This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विपञ्चाशः सर्गः ॥३-५२॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे द्विपञ्चाशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe dvipañcāśaḥ sargaḥ ..3..
सा तु ताराधिपमुखी रावणेन निरीक्ष्य तम् । गृध्रराजं विनिहतं विललाप सुदुःखिता॥ १॥
सा तु ताराधिप-मुखी रावणेन निरीक्ष्य तम् । गृध्र-राजम् विनिहतम् विललाप सु दुःखिता॥ १॥
sā tu tārādhipa-mukhī rāvaṇena nirīkṣya tam . gṛdhra-rājam vinihatam vilalāpa su duḥkhitā.. 1..
निमित्तं लक्षणं स्वप्नं शकुनिस्वरदर्शनम् । अवश्यं सुखदुःखेषु नराणां परिदृश्यते॥ २॥
निमित्तम् लक्षणम् स्वप्नम् शकुनि-स्वर-दर्शनम् । अवश्यम् सुख-दुःखेषु नराणाम् परिदृश्यते॥ २॥
nimittam lakṣaṇam svapnam śakuni-svara-darśanam . avaśyam sukha-duḥkheṣu narāṇām paridṛśyate.. 2..
न नूनं राम जानासि महद्व्यसनमात्मनः । धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः॥ ३॥
न नूनम् राम जानासि महत् व्यसनम् आत्मनः । धावन्ति नूनम् काकुत्स्थ मद्-अर्थम् मृग-पक्षिणः॥ ३॥
na nūnam rāma jānāsi mahat vyasanam ātmanaḥ . dhāvanti nūnam kākutstha mad-artham mṛga-pakṣiṇaḥ.. 3..
अयं हि कृपया राम मां त्रातुमिह संगतः । शेते विनिहतो भूमौ ममाभाग्याद् विहंगमः॥ ४॥
अयम् हि कृपया राम माम् त्रातुम् इह संगतः । शेते विनिहतः भूमौ मम अभाग्यात् विहंगमः॥ ४॥
ayam hi kṛpayā rāma mām trātum iha saṃgataḥ . śete vinihataḥ bhūmau mama abhāgyāt vihaṃgamaḥ.. 4..
त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना । सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके॥ ५॥
त्राहि माम् अद्य काकुत्स्थ लक्ष्मण इति वर-अङ्गना । सु संत्रस्ता समाक्रन्दत् शृण्वताम् तु यथा अन्तिके॥ ५॥
trāhi mām adya kākutstha lakṣmaṇa iti vara-aṅganā . su saṃtrastā samākrandat śṛṇvatām tu yathā antike.. 5..
तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत् । अभ्यधावत वैदेहीं रावणो राक्षसाधिपः॥ ६॥
ताम् क्लिष्ट-माल्य-आभरणाम् विलपन्तीम् अनाथ-वत् । अभ्यधावत वैदेहीम् रावणः राक्षस-अधिपः॥ ६॥
tām kliṣṭa-mālya-ābharaṇām vilapantīm anātha-vat . abhyadhāvata vaidehīm rāvaṇaḥ rākṣasa-adhipaḥ.. 6..
तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान् । मुञ्च मुञ्चेति बहुशः प्राप तां राक्षसाधिपः॥ ७॥
ताम् लताम् इव वेष्टन्तीम् आलिङ्गन्तीम् महा-द्रुमान् । मुञ्च मुञ्च इति बहुशस् प्राप ताम् राक्षस-अधिपः॥ ७॥
tām latām iva veṣṭantīm āliṅgantīm mahā-drumān . muñca muñca iti bahuśas prāpa tām rākṣasa-adhipaḥ.. 7..
क्रोशन्तीं राम रामेति रामेण रहितां वने । जीवितान्ताय केशेषु जग्राहान्तकसंनिभः॥ ८॥
क्रोशन्तीम् राम राम इति रामेण रहिताम् वने । जीवितान्ताय केशेषु जग्राह अन्तक-संनिभः॥ ८॥
krośantīm rāma rāma iti rāmeṇa rahitām vane . jīvitāntāya keśeṣu jagrāha antaka-saṃnibhaḥ.. 8..
प्रधर्षितायां वैदेह्यां बभूव सचराचरम् । जगत् सर्वममर्यादं तमसान्धेन संवृतम्॥ ९॥
प्रधर्षितायाम् वैदेह्याम् बभूव सचराचरम् । जगत् सर्वम् अमर्यादम् तमसा अन्धेन संवृतम्॥ ९॥
pradharṣitāyām vaidehyām babhūva sacarācaram . jagat sarvam amaryādam tamasā andhena saṃvṛtam.. 9..
न वाति मारुतस्तत्र निष्प्रभोऽभूद् दिवाकरः । दृष्ट्वा सीतां परामृष्टां देवो दिव्येन चक्षुषा॥ १०॥
न वाति मारुतः तत्र निष्प्रभः अभूत् दिवाकरः । दृष्ट्वा सीताम् परामृष्टाम् देवः दिव्येन चक्षुषा॥ १०॥
na vāti mārutaḥ tatra niṣprabhaḥ abhūt divākaraḥ . dṛṣṭvā sītām parāmṛṣṭām devaḥ divyena cakṣuṣā.. 10..
कृतं कार्यमिति श्रीमान् व्याजहार पितामहः । प्रहृष्टा व्यथिताश्चासन् सर्वे ते परमर्षयः॥ ११॥
कृतम् कार्यम् इति श्रीमान् व्याजहार पितामहः । प्रहृष्टाः व्यथिताः च आसन् सर्वे ते परम-ऋषयः॥ ११॥
kṛtam kāryam iti śrīmān vyājahāra pitāmahaḥ . prahṛṣṭāḥ vyathitāḥ ca āsan sarve te parama-ṛṣayaḥ.. 11..
दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः । रावणस्य विनाशं च प्राप्तं बुद्ध्वा यदृच्छया॥ १२॥
दृष्ट्वा सीताम् परामृष्टाम् दण्डक-अरण्य-वासिनः । रावणस्य विनाशम् च प्राप्तम् बुद्ध्वा यदृच्छया॥ १२॥
dṛṣṭvā sītām parāmṛṣṭām daṇḍaka-araṇya-vāsinaḥ . rāvaṇasya vināśam ca prāptam buddhvā yadṛcchayā.. 12..
स तु तां राम रामेति रुदतीं लक्ष्मणेति च । जगामादाय चाकाशं रावणो राक्षसेश्वरः॥ १३॥
स तु ताम् राम राम इति रुदतीम् लक्ष्मण इति च । जगाम आदाय च आकाशम् रावणः राक्षसेश्वरः॥ १३॥
sa tu tām rāma rāma iti rudatīm lakṣmaṇa iti ca . jagāma ādāya ca ākāśam rāvaṇaḥ rākṣaseśvaraḥ.. 13..
तप्ताभरणवर्णाङ्गी पीतकौशेयवासिनी । रराज राजपुत्री तु विद्युत्सौदामनी यथा॥ १४॥
तप्त-आभरण-वर्ण-अङ्गी पीत-कौशेय-वासिनी । रराज राज-पुत्री तु विद्युत्-सौदामनी यथा॥ १४॥
tapta-ābharaṇa-varṇa-aṅgī pīta-kauśeya-vāsinī . rarāja rāja-putrī tu vidyut-saudāmanī yathā.. 14..
उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः । अधिकं परिबभ्राज गिरिर्दीप्त इवाग्निना॥ १५॥
उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः । अधिकम् परिबभ्राज गिरिः दीप्तः इव अग्निना॥ १५॥
uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ . adhikam paribabhrāja giriḥ dīptaḥ iva agninā.. 15..
तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च । पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम्॥ १६॥
तस्याः परम-कल्याण्याः ताम्राणि सुरभीणि च । पद्म-पत्राणि वैदेह्याः अभ्यकीर्यन्त रावणम्॥ १६॥
tasyāḥ parama-kalyāṇyāḥ tāmrāṇi surabhīṇi ca . padma-patrāṇi vaidehyāḥ abhyakīryanta rāvaṇam.. 16..
तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम् । बभौ चादित्यरागेण ताम्रमभ्रमिवातपे॥ १७॥
तस्याः कौशेयम् उद्धूतम् आकाशे कनक-प्रभम् । बभौ च आदित्य-रागेण ताम्रम् अभ्रम् इव आतपे॥ १७॥
tasyāḥ kauśeyam uddhūtam ākāśe kanaka-prabham . babhau ca āditya-rāgeṇa tāmram abhram iva ātape.. 17..
तस्यास्तद् विमलं वक्त्रमाकाशे रावणाङ्कगम् । न रराज विना रामं विनालमिव पङ्कजम्॥ १८॥
तस्याः तत् विमलम् वक्त्रम् आकाशे रावण-अङ्क-गम् । न रराज विना रामम् विनालम् इव पङ्कजम्॥ १८॥
tasyāḥ tat vimalam vaktram ākāśe rāvaṇa-aṅka-gam . na rarāja vinā rāmam vinālam iva paṅkajam.. 18..
बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः । सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम्॥ १९॥
बभूव जलदम् नीलम् भित्त्वा चन्द्रः इव उदितः । सु ललाटम् सु केशान्तम् पद्मगर्भ-आभम् अव्रणम्॥ १९॥
babhūva jaladam nīlam bhittvā candraḥ iva uditaḥ . su lalāṭam su keśāntam padmagarbha-ābham avraṇam.. 19..
शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम् । तस्याः सुनयनं वक्त्रमाकाशे रावणाङ्कगम्॥ २०॥
शुक्लैः सु विमलैः दन्तैः प्रभावद्भिः अलंकृतम् । तस्याः सु नयनम् वक्त्रम् आकाशे रावण-अङ्क-गम्॥ २०॥
śuklaiḥ su vimalaiḥ dantaiḥ prabhāvadbhiḥ alaṃkṛtam . tasyāḥ su nayanam vaktram ākāśe rāvaṇa-aṅka-gam.. 20..
रुदितं व्यपमृष्टास्रं चन्द्रवत् प्रियदर्शनम् । सुनासं चारुताम्रोष्ठमाकाशे हाटकप्रभम्॥ २१॥
रुदितम् व्यपमृष्ट-अस्रम् चन्द्र-वत् प्रिय-दर्शनम् । सु नासम् चारु-ताम्र-उष्ठम् आकाशे हाटक-प्रभम्॥ २१॥
ruditam vyapamṛṣṭa-asram candra-vat priya-darśanam . su nāsam cāru-tāmra-uṣṭham ākāśe hāṭaka-prabham.. 21..
राक्षसेन्द्रसमाधूतं तस्यास्तद् वदनं शुभम् । शुशुभे न विना रामं दिवा चन्द्र इवोदितः॥ २२॥
राक्षस-इन्द्र-समाधूतम् तस्याः तत् वदनम् शुभम् । शुशुभे न विना रामम् दिवा चन्द्रः इव उदितः॥ २२॥
rākṣasa-indra-samādhūtam tasyāḥ tat vadanam śubham . śuśubhe na vinā rāmam divā candraḥ iva uditaḥ.. 22..
सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम् । शुशुभे काञ्चनी काञ्ची नीलं गजमिवाश्रिता॥ २३॥
सा हेम-वर्णा नील-अङ्गम् मैथिली राक्षस-अधिपम् । शुशुभे काञ्चनी काञ्ची नीलम् गजम् इव आश्रिता॥ २३॥
sā hema-varṇā nīla-aṅgam maithilī rākṣasa-adhipam . śuśubhe kāñcanī kāñcī nīlam gajam iva āśritā.. 23..
सा पद्मपीता हेमाभा रावणं जनकात्मजा । विद्युद् घनमिवाविश्य शुशुभे तप्तभूषणा॥ २४॥
सा पद्म-पीता हेम-आभा रावणम् जनकात्मजा । विद्युत् घनम् इव आविश्य शुशुभे तप्त-भूषणा॥ २४॥
sā padma-pītā hema-ābhā rāvaṇam janakātmajā . vidyut ghanam iva āviśya śuśubhe tapta-bhūṣaṇā.. 24..
तस्या भूषणघोषेण वैदेह्या राक्षसेश्वरः । बभूव विमलो नीलः सघोष इव तोयदः॥ २५॥
तस्याः भूषण-घोषेण वैदेह्याः राक्षसेश्वरः । बभूव विमलः नीलः स घोषः इव तोयदः॥ २५॥
tasyāḥ bhūṣaṇa-ghoṣeṇa vaidehyāḥ rākṣaseśvaraḥ . babhūva vimalaḥ nīlaḥ sa ghoṣaḥ iva toyadaḥ.. 25..
उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः । सीताया ह्रियमाणायाः पपात धरणीतले॥ २६॥
उत्तमाङ्ग-च्युता तस्याः पुष्प-वृष्टिः समन्ततः । सीतायाः ह्रियमाणायाः पपात धरणी-तले॥ २६॥
uttamāṅga-cyutā tasyāḥ puṣpa-vṛṣṭiḥ samantataḥ . sītāyāḥ hriyamāṇāyāḥ papāta dharaṇī-tale.. 26..
सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः । समाधूता दशग्रीवं पुनरेवाभ्यवर्तत॥ २७॥
सा तु रावण-वेगेन पुष्प-वृष्टिः समन्ततः । समाधूता दशग्रीवम् पुनर् एव अभ्यवर्तत॥ २७॥
sā tu rāvaṇa-vegena puṣpa-vṛṣṭiḥ samantataḥ . samādhūtā daśagrīvam punar eva abhyavartata.. 27..
अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् । नक्षत्रमाला विमला मेरुं नगमिवोन्नतम्॥ २८॥
अभ्यवर्तत पुष्पाणाम् धारा वैश्रवणानुजम् । नक्षत्र-मालाः विमलाः मेरुम् नगम् इव उन्नतम्॥ २८॥
abhyavartata puṣpāṇām dhārā vaiśravaṇānujam . nakṣatra-mālāḥ vimalāḥ merum nagam iva unnatam.. 28..
चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम् । विद्युन्मण्डलसंकाशं पपात धरणीतले॥ २९॥
चरणात् नूपुरम् भ्रष्टम् वैदेह्याः रत्न-भूषितम् । विद्युत्-मण्डल-संकाशम् पपात धरणी-तले॥ २९॥
caraṇāt nūpuram bhraṣṭam vaidehyāḥ ratna-bhūṣitam . vidyut-maṇḍala-saṃkāśam papāta dharaṇī-tale.. 29..
तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम् । प्रशोभयत वैदेही गजं कक्ष्येव काञ्चनी॥ ३०॥
तरु-प्रवाल-रक्ता सा नील-अङ्गम् राक्षस-ईश्वरम् । प्रशोभयत वैदेही गजम् कक्ष्या इव काञ्चनी॥ ३०॥
taru-pravāla-raktā sā nīla-aṅgam rākṣasa-īśvaram . praśobhayata vaidehī gajam kakṣyā iva kāñcanī.. 30..
तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा । जहाराकाशमाविश्य सीतां वैश्रवणानुजः॥ ३१॥
ताम् महा-उल्काम् इव आकाशे दीप्यमानाम् स्व-तेजसा । जहार आकाशम् आविश्य सीताम् वैश्रवणानुजः॥ ३१॥
tām mahā-ulkām iva ākāśe dīpyamānām sva-tejasā . jahāra ākāśam āviśya sītām vaiśravaṇānujaḥ.. 31..
तस्यास्तान्यग्निवर्णानि भूषणानि महीतले । सघोषाण्यवशीर्यन्त क्षीणास्तारा इवाम्बरात्॥ ३२॥
तस्याः तानि अग्नि-वर्णानि भूषणानि मही-तले । स घोषाणि अवशीर्यन्त क्षीणाः ताराः इव अम्बरात्॥ ३२॥
tasyāḥ tāni agni-varṇāni bhūṣaṇāni mahī-tale . sa ghoṣāṇi avaśīryanta kṣīṇāḥ tārāḥ iva ambarāt.. 32..
तस्याः स्तनान्तराद् भ्रष्टो हारस्ताराधिपद्युतिः । वैदेह्या निपतन् भाति गङ्गेव गगनच्युता॥ ३३॥
तस्याः स्तन-अन्तरात् भ्रष्टः हारः ताराधिप-द्युतिः । वैदेह्याः निपतन् भाति गङ्गा इव गगन-च्युता॥ ३३॥
tasyāḥ stana-antarāt bhraṣṭaḥ hāraḥ tārādhipa-dyutiḥ . vaidehyāḥ nipatan bhāti gaṅgā iva gagana-cyutā.. 33..
उत्पातवाताभिरता नानाद्विजगणायुताः । मा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः॥ ३४॥
उत्पात-वात-अभिरताः नाना द्विज-गण-आयुताः । मा भैः इति विधूत-अग्राः व्याजह्रुः इव पादपाः॥ ३४॥
utpāta-vāta-abhiratāḥ nānā dvija-gaṇa-āyutāḥ . mā bhaiḥ iti vidhūta-agrāḥ vyājahruḥ iva pādapāḥ.. 34..
नलिन्यो ध्वस्तकमलास्त्रस्तमीनजलेचराः । सखीमिव गतोत्साहां शोचन्तीव स्म मैथिलीम्॥ ३५॥
नलिन्यः ध्वस्त-कमलाः त्रस्त-मीन-जलेचराः । सखीम् इव गत-उत्साहाम् शोचन्ति इव स्म मैथिलीम्॥ ३५॥
nalinyaḥ dhvasta-kamalāḥ trasta-mīna-jalecarāḥ . sakhīm iva gata-utsāhām śocanti iva sma maithilīm.. 35..
समन्तादभिसम्पत्य सिंहव्याघ्रमृगद्विजाः । अन्वधावंस्तदा रोषात् सीताच्छायानुगामिनः॥ ३६॥
समन्तात् अभिसम्पत्य सिंह-व्याघ्र-मृग-द्विजाः । अन्वधावन् तदा रोषात् सीता-छाया-अनुगामिनः॥ ३६॥
samantāt abhisampatya siṃha-vyāghra-mṛga-dvijāḥ . anvadhāvan tadā roṣāt sītā-chāyā-anugāminaḥ.. 36..
जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहुभिः । सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः॥ ३७॥
जल-प्रपात-अस्र-मुखाः शृङ्गैः उच्छ्रित-बाहुभिः । सीतायाम् ह्रियमाणायाम् विक्रोशन्ति इव पर्वताः॥ ३७॥
jala-prapāta-asra-mukhāḥ śṛṅgaiḥ ucchrita-bāhubhiḥ . sītāyām hriyamāṇāyām vikrośanti iva parvatāḥ.. 37..
ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः । प्रविध्वस्तप्रभः श्रीमानासीत् पाण्डुरमण्डलः॥ ३८॥
ह्रियमाणाम् तु वैदेहीम् दृष्ट्वा दीनः दिवाकरः । प्रविध्वस्त-प्रभः श्रीमान् आसीत् पाण्डुर-मण्डलः॥ ३८॥
hriyamāṇām tu vaidehīm dṛṣṭvā dīnaḥ divākaraḥ . pravidhvasta-prabhaḥ śrīmān āsīt pāṇḍura-maṇḍalaḥ.. 38..
नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता । यत्र रामस्य वैदेहीं सीतां हरति रावणः॥ ३९॥
न अस्ति धर्मः कुतस् सत्यम् न आर्जवम् न अ नृशंस-ता । यत्र रामस्य वैदेहीम् सीताम् हरति रावणः॥ ३९॥
na asti dharmaḥ kutas satyam na ārjavam na a nṛśaṃsa-tā . yatra rāmasya vaidehīm sītām harati rāvaṇaḥ.. 39..
इति भूतानि सर्वाणि गणशः पर्यदेवयन् । वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः॥ ४०॥
इति भूतानि सर्वाणि गणशस् पर्यदेवयन् । वित्रस्तकाः दीन-मुखाः रुरुदुः मृग-पोतकाः॥ ४०॥
iti bhūtāni sarvāṇi gaṇaśas paryadevayan . vitrastakāḥ dīna-mukhāḥ ruruduḥ mṛga-potakāḥ.. 40..
उद्वीक्ष्योद्वीक्ष्य नयनैर्भयादिव विलक्षणैः । सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः॥ ४१॥
उद्वीक्ष्य उद्वीक्ष्य नयनैः भयात् इव विलक्षणैः । सु प्रवेपित-गात्राः च बभूवुः वन-देवताः॥ ४१॥
udvīkṣya udvīkṣya nayanaiḥ bhayāt iva vilakṣaṇaiḥ . su pravepita-gātrāḥ ca babhūvuḥ vana-devatāḥ.. 41..
विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम् । तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम्॥ ४२॥
विक्रोशन्तीम् दृढम् सीताम् दृष्ट्वा दुःखम् तथा गताम् । ताम् तु लक्ष्मण राम इति क्रोशन्तीम् मधुर-स्वराम्॥ ४२॥
vikrośantīm dṛḍham sītām dṛṣṭvā duḥkham tathā gatām . tām tu lakṣmaṇa rāma iti krośantīm madhura-svarām.. 42..
अवेक्षमाणां बहुशो वैदेहीं धरणीतलम् । स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम् । जहारात्मविनाशाय दशग्रीवो मनस्विनीम्॥ ४३॥
अवेक्षमाणाम् बहुशस् वैदेहीम् धरणी-तलम् । स ताम् आकुल-केशान्ताम् विप्रमृष्ट-विशेषकाम् । जहार आत्म-विनाशाय दशग्रीवः मनस्विनीम्॥ ४३॥
avekṣamāṇām bahuśas vaidehīm dharaṇī-talam . sa tām ākula-keśāntām vipramṛṣṭa-viśeṣakām . jahāra ātma-vināśāya daśagrīvaḥ manasvinīm.. 43..
ततस्तु सा चारुदती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली । अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्त्रा भयभारपीडिता॥ ४४॥
ततस् तु सा चारुदती शुचि-स्मिता विनाकृता बन्धु-जनेन मैथिली । अपश्यती राघव-लक्ष्मणौ उभौ विवर्ण-वक्त्रा भय-भार-पीडिता॥ ४४॥
tatas tu sā cārudatī śuci-smitā vinākṛtā bandhu-janena maithilī . apaśyatī rāghava-lakṣmaṇau ubhau vivarṇa-vaktrā bhaya-bhāra-pīḍitā.. 44..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्विपञ्चाशः सर्गः ॥३-५२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे द्विपञ्चाशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe dvipañcāśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In