This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥३-४५॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे पञ्चचत्वारिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe pañcacatvāriṃśaḥ sargaḥ ..3..
आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने । उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम्॥ १॥
आर्त-स्वरम् तु तम् भर्तुः विज्ञाय सदृशम् वने । उवाच लक्ष्मणम् सीता गच्छ जानीहि राघवम्॥ १॥
ārta-svaram tu tam bhartuḥ vijñāya sadṛśam vane . uvāca lakṣmaṇam sītā gaccha jānīhi rāghavam.. 1..
नहि मे जीवितं स्थाने हृदयं वावतिष्ठते । क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम्॥ २॥
नहि मे जीवितम् स्थाने हृदयम् वा अवतिष्ठते । क्रोशतः परम-आर्तस्य श्रुतः शब्दः मया भृशम्॥ २॥
nahi me jīvitam sthāne hṛdayam vā avatiṣṭhate . krośataḥ parama-ārtasya śrutaḥ śabdaḥ mayā bhṛśam.. 2..
आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि । तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम्॥ ३॥
आक्रन्दमानम् तु वने भ्रातरम् त्रातुम् अर्हसि । तम् क्षिप्रम् अभिधाव त्वम् भ्रातरम् शरण-एषिणम्॥ ३॥
ākrandamānam tu vane bhrātaram trātum arhasi . tam kṣipram abhidhāva tvam bhrātaram śaraṇa-eṣiṇam.. 3..
रक्षसां वशमापन्नं सिंहानामिव गोवृषम् । न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम्॥ ४॥
रक्षसाम् वशम् आपन्नम् सिंहानाम् इव गो-वृषम् । न जगाम तथा उक्तः तु भ्रातुः आज्ञाय शासनम्॥ ४॥
rakṣasām vaśam āpannam siṃhānām iva go-vṛṣam . na jagāma tathā uktaḥ tu bhrātuḥ ājñāya śāsanam.. 4..
तमुवाच ततस्तत्र क्षुभिता जनकात्मजा । सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत्॥ ५॥
तम् उवाच ततस् तत्र क्षुभिता जनकात्मजा । सौमित्रे मित्र-रूपेण भ्रातुः त्वम् असि शत्रु-वत्॥ ५॥
tam uvāca tatas tatra kṣubhitā janakātmajā . saumitre mitra-rūpeṇa bhrātuḥ tvam asi śatru-vat.. 5..
यस्त्वमस्यामवस्थायां भ्रातरं नाभिपद्यसे । इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते॥ ६॥
यः त्वम् अस्याम् अवस्थायाम् भ्रातरम् न अभिपद्यसे । इच्छसि त्वम् विनश्यन्तम् रामम् लक्ष्मण मद्-कृते॥ ६॥
yaḥ tvam asyām avasthāyām bhrātaram na abhipadyase . icchasi tvam vinaśyantam rāmam lakṣmaṇa mad-kṛte.. 6..
लोभात्तु मत्कृते नूनं नानुगच्छसि राघवम् । व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते॥ ७॥
लोभात् तु मद्-कृते नूनम् न अनुगच्छसि राघवम् । व्यसनम् ते प्रियम् मन्ये स्नेहः भ्रातरि ना अस्ति ते॥ ७॥
lobhāt tu mad-kṛte nūnam na anugacchasi rāghavam . vyasanam te priyam manye snehaḥ bhrātari nā asti te.. 7..
तेन तिष्ठसि विस्रब्धं तमपश्यन् महाद्युतिम् । किं हि संशयमापन्ने तस्मिन्निह मया भवेत्॥ ८॥
तेन तिष्ठसि विस्रब्धम् तम् अपश्यान् महा-द्युतिम् । किम् हि संशयम् आपन्ने तस्मिन् इह मया भवेत्॥ ८॥
tena tiṣṭhasi visrabdham tam apaśyān mahā-dyutim . kim hi saṃśayam āpanne tasmin iha mayā bhavet.. 8..
कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः । एवं ब्रुवाणां वैदेहीं बाष्पशोकसमन्विताम्॥ ९॥
कर्तव्यम् इह तिष्ठन्त्या यद्-प्रधानः त्वम् आगतः । एवम् ब्रुवाणाम् वैदेहीम् बाष्प-शोक-समन्विताम्॥ ९॥
kartavyam iha tiṣṭhantyā yad-pradhānaḥ tvam āgataḥ . evam bruvāṇām vaidehīm bāṣpa-śoka-samanvitām.. 9..
अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव । पन्नगासुरगन्धर्वदेवदानवराक्षसैः॥ १०॥
अब्रवीत् लक्ष्मणः त्रस्ताम् सीताम् मृग-वधूम् इव । पन्नग-असुर-गन्धर्व-देव-दानव-राक्षसैः॥ १०॥
abravīt lakṣmaṇaḥ trastām sītām mṛga-vadhūm iva . pannaga-asura-gandharva-deva-dānava-rākṣasaiḥ.. 10..
अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः । देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु॥ ११॥
अशक्यः तव वैदेहि भर्ता जेतुम् न संशयः । देवि देव-मनुष्येषु गन्धर्वेषु पतत्रिषु॥ ११॥
aśakyaḥ tava vaidehi bhartā jetum na saṃśayaḥ . devi deva-manuṣyeṣu gandharveṣu patatriṣu.. 11..
राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च । दानवेषु च घोरेषु न स विद्येत शोभने॥ १२॥
राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च । दानवेषु च घोरेषु न स विद्येत शोभने॥ १२॥
rākṣaseṣu piśāceṣu kinnareṣu mṛgeṣu ca . dānaveṣu ca ghoreṣu na sa vidyeta śobhane.. 12..
यो रामं प्रतियुध्येत समरे वासवोपमम् । अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि॥ १३॥
यः रामम् प्रतियुध्येत समरे वासव-उपमम् । अवध्यः समरे रामः न एवम् त्वम् वक्तुम् अर्हसि॥ १३॥
yaḥ rāmam pratiyudhyeta samare vāsava-upamam . avadhyaḥ samare rāmaḥ na evam tvam vaktum arhasi.. 13..
न त्वामस्मिन् वने हातुमुत्सहे राघवं विना । अनिवार्यं बलं तस्य बलैर्बलवतामपि॥ १४॥
न त्वाम् अस्मिन् वने हातुम् उत्सहे राघवम् विना । अनिवार्यम् बलम् तस्य बलैः बलवताम् अपि॥ १४॥
na tvām asmin vane hātum utsahe rāghavam vinā . anivāryam balam tasya balaiḥ balavatām api.. 14..
त्रिभिर्लोकैः समुदितैः सेश्वरैः सामरैरपि । हृदयं निर्वृतं तेऽस्तु संतापस्त्यज्यतां तव॥ १५॥
त्रिभिः लोकैः समुदितैः स ईश्वरैः स अमरैः अपि । हृदयम् निर्वृतम् ते अस्तु संतापः त्यज्यताम् तव॥ १५॥
tribhiḥ lokaiḥ samuditaiḥ sa īśvaraiḥ sa amaraiḥ api . hṛdayam nirvṛtam te astu saṃtāpaḥ tyajyatām tava.. 15..
आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् । न स तस्य स्वरो व्यक्तं न कश्चिदपि दैवतः॥ १६॥
आगमिष्यति ते भर्ता शीघ्रम् हत्वा मृग-उत्तमम् । न स तस्य स्वरः व्यक्तम् न कश्चिद् अपि दैवतः॥ १६॥
āgamiṣyati te bhartā śīghram hatvā mṛga-uttamam . na sa tasya svaraḥ vyaktam na kaścid api daivataḥ.. 16..
गन्धर्वनगरप्रख्या माया तस्य च रक्षसः । न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना॥ १७॥
गन्धर्वनगर-प्रख्या माया तस्य च रक्षसः । न्यास-भूता असि वैदेहि न्यस्ता मयि महात्मना॥ १७॥
gandharvanagara-prakhyā māyā tasya ca rakṣasaḥ . nyāsa-bhūtā asi vaidehi nyastā mayi mahātmanā.. 17..
रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे । कृतवैराश्च कल्याणि वयमेतैर्निशाचरैः॥ १८॥
रामेण त्वम् वरारोहे न त्वाम् त्यक्तुम् इह उत्सहे । कृत-वैराः च कल्याणि वयम् एतैः निशाचरैः॥ १८॥
rāmeṇa tvam varārohe na tvām tyaktum iha utsahe . kṛta-vairāḥ ca kalyāṇi vayam etaiḥ niśācaraiḥ.. 18..
खरस्य निधने देवि जनस्थानवधं प्रति । राक्षसा विविधा वाचो व्याहरन्ति महावने॥ १९॥
खरस्य निधने देवि जनस्थान-वधम् प्रति । राक्षसाः विविधाः वाचः व्याहरन्ति महा-वने॥ १९॥
kharasya nidhane devi janasthāna-vadham prati . rākṣasāḥ vividhāḥ vācaḥ vyāharanti mahā-vane.. 19..
हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि । लक्ष्मणेनैवमुक्ता तु क्रुद्धा संरक्तलोचना॥ २०॥
हिंसा-विहारा वैदेहि न चिन्तयितुम् अर्हसि । लक्ष्मणेन एवम् उक्ता तु क्रुद्धा संरक्त-लोचना॥ २०॥
hiṃsā-vihārā vaidehi na cintayitum arhasi . lakṣmaṇena evam uktā tu kruddhā saṃrakta-locanā.. 20..
अब्रवीत् परुषं वाक्यं लक्ष्मणं सत्यवादिनम् । अनार्याकरुणारम्भ नृशंस कुलपांसन॥ २१॥
अब्रवीत् परुषम् वाक्यम् लक्ष्मणम् सत्य-वादिनम् । अनार्य-अकरुण-आरम्भ नृशंस कुल-पांसन॥ २१॥
abravīt paruṣam vākyam lakṣmaṇam satya-vādinam . anārya-akaruṇa-ārambha nṛśaṃsa kula-pāṃsana.. 21..
अहं तव प्रियं मन्ये रामस्य व्यसनं महत् । रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे॥ २२॥
अहम् तव प्रियम् मन्ये रामस्य व्यसनम् महत् । रामस्य व्यसनम् दृष्ट्वा तेन एतानि प्रभाषसे॥ २२॥
aham tava priyam manye rāmasya vyasanam mahat . rāmasya vyasanam dṛṣṭvā tena etāni prabhāṣase.. 22..
नैव चित्रं सपत्नेषु पापं लक्ष्मण यद् भवेत् । त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु॥ २३॥
न एव चित्रम् सपत्नेषु पापम् लक्ष्मण यत् भवेत् । त्वद्विधेषु नृशंसेषु नित्यम् प्रच्छन्न-चारिषु॥ २३॥
na eva citram sapatneṣu pāpam lakṣmaṇa yat bhavet . tvadvidheṣu nṛśaṃseṣu nityam pracchanna-cāriṣu.. 23..
सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि । मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा॥ २४॥
सु दुष्टः त्वम् वने रामम् एकम् एकः अनुगच्छसि । मम हेतोः प्रतिच्छन्नः प्रयुक्तः भरतेन वा॥ २४॥
su duṣṭaḥ tvam vane rāmam ekam ekaḥ anugacchasi . mama hetoḥ praticchannaḥ prayuktaḥ bharatena vā.. 24..
तन्न सिध्यति सौमित्रे तवापि भरतस्य वा । कथमिन्दीवरश्यामं रामं पद्मनिभेक्षणम्॥ २५॥
तत् न सिध्यति सौमित्रे तव अपि भरतस्य वा । कथम् इन्दीवर-श्यामम् रामम् पद्म-निभ-ईक्षणम्॥ २५॥
tat na sidhyati saumitre tava api bharatasya vā . katham indīvara-śyāmam rāmam padma-nibha-īkṣaṇam.. 25..
उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् । समक्षं तव सौमित्रे प्राणांस्त्यक्ष्याम्यसंशयम्॥ २६॥
उपसंश्रित्य भर्तारम् कामयेयम् पृथग्जनम् । समक्षम् तव सौमित्रे प्राणान् त्यक्ष्यामि असंशयम्॥ २६॥
upasaṃśritya bhartāram kāmayeyam pṛthagjanam . samakṣam tava saumitre prāṇān tyakṣyāmi asaṃśayam.. 26..
रामं विना क्षणमपि नैव जीवामि भूतले । इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम्॥ २७॥
रामम् विना क्षणम् अपि ना एव जीवामि भू-तले । इति उक्तः परुषम् वाक्यम् सीतया रोमहर्षणम्॥ २७॥
rāmam vinā kṣaṇam api nā eva jīvāmi bhū-tale . iti uktaḥ paruṣam vākyam sītayā romaharṣaṇam.. 27..
अब्रवील्लक्ष्मणः सीतां प्राञ्जलिः स जितेन्द्रियः । उत्तरं नोत्सहे वक्तुं दैवतं भवती मम॥ २८॥
अब्रवीत् लक्ष्मणः सीताम् प्राञ्जलिः स जित-इन्द्रियः । उत्तरम् ना उत्सहे वक्तुम् दैवतम् भवती मम॥ २८॥
abravīt lakṣmaṇaḥ sītām prāñjaliḥ sa jita-indriyaḥ . uttaram nā utsahe vaktum daivatam bhavatī mama.. 28..
वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि । स्वभावस्त्वेष नारीणामेषु लोकेषु दृश्यते॥ २९॥
वाक्यम् अप्रतिरूपम् तु न चित्रम् स्त्रीषु मैथिलि । स्वभावः तु एष नारीणाम् एषु लोकेषु दृश्यते॥ २९॥
vākyam apratirūpam tu na citram strīṣu maithili . svabhāvaḥ tu eṣa nārīṇām eṣu lokeṣu dṛśyate.. 29..
विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः । न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे॥ ३०॥
विमुक्त-धर्माः चपलाः तीक्ष्णाः भेद-कराः स्त्रियः । न सहे हि ईदृशम् वाक्यम् वैदेहि जनकात्मजे॥ ३०॥
vimukta-dharmāḥ capalāḥ tīkṣṇāḥ bheda-karāḥ striyaḥ . na sahe hi īdṛśam vākyam vaidehi janakātmaje.. 30..
श्रोत्रयोरुभयोर्मध्ये तप्तनाराचसंनिभम् । उपशृण्वन्तु मे सर्वे साक्षिणो हि वनेचराः॥ ३१॥
श्रोत्रयोः उभयोः मध्ये तप्त-नाराच-संनिभम् । उपशृण्वन्तु मे सर्वे साक्षिणः हि वनेचराः॥ ३१॥
śrotrayoḥ ubhayoḥ madhye tapta-nārāca-saṃnibham . upaśṛṇvantu me sarve sākṣiṇaḥ hi vanecarāḥ.. 31..
न्यायवादी यथा वाक्यमुक्तोऽहं परुषं त्वया । धिक् त्वामद्य विनश्यन्तीं यन्मामेवं विशङ्कसे॥ ३२॥
न्याय-वादी यथा वाक्यम् उक्तः अहम् परुषम् त्वया । धिक् त्वाम् अद्य विनश्यन्तीम् यत् माम् एवम् विशङ्कसे॥ ३२॥
nyāya-vādī yathā vākyam uktaḥ aham paruṣam tvayā . dhik tvām adya vinaśyantīm yat mām evam viśaṅkase.. 32..
स्त्रीत्वाद् दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् । गच्छामि यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने॥ ३३॥
स्त्री-त्वात् दुष्ट-स्वभावेन गुरु-वाक्ये व्यवस्थितम् । गच्छामि यत्र काकुत्स्थः स्वस्ति ते अस्तु वरानने॥ ३३॥
strī-tvāt duṣṭa-svabhāvena guru-vākye vyavasthitam . gacchāmi yatra kākutsthaḥ svasti te astu varānane.. 33..
रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः । निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे । अपि त्वां सह रामेण पश्येयं पुनरागतः॥ ३४॥
रक्षन्तु त्वाम् विशाल-अक्षि समग्राः वन-देवताः । निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे । अपि त्वाम् सह रामेण पश्येयम् पुनर् आगतः॥ ३४॥
rakṣantu tvām viśāla-akṣi samagrāḥ vana-devatāḥ . nimittāni hi ghorāṇi yāni prādurbhavanti me . api tvām saha rāmeṇa paśyeyam punar āgataḥ.. 34..
लक्ष्मणेनैवमुक्ता तु रुदती जनकात्मजा । प्रत्युवाच ततो वाक्यं तीव्रबाष्पपरिप्लुता॥ ३५॥
लक्ष्मणेन एवम् उक्ता तु रुदती जनकात्मजा । प्रत्युवाच ततस् वाक्यम् तीव्र-बाष्प-परिप्लुता॥ ३५॥
lakṣmaṇena evam uktā tu rudatī janakātmajā . pratyuvāca tatas vākyam tīvra-bāṣpa-pariplutā.. 35..
गोदावरीं प्रवेक्ष्यामि हीना रामेण लक्ष्मण । आबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः॥ ३६॥
गोदावरीम् प्रवेक्ष्यामि हीना रामेण लक्ष्मण । आबन्धिष्ये अथवा त्यक्ष्ये विषमे देहम् आत्मनः॥ ३६॥
godāvarīm pravekṣyāmi hīnā rāmeṇa lakṣmaṇa . ābandhiṣye athavā tyakṣye viṣame deham ātmanaḥ.. 36..
पिबामि वा विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम् । न त्वहं राघवादन्यं कदापि पुरुषं स्पृशे॥ ३७॥
पिबामि वा विषम् तीक्ष्णम् प्रवेक्ष्यामि हुताशनम् । न तु अहम् राघवात् अन्यम् कदापि पुरुषम् स्पृशे॥ ३७॥
pibāmi vā viṣam tīkṣṇam pravekṣyāmi hutāśanam . na tu aham rāghavāt anyam kadāpi puruṣam spṛśe.. 37..
इति लक्ष्मणमाश्रुत्य सीता शोकसमन्विता । पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह॥ ३८॥
इति लक्ष्मणम् आश्रुत्य सीता शोक-समन्विता । पाणिभ्याम् रुदती दुःखात् उदरम् प्रजघान ह॥ ३८॥
iti lakṣmaṇam āśrutya sītā śoka-samanvitā . pāṇibhyām rudatī duḥkhāt udaram prajaghāna ha.. 38..
तामार्तरूपां विमना रुदन्तीं सौमित्रिरालोक्य विशालनेत्राम् । आश्वासयामास न चैव भर्तु- स्तं भ्रातरं किंचिदुवाच सीता॥ ३९॥
ताम् आर्त-रूपाम् विमनाः रुदन्तीम् सौमित्रिः आलोक्य विशाल-नेत्राम् । आश्वासयामास न च एव भर्तुः तम् भ्रातरम् किंचिद् उवाच सीता॥ ३९॥
tām ārta-rūpām vimanāḥ rudantīm saumitriḥ ālokya viśāla-netrām . āśvāsayāmāsa na ca eva bhartuḥ tam bhrātaram kiṃcid uvāca sītā.. 39..
ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किंचिदभिप्रणम्य । अवेक्षमाणो बहुशः स मैथिलीं जगाम रामस्य समीपमात्मवान्॥ ४०॥
ततस् तु सीताम् अभिवाद्य लक्ष्मणः कृताञ्जलिः किंचिद् अभिप्रणम्य । अवेक्षमाणः बहुशस् स मैथिलीम् जगाम रामस्य समीपम् आत्मवान्॥ ४०॥
tatas tu sītām abhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃcid abhipraṇamya . avekṣamāṇaḥ bahuśas sa maithilīm jagāma rāmasya samīpam ātmavān.. 40..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥३-४५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे पञ्चचत्वारिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe pañcacatvāriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In