This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-४८॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे अष्टचत्वारिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe aṣṭacatvāriṃśaḥ sargaḥ ..3..
एवं ब्रुवत्यां सीतायां संरब्धः परुषं वचः । ललाटे भ्रुकुटिं कृत्वा रावणः प्रत्युवाच ह॥ १॥
एवम् ब्रुवत्याम् सीतायाम् संरब्धः परुषम् वचः । ललाटे भ्रुकुटिम् कृत्वा रावणः प्रत्युवाच ह॥ १॥
evam bruvatyām sītāyām saṃrabdhaḥ paruṣam vacaḥ . lalāṭe bhrukuṭim kṛtvā rāvaṇaḥ pratyuvāca ha.. 1..
भ्राता वैश्रवणस्याहं सापत्नो वरवर्णिनि । रावणो नाम भद्रं ते दशग्रीवः प्रतापवान्॥ २॥
भ्राता वैश्रवणस्य अहम् सापत्नः वरवर्णिनि । रावणः नाम भद्रम् ते दशग्रीवः प्रतापवान्॥ २॥
bhrātā vaiśravaṇasya aham sāpatnaḥ varavarṇini . rāvaṇaḥ nāma bhadram te daśagrīvaḥ pratāpavān.. 2..
यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः । विद्रवन्ति सदा भीता मृत्योरिव सदा प्रजाः॥ ३॥
यस्य देवाः स गन्धर्वाः पिशाच-पतग-उरगाः । विद्रवन्ति सदा भीताः मृत्योः इव सदा प्रजाः॥ ३॥
yasya devāḥ sa gandharvāḥ piśāca-pataga-uragāḥ . vidravanti sadā bhītāḥ mṛtyoḥ iva sadā prajāḥ.. 3..
येन वैश्रवणो भ्राता वैमात्राः कारणान्तरे । द्वन्द्वमासादितः क्रोधाद् रणे विक्रम्य निर्जितः॥ ४॥
येन वैश्रवणः भ्राता वैमात्राः कारण-अन्तरे । द्वन्द्वम् आसादितः क्रोधात् रणे विक्रम्य निर्जितः॥ ४॥
yena vaiśravaṇaḥ bhrātā vaimātrāḥ kāraṇa-antare . dvandvam āsāditaḥ krodhāt raṇe vikramya nirjitaḥ.. 4..
मद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् । कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः॥ ५॥
मद्-भय-आर्तः परित्यज्य स्वम् अधिष्ठानम् ऋद्धिमत् । कैलासम् पर्वत-श्रेष्ठम् अध्यास्ते नरवाहनः॥ ५॥
mad-bhaya-ārtaḥ parityajya svam adhiṣṭhānam ṛddhimat . kailāsam parvata-śreṣṭham adhyāste naravāhanaḥ.. 5..
यस्य तत् पुष्पकं नाम विमानं कामगं शुभम् । वीर्यादावर्जितं भद्रे येन यामि विहायसम्॥ ६॥
यस्य तत् पुष्पकम् नाम विमानम् काम-गम् शुभम् । वीर्यात् आवर्जितम् भद्रे येन यामि विहायसम्॥ ६॥
yasya tat puṣpakam nāma vimānam kāma-gam śubham . vīryāt āvarjitam bhadre yena yāmi vihāyasam.. 6..
मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि । विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः॥ ७॥
मम संजात-रोषस्य मुखम् दृष्ट्वा एव मैथिलि । विद्रवन्ति परित्रस्ताः सुराः शक्र-पुरोगमाः॥ ७॥
mama saṃjāta-roṣasya mukham dṛṣṭvā eva maithili . vidravanti paritrastāḥ surāḥ śakra-purogamāḥ.. 7..
यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः । तीव्रांशुः शिशिरांशुश्च भयात् सम्पद्यते दिवि॥ ८॥
यत्र तिष्ठामि अहम् तत्र मारुतः वाति शङ्कितः । तीव्रांशुः शिशिरांशुः च भयात् सम्पद्यते दिवि॥ ८॥
yatra tiṣṭhāmi aham tatra mārutaḥ vāti śaṅkitaḥ . tīvrāṃśuḥ śiśirāṃśuḥ ca bhayāt sampadyate divi.. 8..
निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः । भवन्ति यत्र तत्राहं तिष्ठामि च चरामि च॥ ९॥
निष्कम्प-पत्राः तरवः नद्यः च स्तिमित-उदकाः । भवन्ति यत्र तत्र अहम् तिष्ठामि च चरामि च॥ ९॥
niṣkampa-patrāḥ taravaḥ nadyaḥ ca stimita-udakāḥ . bhavanti yatra tatra aham tiṣṭhāmi ca carāmi ca.. 9..
मम पारे समुद्रस्य लङ्का नाम पुरी शुभा । सम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती॥ १०॥
मम पारे समुद्रस्य लङ्का नाम पुरी शुभा । सम्पूर्णा राक्षसैः घोरैः यथा इन्द्रस्य अमरावती॥ १०॥
mama pāre samudrasya laṅkā nāma purī śubhā . sampūrṇā rākṣasaiḥ ghoraiḥ yathā indrasya amarāvatī.. 10..
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता । हेमकक्ष्या पुरी रम्या वैदूर्यमयतोरणा॥ ११॥
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता । हेम-कक्ष्या पुरी रम्या वैदूर्य-मय-तोरणा॥ ११॥
prākāreṇa parikṣiptā pāṇḍureṇa virājitā . hema-kakṣyā purī ramyā vaidūrya-maya-toraṇā.. 11..
हस्त्यश्वरथसम्बाधा तूर्यनादविनादिता । सर्वकामफलैर्वृक्षैः संकुलोद्यानभूषिता॥ १२॥
हस्ति-अश्व-रथ-सम्बाधा तूर्य-नाद-विनादिता । सर्व-काम-फलैः वृक्षैः संकुल-उद्यान-भूषिता॥ १२॥
hasti-aśva-ratha-sambādhā tūrya-nāda-vināditā . sarva-kāma-phalaiḥ vṛkṣaiḥ saṃkula-udyāna-bhūṣitā.. 12..
तत्र त्वं वस हे सीते राजपुत्रि मया सह । न स्मरिष्यसि नारीणां मानुषीणां मनस्विनि॥ १३॥
तत्र त्वम् वस हे सीते राज-पुत्रि मया सह । न स्मरिष्यसि नारीणाम् मानुषीणाम् मनस्विनि॥ १३॥
tatra tvam vasa he sīte rāja-putri mayā saha . na smariṣyasi nārīṇām mānuṣīṇām manasvini.. 13..
भुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि । न स्मरिष्यसि रामस्य मानुषस्य गतायुषः॥ १४॥
भुञ्जानाः मानुषान् भोगान् दिव्यान् च वरवर्णिनि । न स्मरिष्यसि रामस्य मानुषस्य गत-आयुषः॥ १४॥
bhuñjānāḥ mānuṣān bhogān divyān ca varavarṇini . na smariṣyasi rāmasya mānuṣasya gata-āyuṣaḥ.. 14..
स्थापयित्वा प्रियं पुत्रं राज्ये दशरथो नृपः । मन्दवीर्यस्ततो ज्येष्ठः सुतः प्रस्थापितो वनम्॥ १५॥
स्थापयित्वा प्रियम् पुत्रम् राज्ये दशरथः नृपः । मन्द-वीर्यः ततस् ज्येष्ठः सुतः प्रस्थापितः वनम्॥ १५॥
sthāpayitvā priyam putram rājye daśarathaḥ nṛpaḥ . manda-vīryaḥ tatas jyeṣṭhaḥ sutaḥ prasthāpitaḥ vanam.. 15..
तेन किं भ्रष्टराज्येन रामेण गतचेतसा । करिष्यसि विशालाक्षि तापसेन तपस्विना॥ १६॥
तेन किम् भ्रष्ट-राज्येन रामेण गत-चेतसा । करिष्यसि विशाल-अक्षि तापसेन तपस्विना॥ १६॥
tena kim bhraṣṭa-rājyena rāmeṇa gata-cetasā . kariṣyasi viśāla-akṣi tāpasena tapasvinā.. 16..
रक्ष राक्षसभर्तारं कामय स्वयमागतम् । न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि॥ १७॥
रक्ष राक्षस-भर्तारम् कामय स्वयम् आगतम् । न मन्मथ-शर-आविष्टम् प्रत्याख्यातुम् त्वम् अर्हसि॥ १७॥
rakṣa rākṣasa-bhartāram kāmaya svayam āgatam . na manmatha-śara-āviṣṭam pratyākhyātum tvam arhasi.. 17..
प्रत्याख्याय हि मां भीरु पश्चात्तापं गमिष्यसि । चरणेनाभिहत्येव पुरूरवसमुर्वशी॥ १८॥
प्रत्याख्याय हि माम् भीरु पश्चात्तापम् गमिष्यसि । चरणेन अभिहत्य इव पुरूरवसम् उर्वशी॥ १८॥
pratyākhyāya hi mām bhīru paścāttāpam gamiṣyasi . caraṇena abhihatya iva purūravasam urvaśī.. 18..
अङ्गुल्या न समो रामो मम युद्धे स मानुषः । तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि॥ १९॥
अङ्गुल्या न समः रामः मम युद्धे स मानुषः । तव भाग्येन सम्प्राप्तम् भजस्व वरवर्णिनि॥ १९॥
aṅgulyā na samaḥ rāmaḥ mama yuddhe sa mānuṣaḥ . tava bhāgyena samprāptam bhajasva varavarṇini.. 19..
एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना । अब्रवीत् परुषं वाक्यं रहिते राक्षसाधिपम्॥ २०॥
एवम् उक्ता तु वैदेही क्रुद्धा संरक्त-लोचना । अब्रवीत् परुषम् वाक्यम् रहिते राक्षस-अधिपम्॥ २०॥
evam uktā tu vaidehī kruddhā saṃrakta-locanā . abravīt paruṣam vākyam rahite rākṣasa-adhipam.. 20..
कथं वैश्रवणं देवं सर्वदेवनमस्कृतम् । भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि॥ २१॥
कथम् वैश्रवणम् देवम् सर्व-देव-नमस्कृतम् । भ्रातरम् व्यपदिश्य त्वम् अशुभम् कर्तुम् इच्छसि॥ २१॥
katham vaiśravaṇam devam sarva-deva-namaskṛtam . bhrātaram vyapadiśya tvam aśubham kartum icchasi.. 21..
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः॥ २२॥
अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः । येषाम् त्वम् कर्कशः राजा दुर्बुद्धिः अजित-इन्द्रियः॥ २२॥
avaśyam vinaśiṣyanti sarve rāvaṇa rākṣasāḥ . yeṣām tvam karkaśaḥ rājā durbuddhiḥ ajita-indriyaḥ.. 22..
अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम् । नहि रामस्य भार्यां मामानीय स्वस्तिमान् भवेत्॥ २३॥
अपहृत्य शचीम् भार्याम् शक्यम् इन्द्रस्य जीवितुम् । नहि रामस्य भार्याम् माम् आनीय स्वस्तिमान् भवेत्॥ २३॥
apahṛtya śacīm bhāryām śakyam indrasya jīvitum . nahi rāmasya bhāryām mām ānīya svastimān bhavet.. 23..
जीवेच्चिरं वज्रधरस्य पश्चा- च्छचीं प्रधृष्याप्रतिरूपरूपाम् । न मादृशीं राक्षस धर्षयित्वा पीतामृतस्यापि तवास्ति मोक्षः॥ २४॥
जीवेत् चिरम् वज्रधरस्य पश्चात् शचीम् प्रधृष्य अप्रतिरूप-रूपाम् । न मादृशीम् राक्षस धर्षयित्वा पीत-अमृतस्य अपि तव अस्ति मोक्षः॥ २४॥
jīvet ciram vajradharasya paścāt śacīm pradhṛṣya apratirūpa-rūpām . na mādṛśīm rākṣasa dharṣayitvā pīta-amṛtasya api tava asti mokṣaḥ.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-४८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे अष्टचत्वारिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe aṣṭacatvāriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In