This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चमः सर्गः ॥३-५॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे पञ्चमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe pañcamaḥ sargaḥ ..3..
हत्वा तु तं भीमबलं विराधं राक्षसं वने । ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान्॥ १॥
हत्वा तु तम् भीम-बलम् विराधम् राक्षसम् वने । ततस् सीताम् परिष्वज्य समाश्वास्य च वीर्यवान्॥ १॥
hatvā tu tam bhīma-balam virādham rākṣasam vane . tatas sītām pariṣvajya samāśvāsya ca vīryavān.. 1..
अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् । कष्टं वनमिदं दुर्गं न च स्मो वनगोचराः॥ २॥
अब्रवीत् भ्रातरम् रामः लक्ष्मणम् दीप्त-तेजसम् । कष्टम् वनम् इदम् दुर्गम् न च स्मः वन-गोचराः॥ २॥
abravīt bhrātaram rāmaḥ lakṣmaṇam dīpta-tejasam . kaṣṭam vanam idam durgam na ca smaḥ vana-gocarāḥ.. 2..
अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् । आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह॥ ३॥
अभिगच्छामहे शीघ्रम् शरभङ्गम् तपोधनम् । आश्रमम् शरभङ्गस्य राघवः अभिजगाम ह॥ ३॥
abhigacchāmahe śīghram śarabhaṅgam tapodhanam . āśramam śarabhaṅgasya rāghavaḥ abhijagāma ha.. 3..
तस्य देवप्रभावस्य तपसा भावितात्मनः । समीपे शरभङ्गस्य ददर्श महदद्भुतम्॥ ४॥
तस्य देव-प्रभावस्य तपसा भावित-आत्मनः । समीपे शरभङ्गस्य ददर्श महत् अद्भुतम्॥ ४॥
tasya deva-prabhāvasya tapasā bhāvita-ātmanaḥ . samīpe śarabhaṅgasya dadarśa mahat adbhutam.. 4..
विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम् । रथप्रवरमारूढमाकाशे विबुधानुगम्॥ ५॥
विभ्राजमानम् वपुषा सूर्य-वैश्वानर-प्रभम् । रथ-प्रवरम् आरूढम् आकाशे विबुध-अनुगम्॥ ५॥
vibhrājamānam vapuṣā sūrya-vaiśvānara-prabham . ratha-pravaram ārūḍham ākāśe vibudha-anugam.. 5..
असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् । सम्प्रभाभरणं देवं विरजोऽम्बरधारिणम्॥ ६॥
अ संस्पृशन्तम् वसुधाम् ददर्श विबुध-ईश्वरम् । सम्प्रभ-आभरणम् देवम् विरजः-अम्बर-धारिणम्॥ ६॥
a saṃspṛśantam vasudhām dadarśa vibudha-īśvaram . samprabha-ābharaṇam devam virajaḥ-ambara-dhāriṇam.. 6..
तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः । हरितैर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्॥ ७॥
तद्विधैः एव बहुभिः पूज्यमानम् महात्मभिः । हरितैः वाजिभिः युक्तम् अन्तरिक्ष-गतम् रथम्॥ ७॥
tadvidhaiḥ eva bahubhiḥ pūjyamānam mahātmabhiḥ . haritaiḥ vājibhiḥ yuktam antarikṣa-gatam ratham.. 7..
ददर्शादूरतस्तस्य तरुणादित्यसंनिभम् । पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम्॥ ८॥
ददर्श अदूरतस् तस्य तरुण-आदित्य-संनिभम् । पाण्डुर-अभ्र-घन-प्रख्यम् चन्द्र-मण्डल-संनिभम्॥ ८॥
dadarśa adūratas tasya taruṇa-āditya-saṃnibham . pāṇḍura-abhra-ghana-prakhyam candra-maṇḍala-saṃnibham.. 8..
अपश्यद् विमलं छत्रं चित्रमाल्योपशोभितम् । चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने॥ ९॥
अपश्यत् विमलम् छत्रम् चित्र-माल्य-उपशोभितम् । चामर-व्यजने च अग्र्ये रुक्म-दण्डे महाधने॥ ९॥
apaśyat vimalam chatram citra-mālya-upaśobhitam . cāmara-vyajane ca agrye rukma-daṇḍe mahādhane.. 9..
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि । गन्धर्वामरसिद्धाश्च बहवः परमर्षयः॥ १०॥
गृहीते वर-नारीभ्याम् धूयमाने च मूर्धनि । गन्धर्व-अमर-सिद्धाः च बहवः परम-ऋषयः॥ १०॥
gṛhīte vara-nārībhyām dhūyamāne ca mūrdhani . gandharva-amara-siddhāḥ ca bahavaḥ parama-ṛṣayaḥ.. 10..
अन्तरिक्षगतं देवं गीर्भिरग्र्या भिरैडयन् । सह सम्भाषमाणे तु शरभङ्गेन वासवे॥ ११॥
अन्तरिक्ष-गतम् देवम् गीर्भिः अग्र्या भिः ऐडयन् । सह सम्भाषमाणे तु शरभङ्गेन वासवे॥ ११॥
antarikṣa-gatam devam gīrbhiḥ agryā bhiḥ aiḍayan . saha sambhāṣamāṇe tu śarabhaṅgena vāsave.. 11..
दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् । रामोऽथ रथमुद्दिश्य भ्रातुर्दर्शयताद्भुतम्॥ १२॥
दृष्ट्वा शतक्रतुम् तत्र रामः लक्ष्मणम् अब्रवीत् । रामः अथ रथम् उद्दिश्य भ्रातुः दर्शयत अद्भुतम्॥ १२॥
dṛṣṭvā śatakratum tatra rāmaḥ lakṣmaṇam abravīt . rāmaḥ atha ratham uddiśya bhrātuḥ darśayata adbhutam.. 12..
अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण । प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम्॥ १३॥
अर्चिष्मन्तम् श्रिया जुष्टम् अद्भुतम् पश्य लक्ष्मण । प्रतपन्तम् इव आदित्यम् अन्तरिक्ष-गतम् रथम्॥ १३॥
arciṣmantam śriyā juṣṭam adbhutam paśya lakṣmaṇa . pratapantam iva ādityam antarikṣa-gatam ratham.. 13..
ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः । अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम्॥ १४॥
ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः । अन्तरिक्ष-गताः दिव्याः ते इमे हरयः ध्रुवम्॥ १४॥
ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ . antarikṣa-gatāḥ divyāḥ te ime harayaḥ dhruvam.. 14..
इमे च पुरुषव्याघ्र ये तिष्ठन्त्यभितो दिशम् । शतं शतं कुण्डलिनो युवानः खड्गपाणयः॥ १५॥
इमे च पुरुष-व्याघ्र ये तिष्ठन्ति अभितस् दिशम् । शतम् शतम् कुण्डलिनः युवानः खड्ग-पाणयः॥ १५॥
ime ca puruṣa-vyāghra ye tiṣṭhanti abhitas diśam . śatam śatam kuṇḍalinaḥ yuvānaḥ khaḍga-pāṇayaḥ.. 15..
विस्तीर्णविपुलोरस्काः परिघायतबाहवः । शोणांशुवसनाः सर्वे व्याघ्रा इव दुरासदाः॥ १६॥
विस्तीर्ण-विपुल-उरस्काः परिघ-आयत-बाहवः । शोण-अंशु-वसनाः सर्वे व्याघ्राः इव दुरासदाः॥ १६॥
vistīrṇa-vipula-uraskāḥ parigha-āyata-bāhavaḥ . śoṇa-aṃśu-vasanāḥ sarve vyāghrāḥ iva durāsadāḥ.. 16..
उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः । रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम्॥ १७॥
उरः-देशेषु सर्वेषाम् हाराः ज्वलन-संनिभाः । रूपम् बिभ्रति सौमित्रे पञ्चविंशति-वार्षिकम्॥ १७॥
uraḥ-deśeṣu sarveṣām hārāḥ jvalana-saṃnibhāḥ . rūpam bibhrati saumitre pañcaviṃśati-vārṣikam.. 17..
एतद्धि किल देवानां वयो भवति नित्यदा । यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः॥ १८॥
एतत् हि किल देवानाम् वयः भवति नित्यदा । यथा इमे पुरुष-व्याघ्राः दृश्यन्ते प्रिय-दर्शनाः॥ १८॥
etat hi kila devānām vayaḥ bhavati nityadā . yathā ime puruṣa-vyāghrāḥ dṛśyante priya-darśanāḥ.. 18..
इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण । यावज्जानाम्यहं व्यक्तं क एष द्युतिमान् रथे॥ १९॥
इह एव सह वैदेह्या मुहूर्तम् तिष्ठ लक्ष्मण । यावत् जानामि अहम् व्यक्तम् कः एष द्युतिमान् रथे॥ १९॥
iha eva saha vaidehyā muhūrtam tiṣṭha lakṣmaṇa . yāvat jānāmi aham vyaktam kaḥ eṣa dyutimān rathe.. 19..
तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति । अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति॥ २०॥
तम् एवम् उक्त्वा सौमित्रिम् इह एव स्थीयताम् इति । अभिचक्राम काकुत्स्थः शरभङ्ग-आश्रमम् प्रति॥ २०॥
tam evam uktvā saumitrim iha eva sthīyatām iti . abhicakrāma kākutsthaḥ śarabhaṅga-āśramam prati.. 20..
ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः । शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत्॥ २१॥
ततस् समभिगच्छन्तम् प्रेक्ष्य रामम् शचीपतिः । शरभङ्गम् अनुज्ञाप्य विबुधान् इदम् अब्रवीत्॥ २१॥
tatas samabhigacchantam prekṣya rāmam śacīpatiḥ . śarabhaṅgam anujñāpya vibudhān idam abravīt.. 21..
इहोपयात्यसौ रामो यावन्मां नाभिभाषते । निष्ठां नयत तावत् तु ततो माद्रष्टुमर्हति॥ २२॥
इह उपयाति असौ रामः यावत् माम् न अभिभाषते । निष्ठाम् नयत तावत् तु ततस् मा आद्रष्टुम् अर्हति॥ २२॥
iha upayāti asau rāmaḥ yāvat mām na abhibhāṣate . niṣṭhām nayata tāvat tu tatas mā ādraṣṭum arhati.. 22..
जितवन्तं कृतार्थं हि तदाहमचिरादिमम् । कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम्॥ २३॥
जितवन्तम् कृतार्थम् हि तदा अहम् अचिरात् इमम् । कर्म हि अनेन कर्तव्यम् महत् अन्यैः सु दुष्करम्॥ २३॥
jitavantam kṛtārtham hi tadā aham acirāt imam . karma hi anena kartavyam mahat anyaiḥ su duṣkaram.. 23..
अथ वज्री तमामन्त्र्य मानयित्वा च तापसम् । रथेन हययुक्तेन ययौ दिवमरिंदमः॥ २४॥
अथ वज्री तम् आमन्त्र्य मानयित्वा च तापसम् । रथेन हय-युक्तेन ययौ दिवम् अरिंदमः॥ २४॥
atha vajrī tam āmantrya mānayitvā ca tāpasam . rathena haya-yuktena yayau divam ariṃdamaḥ.. 24..
प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः । अग्निहोत्रमुपासीनं शरभङ्गमुपागमत्॥ २५॥
प्रयाते तु सहस्राक्षे राघवः स परिच्छदः । अग्निहोत्रम् उपासीनम् शरभङ्गम् उपागमत्॥ २५॥
prayāte tu sahasrākṣe rāghavaḥ sa paricchadaḥ . agnihotram upāsīnam śarabhaṅgam upāgamat.. 25..
तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः । निषेदुस्तदनुज्ञाता लब्धवासा निमन्त्रिताः॥ २६॥
तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः । निषेदुः तद्-अनुज्ञाताः लब्ध-वासाः निमन्त्रिताः॥ २६॥
tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ . niṣeduḥ tad-anujñātāḥ labdha-vāsāḥ nimantritāḥ.. 26..
ततः शक्रोपयानं तु पर्यपृच्छत राघवः । शरभङ्गश्च तत् सर्वं राघवाय न्यवेदयत्॥ २७॥
ततस् शक्र-उपयानम् तु पर्यपृच्छत राघवः । शरभङ्गः च तत् सर्वम् राघवाय न्यवेदयत्॥ २७॥
tatas śakra-upayānam tu paryapṛcchata rāghavaḥ . śarabhaṅgaḥ ca tat sarvam rāghavāya nyavedayat.. 27..
मामेष वरदो राम ब्रह्मलोकं निनीषति । जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः॥ २८॥
माम् एष वर-दः राम ब्रह्म-लोकम् निनीषति । जित-मुग्रेण तपसा दुष्प्रापम् अकृतात्मभिः॥ २८॥
mām eṣa vara-daḥ rāma brahma-lokam ninīṣati . jita-mugreṇa tapasā duṣprāpam akṛtātmabhiḥ.. 28..
अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः । ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम्॥ २९॥
अहम् ज्ञात्वा नर-व्याघ्र वर्तमानम् अदूरतः । ब्रह्म-लोकम् न गच्छामि त्वाम् अ दृष्ट्वा प्रिय-अतिथिम्॥ २९॥
aham jñātvā nara-vyāghra vartamānam adūrataḥ . brahma-lokam na gacchāmi tvām a dṛṣṭvā priya-atithim.. 29..
त्वयाहं पुरुषव्याघ्र धार्मिकेण महात्मना । समागम्य गमिष्यामि त्रिदिवं चावरं परम्॥ ३०॥
त्वया अहम् पुरुष-व्याघ्र धार्मिकेण महात्मना । समागम्य गमिष्यामि त्रिदिवम् च अवरम् परम्॥ ३०॥
tvayā aham puruṣa-vyāghra dhārmikeṇa mahātmanā . samāgamya gamiṣyāmi tridivam ca avaram param.. 30..
अक्षया नरशार्दूल जिता लोका मया शुभाः । ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान्॥ ३१॥
अक्षयाः नर-शार्दूल जिताः लोकाः मया शुभाः । ब्राह्म्याः च नाक-पृष्ठ्याः च प्रतिगृह्णीष्व मामकान्॥ ३१॥
akṣayāḥ nara-śārdūla jitāḥ lokāḥ mayā śubhāḥ . brāhmyāḥ ca nāka-pṛṣṭhyāḥ ca pratigṛhṇīṣva māmakān.. 31..
एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः । ऋषिणा शरभङ्गेन राघवो वाक्यमब्रवीत्॥ ३२॥
एवम् उक्तः नर-व्याघ्रः सर्व-शास्त्र-विशारदः । ऋषिणा शरभङ्गेन राघवः वाक्यम् अब्रवीत्॥ ३२॥
evam uktaḥ nara-vyāghraḥ sarva-śāstra-viśāradaḥ . ṛṣiṇā śarabhaṅgena rāghavaḥ vākyam abravīt.. 32..
अहमेवाहरिष्यामि सर्वाल्ँ लोकान् महामुने । आवासं त्वहमिच्छामि प्रदिष्टमिह कानने॥ ३३॥
अहम् एव आहरिष्यामि सर्वान् लोकान् महा-मुने । आवासम् तु अहम् इच्छामि प्रदिष्टम् इह कानने॥ ३३॥
aham eva āhariṣyāmi sarvān lokān mahā-mune . āvāsam tu aham icchāmi pradiṣṭam iha kānane.. 33..
राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै । शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद् वचः॥ ३४॥
राघवेण एवम् उक्तः तु शक्र-तुल्य-बलेन वै । शरभङ्गः महा-प्राज्ञः पुनर् एव अब्रवीत् वचः॥ ३४॥
rāghaveṇa evam uktaḥ tu śakra-tulya-balena vai . śarabhaṅgaḥ mahā-prājñaḥ punar eva abravīt vacaḥ.. 34..
इह राम महातेजाः सुतीक्ष्णो नाम धार्मिकः । वसत्यरण्ये नियतः स ते श्रेयो विधास्यति॥ ३५॥
इह राम महा-तेजाः सुतीक्ष्णः नाम धार्मिकः । वसति अरण्ये नियतः स ते श्रेयः विधास्यति॥ ३५॥
iha rāma mahā-tejāḥ sutīkṣṇaḥ nāma dhārmikaḥ . vasati araṇye niyataḥ sa te śreyaḥ vidhāsyati.. 35..
सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् । रमणीये वनोद्देशे स ते वासं विधास्यति॥ ३६॥
सुतीक्ष्णम् अभिगच्छ त्वम् शुचौ देशे तपस्विनम् । रमणीये वन-उद्देशे स ते वासम् विधास्यति॥ ३६॥
sutīkṣṇam abhigaccha tvam śucau deśe tapasvinam . ramaṇīye vana-uddeśe sa te vāsam vidhāsyati.. 36..
इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज । नदीं पुष्पोडुपवहां ततस्तत्र गमिष्यसि॥ ३७॥
इमाम् मन्दाकिनीम् राम प्रतिस्रोताम् अनुव्रज । नदीम् पुष्प-उडुप-वहाम् ततस् तत्र गमिष्यसि॥ ३७॥
imām mandākinīm rāma pratisrotām anuvraja . nadīm puṣpa-uḍupa-vahām tatas tatra gamiṣyasi.. 37..
एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् । यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः॥ ३८॥
एष पन्थाः नर-व्याघ्र मुहूर्तम् पश्य तात माम् । यावत् जहामि गात्राणि जीर्णाम् त्वचम् इव उरगः॥ ३८॥
eṣa panthāḥ nara-vyāghra muhūrtam paśya tāta mām . yāvat jahāmi gātrāṇi jīrṇām tvacam iva uragaḥ.. 38..
ततोऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवत् । शरभङ्गो महातेजाः प्रविवेश हुताशनम्॥ ३९॥
ततस् अग्निम् स समाधाय हुत्वा च आज्येन मन्त्रवत् । शरभङ्गः महा-तेजाः प्रविवेश हुताशनम्॥ ३९॥
tatas agnim sa samādhāya hutvā ca ājyena mantravat . śarabhaṅgaḥ mahā-tejāḥ praviveśa hutāśanam.. 39..
तस्य रोमाणि केशांश्च तदा वह्निर्महात्मनः । जीर्णां त्वचं तदस्थीनि यच्च मांसं च शोणितम्॥ ४०॥
तस्य रोमाणि केशान् च तदा वह्निः महात्मनः । जीर्णाम् त्वचम् तत् अस्थीनि यत् च मांसम् च शोणितम्॥ ४०॥
tasya romāṇi keśān ca tadā vahniḥ mahātmanaḥ . jīrṇām tvacam tat asthīni yat ca māṃsam ca śoṇitam.. 40..
स च पावकसंकाशः कुमारः समपद्यत । उत्थायाग्निचयात् तस्माच्छरभङ्गो व्यरोचत॥ ४१॥
स च पावक-संकाशः कुमारः समपद्यत । उत्थाय अग्नि-चयात् तस्मात् शरभङ्गः व्यरोचत॥ ४१॥
sa ca pāvaka-saṃkāśaḥ kumāraḥ samapadyata . utthāya agni-cayāt tasmāt śarabhaṅgaḥ vyarocata.. 41..
स लोकानाहिताग्नीनामृषीणां च महात्मनाम् । देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत॥ ४२॥
स लोकान् आहिताग्नीनाम् ऋषीणाम् च महात्मनाम् । देवानाम् च व्यतिक्रम्य ब्रह्म-लोकम् व्यरोहत॥ ४२॥
sa lokān āhitāgnīnām ṛṣīṇām ca mahātmanām . devānām ca vyatikramya brahma-lokam vyarohata.. 42..
स पुण्यकर्मा भुवने द्विजर्षभः पितामहं सानुचरं ददर्श ह । पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागतमित्युवाच ह॥ ४३॥
स पुण्य-कर्मा भुवने द्विजर्षभः पितामहम् स अनुचरम् ददर्श ह । पितामहः च अपि समीक्ष्य तम् द्विजम् ननन्द सु स्वागतम् इति उवाच ह॥ ४३॥
sa puṇya-karmā bhuvane dvijarṣabhaḥ pitāmaham sa anucaram dadarśa ha . pitāmahaḥ ca api samīkṣya tam dvijam nananda su svāgatam iti uvāca ha.. 43..
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चमः सर्गः ॥३-५॥
इति वाल्मीकि-रामायणे आदि-काव्ये अरण्यकाण्डे पञ्चमः सर्गः ॥३॥
iti vālmīki-rāmāyaṇe ādi-kāvye araṇyakāṇḍe pañcamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In