This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्चत्वारिंशः सर्गः ॥३-४६॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे षट्चत्वारिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ ..3..
तया परुषमुक्तस्तु कुपितो राघवानुजः । स विकांक्षन् भृशं रामं प्रतस्थे नचिरादिव॥ १॥
तया परुष-मुक्तः तु कुपितः राघव-अनुजः । स विकांक्षन् भृशम् रामम् प्रतस्थे नचिरात् इव॥ १॥
tayā paruṣa-muktaḥ tu kupitaḥ rāghava-anujaḥ . sa vikāṃkṣan bhṛśam rāmam pratasthe nacirāt iva.. 1..
तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः । अभिचक्राम वैदेहीं परिव्राजकरूपधृक्॥ २॥
तत् आसाद्य दशग्रीवः क्षिप्रम् अन्तरम् आस्थितः । अभिचक्राम वैदेहीम् परिव्राजक-रूपधृक्॥ २॥
tat āsādya daśagrīvaḥ kṣipram antaram āsthitaḥ . abhicakrāma vaidehīm parivrājaka-rūpadhṛk.. 2..
श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही । वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू॥ ३॥
श्लक्ष्ण-काषाय-संवीतः शिखी छत्री उपानही । वामे च अंसे अवसज्य अथ शुभे यष्टि-कमण्डलू॥ ३॥
ślakṣṇa-kāṣāya-saṃvītaḥ śikhī chatrī upānahī . vāme ca aṃse avasajya atha śubhe yaṣṭi-kamaṇḍalū.. 3..
परिव्राजकरूपेण वैदेहीमन्ववर्तत । तामाससादातिबलो भ्रातृभ्यां रहितां वने॥ ४॥
परिव्राजक-रूपेण वैदेहीम् अन्ववर्तत । ताम् आससाद अतिबलः भ्रातृभ्याम् रहिताम् वने॥ ४॥
parivrājaka-rūpeṇa vaidehīm anvavartata . tām āsasāda atibalaḥ bhrātṛbhyām rahitām vane.. 4..
रहितां सूर्यचन्द्राभ्यां संध्यामिव महत्तमः । तामपश्यत् ततो बालां राजपुत्रीं यशस्विनीम्॥ ५॥
रहिताम् सूर्य-चन्द्राभ्याम् संध्याम् इव महत्तमः । ताम् अपश्यत् ततस् बालाम् राज-पुत्रीम् यशस्विनीम्॥ ५॥
rahitām sūrya-candrābhyām saṃdhyām iva mahattamaḥ . tām apaśyat tatas bālām rāja-putrīm yaśasvinīm.. 5..
रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः । तमुग्रं पापकर्माणं जनस्थानगता द्रुमाः॥ ६॥
रोहिणीम् शशिना हीनाम् ग्रह-वत् भृश-दारुणः । तम् उग्रम् पाप-कर्माणम् जनस्थान-गताः द्रुमाः॥ ६॥
rohiṇīm śaśinā hīnām graha-vat bhṛśa-dāruṇaḥ . tam ugram pāpa-karmāṇam janasthāna-gatāḥ drumāḥ.. 6..
संदृश्य न प्रकम्पन्ते न प्रवाति च मारुतः । शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम्॥ ७॥
संदृश्य न प्रकम्पन्ते न प्रवाति च मारुतः । शीघ्र-स्रोताः च तम् दृष्ट्वा वीक्षन्तम् रक्त-लोचनम्॥ ७॥
saṃdṛśya na prakampante na pravāti ca mārutaḥ . śīghra-srotāḥ ca tam dṛṣṭvā vīkṣantam rakta-locanam.. 7..
स्तिमितं गन्तुमारेभे भयाद् गोदावरी नदी । रामस्य त्वन्तरं प्रेप्सुर्दशग्रीवस्तदन्तरे॥ ८॥
स्तिमितम् गन्तुम् आरेभे भयात् गोदावरी नदी । रामस्य तु अन्तरम् प्रेप्सुः दशग्रीवः तद्-अन्तरे॥ ८॥
stimitam gantum ārebhe bhayāt godāvarī nadī . rāmasya tu antaram prepsuḥ daśagrīvaḥ tad-antare.. 8..
उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः । अभव्यो भव्यरूपेण भर्तारमनुशोचतीम्॥ ९॥
उपतस्थे च वैदेहीम् भिक्षु-रूपेण रावणः । अभव्यः भव्य-रूपेण भर्तारम् अनुशोचतीम्॥ ९॥
upatasthe ca vaidehīm bhikṣu-rūpeṇa rāvaṇaḥ . abhavyaḥ bhavya-rūpeṇa bhartāram anuśocatīm.. 9..
अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः । सहसा भव्यरूपेण तृणैः कूप इवावृतः॥ १०॥
अभ्यवर्तत वैदेहीम् चित्राम् इव शनैश्चरः । सहसा भव्य-रूपेण तृणैः कूपः इव आवृतः॥ १०॥
abhyavartata vaidehīm citrām iva śanaiścaraḥ . sahasā bhavya-rūpeṇa tṛṇaiḥ kūpaḥ iva āvṛtaḥ.. 10..
अतिष्ठत् प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् । तिष्ठन् सम्प्रेक्ष्य च तदा पत्नीं रामस्य रावणः॥ ११॥
अतिष्ठत् प्रेक्ष्य वैदेहीम् राम-पत्नीम् यशस्विनीम् । तिष्ठन् सम्प्रेक्ष्य च तदा पत्नीम् रामस्य रावणः॥ ११॥
atiṣṭhat prekṣya vaidehīm rāma-patnīm yaśasvinīm . tiṣṭhan samprekṣya ca tadā patnīm rāmasya rāvaṇaḥ.. 11..
शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम् । आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम्॥ १२॥
शुभाम् रुचिर-दन्त-उष्ठीम् पूर्ण-चन्द्र-निभ-आननाम् । आसीनाम् पर्ण-शालायाम् बाष्प-शोक-अभिपीडिताम्॥ १२॥
śubhām rucira-danta-uṣṭhīm pūrṇa-candra-nibha-ānanām . āsīnām parṇa-śālāyām bāṣpa-śoka-abhipīḍitām.. 12..
स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् । अभ्यगच्छत वैदेहीं हृष्टचेता निशाचरः॥ १३॥
स ताम् पद्म-पलाश-अक्षीम् पीत-कौशेय-वासिनीम् । अभ्यगच्छत वैदेहीम् हृष्ट-चेताः निशाचरः॥ १३॥
sa tām padma-palāśa-akṣīm pīta-kauśeya-vāsinīm . abhyagacchata vaidehīm hṛṣṭa-cetāḥ niśācaraḥ.. 13..
दृष्ट्वा कामशराविद्धो ब्रह्मघोषमुदीरयन् । अब्रवीत् प्रश्रितं वाक्यं रहिते राक्षसाधिपः॥ १४॥
दृष्ट्वा काम-शर-आविद्धः ब्रह्मघोषम् उदीरयन् । अब्रवीत् प्रश्रितम् वाक्यम् रहिते राक्षस-अधिपः॥ १४॥
dṛṣṭvā kāma-śara-āviddhaḥ brahmaghoṣam udīrayan . abravīt praśritam vākyam rahite rākṣasa-adhipaḥ.. 14..
तामुत्तमां त्रिलोकानां पद्महीनामिव श्रियम् । विभ्राजमानां वपुषा रावणः प्रशशंस ह॥ १५॥
ताम् उत्तमाम् त्रि-लोकानाम् पद्म-हीनाम् इव श्रियम् । विभ्राजमानाम् वपुषा रावणः प्रशशंस ह॥ १५॥
tām uttamām tri-lokānām padma-hīnām iva śriyam . vibhrājamānām vapuṣā rāvaṇaḥ praśaśaṃsa ha.. 15..
रौप्यकाञ्चनवर्णाभे पीतकौशेयवासिनि । कमलानां शुभां मालां पद्मिनीव च बिभ्रती॥ १६॥
रौप्य-काञ्चन-वर्ण-आभे पीत-कौशेय-वासिनि । कमलानाम् शुभाम् मालाम् पद्मिनी इव च बिभ्रती॥ १६॥
raupya-kāñcana-varṇa-ābhe pīta-kauśeya-vāsini . kamalānām śubhām mālām padminī iva ca bibhratī.. 16..
ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभानने । भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी॥ १७॥
ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीः अप्सराः वा शुभ-आनने । भूतिः वा त्वम् वरारोहे रतिः वा स्वैरचारिणी॥ १७॥
hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīḥ apsarāḥ vā śubha-ānane . bhūtiḥ vā tvam varārohe ratiḥ vā svairacāriṇī.. 17..
समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव । विशाले विमले नेत्रे रक्तान्ते कृष्णतारके॥ १८॥
समाः शिखरिणः स्निग्धाः पाण्डुराः दशनाः तव । विशाले विमले नेत्रे रक्त-अन्ते कृष्ण-तारके॥ १८॥
samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurāḥ daśanāḥ tava . viśāle vimale netre rakta-ante kṛṣṇa-tārake.. 18..
विशालं जघनं पीनमूरू करिकरोपमौ । एतावुपचितौ वृत्तौ संहतौ सम्प्रगल्भितौ॥ १९॥
विशालम् जघनम् पीनम् ऊरू करि-कर-उपमौ । एतौ उपचितौ वृत्तौ संहतौ सम्प्रगल्भितौ॥ १९॥
viśālam jaghanam pīnam ūrū kari-kara-upamau . etau upacitau vṛttau saṃhatau sampragalbhitau.. 19..
पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ । मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ॥ २०॥
पीन-उन्नत-मुखौ कान्तौ स्निग्ध-ताल-फल-उपमौ । मणि-प्रवेक-आभरणौ रुचिरौ ते पयोधरौ॥ २०॥
pīna-unnata-mukhau kāntau snigdha-tāla-phala-upamau . maṇi-praveka-ābharaṇau rucirau te payodharau.. 20..
चारुस्मिते चारुदति चारुनेत्रे विलासिनि । मनो हरसि मे रामे नदीकूलमिवाम्भसा॥ २१॥
चारु-स्मिते चारु-नेत्रे विलासिनि । मनः हरसि मे रामे नदी-कूलम् इव अम्भसा॥ २१॥
cāru-smite cāru-netre vilāsini . manaḥ harasi me rāme nadī-kūlam iva ambhasā.. 21..
करान्तमितमध्यासि सुकेशे संहतस्तनि । नैव देवी न गन्धर्वी न यक्षी न च किंनरी॥ २२॥
कर-अन्तम् इतम् अध्यासि सु केशे संहत-स्तनि । ना एव देवी न गन्धर्वी न यक्षी न च किंनरी॥ २२॥
kara-antam itam adhyāsi su keśe saṃhata-stani . nā eva devī na gandharvī na yakṣī na ca kiṃnarī.. 22..
नैवंरूपा मया नारी दृष्टपूर्वा महीतले । रूपमग्र्यं च लोकेषु सौकुमार्यं वयश्च ते॥ २३॥
न एवंरूपा मया नारी दृष्ट-पूर्वा मही-तले । रूपम् अग्र्यम् च लोकेषु सौकुमार्यम् वयः च ते॥ २३॥
na evaṃrūpā mayā nārī dṛṣṭa-pūrvā mahī-tale . rūpam agryam ca lokeṣu saukumāryam vayaḥ ca te.. 23..
इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे । सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि॥ २४॥
इह वासः च कान्तारे चित्तम् उन्माथयन्ति मे । सा प्रतिक्राम भद्रम् ते न त्वम् वस्तुम् इह अर्हसि॥ २४॥
iha vāsaḥ ca kāntāre cittam unmāthayanti me . sā pratikrāma bhadram te na tvam vastum iha arhasi.. 24..
राक्षसानामयं वासो घोराणां कामरूपिणाम् । प्रासादाग्राणि रम्याणि नगरोपवनानि च॥ २५॥
राक्षसानाम् अयम् वासः घोराणाम् कामरूपिणाम् । प्रासाद-अग्राणि रम्याणि नगर-उपवनानि च॥ २५॥
rākṣasānām ayam vāsaḥ ghorāṇām kāmarūpiṇām . prāsāda-agrāṇi ramyāṇi nagara-upavanāni ca.. 25..
सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया । वरं माल्यं वरं गन्धं वरं वस्त्रं च शोभने॥ २६॥
सम्पन्नानि सुगन्धीनि युक्तानि आचरितुम् त्वया । वरम् माल्यम् वरम् गन्धम् वरम् वस्त्रम् च शोभने॥ २६॥
sampannāni sugandhīni yuktāni ācaritum tvayā . varam mālyam varam gandham varam vastram ca śobhane.. 26..
भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे । का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते॥ २७॥
भर्तारम् च वरम् मन्ये त्वद्-युक्तम् असित-ईक्षणे । का त्वम् भवसि रुद्राणाम् मरुताम् वा शुचि-स्मिते॥ २७॥
bhartāram ca varam manye tvad-yuktam asita-īkṣaṇe . kā tvam bhavasi rudrāṇām marutām vā śuci-smite.. 27..
वसूनां वा वरारोहे देवता प्रतिभासि मे । नेह गच्छन्ति गन्धर्वा न देवा न च किन्नराः॥ २८॥
वसूनाम् वा वरारोहे देवता प्रतिभासि मे । न इह गच्छन्ति गन्धर्वाः न देवाः न च किन्नराः॥ २८॥
vasūnām vā varārohe devatā pratibhāsi me . na iha gacchanti gandharvāḥ na devāḥ na ca kinnarāḥ.. 28..
राक्षसानामयं वासः कथं तु त्वमिहागता । इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगा वृकाः॥ २९॥
राक्षसानाम् अयम् वासः कथम् तु त्वम् इह आगता । इह शाखामृगाः सिंहाः द्वीपि-व्याघ्र-मृगाः वृकाः॥ २९॥
rākṣasānām ayam vāsaḥ katham tu tvam iha āgatā . iha śākhāmṛgāḥ siṃhāḥ dvīpi-vyāghra-mṛgāḥ vṛkāḥ.. 29..
ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे । मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम्॥ ३०॥
ऋक्षाः तरक्षवः कङ्काः कथम् तेभ्यः न बिभ्यसे । मद-अन्वितानाम् घोराणाम् कुञ्जराणाम् तरस्विनाम्॥ ३०॥
ṛkṣāḥ tarakṣavaḥ kaṅkāḥ katham tebhyaḥ na bibhyase . mada-anvitānām ghorāṇām kuñjarāṇām tarasvinām.. 30..
कथमेका महारण्ये न बिभेषि वरानने । कासि कस्य कुतश्च त्वं किं निमित्तं च दण्डकान्॥ ३१॥
कथम् एका महा-अरण्ये न बिभेषि वरानने । का असि कस्य कुतस् च त्वम् किम् निमित्तम् च दण्डकान्॥ ३१॥
katham ekā mahā-araṇye na bibheṣi varānane . kā asi kasya kutas ca tvam kim nimittam ca daṇḍakān.. 31..
एका चरसि कल्याणि घोरान् राक्षससेवितान् । इति प्रशस्ता वैदेही रावणेन महात्मना॥ ३२॥
एका चरसि कल्याणि घोरान् राक्षस-सेवितान् । इति प्रशस्ता वैदेही रावणेन महात्मना॥ ३२॥
ekā carasi kalyāṇi ghorān rākṣasa-sevitān . iti praśastā vaidehī rāvaṇena mahātmanā.. 32..
द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम् । सर्वैरतिथिसत्कारैः पूजयामास मैथिली॥ ३३॥
द्विजाति-वेषेण हि तम् दृष्ट्वा रावणम् आगतम् । सर्वैः अतिथि-सत्कारैः पूजयामास मैथिली॥ ३३॥
dvijāti-veṣeṇa hi tam dṛṣṭvā rāvaṇam āgatam . sarvaiḥ atithi-satkāraiḥ pūjayāmāsa maithilī.. 33..
उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च । अब्रवीत् सिद्धमित्येव तदा तं सौम्यदर्शनम्॥ ३४॥
उपानीय आसनम् पूर्वम् पाद्येन अभिनिमन्त्र्य च । अब्रवीत् सिद्धम् इति एव तदा तम् सौम्य-दर्शनम्॥ ३४॥
upānīya āsanam pūrvam pādyena abhinimantrya ca . abravīt siddham iti eva tadā tam saumya-darśanam.. 34..
द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम् । अशक्यमुद्द्वेष्टुमुपायदर्शना- न्न्यमन्त्रयद् ब्राह्मणवत् तथागतम्॥ ३५॥
द्विजाति-वेषेण समीक्ष्य मैथिली समागतम् पात्र-कुसुम्भ-धारिणम् । अशक्यम् उद्द्वेष्टुम् उपाय-दर्शनात् न्यमन्त्रयत् ब्राह्मण-वत् तथागतम्॥ ३५॥
dvijāti-veṣeṇa samīkṣya maithilī samāgatam pātra-kusumbha-dhāriṇam . aśakyam uddveṣṭum upāya-darśanāt nyamantrayat brāhmaṇa-vat tathāgatam.. 35..
इयं बृसी ब्राह्मण काममास्यता- मिदं च पाद्यं प्रतिगृह्यतामिति । इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम्॥ ३६॥
इयम् बृसी ब्राह्मण कामम् आस्यताम् इदम् च पाद्यम् प्रतिगृह्यताम् इति । इदम् च सिद्धम् वन-जातम् उत्तमम् त्वद्-अर्थम् अव्यग्रम् इह उपभुज्यताम्॥ ३६॥
iyam bṛsī brāhmaṇa kāmam āsyatām idam ca pādyam pratigṛhyatām iti . idam ca siddham vana-jātam uttamam tvad-artham avyagram iha upabhujyatām.. 36..
निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् । प्रसह्य तस्या हरणे दृढं मनः समर्पयामास वधाय रावणः॥ ३७॥
निमन्त्र्यमाणः प्रतिपूर्ण-भाषिणीम् नरेन्द्र-पत्नीम् प्रसमीक्ष्य मैथिलीम् । प्रसह्य तस्याः हरणे दृढम् मनः समर्पयामास वधाय रावणः॥ ३७॥
nimantryamāṇaḥ pratipūrṇa-bhāṣiṇīm narendra-patnīm prasamīkṣya maithilīm . prasahya tasyāḥ haraṇe dṛḍham manaḥ samarpayāmāsa vadhāya rāvaṇaḥ.. 37..
ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा । निरीक्षमाणा हरितं ददर्श त- न्महद् वनं नैव तु रामलक्ष्मणौ॥ ३८॥
ततस् सु वेषम् मृगया-गतम् पतिम् प्रतीक्षमाणा सहलक्ष्मणम् तदा । निरीक्षमाणा हरितम् ददर्श तत् महत् वनम् ना एव तु राम-लक्ष्मणौ॥ ३८॥
tatas su veṣam mṛgayā-gatam patim pratīkṣamāṇā sahalakṣmaṇam tadā . nirīkṣamāṇā haritam dadarśa tat mahat vanam nā eva tu rāma-lakṣmaṇau.. 38..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षट्चत्वारिंशः सर्गः ॥३-४६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे षट्चत्वारिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In