This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुश्चत्वारिंशः सर्गः ॥३-४४॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे चतुश्चत्वारिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe catuścatvāriṃśaḥ sargaḥ ..3..
तथा तु तं समादिश्य भ्रातरं रघुनन्दनः । बबन्धासिं महातेजा जाम्बूनदमयत्सरुम्॥ १॥
तथा तु तम् समादिश्य भ्रातरम् रघुनन्दनः । बबन्ध असिम् महा-तेजाः जाम्बूनद-मय-त्सरुम्॥ १॥
tathā tu tam samādiśya bhrātaram raghunandanaḥ . babandha asim mahā-tejāḥ jāmbūnada-maya-tsarum.. 1..
ततस्त्रिविनतं चापमादायात्मविभूषणम् । आबध्य च कपालौ द्वौ जगामोदग्रविक्रमः॥ २॥
ततस् त्रि-विनतम् चापम् आदाय आत्म-विभूषणम् । आबध्य च कपालौ द्वौ जगाम उदग्र-विक्रमः॥ २॥
tatas tri-vinatam cāpam ādāya ātma-vibhūṣaṇam . ābadhya ca kapālau dvau jagāma udagra-vikramaḥ.. 2..
तं वन्यराजो राजेन्द्रमापतन्तं निरीक्ष्य वै । बभूवान्तर्हितस्त्रासात् पुनः संदर्शनेऽभवत्॥ ३॥
तम् वन्य-राजः राज-इन्द्रम् आपतन्तम् निरीक्ष्य वै । बभूव अन्तर्हितः त्रासात् पुनर् संदर्शने अभवत्॥ ३॥
tam vanya-rājaḥ rāja-indram āpatantam nirīkṣya vai . babhūva antarhitaḥ trāsāt punar saṃdarśane abhavat.. 3..
बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः । तं स्म पश्यति रूपेण द्योतयन्तमिवाग्रतः॥ ४॥
बद्ध-असिः धनुः आदाय प्रदुद्राव यतस् मृगः । तम् स्म पश्यति रूपेण द्योतयन्तम् इव अग्रतस्॥ ४॥
baddha-asiḥ dhanuḥ ādāya pradudrāva yatas mṛgaḥ . tam sma paśyati rūpeṇa dyotayantam iva agratas.. 4..
अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर्महावने । अतिवृत्तमिवोत्पाताल्लोभयानं कदाचन॥ ५॥
अवेक्ष्य अवेक्ष्य धावन्तम् धनुष्पाणिः महा-वने । अतिवृत्तम् इव उत्पातात् लोभ-यानम् कदाचन॥ ५॥
avekṣya avekṣya dhāvantam dhanuṣpāṇiḥ mahā-vane . ativṛttam iva utpātāt lobha-yānam kadācana.. 5..
शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरम् । दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित्॥ ६॥
शङ्कितम् तु समुद्भ्रान्तम् उत्पतन्तम् इव अम्बरम् । दृश्यमानम् अदृश्यम् च वन-उद्देशेषु केषुचिद्॥ ६॥
śaṅkitam tu samudbhrāntam utpatantam iva ambaram . dṛśyamānam adṛśyam ca vana-uddeśeṣu keṣucid.. 6..
छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम् । मुहूर्तादेव ददृशे मुहुर्दूरात् प्रकाशते॥ ७॥
छिन्न-अभ्रैः इव संवीतम् शारदम् चन्द्र-मण्डलम् । मुहूर्तात् एव ददृशे मुहुर् दूरात् प्रकाशते॥ ७॥
chinna-abhraiḥ iva saṃvītam śāradam candra-maṇḍalam . muhūrtāt eva dadṛśe muhur dūrāt prakāśate.. 7..
दर्शनादर्शनेनैव सोऽपाकर्षत राघवम् । स दूरमाश्रमस्यास्य मारीचो मृगतां गतः॥ ८॥
दर्शन-अदर्शनेन एव सः अपाकर्षत राघवम् । स दूरम् आश्रमस्य अस्य मारीचः मृग-ताम् गतः॥ ८॥
darśana-adarśanena eva saḥ apākarṣata rāghavam . sa dūram āśramasya asya mārīcaḥ mṛga-tām gataḥ.. 8..
आसीत् क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः । अथावतस्थे सुश्रान्तश्छायामाश्रित्य शाद्वले॥ ९॥
आसीत् क्रुद्धः तु काकुत्स्थः विवशः तेन मोहितः । अथ अवतस्थे सु श्रान्तः छायाम् आश्रित्य शाद्वले॥ ९॥
āsīt kruddhaḥ tu kākutsthaḥ vivaśaḥ tena mohitaḥ . atha avatasthe su śrāntaḥ chāyām āśritya śādvale.. 9..
स तमुन्मादयामास मृगरूपो निशाचरः । मृगैः परिवृतोऽथान्यैरदूरात् प्रत्यदृश्यत॥ १०॥
स तम् उन्मादयामास मृग-रूपः निशाचरः । मृगैः परिवृतः अथ अन्यैः अदूरात् प्रत्यदृश्यत॥ १०॥
sa tam unmādayāmāsa mṛga-rūpaḥ niśācaraḥ . mṛgaiḥ parivṛtaḥ atha anyaiḥ adūrāt pratyadṛśyata.. 10..
ग्रहीतुकामं दृष्ट्वा तं पुनरेवाभ्यधावत । तत्क्षणादेव संत्रासात् पुनरन्तर्हितोऽभवत्॥ ११॥
ग्रहीतु-कामम् दृष्ट्वा तम् पुनर् एव अभ्यधावत । तद्-क्षणात् एव संत्रासात् पुनर् अन्तर्हितः अभवत्॥ ११॥
grahītu-kāmam dṛṣṭvā tam punar eva abhyadhāvata . tad-kṣaṇāt eva saṃtrāsāt punar antarhitaḥ abhavat.. 11..
पुनरेव ततो दूराद् वृक्षखण्डाद् विनिःसृतः । दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः॥ १२॥
पुनर् एव ततस् दूरात् वृक्ष-खण्डात् विनिःसृतः । दृष्ट्वा रामः महा-तेजाः तम् हन्तुम् कृत-निश्चयः॥ १२॥
punar eva tatas dūrāt vṛkṣa-khaṇḍāt viniḥsṛtaḥ . dṛṣṭvā rāmaḥ mahā-tejāḥ tam hantum kṛta-niścayaḥ.. 12..
भूयस्तु शरमुद्धृत्य कुपितस्तत्र राघवः । सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनम्॥ १३॥
भूयस् तु शरम् उद्धृत्य कुपितः तत्र राघवः । सूर्य-रश्मि-प्रतीकाशम् ज्वलन्तम् अरि-मर्दनम्॥ १३॥
bhūyas tu śaram uddhṛtya kupitaḥ tatra rāghavaḥ . sūrya-raśmi-pratīkāśam jvalantam ari-mardanam.. 13..
संधाय सुदृढे चापे विकृष्य बलवद्बली । तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम्॥ १४॥
संधाय सु दृढे चापे विकृष्य बलवत्-बली । तम् एव मृगम् उद्दिश्य श्वसन्तम् इव पन्नगम्॥ १४॥
saṃdhāya su dṛḍhe cāpe vikṛṣya balavat-balī . tam eva mṛgam uddiśya śvasantam iva pannagam.. 14..
मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम् । शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः॥ १५॥
मुमोच ज्वलितम् दीप्तम् अस्त्रम् ब्रह्म-विनिर्मितम् । शरीरम् मृग-रूपस्य विनिर्भिद्य शर-उत्तमः॥ १५॥
mumoca jvalitam dīptam astram brahma-vinirmitam . śarīram mṛga-rūpasya vinirbhidya śara-uttamaḥ.. 15..
मारीचस्यैव हृदयं बिभेदाशनिसंनिभः । तालमात्रमथोत्प्लुत्य न्यपतत् स भृशातुरः॥ १६॥
मारीचस्य एव हृदयम् बिभेद अशनि-संनिभः । ताल-मात्रम् अथ उत्प्लुत्य न्यपतत् स भृश-आतुरः॥ १६॥
mārīcasya eva hṛdayam bibheda aśani-saṃnibhaḥ . tāla-mātram atha utplutya nyapatat sa bhṛśa-āturaḥ.. 16..
व्यनदद् भैरवं नादं धरण्यामल्पजीवितः । म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम्॥ १७॥
व्यनदत् भैरवम् नादम् धरण्याम् अल्प-जीवितः । म्रियमाणः तु मारीचः जहौ ताम् कृत्रिमाम् तनुम्॥ १७॥
vyanadat bhairavam nādam dharaṇyām alpa-jīvitaḥ . mriyamāṇaḥ tu mārīcaḥ jahau tām kṛtrimām tanum.. 17..
स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम् । इह प्रस्थापयेत् सीता तां शून्ये रावणो हरेत्॥ १८॥
स्मृत्वा तद्-वचनम् रक्षः दध्यौ केन तु लक्ष्मणम् । इह प्रस्थापयेत् सीता ताम् शून्ये रावणः हरेत्॥ १८॥
smṛtvā tad-vacanam rakṣaḥ dadhyau kena tu lakṣmaṇam . iha prasthāpayet sītā tām śūnye rāvaṇaḥ haret.. 18..
स प्राप्तकालमाज्ञाय चकार च ततः स्वनम् । सदृशं राघवस्येव हा सीते लक्ष्मणेति च॥ १९॥
स प्राप्त-कालम् आज्ञाय चकार च ततस् स्वनम् । सदृशम् राघवस्य इव हा सीते लक्ष्मण इति च॥ १९॥
sa prāpta-kālam ājñāya cakāra ca tatas svanam . sadṛśam rāghavasya iva hā sīte lakṣmaṇa iti ca.. 19..
तेन मर्मणि निर्विद्धं शरेणानुपमेन हि । मृगरूपं तु तत् त्यक्त्वा राक्षसं रूपमास्थितः॥ २०॥
तेन मर्मणि निर्विद्धम् शरेण अनुपमेन हि । मृग-रूपम् तु तत् त्यक्त्वा राक्षसम् रूपम् आस्थितः॥ २०॥
tena marmaṇi nirviddham śareṇa anupamena hi . mṛga-rūpam tu tat tyaktvā rākṣasam rūpam āsthitaḥ.. 20..
चक्रे स सुमहाकायं मारीचो जीवितं त्यजन् । तं दृष्ट्वा पतितं भूमौ राक्षसं भीमदर्शनम्॥ २१॥
चक्रे स सु महा-कायम् मारीचः जीवितम् त्यजन् । तम् दृष्ट्वा पतितम् भूमौ राक्षसम् भीम-दर्शनम्॥ २१॥
cakre sa su mahā-kāyam mārīcaḥ jīvitam tyajan . tam dṛṣṭvā patitam bhūmau rākṣasam bhīma-darśanam.. 21..
रामो रुधिरसिक्ताङ्गं चेष्टमानं महीतले । जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन्॥ २२॥
रामः रुधिर-सिक्त-अङ्गम् चेष्टमानम् मही-तले । जगाम मनसा सीताम् लक्ष्मणस्य वचः स्मरन्॥ २२॥
rāmaḥ rudhira-sikta-aṅgam ceṣṭamānam mahī-tale . jagāma manasā sītām lakṣmaṇasya vacaḥ smaran.. 22..
मारीचस्य तु मायैषा पूर्वोक्तं लक्ष्मणेन तु । तत् तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः॥ २३॥
मारीचस्य तु माया एषा पूर्व-उक्तम् लक्ष्मणेन तु । तत् तथा हि अभवत् च अद्य मारीचः अयम् मया हतः॥ २३॥
mārīcasya tu māyā eṣā pūrva-uktam lakṣmaṇena tu . tat tathā hi abhavat ca adya mārīcaḥ ayam mayā hataḥ.. 23..
हा सीते लक्ष्मणेत्येवमाक्रुश्य तु महास्वनम् । ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत्॥ २४॥
हा सीते लक्ष्मण इति एवम् आक्रुश्य तु महा-स्वनम् । ममार राक्षसः सः अयम् श्रुत्वा सीता कथम् भवेत्॥ २४॥
hā sīte lakṣmaṇa iti evam ākruśya tu mahā-svanam . mamāra rākṣasaḥ saḥ ayam śrutvā sītā katham bhavet.. 24..
लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति । इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः॥ २५॥
लक्ष्मणः च महा-बाहुः काम् अवस्थाम् गमिष्यति । इति संचिन्त्य धर्म-आत्मा रामः हृष्ट-तनूरुहः॥ २५॥
lakṣmaṇaḥ ca mahā-bāhuḥ kām avasthām gamiṣyati . iti saṃcintya dharma-ātmā rāmaḥ hṛṣṭa-tanūruhaḥ.. 25..
तत्र रामं भयं तीव्रमाविवेश विषादजम् । राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वनम्॥ २६॥
तत्र रामम् भयम् तीव्रम् आविवेश विषाद-जम् । राक्षसम् मृग-रूपम् तम् हत्वा श्रुत्वा च तद्-स्वनम्॥ २६॥
tatra rāmam bhayam tīvram āviveśa viṣāda-jam . rākṣasam mṛga-rūpam tam hatvā śrutvā ca tad-svanam.. 26..
निहत्य पृषतं चान्यं मांसमादाय राघवः । त्वरमाणो जनस्थानं ससाराभिमुखं तदा॥ २७॥
निहत्य पृषतम् च अन्यम् मांसम् आदाय राघवः । त्वरमाणः जनस्थानम् ससार अभिमुखम् तदा॥ २७॥
nihatya pṛṣatam ca anyam māṃsam ādāya rāghavaḥ . tvaramāṇaḥ janasthānam sasāra abhimukham tadā.. 27..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुश्चत्वारिंशः सर्गः ॥३-४४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे चतुश्चत्वारिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe catuścatvāriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In