This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चाशः सर्गः ॥३-५०॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे पञ्चाशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe pañcāśaḥ sargaḥ ..3..
तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे । निरैक्षद् रावणं क्षिप्रं वैदेहीं च ददर्श सः॥ १॥
तम् शब्दम् अवसुप्तः तु जटायुः अथ शुश्रुवे । निरैक्षत् रावणम् क्षिप्रम् वैदेहीम् च ददर्श सः॥ १॥
tam śabdam avasuptaḥ tu jaṭāyuḥ atha śuśruve . niraikṣat rāvaṇam kṣipram vaidehīm ca dadarśa saḥ.. 1..
ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः । वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम्॥ २॥
ततस् पर्वत-शृङ्ग-आभः तीक्ष्ण-तुण्डः खग-उत्तमः । वनस्पति-गतः श्रीमान् व्याजहार शुभाम् गिरम्॥ २॥
tatas parvata-śṛṅga-ābhaḥ tīkṣṇa-tuṇḍaḥ khaga-uttamaḥ . vanaspati-gataḥ śrīmān vyājahāra śubhām giram.. 2..
दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः । भ्रातस्त्वं निन्दितं कर्म कर्तुं नार्हसि साम्प्रतम्॥ ३॥
दशग्रीव स्थितः धर्मे पुराणे सत्य-संश्रयः । भ्रातर् त्वम् निन्दितम् कर्म कर्तुम् ना अर्हसि साम्प्रतम्॥ ३॥
daśagrīva sthitaḥ dharme purāṇe satya-saṃśrayaḥ . bhrātar tvam ninditam karma kartum nā arhasi sāmpratam.. 3..
जटायुर्नाम नाम्नाहं गृध्रराजो महाबलः । राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः॥ ४॥
जटायुः नाम नाम्ना अहम् गृध्र-राजः महा-बलः । राजा सर्वस्य लोकस्य महा-इन्द्र-वरुण-उपमः॥ ४॥
jaṭāyuḥ nāma nāmnā aham gṛdhra-rājaḥ mahā-balaḥ . rājā sarvasya lokasya mahā-indra-varuṇa-upamaḥ.. 4..
लोकानां च हिते युक्तो रामो दशरथात्मजः । तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी॥ ५॥
लोकानाम् च हिते युक्तः रामः दशरथ-आत्मजः । तस्य एषा लोक-नाथस्य धर्मपत्नी यशस्विनी॥ ५॥
lokānām ca hite yuktaḥ rāmaḥ daśaratha-ātmajaḥ . tasya eṣā loka-nāthasya dharmapatnī yaśasvinī.. 5..
सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि । कथं राजा स्थितो धर्मे परदारान् परामृशेत्॥ ६॥
सीता नाम वरारोहा याम् त्वम् हर्तुम् इह इच्छसि । कथम् राजा स्थितः धर्मे पर-दारान् परामृशेत्॥ ६॥
sītā nāma varārohā yām tvam hartum iha icchasi . katham rājā sthitaḥ dharme para-dārān parāmṛśet.. 6..
रक्षणीया विशेषेण राजदारा महाबल । निवर्तय गतिं नीचां परदाराभिमर्शनात्॥ ७॥
रक्षणीयाः विशेषेण राज-दाराः महा-बल । निवर्तय गतिम् नीचाम् पर-दार-अभिमर्शनात्॥ ७॥
rakṣaṇīyāḥ viśeṣeṇa rāja-dārāḥ mahā-bala . nivartaya gatim nīcām para-dāra-abhimarśanāt.. 7..
न तत् समाचरेद् धीरो यत् परोऽस्य विगर्हयेत् । यथाऽऽत्मनस्तथान्येषां दारा रक्ष्या विमर्शनात्॥ ८॥
न तत् समाचरेत् धीरः यत् परः अस्य विगर्हयेत् । यथा आत्मनः तथा अन्येषाम् दाराः रक्ष्याः विमर्शनात्॥ ८॥
na tat samācaret dhīraḥ yat paraḥ asya vigarhayet . yathā ātmanaḥ tathā anyeṣām dārāḥ rakṣyāḥ vimarśanāt.. 8..
अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम् । व्यवस्यन्त्यनुराजानं धर्मं पौलस्त्यनन्दन॥ ९॥
अर्थम् वा यदि वा कामम् शिष्टाः शास्त्रेषु अनागतम् । व्यवस्यन्ति अनुराजानम् धर्मम् पौलस्त्य-नन्दन॥ ९॥
artham vā yadi vā kāmam śiṣṭāḥ śāstreṣu anāgatam . vyavasyanti anurājānam dharmam paulastya-nandana.. 9..
राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः । धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते॥ १०॥
राजा धर्मः च कामः च द्रव्याणाम् च उत्तमः निधिः । धर्मः शुभम् वा पापम् वा राज-मूलम् प्रवर्तते॥ १०॥
rājā dharmaḥ ca kāmaḥ ca dravyāṇām ca uttamaḥ nidhiḥ . dharmaḥ śubham vā pāpam vā rāja-mūlam pravartate.. 10..
पापस्वभावश्चपलः कथं त्वं रक्षसां वर । ऐश्वर्यमभिसम्प्राप्तो विमानमिव दुष्कृती॥ ११॥
पाप-स्वभावः चपलः कथम् त्वम् रक्षसाम् वर । ऐश्वर्यम् अभिसम्प्राप्तः विमानम् इव दुष्कृती॥ ११॥
pāpa-svabhāvaḥ capalaḥ katham tvam rakṣasām vara . aiśvaryam abhisamprāptaḥ vimānam iva duṣkṛtī.. 11..
कामस्वभावो यःसोऽसौ न शक्यस्तं प्रमार्जितुम् । नहि दुष्टात्मनामार्यमावसत्यालये चिरम्॥ १२॥
काम-स्वभावः यः सः असौ न शक्यः तम् प्रमार्जितुम् । नहि दुष्ट-आत्मनाम् आर्यम् आवसति आलये चिरम्॥ १२॥
kāma-svabhāvaḥ yaḥ saḥ asau na śakyaḥ tam pramārjitum . nahi duṣṭa-ātmanām āryam āvasati ālaye ciram.. 12..
विषये वा पुरे वा ते यदा रामो महाबलः । नापराध्यति धर्मात्मा कथं तस्यापराध्यसि॥ १३॥
विषये वा पुरे वा ते यदा रामः महा-बलः । न अपराध्यति धर्म-आत्मा कथम् तस्य अपराध्यसि॥ १३॥
viṣaye vā pure vā te yadā rāmaḥ mahā-balaḥ . na aparādhyati dharma-ātmā katham tasya aparādhyasi.. 13..
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः । अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा॥ १४॥
यदि शूर्पणखा-हेतोः जनस्थान-गतः खरः । अतिवृत्तः हतः पूर्वम् रामेण अक्लिष्ट-कर्मणा॥ १४॥
yadi śūrpaṇakhā-hetoḥ janasthāna-gataḥ kharaḥ . ativṛttaḥ hataḥ pūrvam rāmeṇa akliṣṭa-karmaṇā.. 14..
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः । यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि॥ १५॥
अत्र ब्रूहि यथातत्त्वम् कः रामस्य व्यतिक्रमः । यस्य त्वम् लोक-नाथस्य हृत्वा भार्याम् गमिष्यसि॥ १५॥
atra brūhi yathātattvam kaḥ rāmasya vyatikramaḥ . yasya tvam loka-nāthasya hṛtvā bhāryām gamiṣyasi.. 15..
क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा । दहेद् दहनभूतेन वृत्रमिन्द्राशनिर्यथा॥ १६॥
क्षिप्रम् विसृज वैदेहीम् मा त्वा घोरेण चक्षुषा । दहेत् दहन-भूतेन वृत्रम् इन्द्र-अशनिः यथा॥ १६॥
kṣipram visṛja vaidehīm mā tvā ghoreṇa cakṣuṣā . dahet dahana-bhūtena vṛtram indra-aśaniḥ yathā.. 16..
सर्पमाशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे । ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि॥ १७॥
सर्पम् आशीविषम् बद्ध्वा वस्त्र-अन्ते न अवबुध्यसे । ग्रीवायाम् प्रतिमुक्तम् च कालपाशम् न पश्यसि॥ १७॥
sarpam āśīviṣam baddhvā vastra-ante na avabudhyase . grīvāyām pratimuktam ca kālapāśam na paśyasi.. 17..
स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् । तदन्नमपि भोक्तव्यं जीर्यते यदनामयम्॥ १८॥
स भारः सौम्य भर्तव्यः यः नरम् न अवसादयेत् । तत् अन्नम् अपि भोक्तव्यम् जीर्यते यत् अनामयम्॥ १८॥
sa bhāraḥ saumya bhartavyaḥ yaḥ naram na avasādayet . tat annam api bhoktavyam jīryate yat anāmayam.. 18..
यत् कृत्वा न भवेद् धर्मो न कीर्तिर्न यशो ध्रुवम् । शरीरस्य भवेत् खेदः कस्तत् कर्म समाचरेत्॥ १९॥
यत् कृत्वा न भवेत् धर्मः न कीर्तिः न यशः ध्रुवम् । शरीरस्य भवेत् खेदः कः तत् कर्म समाचरेत्॥ १९॥
yat kṛtvā na bhavet dharmaḥ na kīrtiḥ na yaśaḥ dhruvam . śarīrasya bhavet khedaḥ kaḥ tat karma samācaret.. 19..
षष्टिवर्षसहस्राणि जातस्य मम रावण । पितृपैतामहं राज्यं यथावदनुतिष्ठतः॥ २०॥
षष्टि-वर्ष-सहस्राणि जातस्य मम रावण । पितृपैतामहम् राज्यम् यथावत् अनुतिष्ठतः॥ २०॥
ṣaṣṭi-varṣa-sahasrāṇi jātasya mama rāvaṇa . pitṛpaitāmaham rājyam yathāvat anutiṣṭhataḥ.. 20..
वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी । न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि॥ २१॥
वृद्धः अहम् त्वम् युवा धन्वी स रथः कवची शरी । न च अपि आदाय कुशली वैदेहीम् मे गमिष्यसि॥ २१॥
vṛddhaḥ aham tvam yuvā dhanvī sa rathaḥ kavacī śarī . na ca api ādāya kuśalī vaidehīm me gamiṣyasi.. 21..
न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः । हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव॥ २२॥
न शक्तः त्वम् बलात् हर्तुम् वैदेहीम् मम पश्यतः । हेतुभिः न्याय-संयुक्तैः ध्रुवाम् वेद-श्रुतीम् इव॥ २२॥
na śaktaḥ tvam balāt hartum vaidehīm mama paśyataḥ . hetubhiḥ nyāya-saṃyuktaiḥ dhruvām veda-śrutīm iva.. 22..
युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण । शयिष्यसे हतो भूमौ यथा पूर्वं खरस्तथा॥ २३॥
युध्यस्व यदि शूरः असि मुहूर्तम् तिष्ठ रावण । शयिष्यसे हतः भूमौ यथा पूर्वम् खरः तथा॥ २३॥
yudhyasva yadi śūraḥ asi muhūrtam tiṣṭha rāvaṇa . śayiṣyase hataḥ bhūmau yathā pūrvam kharaḥ tathā.. 23..
असकृत्संयुगे येन निहता दैत्यदानवाः । न चिराच्चीरवासास्त्वां रामो युधि वधिष्यति॥ २४॥
असकृत् संयुगे येन निहताः दैत्य-दानवाः । न चिरात् चीर-वासाः त्वाम् रामः युधि वधिष्यति॥ २४॥
asakṛt saṃyuge yena nihatāḥ daitya-dānavāḥ . na cirāt cīra-vāsāḥ tvām rāmaḥ yudhi vadhiṣyati.. 24..
किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ । क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः॥ २५॥
किम् नु शक्यम् मया कर्तुम् गतौ दूरम् नृप-आत्मजौ । क्षिप्रम् त्वम् नश्यसे नीच तयोः भीतः न संशयः॥ २५॥
kim nu śakyam mayā kartum gatau dūram nṛpa-ātmajau . kṣipram tvam naśyase nīca tayoḥ bhītaḥ na saṃśayaḥ.. 25..
नहि मे जीवमानस्य नयिष्यसि शुभामिमाम् । सीतां कमलपत्राक्षीं रामस्य महिषीं प्रियाम्॥ २६॥
नहि मे जीवमानस्य नयिष्यसि शुभाम् इमाम् । सीताम् कमल-पत्र-अक्षीम् रामस्य महिषीम् प्रियाम्॥ २६॥
nahi me jīvamānasya nayiṣyasi śubhām imām . sītām kamala-patra-akṣīm rāmasya mahiṣīm priyām.. 26..
अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः । जीवितेनापि रामस्य तथा दशरथस्य च॥ २७॥
अवश्यम् तु मया कार्यम् प्रियम् तस्य महात्मनः । जीवितेन अपि रामस्य तथा दशरथस्य च॥ २७॥
avaśyam tu mayā kāryam priyam tasya mahātmanaḥ . jīvitena api rāmasya tathā daśarathasya ca.. 27..
तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण । वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् । युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर॥ २८॥
तिष्ठ तिष्ठ दशग्रीव मुहूर्तम् पश्य रावण । वृन्तात् इव फलम् त्वाम् तु पातयेयम् रथ-उत्तमात् । युद्ध-आतिथ्यम् प्रदास्यामि यथाप्राणम् निशाचर॥ २८॥
tiṣṭha tiṣṭha daśagrīva muhūrtam paśya rāvaṇa . vṛntāt iva phalam tvām tu pātayeyam ratha-uttamāt . yuddha-ātithyam pradāsyāmi yathāprāṇam niśācara.. 28..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चाशः सर्गः ॥३-५०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे पञ्चाशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe pañcāśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In