This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनपञ्चाशः सर्गः ॥३-४९॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे एकोनपञ्चाशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ekonapañcāśaḥ sargaḥ ..3..
सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् । हस्ते हस्तं समाहत्य चकार सुमहद् वपुः॥ १॥
सीतायाः वचनम् श्रुत्वा दशग्रीवः प्रतापवान् । हस्ते हस्तम् समाहत्य चकार सु महत् वपुः॥ १॥
sītāyāḥ vacanam śrutvā daśagrīvaḥ pratāpavān . haste hastam samāhatya cakāra su mahat vapuḥ.. 1..
स मैथिलीं पुनर्वाक्यं बभाषे वाक्यकोविदः । नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ॥ २॥
स मैथिलीम् पुनर् वाक्यम् बभाषे वाक्य-कोविदः । न उन्मत्तया श्रुतौ मन्ये मम वीर्य-पराक्रमौ॥ २॥
sa maithilīm punar vākyam babhāṣe vākya-kovidaḥ . na unmattayā śrutau manye mama vīrya-parākramau.. 2..
उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः । आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः॥ ३॥
उद्वहेयम् भुजाभ्याम् तु मेदिनीम् अम्बरे स्थितः । आपिबेयम् समुद्रम् च मृत्युम् हन्याम् रणे स्थितः॥ ३॥
udvaheyam bhujābhyām tu medinīm ambare sthitaḥ . āpibeyam samudram ca mṛtyum hanyām raṇe sthitaḥ.. 3..
अर्कं तुद्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम् । कामरूपेण उन्मत्ते पश्य मां कामरूपिणम्॥ ४॥
अर्कम् तुद्याम् शरैः तीक्ष्णैः विभिन्द्याम् हि मही-तलम् । कामरूपेण उन्मत्ते पश्य माम् कामरूपिणम्॥ ४॥
arkam tudyām śaraiḥ tīkṣṇaiḥ vibhindyām hi mahī-talam . kāmarūpeṇa unmatte paśya mām kāmarūpiṇam.. 4..
एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे । क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः॥ ५॥
एवम् उक्तवतः तस्य रावणस्य शिखिप्रभे । क्रुद्धस्य हरि-पर्यन्ते रक्ते नेत्रे बभूवतुः॥ ५॥
evam uktavataḥ tasya rāvaṇasya śikhiprabhe . kruddhasya hari-paryante rakte netre babhūvatuḥ.. 5..
सद्यः सौम्यं परित्यज्य तीक्ष्णरूपं स रावणः । स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः॥ ६॥
सद्यस् सौम्यम् परित्यज्य तीक्ष्ण-रूपम् स रावणः । स्वम् रूपम् काल-रूप-आभम् भेजे वैश्रवणानुजः॥ ६॥
sadyas saumyam parityajya tīkṣṇa-rūpam sa rāvaṇaḥ . svam rūpam kāla-rūpa-ābham bheje vaiśravaṇānujaḥ.. 6..
संरक्तनयनः श्रीमांस्तप्तकाञ्चनभूषणः । क्रोधेन महताविष्टो नीलजीमूतसंनिभः॥ ७॥
संरक्त-नयनः श्रीमान् तप्त-काञ्चन-भूषणः । क्रोधेन महता आविष्टः नील-जीमूत-संनिभः॥ ७॥
saṃrakta-nayanaḥ śrīmān tapta-kāñcana-bhūṣaṇaḥ . krodhena mahatā āviṣṭaḥ nīla-jīmūta-saṃnibhaḥ.. 7..
दशास्यो विंशतिभुजो बभूव क्षणदाचरः । स परिव्राजकच्छद्म महाकायो विहाय तत्॥ ८॥
दश-आस्यः विंशति-भुजः बभूव क्षणदा-चरः । स परिव्राजक-छद्म महा-कायः विहाय तत्॥ ८॥
daśa-āsyaḥ viṃśati-bhujaḥ babhūva kṣaṇadā-caraḥ . sa parivrājaka-chadma mahā-kāyaḥ vihāya tat.. 8..
प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः । रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम्॥ ९॥
प्रतिपेदे स्वकम् रूपम् रावणः राक्षस-अधिपः । रक्त-अम्बर-धरः तस्थौ स्त्री-रत्नम् प्रेक्ष्य मैथिलीम्॥ ९॥
pratipede svakam rūpam rāvaṇaḥ rākṣasa-adhipaḥ . rakta-ambara-dharaḥ tasthau strī-ratnam prekṣya maithilīm.. 9..
स तामसितकेशान्तां भास्करस्य प्रभामिव । वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत्॥ १०॥
स ताम् असित-केशान्ताम् भास्करस्य प्रभाम् इव । वसन-आभरण-उपेताम् मैथिलीम् रावणः अब्रवीत्॥ १०॥
sa tām asita-keśāntām bhāskarasya prabhām iva . vasana-ābharaṇa-upetām maithilīm rāvaṇaḥ abravīt.. 10..
त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि । मामाश्रय वरारोहे तवाहं सदृशः पतिः॥ ११॥
त्रिषु लोकेषु विख्यातम् यदि भर्तारम् इच्छसि । माम् आश्रय वरारोहे तव अहम् सदृशः पतिः॥ ११॥
triṣu lokeṣu vikhyātam yadi bhartāram icchasi . mām āśraya varārohe tava aham sadṛśaḥ patiḥ.. 11..
मां भजस्व चिराय त्वमहं श्लाघ्यः पतिस्तव । नैव चाहं क्वचिद् भद्रे करिष्ये तव विप्रियम्॥ १२॥
माम् भजस्व चिराय त्वम् अहम् श्लाघ्यः पतिः तव । न एव च अहम् क्वचिद् भद्रे करिष्ये तव विप्रियम्॥ १२॥
mām bhajasva cirāya tvam aham ślāghyaḥ patiḥ tava . na eva ca aham kvacid bhadre kariṣye tava vipriyam.. 12..
त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् । राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम्॥ १३॥
त्यज्यताम् मानुषः भावः मयि भावः प्रणीयताम् । राज्यात् च्युतम् असिद्धार्थम् रामम् परिमित-आयुषम्॥ १३॥
tyajyatām mānuṣaḥ bhāvaḥ mayi bhāvaḥ praṇīyatām . rājyāt cyutam asiddhārtham rāmam parimita-āyuṣam.. 13..
कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि । यः स्त्रियो वचनाद् राज्यं विहाय ससुहृज्जनम्॥ १४॥
कैः गुणैः अनुरक्ता असि मूढे पण्डित-मानिनि । यः स्त्रियः वचनात् राज्यम् विहाय स सुहृद्-जनम्॥ १४॥
kaiḥ guṇaiḥ anuraktā asi mūḍhe paṇḍita-mānini . yaḥ striyaḥ vacanāt rājyam vihāya sa suhṛd-janam.. 14..
अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः । इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम्॥ १५॥
अस्मिन् व्याल-अनुचरिते वने वसति दुर्मतिः । इति उक्त्वा मैथिलीम् वाक्यम् प्रिय-अर्हाम् प्रिय-वादिनीम्॥ १५॥
asmin vyāla-anucarite vane vasati durmatiḥ . iti uktvā maithilīm vākyam priya-arhām priya-vādinīm.. 15..
अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः । जग्राह रावणः सीतां बुधः खे रोहिणीमिव॥ १६॥
अभिगम्य सु दुष्ट-आत्मा राक्षसः काम-मोहितः । जग्राह रावणः सीताम् बुधः खे रोहिणीम् इव॥ १६॥
abhigamya su duṣṭa-ātmā rākṣasaḥ kāma-mohitaḥ . jagrāha rāvaṇaḥ sītām budhaḥ khe rohiṇīm iva.. 16..
वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः । ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना॥ १७॥
वामेन सीताम् पद्म-अक्षीम् मूर्धजेषु करेण सः । ऊर्वोः तु दक्षिणेन एव परिजग्राह पाणिना॥ १७॥
vāmena sītām padma-akṣīm mūrdhajeṣu kareṇa saḥ . ūrvoḥ tu dakṣiṇena eva parijagrāha pāṇinā.. 17..
तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम् । प्राद्रवन् मृत्युसंकाशं भयार्ता वनदेवताः॥ १८॥
तम् दृष्ट्वा गिरि-शृङ्ग-आभम् तीक्ष्ण-दंष्ट्रम् महा-भुजम् । प्राद्रवत् मृत्यु-संकाशम् भय-आर्ताः वन-देवताः॥ १८॥
tam dṛṣṭvā giri-śṛṅga-ābham tīkṣṇa-daṃṣṭram mahā-bhujam . prādravat mṛtyu-saṃkāśam bhaya-ārtāḥ vana-devatāḥ.. 18..
स च मायामयो दिव्यः खरयुक्तः खरस्वनः । प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः॥ १९॥
स च माया-मयः दिव्यः खर-युक्तः खर-स्वनः । प्रत्यदृश्यत हेम-अङ्गः रावणस्य महा-रथः॥ १९॥
sa ca māyā-mayaḥ divyaḥ khara-yuktaḥ khara-svanaḥ . pratyadṛśyata hema-aṅgaḥ rāvaṇasya mahā-rathaḥ.. 19..
ततस्तां परुषैर्वाक्यैरभितर्ज्य महास्वनः । अंकेनादाय वैदेहीं रथमारोपयत् तदा॥ २०॥
ततस् ताम् परुषैः वाक्यैः अभितर्ज्य महा-स्वनः । अंकेन आदाय वैदेहीम् रथम् आरोपयत् तदा॥ २०॥
tatas tām paruṣaiḥ vākyaiḥ abhitarjya mahā-svanaḥ . aṃkena ādāya vaidehīm ratham āropayat tadā.. 20..
सा गृहीतातिचुक्रोश रावणेन यशस्विनी । रामेति सीता दुःखार्ता रामं दूरं गतं वने॥ २१॥
सा गृहीता अतिचुक्रोश रावणेन यशस्विनी । राम इति सीता दुःख-आर्ता रामम् दूरम् गतम् वने॥ २१॥
sā gṛhītā aticukrośa rāvaṇena yaśasvinī . rāma iti sītā duḥkha-ārtā rāmam dūram gatam vane.. 21..
तामकामां स कामार्तः पन्नगेन्द्रवधूमिव । विचेष्टमानामादाय उत्पपाताथ रावणः॥ २२॥
ताम् अकामाम् स काम-आर्तः पन्नग-इन्द्र-वधूम् इव । विचेष्टमानाम् आदाय उत्पपात अथ रावणः॥ २२॥
tām akāmām sa kāma-ārtaḥ pannaga-indra-vadhūm iva . viceṣṭamānām ādāya utpapāta atha rāvaṇaḥ.. 22..
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा । भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा॥ २३॥
ततस् सा राक्षस-इन्द्रेण ह्रियमाणा विहायसा । भृशम् चुक्रोश मत्ता इव भ्रान्त-चित्ता यथा आतुरा॥ २३॥
tatas sā rākṣasa-indreṇa hriyamāṇā vihāyasā . bhṛśam cukrośa mattā iva bhrānta-cittā yathā āturā.. 23..
हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक । ह्रियमाणां न जानीषे रक्षसा कामरूपिणा॥ २४॥
हा लक्ष्मण महा-बाहो गुरु-चित्त-प्रसादक । ह्रियमाणाम् न जानीषे रक्षसा कामरूपिणा॥ २४॥
hā lakṣmaṇa mahā-bāho guru-citta-prasādaka . hriyamāṇām na jānīṣe rakṣasā kāmarūpiṇā.. 24..
जीवितं सुखमर्थं च धर्महेतोः परित्यजन् । ह्रियमाणामधर्मेण मां राघव न पश्यसि॥ २५॥
जीवितम् सुखम् अर्थम् च धर्म-हेतोः परित्यजन् । ह्रियमाणाम् अधर्मेण माम् राघव न पश्यसि॥ २५॥
jīvitam sukham artham ca dharma-hetoḥ parityajan . hriyamāṇām adharmeṇa mām rāghava na paśyasi.. 25..
ननु नामाविनीतानां विनेतासि परंतप । कथमेवंविधं पापं न त्वं शाधि हि रावणम्॥ २६॥
ननु नाम अविनीतानाम् विनेतासि परंतप । कथम् एवंविधम् पापम् न त्वम् शाधि हि रावणम्॥ २६॥
nanu nāma avinītānām vinetāsi paraṃtapa . katham evaṃvidham pāpam na tvam śādhi hi rāvaṇam.. 26..
न तु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् । कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये॥ २७॥
न तु सद्यस् अविनीतस्य दृश्यते कर्मणः फलम् । कालः अपि अङ्गीभवति अत्र सस्यानाम् इव पक्तये॥ २७॥
na tu sadyas avinītasya dṛśyate karmaṇaḥ phalam . kālaḥ api aṅgībhavati atra sasyānām iva paktaye.. 27..
त्वं कर्म कृतवानेतत् कालोपहतचेतनः । जीवितान्तकरं घोरं रामाद् व्यसनमाप्नुहि॥ २८॥
त्वम् कर्म कृतवान् एतत् काल-उपहत-चेतनः । जीवितान्त-करम् घोरम् रामात् व्यसनम् आप्नुहि॥ २८॥
tvam karma kṛtavān etat kāla-upahata-cetanaḥ . jīvitānta-karam ghoram rāmāt vyasanam āpnuhi.. 28..
हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह । ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः॥ २९॥
हन्त इदानीम् स कामा तु कैकेयी बान्धवैः सह । ह्रिया इयम् धर्म-कामस्य धर्म-पत्नी यशस्विनः॥ २९॥
hanta idānīm sa kāmā tu kaikeyī bāndhavaiḥ saha . hriyā iyam dharma-kāmasya dharma-patnī yaśasvinaḥ.. 29..
आमन्त्रये जनस्थाने कर्णिकारांश्च पुष्पितान् । क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः॥ ३०॥
आमन्त्रये जनस्थाने कर्णिकारान् च पुष्पितान् । क्षिप्रम् रामाय शंसध्वम् सीताम् हरति रावणः॥ ३०॥
āmantraye janasthāne karṇikārān ca puṣpitān . kṣipram rāmāya śaṃsadhvam sītām harati rāvaṇaḥ.. 30..
हंससारससंघुष्टां वन्दे गोदावरीं नदीम् । क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः॥ ३१॥
हंस-सारस-संघुष्टाम् वन्दे गोदावरीम् नदीम् । क्षिप्रम् रामाय शंस त्वम् सीताम् हरति रावणः॥ ३१॥
haṃsa-sārasa-saṃghuṣṭām vande godāvarīm nadīm . kṣipram rāmāya śaṃsa tvam sītām harati rāvaṇaḥ.. 31..
दैवतानि च यान्यस्मिन् वने विविधपादपे । नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम्॥ ३२॥
दैवतानि च यानि अस्मिन् वने विविध-पादपे । नमस्करोमि अहम् तेभ्यः भर्तुः शंसत माम् हृताम्॥ ३२॥
daivatāni ca yāni asmin vane vividha-pādape . namaskaromi aham tebhyaḥ bhartuḥ śaṃsata mām hṛtām.. 32..
यानि कानिचिदप्यत्र सत्त्वानि विविधानि च । सर्वाणि शरणं यामि मृगपक्षिगणानि वै॥ ३३॥
यानि कानिचिद् अपि अत्र सत्त्वानि विविधानि च । सर्वाणि शरणम् यामि मृग-पक्षि-गणानि वै॥ ३३॥
yāni kānicid api atra sattvāni vividhāni ca . sarvāṇi śaraṇam yāmi mṛga-pakṣi-gaṇāni vai.. 33..
ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् । विवशा ते हृता सीता रावणेनेति शंसत॥ ३४॥
ह्रियमाणाम् प्रियाम् भर्तुः प्राणेभ्यः अपि गरीयसीम् । विवशा ते हृता सीता रावणेन इति शंसत॥ ३४॥
hriyamāṇām priyām bhartuḥ prāṇebhyaḥ api garīyasīm . vivaśā te hṛtā sītā rāvaṇena iti śaṃsata.. 34..
विदित्वा तु महाबाहुरमुत्रापि महाबलः । आनेष्यति पराक्रम्य वैवस्वतहृतामपि॥ ३५॥
विदित्वा तु महा-बाहुः अमुत्र अपि महा-बलः । आनेष्यति पराक्रम्य वैवस्वत-हृताम् अपि॥ ३५॥
viditvā tu mahā-bāhuḥ amutra api mahā-balaḥ . āneṣyati parākramya vaivasvata-hṛtām api.. 35..
सा तदा करुणा वाचो विलपन्ती सुदुःखिता । वनस्पतिगतं गृध्रं ददर्शायतलोचना॥ ३६॥
सा तदा करुणाः वाचः विलपन्ती सु दुःखिता । वनस्पति-गतम् गृध्रम् ददर्श आयत-लोचना॥ ३६॥
sā tadā karuṇāḥ vācaḥ vilapantī su duḥkhitā . vanaspati-gatam gṛdhram dadarśa āyata-locanā.. 36..
सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशंगता । समाक्रन्दद् भयपरा दुःखोपहतया गिरा॥ ३७॥
सा तम् उद्वीक्ष्य सु श्रोणी रावणस्य वशंगता । समाक्रन्दत् भय-परा दुःख-उपहतया गिरा॥ ३७॥
sā tam udvīkṣya su śroṇī rāvaṇasya vaśaṃgatā . samākrandat bhaya-parā duḥkha-upahatayā girā.. 37..
जटायो पश्य मामार्य ह्रियमाणामनाथवत् । अनेन राक्षसेन्द्रेणाकरुणं पापकर्मणा॥ ३८॥
जटायो पश्य माम् आर्य ह्रियमाणाम् अनाथ-वत् । अनेन राक्षस-इन्द्रेण अकरुणम् पाप-कर्मणा॥ ३८॥
jaṭāyo paśya mām ārya hriyamāṇām anātha-vat . anena rākṣasa-indreṇa akaruṇam pāpa-karmaṇā.. 38..
नैष वारयितुं शक्यस्त्वया क्रूरो निशाचरः । सत्ववाञ्जितकाशी च सायुधश्चैव दुर्मतिः॥ ३९॥
न एष वारयितुम् शक्यः त्वया क्रूरः निशाचरः । सत्ववान् जितकाशी च स आयुधः च एव दुर्मतिः॥ ३९॥
na eṣa vārayitum śakyaḥ tvayā krūraḥ niśācaraḥ . satvavān jitakāśī ca sa āyudhaḥ ca eva durmatiḥ.. 39..
रामाय तु यथातत्त्वं जटायो हरणं मम । लक्ष्मणाय च तत् सर्वमाख्यातव्यमशेषतः॥ ४०॥
रामाय तु यथातत्त्वम् जटायो हरणम् मम । लक्ष्मणाय च तत् सर्वम् आख्यातव्यम् अशेषतस्॥ ४०॥
rāmāya tu yathātattvam jaṭāyo haraṇam mama . lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣatas.. 40..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनपञ्चाशः सर्गः ॥३-४९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे एकोनपञ्चाशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ekonapañcāśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In