि च॥ १०॥
आरुह्य आययतुः शीघ्रम् तस्मात् आश्रम-मण्डलात् । तथा एव तत्र पश्यन्तौ पत्तनानि वनानि च॥ १०॥
āruhya āyayatuḥ śīghram tasmāt āśrama-maṇḍalāt . tathā eva tatra paśyantau pattanāni vanāni ca.. 10..
गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च । समेत्य दण्डकारण्यं राघवस्याश्रमं ततः॥ ११॥
गिरीन् च सरितः सर्वाः राष्ट्राणि नगराणि च । समेत्य दण्डक-अरण्यम् राघवस्य आश्रमम् ततस्॥ ११॥
girīn ca saritaḥ sarvāḥ rāṣṭrāṇi nagarāṇi ca . sametya daṇḍaka-araṇyam rāghavasya āśramam tatas.. 11..
ददर्श सहमारीचो रावणो राक्षसाधिपः । अवतीर्य रथात् तस्मात् ततः काञ्चनभूषणात्॥ १२॥
ददर्श सह मारीचः रावणः राक्षस-अधिपः । अवतीर्य रथात् तस्मात् ततस् काञ्चन-भूषणात्॥ १२॥
dadarśa saha mārīcaḥ rāvaṇaḥ rākṣasa-adhipaḥ . avatīrya rathāt tasmāt tatas kāñcana-bhūṣaṇāt.. 12..
हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् । एतद् रामाश्रमपदं दृश्यते कदलीवृतम्॥ १३॥
हस्ते गृहीत्वा मारीचम् रावणः वाक्यम् अब्रवीत् । एतत् राम-आश्रम-पदम् दृश्यते कदली-वृतम्॥ १३॥
haste gṛhītvā mārīcam rāvaṇaḥ vākyam abravīt . etat rāma-āśrama-padam dṛśyate kadalī-vṛtam.. 13..
क्रियतां तत् सखे शीघ्रं यदर्थं वयमागताः । स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा॥ १४॥
क्रियताम् तत् सखे शीघ्रम् यद्-अर्थम् वयम् आगताः । स रावण-वचः श्रुत्वा मारीचः राक्षसः तदा॥ १४॥
kriyatām tat sakhe śīghram yad-artham vayam āgatāḥ . sa rāvaṇa-vacaḥ śrutvā mārīcaḥ rākṣasaḥ tadā.. 14..
मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार ह । स तु रूपं समास्थाय महदद्भुतदर्शनम्॥ १५॥
मृगः भूत्वा आश्रम-द्वारि रामस्य विचचार ह । स तु रूपम् समास्थाय महत् अद्भुत-दर्शनम्॥ १५॥
mṛgaḥ bhūtvā āśrama-dvāri rāmasya vicacāra ha . sa tu rūpam samāsthāya mahat adbhuta-darśanam.. 15..
मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः । रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः॥ १६॥
मणि-प्रवर-शृङ्ग-अग्रः सित-असित-मुख-आकृतिः । ॥ १६॥
maṇi-pravara-śṛṅga-agraḥ sita-asita-mukha-ākṛtiḥ . .. 16..
किंचिदभ्युन्नतग्रीव इन्द्रनीलनिभोदरः । मधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः॥ १७॥
किंचिद् अभ्युन्नत-ग्रीवः इन्द्रनील-निभ-उदरः । मधूक-निभ-पार्श्वः च कञ्ज-किञ्जल्क-संनिभः॥ १७॥
kiṃcid abhyunnata-grīvaḥ indranīla-nibha-udaraḥ . madhūka-nibha-pārśvaḥ ca kañja-kiñjalka-saṃnibhaḥ.. 17..
वैदूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः । इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः॥ १८॥
वैदूर्य-संकाश-खुरः तनु-जङ्घः सु संहतः । इन्द्रायुध-सवर्णेन पुच्छेन ऊर्ध्वम् विराजितः॥ १८॥
vaidūrya-saṃkāśa-khuraḥ tanu-jaṅghaḥ su saṃhataḥ . indrāyudha-savarṇena pucchena ūrdhvam virājitaḥ.. 18..
मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः । क्षणेन राक्षसो जातो मृगः परमशोभनः॥ १९॥
मनोहर-स्निग्ध-वर्णः रत्नैः नानाविधैः वृतः । क्षणेन राक्षसः जातः मृगः परम-शोभनः॥ १९॥
manohara-snigdha-varṇaḥ ratnaiḥ nānāvidhaiḥ vṛtaḥ . kṣaṇena rākṣasaḥ jātaḥ mṛgaḥ parama-śobhanaḥ.. 19..
वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत् । मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः॥ २०॥
वनम् प्रज्वलयन् रम्यम् राम-आश्रम-पदम् च तत् । मनोहरम् दर्शनीयम् रूपम् कृत्वा स राक्षसः॥ २०॥
vanam prajvalayan ramyam rāma-āśrama-padam ca tat . manoharam darśanīyam rūpam kṛtvā sa rākṣasaḥ.. 20..
प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् । विचरन् गच्छते सम्यक् शाद्वलानि समन्ततः॥ २१॥
प्रलोभन-अर्थम् वैदेह्याः नाना धातु-विचित्रितम् । विचरन् गच्छते सम्यक् शाद्वलानि समन्ततः॥ २१॥
pralobhana-artham vaidehyāḥ nānā dhātu-vicitritam . vicaran gacchate samyak śādvalāni samantataḥ.. 21..
रौप्यैर्बिन्दुशतैश्चित्रं भूत्वा च प्रियदर्शनः । विटपीनां किसलयान् भक्षयन् विचचार ह॥ २२॥
रौप्यैः बिन्दु-शतैः चित्रम् भूत्वा च प्रिय-दर्शनः । किसलयान् भक्षयन् विचचार ह॥ २२॥
raupyaiḥ bindu-śataiḥ citram bhūtvā ca priya-darśanaḥ . kisalayān bhakṣayan vicacāra ha.. 22..
कदलीगृहकं गत्वा कर्णिकारानितस्ततः । समाश्रयन् मन्दगतिं सीतासंदर्शनं ततः॥ २३॥
कदलीगृहकम् गत्वा कर्णिकारान् इतस् ततस् । समाश्रयत् मन्द-गतिम् सीता-संदर्शनम् ततस्॥ २३॥
kadalīgṛhakam gatvā karṇikārān itas tatas . samāśrayat manda-gatim sītā-saṃdarśanam tatas.. 23..
राजीवचित्रपृष्ठः स विरराज महामृगः । रामाश्रमपदाभ्याशे विचचार यथासुखम्॥ २४॥
राजीव-चित्र-पृष्ठः स विरराज महा-मृगः । राम-आश्रम-पद-अभ्याशे विचचार यथासुखम्॥ २४॥
rājīva-citra-pṛṣṭhaḥ sa virarāja mahā-mṛgaḥ . rāma-āśrama-pada-abhyāśe vicacāra yathāsukham.. 24..
पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः । गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते॥ २५॥
पुनर् गत्वा निवृत्तः च विचचार मृग-उत्तमः । गत्वा मुहूर्तम् त्वरया पुनर् प्रतिनिवर्तते॥ २५॥
punar gatvā nivṛttaḥ ca vicacāra mṛga-uttamaḥ . gatvā muhūrtam tvarayā punar pratinivartate.. 25..
विक्रीडंश्च क्वचिद् भूमौ पुनरेव निषीदति । आश्रमद्वारमागम्य मृगयूथानि गच्छति॥ २६॥
विक्रीडन् च क्वचिद् भूमौ पुनर् एव निषीदति । आश्रम-द्वारम् आगम्य मृग-यूथानि गच्छति॥ २६॥
vikrīḍan ca kvacid bhūmau punar eva niṣīdati . āśrama-dvāram āgamya mṛga-yūthāni gacchati.. 26..
मृगयूथैरनुगतः पुनरेव निवर्तते । सीतादर्शनमाकांक्षन् राक्षसो मृगतां गतः॥ २७॥
मृग-यूथैः अनुगतः पुनर् एव निवर्तते । सीता-दर्शनम् आकांक्षन् राक्षसः मृगताम् गतः॥ २७॥
mṛga-yūthaiḥ anugataḥ punar eva nivartate . sītā-darśanam ākāṃkṣan rākṣasaḥ mṛgatām gataḥ.. 27..
परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् । समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वनेचराः॥ २८॥
परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् । समुद्वीक्ष्य च सर्वे तम् मृगाः ये अन्ये वनेचराः॥ २८॥
paribhramati citrāṇi maṇḍalāni viniṣpatan . samudvīkṣya ca sarve tam mṛgāḥ ye anye vanecarāḥ.. 28..
उपगम्य समाघ्राय विद्रवन्ति दिशो दश । राक्षसः सोऽपि तान् वन्यान् मृगान् मृगवधे रतः॥ २९॥
उपगम्य समाघ्राय विद्रवन्ति दिशः दश । राक्षसः सः अपि तान् वन्यान् मृगान् मृग-वधे रतः॥ २९॥
upagamya samāghrāya vidravanti diśaḥ daśa . rākṣasaḥ saḥ api tān vanyān mṛgān mṛga-vadhe rataḥ.. 29..
प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् । तस्मिन् नेव ततः काले वैदेही शुभलोचना॥ ३०॥
प्रच्छादन-अर्थम् भावस्य न भक्षयति संस्पृशन् । तस्मिन् न इव ततस् काले वैदेही शुभ-लोचना॥ ३०॥
pracchādana-artham bhāvasya na bhakṣayati saṃspṛśan . tasmin na iva tatas kāle vaidehī śubha-locanā.. 30..
कुसुमापचये व्यग्रा पादपानत्यवर्तत । कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा॥ ३१॥
कुसुम-अपचये व्यग्रा पादपान् अत्यवर्तत । कर्णिकारान् अशोकान् च चूतान् च मदिरा-ईक्षणा॥ ३१॥
kusuma-apacaye vyagrā pādapān atyavartata . karṇikārān aśokān ca cūtān ca madirā-īkṣaṇā.. 31..
कुसुमान्यपचिन्वन्ती चचार रुचिरानना । अनर्हा वनवासस्य सा तं रत्नमयं मृगम्॥ ३२॥
कुसुमानि अपचिन्वन्ती चचार रुचिर-आनना । अनर्हा वन-वासस्य सा तम् रत्न-मयम् मृगम्॥ ३२॥
kusumāni apacinvantī cacāra rucira-ānanā . anarhā vana-vāsasya sā tam ratna-mayam mṛgam.. 32..
मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना । तं वै रुचिरदन्तोष्ठं रूप्यधातुतनूरुहम्॥ ३३॥
मुक्तामणि-विचित्र-अङ्गम् ददर्श परम-अङ्गना । तम् वै रुचिर-दन्त-उष्ठम् रूप्य-धातु-तनूरुहम्॥ ३३॥
muktāmaṇi-vicitra-aṅgam dadarśa parama-aṅganā . tam vai rucira-danta-uṣṭham rūpya-dhātu-tanūruham.. 33..
विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत । स च तां रामदयितां पश्यन् मायामयो मृगः॥ ३४॥
विस्मय-उत्फुल्ल-नयना स स्नेहम् समुदैक्षत । स च ताम् राम-दयिताम् पश्यन् माया-मयः मृगः॥ ३४॥
vismaya-utphulla-nayanā sa sneham samudaikṣata . sa ca tām rāma-dayitām paśyan māyā-mayaḥ mṛgaḥ.. 34..
विचचार ततस्तत्र दीपयन्निव तद् वनम् । अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम् । विस्मयं परमं सीता जगाम जनकात्मजा॥ ३५॥
विचचार ततस् तत्र दीपयन् इव तत् वनम् । अ दृष्ट-पूर्वम् दृष्ट्वा तम् नाना रत्न-मयम् मृगम् । विस्मयम् परमम् सीता जगाम जनकात्मजा॥ ३५॥
vicacāra tatas tatra dīpayan iva tat vanam . a dṛṣṭa-pūrvam dṛṣṭvā tam nānā ratna-mayam mṛgam . vismayam paramam sītā jagāma janakātmajā.. 35..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्येअरण्यकाण्डे द्विचत्वारिंशः सर्गः ॥३-४२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे द्विचत्वारिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe dvicatvāriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In