This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥३-४७॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे सप्तचत्वारिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe saptacatvāriṃśaḥ sargaḥ ..3..
रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा । परिव्राजकरूपेण शशंसात्मानमात्मना॥ १॥
रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा । परिव्राजक-रूपेण शशंस आत्मानम् आत्मना॥ १॥
rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā . parivrājaka-rūpeṇa śaśaṃsa ātmānam ātmanā.. 1..
ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम् । इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत्॥ २॥
ब्राह्मणः च अतिथिः च एष अन् उक्तः हि शपेत माम् । इति ध्यात्वा मुहूर्तम् तु सीता वचनम् अब्रवीत्॥ २॥
brāhmaṇaḥ ca atithiḥ ca eṣa an uktaḥ hi śapeta mām . iti dhyātvā muhūrtam tu sītā vacanam abravīt.. 2..
दुहिता जनकस्याहं मैथिलस्य महात्मनः । सीता नाम्नास्मि भद्रं ते रामस्य महिषी प्रिया॥ ३॥
दुहिता जनकस्य अहम् मैथिलस्य महात्मनः । सीता नाम्ना अस्मि भद्रम् ते रामस्य महिषी प्रिया॥ ३॥
duhitā janakasya aham maithilasya mahātmanaḥ . sītā nāmnā asmi bhadram te rāmasya mahiṣī priyā.. 3..
उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने । भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी॥ ४॥
उषित्वा द्वादश समाः इक्ष्वाकूणाम् निवेशने । भुञ्जाना मानुषान् भोगान् सर्व-काम-समृद्धिनी॥ ४॥
uṣitvā dvādaśa samāḥ ikṣvākūṇām niveśane . bhuñjānā mānuṣān bhogān sarva-kāma-samṛddhinī.. 4..
तत्र त्रयोदशे वर्षे राजाऽमन्त्रयत प्रभुः । अभिषेचयितुं रामं समेतो राजमन्त्रिभिः॥ ५॥
तत्र त्रयोदशे वर्षे राजा अमन्त्रयत प्रभुः । अभिषेचयितुम् रामम् समेतः राज-मन्त्रिभिः॥ ५॥
tatra trayodaśe varṣe rājā amantrayata prabhuḥ . abhiṣecayitum rāmam sametaḥ rāja-mantribhiḥ.. 5..
तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने । कैकेयी नाम भर्तारं ममार्या याचते वरम्॥ ६॥
तस्मिन् सम्भ्रियमाणे तु राघवस्य अभिषेचने । कैकेयी नाम भर्तारम् मम आर्या याचते वरम्॥ ६॥
tasmin sambhriyamāṇe tu rāghavasya abhiṣecane . kaikeyī nāma bhartāram mama āryā yācate varam.. 6..
परिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे । मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम्॥ ७॥
परिगृह्य तु कैकेयी श्वशुरम् सुकृतेन मे । मम प्रव्राजनम् भर्तुः भरतस्य अभिषेचनम्॥ ७॥
parigṛhya tu kaikeyī śvaśuram sukṛtena me . mama pravrājanam bhartuḥ bharatasya abhiṣecanam.. 7..
द्वावयाचत भर्तारं सत्यसंधं नृपोत्तमम् । नाद्य भोक्ष्ये न च स्वप्स्ये न पास्ये न कदाचन॥ ८॥
द्वौ अयाचत भर्तारम् सत्य-संधम् नृप-उत्तमम् । न अद्य भोक्ष्ये न च स्वप्स्ये न पास्ये न कदाचन॥ ८॥
dvau ayācata bhartāram satya-saṃdham nṛpa-uttamam . na adya bhokṣye na ca svapsye na pāsye na kadācana.. 8..
एष मे जीवितस्यान्तो रामो यदभिषिच्यते । इति ब्रुवाणां कैकेयीं श्वशुरो मे स पार्थिवः॥ ९॥
एष मे जीवितस्य अन्तः रामः यत् अभिषिच्यते । इति ब्रुवाणाम् कैकेयीम् श्वशुरः मे स पार्थिवः॥ ९॥
eṣa me jīvitasya antaḥ rāmaḥ yat abhiṣicyate . iti bruvāṇām kaikeyīm śvaśuraḥ me sa pārthivaḥ.. 9..
अयाचतार्थैरन्वर्थैर्न च याच्ञां चकार सा । मम भर्ता महातेजा वयसा पञ्चविंशकः॥ १०॥
अयाचत अर्थैः अन्वर्थैः न च याच्ञाम् चकार सा । मम भर्ता महा-तेजाः वयसा पञ्चविंशकः॥ १०॥
ayācata arthaiḥ anvarthaiḥ na ca yācñām cakāra sā . mama bhartā mahā-tejāḥ vayasā pañcaviṃśakaḥ.. 10..
अष्टादश हि वर्षाणि मम जन्मनि गण्यते । रामेति प्रथितो लोके सत्यवान् शीलवान् शुचिः॥ ११॥
अष्टादश हि वर्षाणि मम जन्मनि गण्यते । राम इति प्रथितः लोके सत्यवान् शीलवान् शुचिः॥ ११॥
aṣṭādaśa hi varṣāṇi mama janmani gaṇyate . rāma iti prathitaḥ loke satyavān śīlavān śuciḥ.. 11..
विशालाक्षो महाबाहुः सर्वभूतहिते रतः । कामार्तश्च महाराजः पिता दशरथः स्वयम्॥ १२॥
विशाल-अक्षः महा-बाहुः सर्व-भूत-हिते रतः । काम-आर्तः च महा-राजः पिता दशरथः स्वयम्॥ १२॥
viśāla-akṣaḥ mahā-bāhuḥ sarva-bhūta-hite rataḥ . kāma-ārtaḥ ca mahā-rājaḥ pitā daśarathaḥ svayam.. 12..
कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत् । अभिषेकाय तु पितुः समीपं राममागतम्॥ १३॥
कैकेय्याः प्रिय-काम-अर्थम् तम् रामम् न अभ्यषेचयत् । अभिषेकाय तु पितुः समीपम् रामम् आगतम्॥ १३॥
kaikeyyāḥ priya-kāma-artham tam rāmam na abhyaṣecayat . abhiṣekāya tu pituḥ samīpam rāmam āgatam.. 13..
कैकेयी मम भर्तारमित्युवाच द्रुतं वचः । तव पित्रा समाज्ञप्तं ममेदं शृणु राघव॥ १४॥
कैकेयी मम भर्तारम् इति उवाच द्रुतम् वचः । तव पित्रा समाज्ञप्तम् मम इदम् शृणु राघव॥ १४॥
kaikeyī mama bhartāram iti uvāca drutam vacaḥ . tava pitrā samājñaptam mama idam śṛṇu rāghava.. 14..
भरताय प्रदातव्यमिदं राज्यमकण्टकम् । त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च॥ १५॥
भरताय प्रदातव्यम् इदम् राज्यम् अकण्टकम् । त्वया तु खलु वस्तव्यम् नव वर्षाणि पञ्च च॥ १५॥
bharatāya pradātavyam idam rājyam akaṇṭakam . tvayā tu khalu vastavyam nava varṣāṇi pañca ca.. 15..
वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् । तथेत्युवाच तां रामः कैकेयीमकुतोभयः॥ १६॥
वने प्रव्रज काकुत्स्थ पितरम् मोचय अनृतात् । तथा इति उवाच ताम् रामः कैकेयीम् अकुतोभयः॥ १६॥
vane pravraja kākutstha pitaram mocaya anṛtāt . tathā iti uvāca tām rāmaḥ kaikeyīm akutobhayaḥ.. 16..
चकार तद्वचः श्रुत्वा भर्ता मम दृढव्रतः । दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम्॥ १७॥
चकार तद्-वचः श्रुत्वा भर्ता मम दृढ-व्रतः । दद्यात् न प्रतिगृह्णीयात् सत्यम् ब्रूयात् न च अनृतम्॥ १७॥
cakāra tad-vacaḥ śrutvā bhartā mama dṛḍha-vrataḥ . dadyāt na pratigṛhṇīyāt satyam brūyāt na ca anṛtam.. 17..
एतद् ब्राह्मण रामस्य व्रतं धृतमनुत्तमम् । तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान्॥ १८॥
एतत् ब्राह्मण रामस्य व्रतम् धृतम् अनुत्तमम् । तस्य भ्राता तु वैमात्रः लक्ष्मणः नाम वीर्यवान्॥ १८॥
etat brāhmaṇa rāmasya vratam dhṛtam anuttamam . tasya bhrātā tu vaimātraḥ lakṣmaṇaḥ nāma vīryavān.. 18..
रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा । स भ्राता लक्ष्मणो नाम ब्रह्मचारी दृढव्रतः॥ १९॥
रामस्य पुरुष-व्याघ्रः सहायः समरे अरि-हा । स भ्राता लक्ष्मणः नाम ब्रह्मचारी दृढ-व्रतः॥ १९॥
rāmasya puruṣa-vyāghraḥ sahāyaḥ samare ari-hā . sa bhrātā lakṣmaṇaḥ nāma brahmacārī dṛḍha-vrataḥ.. 19..
अन्वगच्छद् धनुष्पाणिः प्रव्रजन्तं मया सह । जटी तापसरूपेण मया सह सहानुजः॥ २०॥
अन्वगच्छत् धनुष्पाणिः प्रव्रजन्तम् मया सह । जटी तापस-रूपेण मया सह सह अनुजः॥ २०॥
anvagacchat dhanuṣpāṇiḥ pravrajantam mayā saha . jaṭī tāpasa-rūpeṇa mayā saha saha anujaḥ.. 20..
प्रविष्टो दण्डकारण्यं धर्मनित्यो दृढव्रतः । ते वयं प्रच्युता राज्यात् कैकेय्यास्तु कृते त्रयः॥ २१॥
प्रविष्टः दण्डक-अरण्यम् धर्म-नित्यः दृढ-व्रतः । ते वयम् प्रच्युताः राज्यात् कैकेय्याः तु कृते त्रयः॥ २१॥
praviṣṭaḥ daṇḍaka-araṇyam dharma-nityaḥ dṛḍha-vrataḥ . te vayam pracyutāḥ rājyāt kaikeyyāḥ tu kṛte trayaḥ.. 21..
विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा । समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया॥ २२॥
विचराम द्विजश्रेष्ठ वनम् गम्भीरम् ओजसा । समाश्वस मुहूर्तम् तु शक्यम् वस्तुम् इह त्वया॥ २२॥
vicarāma dvijaśreṣṭha vanam gambhīram ojasā . samāśvasa muhūrtam tu śakyam vastum iha tvayā.. 22..
आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् । रुरून् गोधान् वराहांश्च हत्वाऽऽदायामिषं बहु॥ २३॥
आगमिष्यति मे भर्ता वन्यम् आदाय पुष्कलम् । रुरून् गोधान् वराहान् च हत्वा आदाय आमिषम् बहु॥ २३॥
āgamiṣyati me bhartā vanyam ādāya puṣkalam . rurūn godhān varāhān ca hatvā ādāya āmiṣam bahu.. 23..
स त्वं नाम च गोत्रं च कुलमाचक्ष्व तत्त्वतः । एकश्च दण्डकारण्ये किमर्थं चरसि द्विज॥ २४॥
स त्वम् नाम च गोत्रम् च कुलम् आचक्ष्व तत्त्वतः । एकः च दण्डक-अरण्ये किमर्थम् चरसि द्विज॥ २४॥
sa tvam nāma ca gotram ca kulam ācakṣva tattvataḥ . ekaḥ ca daṇḍaka-araṇye kimartham carasi dvija.. 24..
एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः । प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः॥ २५॥
एवम् ब्रुवत्याम् सीतायाम् राम-पत्न्याम् महा-बलः । प्रत्युवाच उत्तरम् तीव्रम् रावणः राक्षस-अधिपः॥ २५॥
evam bruvatyām sītāyām rāma-patnyām mahā-balaḥ . pratyuvāca uttaram tīvram rāvaṇaḥ rākṣasa-adhipaḥ.. 25..
येन वित्रासिता लोकाः सदेवासुरमानुषाः । अहं स रावणो नाम सीते रक्षोगणेश्वरः॥ २६॥
येन वित्रासिताः लोकाः स देव-असुर-मानुषाः । अहम् स रावणः नाम सीते रक्षः-गण-ईश्वरः॥ २६॥
yena vitrāsitāḥ lokāḥ sa deva-asura-mānuṣāḥ . aham sa rāvaṇaḥ nāma sīte rakṣaḥ-gaṇa-īśvaraḥ.. 26..
त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् । रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते॥ २७॥
त्वाम् तु काञ्चन-वर्ण-आभाम् दृष्ट्वा कौशेय-वासिनीम् । रतिम् स्वकेषु दारेषु न अधिगच्छामि अनिन्दिते॥ २७॥
tvām tu kāñcana-varṇa-ābhām dṛṣṭvā kauśeya-vāsinīm . ratim svakeṣu dāreṣu na adhigacchāmi anindite.. 27..
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः । सर्वासामेव भद्रं ते ममाग्रमहिषी भव॥ २८॥
बह्वीनाम् उत्तम-स्त्रीणाम् आहृतानाम् इतस् ततस् । सर्वासाम् एव भद्रम् ते मम अग्रमहिषी भव॥ २८॥
bahvīnām uttama-strīṇām āhṛtānām itas tatas . sarvāsām eva bhadram te mama agramahiṣī bhava.. 28..
लङ्का नाम समुद्रस्य मध्ये मम महापुरी । सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि॥ २९॥
लङ्का नाम समुद्रस्य मध्ये मम महा-पुरी । सागरेण परिक्षिप्ताः निविष्टाः गिरि-मूर्धनि॥ २९॥
laṅkā nāma samudrasya madhye mama mahā-purī . sāgareṇa parikṣiptāḥ niviṣṭāḥ giri-mūrdhani.. 29..
तत्र सीते मया सार्धं वनेषु विचरिष्यसि । न चास्य वनवासस्य स्पृहयिष्यसि भामिनि॥ ३०॥
तत्र सीते मया सार्धम् वनेषु विचरिष्यसि । न च अस्य वन-वासस्य स्पृहयिष्यसि भामिनि॥ ३०॥
tatra sīte mayā sārdham vaneṣu vicariṣyasi . na ca asya vana-vāsasya spṛhayiṣyasi bhāmini.. 30..
पञ्च दास्यः सहस्राणि सर्वाभरणभूषिताः । सीते परिचरिष्यन्ति भार्या भवसि मे यदि॥ ३१॥
पञ्च दास्यः सहस्राणि सर्व-आभरण-भूषिताः । सीते परिचरिष्यन्ति भार्या भवसि मे यदि॥ ३१॥
pañca dāsyaḥ sahasrāṇi sarva-ābharaṇa-bhūṣitāḥ . sīte paricariṣyanti bhāryā bhavasi me yadi.. 31..
रावणेनैवमुक्ता तु कुपिता जनकात्मजा । प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम्॥ ३२॥
रावणेन एवम् उक्ता तु कुपिता जनकात्मजा । प्रत्युवाच अनवद्य-अङ्गी तम् अन् आदृत्य राक्षसम्॥ ३२॥
rāvaṇena evam uktā tu kupitā janakātmajā . pratyuvāca anavadya-aṅgī tam an ādṛtya rākṣasam.. 32..
महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् । महोदधिमिवाक्षोभ्यमहं राममनुव्रता॥ ३३॥
महा-गिरिम् इव अकम्प्यम् महा-इन्द्र-सदृशम् पतिम् । महोदधिम् इव अक्षोभ्यम् अहम् रामम् अनुव्रता॥ ३३॥
mahā-girim iva akampyam mahā-indra-sadṛśam patim . mahodadhim iva akṣobhyam aham rāmam anuvratā.. 33..
सर्वलक्षणसम्पन्नं न्यग्रोधपरिमण्डलम् । सत्यसंधं महाभागमहं राममनुव्रता॥ ३४॥
सर्व-लक्षण-सम्पन्नम् न्यग्रोध-परिमण्डलम् । सत्य-संधम् महाभागम् अहम् रामम् अनुव्रता॥ ३४॥
sarva-lakṣaṇa-sampannam nyagrodha-parimaṇḍalam . satya-saṃdham mahābhāgam aham rāmam anuvratā.. 34..
महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् । नृसिंहं सिंहसंकाशमहं राममनुव्रता॥ ३५॥
महा-बाहुम् महा-उरस्कम् सिंह-विक्रान्त-गामिनम् । नृ-सिंहम् सिंह-संकाशम् अहम् रामम् अनुव्रता॥ ३५॥
mahā-bāhum mahā-uraskam siṃha-vikrānta-gāminam . nṛ-siṃham siṃha-saṃkāśam aham rāmam anuvratā.. 35..
पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम् । पृथुकीर्तिं महाबाहुमहं राममनुव्रता॥ ३६॥
पूर्ण-चन्द्र-आननम् रामम् राज-वत्सम् जित-इन्द्रियम् । पृथु-कीर्तिम् महा-बाहुम् अहम् रामम् अनुव्रता॥ ३६॥
pūrṇa-candra-ānanam rāmam rāja-vatsam jita-indriyam . pṛthu-kīrtim mahā-bāhum aham rāmam anuvratā.. 36..
त्वं पुनर्जम्बुकः सिंहीं मामिहेच्छसि दुर्लभाम् । नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा॥ ३७॥
त्वम् पुनर् जम्बुकः सिंहीम् माम् इह इच्छसि दुर्लभाम् । न अहम् शक्या त्वया स्प्रष्टुम् आदित्यस्य प्रभा यथा॥ ३७॥
tvam punar jambukaḥ siṃhīm mām iha icchasi durlabhām . na aham śakyā tvayā spraṣṭum ādityasya prabhā yathā.. 37..
पादपान् काञ्चनान् नूनं बहून् पश्यसि मन्दभाक् । राघवस्य प्रियां भार्यां यस्त्वमिच्छसि राक्षस॥ ३८॥
पादपान् काञ्चनान् नूनम् बहून् पश्यसि मन्द-भाज् । राघवस्य प्रियाम् भार्याम् यः त्वम् इच्छसि राक्षस॥ ३८॥
pādapān kāñcanān nūnam bahūn paśyasi manda-bhāj . rāghavasya priyām bhāryām yaḥ tvam icchasi rākṣasa.. 38..
क्षुधितस्य च सिंहस्य मृगशत्रोस्तरस्विनः । आशीविषस्य वदनाद् दंष्ट्रामादातुमिच्छसि॥ ३९॥
क्षुधितस्य च सिंहस्य मृग-शत्रोः तरस्विनः । आशीविषस्य वदनात् दंष्ट्राम् आदातुम् इच्छसि॥ ३९॥
kṣudhitasya ca siṃhasya mṛga-śatroḥ tarasvinaḥ . āśīviṣasya vadanāt daṃṣṭrām ādātum icchasi.. 39..
मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि । कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुमिच्छसि॥ ४०॥
मन्दरम् पर्वत-श्रेष्ठम् पाणिना हर्तुम् इच्छसि । कालकूटम् विषम् पीत्वा स्वस्तिमान् गन्तुम् इच्छसि॥ ४०॥
mandaram parvata-śreṣṭham pāṇinā hartum icchasi . kālakūṭam viṣam pītvā svastimān gantum icchasi.. 40..
अक्षि सूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् । राघवस्य प्रियां भार्यामधिगन्तुं त्वमिच्छसि॥ ४१॥
अक्षि सूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् । राघवस्य प्रियाम् भार्याम् अधिगन्तुम् त्वम् इच्छसि॥ ४१॥
akṣi sūcyā pramṛjasi jihvayā leḍhi ca kṣuram . rāghavasya priyām bhāryām adhigantum tvam icchasi.. 41..
अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि । सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि॥ ४२॥
अवसज्य शिलाम् कण्ठे समुद्रम् तर्तुम् इच्छसि । सूर्याचन्द्रमसौ च उभौ पाणिभ्याम् हर्तुम् इच्छसि॥ ४२॥
avasajya śilām kaṇṭhe samudram tartum icchasi . sūryācandramasau ca ubhau pāṇibhyām hartum icchasi.. 42..
यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि । अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि॥ ४३॥
यः रामस्य प्रियाम् भार्याम् प्रधर्षयितुम् इच्छसि । अग्निम् प्रज्वलितम् दृष्ट्वा वस्त्रेण आहर्तुम् इच्छसि॥ ४३॥
yaḥ rāmasya priyām bhāryām pradharṣayitum icchasi . agnim prajvalitam dṛṣṭvā vastreṇa āhartum icchasi.. 43..
कल्याणवृत्तां यो भार्यां रामस्याहर्तुमिच्छसि । अयोमुखानां शूलानामग्रे चरितुमिच्छसि । रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि॥ ४४॥
कल्याण-वृत्ताम् यः भार्याम् रामस्य आहर्तुम् इच्छसि । अयः-मुखानाम् शूलानाम् अग्रे चरितुम् इच्छसि । रामस्य सदृशीम् भार्याम् यः अधिगन्तुम् त्वम् इच्छसि॥ ४४॥
kalyāṇa-vṛttām yaḥ bhāryām rāmasya āhartum icchasi . ayaḥ-mukhānām śūlānām agre caritum icchasi . rāmasya sadṛśīm bhāryām yaḥ adhigantum tvam icchasi.. 44..
यदन्तरं सिंहसृगालयोर्वने यदन्तरं स्यन्दनिकासमुद्रयोः । सुराग्र्यसौवीरकयोर्यदन्तरं तदन्तरं दाशरथेस्तवैव च॥ ४५॥
यत् अन्तरम् सिंह-सृगालयोः वने यत् अन्तरम् स्यन्दनिका-समुद्रयोः । सुरा-अग्र्य-सौवीरकयोः यत् अन्तरम् तत् अन्तरम् दाशरथेः तव एव च॥ ४५॥
yat antaram siṃha-sṛgālayoḥ vane yat antaram syandanikā-samudrayoḥ . surā-agrya-sauvīrakayoḥ yat antaram tat antaram dāśaratheḥ tava eva ca.. 45..
यदन्तरं काञ्चनसीसलोहयो- र्यदन्तरं चन्दनवारिपङ्कयोः । यदन्तरं हस्तिबिडालयोर्वने तदन्तरं दाशरथेस्तवैव च॥ ४६॥
यत् अन्तरम् काञ्चन-सीस-लोहयोः यत् अन्तरम् चन्दन-वारि-पङ्कयोः । यत् अन्तरम् हस्ति-बिडालयोः वने तत् अन्तरम् दाशरथेः तव एव च॥ ४६॥
yat antaram kāñcana-sīsa-lohayoḥ yat antaram candana-vāri-paṅkayoḥ . yat antaram hasti-biḍālayoḥ vane tat antaram dāśaratheḥ tava eva ca.. 46..
यदन्तरं वायसवैनतेययो- र्यदन्तरं मद्गुमयूरयोरपि । यदन्तरं हंसकगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च॥ ४७॥
यत् अन्तरम् वायस-वैनतेययोः यत् अन्तरम् मद्गु-मयूरयोः अपि । यत् अन्तरम् हंसक-गृध्रयोः वने तत् अन्तरम् दाशरथेः तव एव च॥ ४७॥
yat antaram vāyasa-vainateyayoḥ yat antaram madgu-mayūrayoḥ api . yat antaram haṃsaka-gṛdhrayoḥ vane tat antaram dāśaratheḥ tava eva ca.. 47..
तस्मिन् सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ । हृतापि तेऽहं न जरां गमिष्ये आज्यं यथा मक्षिकयावगीर्णम्॥ ४८॥
तस्मिन् सहस्राक्ष-सम-प्रभावे रामे स्थिते कार्मुक-बाण-पाणौ । हृता अपि ते अहम् न जराम् गमिष्ये आज्यम् यथा मक्षिकया अवगीर्णम्॥ ४८॥
tasmin sahasrākṣa-sama-prabhāve rāme sthite kārmuka-bāṇa-pāṇau . hṛtā api te aham na jarām gamiṣye ājyam yathā makṣikayā avagīrṇam.. 48..
इतीव तद्वाक्यमदुष्टभावा सुदुष्टमुक्त्वा रजनीचरं तम् । गात्रप्रकम्पाद् व्यथिता बभूव वातोद्धता सा कदलीव तन्वी॥ ४९॥
इति इव तद्-वाक्यम् अदुष्ट-भावा सु दुष्टम् उक्त्वा रजनीचरम् तम् । गात्र-प्रकम्पात् व्यथिता बभूव वात-उद्धता सा कदली इव तन्वी॥ ४९॥
iti iva tad-vākyam aduṣṭa-bhāvā su duṣṭam uktvā rajanīcaram tam . gātra-prakampāt vyathitā babhūva vāta-uddhatā sā kadalī iva tanvī.. 49..
तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः । कुलं बलं नाम च कर्म चात्मनः समाचचक्षे भयकारणार्थम्॥ ५०॥
ताम् वेपमानाम् उपलक्ष्य सीताम् स रावणः मृत्यु-सम-प्रभावः । कुलम् बलम् नाम च कर्म च आत्मनः समाचचक्षे भय-कारण-अर्थम्॥ ५०॥
tām vepamānām upalakṣya sītām sa rāvaṇaḥ mṛtyu-sama-prabhāvaḥ . kulam balam nāma ca karma ca ātmanaḥ samācacakṣe bhaya-kāraṇa-artham.. 50..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥३-४७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे सप्तचत्वारिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe saptacatvāriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In