This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चपञ्चाशः सर्गः ॥३-५५॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे पञ्चपञ्चाशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe pañcapañcāśaḥ sargaḥ ..3..
संदिश्य राक्षसान् घोरान् रावणोऽष्टौ महाबलान् । आत्मानं बुद्धिवैक्लव्यात् कृत्कृत्यममन्यत॥ १॥
संदिश्य राक्षसान् घोरान् रावणः अष्टौ महा-बलान् । आत्मानम् बुद्धि-वैक्लव्यात् कृत्कृत्यम् अमन्यत॥ १॥
saṃdiśya rākṣasān ghorān rāvaṇaḥ aṣṭau mahā-balān . ātmānam buddhi-vaiklavyāt kṛtkṛtyam amanyata.. 1..
स चिन्तयानो वैदेहीं कामबाणैः प्रपीडितः । प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन्॥ २॥
स चिन्तयानः वैदेहीम् काम-बाणैः प्रपीडितः । प्रविवेश गृहम् रम्यम् सीताम् द्रष्टुम् अभित्वरन्॥ २॥
sa cintayānaḥ vaidehīm kāma-bāṇaiḥ prapīḍitaḥ . praviveśa gṛham ramyam sītām draṣṭum abhitvaran.. 2..
स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः । अपश्यद् राक्षसीमध्ये सीतां दुःखपरायणाम्॥ ३॥
स प्रविश्य तु तत् वेश्म रावणः राक्षस-अधिपः । अपश्यत् राक्षसी-मध्ये सीताम् दुःख-परायणाम्॥ ३॥
sa praviśya tu tat veśma rāvaṇaḥ rākṣasa-adhipaḥ . apaśyat rākṣasī-madhye sītām duḥkha-parāyaṇām.. 3..
अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम् । वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे॥ ४॥
अश्रु-पूर्ण-मुखीम् दीनाम् शोक-भार-अवपीडिताम् । वायु-वेगैः इव आक्रान्ताम् मज्जन्तीम् नावम् अर्णवे॥ ४॥
aśru-pūrṇa-mukhīm dīnām śoka-bhāra-avapīḍitām . vāyu-vegaiḥ iva ākrāntām majjantīm nāvam arṇave.. 4..
मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम् । अधोगतमुखीं सीतां तामभ्येत्य निशाचरः॥ ५॥
मृग-यूथ-परिभ्रष्टाम् मृगीम् श्वभिः इव आवृताम् । अधस् गत-मुखीम् सीताम् ताम् अभ्येत्य निशाचरः॥ ५॥
mṛga-yūtha-paribhraṣṭām mṛgīm śvabhiḥ iva āvṛtām . adhas gata-mukhīm sītām tām abhyetya niśācaraḥ.. 5..
तां तु शोकवशाद् दीनामवशां राक्षसाधिपः । सबलाद् दर्शयामास गृहं देवगृहोपमम्॥ ६॥
ताम् तु शोक-वशात् दीनाम् अवशाम् राक्षस-अधिपः । सबलात् दर्शयामास गृहम् देवगृह-उपमम्॥ ६॥
tām tu śoka-vaśāt dīnām avaśām rākṣasa-adhipaḥ . sabalāt darśayāmāsa gṛham devagṛha-upamam.. 6..
हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम् । नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम्॥ ७॥
हर्म्य-प्रासाद-सम्बाधम् स्त्री-सहस्र-निषेवितम् । नाना पक्षि-गणैः जुष्टम् नाना रत्न-समन्वितम्॥ ७॥
harmya-prāsāda-sambādham strī-sahasra-niṣevitam . nānā pakṣi-gaṇaiḥ juṣṭam nānā ratna-samanvitam.. 7..
दान्तकैस्तापनीयैश्च स्फाटिकै राजतैस्तथा । वज्रवैदूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोरमैः॥ ८॥
दान्तकैः तापनीयैः च स्फाटिकैः राजतैः तथा । वज्र-वैदूर्य-चित्रैः च स्तम्भैः दृष्टि-मनोरमैः॥ ८॥
dāntakaiḥ tāpanīyaiḥ ca sphāṭikaiḥ rājataiḥ tathā . vajra-vaidūrya-citraiḥ ca stambhaiḥ dṛṣṭi-manoramaiḥ.. 8..
दिव्यदुन्दुभिनिर्घोषं तप्तकाञ्चनभूषणम् । सोपानं काञ्चनं चित्रमारुरोह तया सह॥ ९॥
दिव्य-दुन्दुभि-निर्घोषम् तप्त-काञ्चन-भूषणम् । सोपानम् काञ्चनम् चित्रम् आरुरोह तया सह॥ ९॥
divya-dundubhi-nirghoṣam tapta-kāñcana-bhūṣaṇam . sopānam kāñcanam citram āruroha tayā saha.. 9..
दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः । हेमजालावृताश्चासंस्तत्र प्रासादपङ्क्तयः॥ १०॥
दान्तकाः राजताः च एव गवाक्षाः प्रिय-दर्शनाः । हेम-जाल-आवृताः च आसन् तत्र प्रासाद-पङ्क्तयः॥ १०॥
dāntakāḥ rājatāḥ ca eva gavākṣāḥ priya-darśanāḥ . hema-jāla-āvṛtāḥ ca āsan tatra prāsāda-paṅktayaḥ.. 10..
सुधामणिविचित्राणि भूमिभागानि सर्वशः । दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम्॥ ११॥
सुधा-मणि-विचित्राणि भूमि-भागानि सर्वशस् । दशग्रीवः स्व-भवने प्रादर्शयत मैथिलीम्॥ ११॥
sudhā-maṇi-vicitrāṇi bhūmi-bhāgāni sarvaśas . daśagrīvaḥ sva-bhavane prādarśayata maithilīm.. 11..
दीर्घिकाः पुष्करिण्यश्च नानापुष्पसमावृताः । रावणो दर्शयामास सीतां शोकपरायणाम्॥ १२॥
दीर्घिकाः पुष्करिण्यः च नाना पुष्प-समावृताः । रावणः दर्शयामास सीताम् शोक-परायणाम्॥ १२॥
dīrghikāḥ puṣkariṇyaḥ ca nānā puṣpa-samāvṛtāḥ . rāvaṇaḥ darśayāmāsa sītām śoka-parāyaṇām.. 12..
दर्शयित्वा तु वैदेहीं कृत्स्नं तद्भवनोत्तमम् । उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया॥ १३॥
दर्शयित्वा तु वैदेहीम् कृत्स्नम् तत् भवन-उत्तमम् । उवाच वाक्यम् पाप-आत्मा सीताम् लोभितुम् इच्छया॥ १३॥
darśayitvā tu vaidehīm kṛtsnam tat bhavana-uttamam . uvāca vākyam pāpa-ātmā sītām lobhitum icchayā.. 13..
दश राक्षसकोट्यश्च द्वाविंशतिरथापराः । वर्जयित्वा जरावृद्धान् बालांश्च रजनीचरान्॥ १४॥
दश राक्षस-कोट्यः च द्वाविंशतिः अथ अपराः । वर्जयित्वा जरा-वृद्धान् बालान् च रजनीचरान्॥ १४॥
daśa rākṣasa-koṭyaḥ ca dvāviṃśatiḥ atha aparāḥ . varjayitvā jarā-vṛddhān bālān ca rajanīcarān.. 14..
तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम् । सहस्रमेकमेकस्य मम कार्यपुरःसरम्॥ १५॥
तेषाम् प्रभुः अहम् सीते सर्वेषाम् भीम-कर्मणाम् । सहस्रम् एकम् एकस्य मम कार्य-पुरःसरम्॥ १५॥
teṣām prabhuḥ aham sīte sarveṣām bhīma-karmaṇām . sahasram ekam ekasya mama kārya-puraḥsaram.. 15..
यदिदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम् । जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी॥ १६॥
यत् इदम् राज्य-तन्त्रम् मे त्वयि सर्वम् प्रतिष्ठितम् । जीवितम् च विशाल-अक्षि त्वम् मे प्राणैः गरीयसी॥ १६॥
yat idam rājya-tantram me tvayi sarvam pratiṣṭhitam . jīvitam ca viśāla-akṣi tvam me prāṇaiḥ garīyasī.. 16..
बह्वीनामुत्तमस्त्रीणां मम योऽसौ परिग्रहः । तासां त्वमीश्वरी सीते मम भार्या भव प्रिये॥ १७॥
बह्वीनाम् उत्तम-स्त्रीणाम् मम यः असौ परिग्रहः । तासाम् त्वम् ईश्वरी सीते मम भार्या भव प्रिये॥ १७॥
bahvīnām uttama-strīṇām mama yaḥ asau parigrahaḥ . tāsām tvam īśvarī sīte mama bhāryā bhava priye.. 17..
साधु किं तेऽन्यथाबुद्ध्या रोचयस्व वचो मम । भजस्व माभितप्तस्य प्रसादं कर्तुमर्हसि॥ १८॥
साधु किम् ते अन्यथा बुद्ध्या रोचयस्व वचः मम । भजस्व मा अभितप्तस्य प्रसादम् कर्तुम् अर्हसि॥ १८॥
sādhu kim te anyathā buddhyā rocayasva vacaḥ mama . bhajasva mā abhitaptasya prasādam kartum arhasi.. 18..
परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना । नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः॥ १९॥
परिक्षिप्ता समुद्रेण लङ्का इयम् शत-योजना । न इयम् धर्षयितुम् शक्या स इन्द्रैः अपि सुर-असुरैः॥ १९॥
parikṣiptā samudreṇa laṅkā iyam śata-yojanā . na iyam dharṣayitum śakyā sa indraiḥ api sura-asuraiḥ.. 19..
न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु । अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत्॥ २०॥
न देवेषु न यक्षेषु न गन्धर्वेषु न ऋषिषु । अहम् पश्यामि लोकेषु यः मे वीर्य-समः भवेत्॥ २०॥
na deveṣu na yakṣeṣu na gandharveṣu na ṛṣiṣu . aham paśyāmi lokeṣu yaḥ me vīrya-samaḥ bhavet.. 20..
राज्यभ्रष्टेन दीनेन तापसेन पदातिना । किं करिष्यसि रामेण मानुषेणाल्पतेजसा॥ २१॥
राज्य-भ्रष्टेन दीनेन तापसेन पदातिना । किम् करिष्यसि रामेण मानुषेण अल्प-तेजसा॥ २१॥
rājya-bhraṣṭena dīnena tāpasena padātinā . kim kariṣyasi rāmeṇa mānuṣeṇa alpa-tejasā.. 21..
भजस्व सीते मामेव भर्ताहं सदृशस्तव । यौवनं त्वध्रुवं भीरु रमस्वेह मया सह॥ २२॥
भजस्व सीते माम् एव भर्ता अहम् सदृशः तव । यौवनम् तु अध्रुवम् भीरु रमस्व इह मया सह॥ २२॥
bhajasva sīte mām eva bhartā aham sadṛśaḥ tava . yauvanam tu adhruvam bhīru ramasva iha mayā saha.. 22..
दर्शने मा कृथा बुद्धिं राघवस्य वरानने । कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः॥ २३॥
दर्शने मा कृथाः बुद्धिम् राघवस्य वरानने । का अस्य शक्तिः इह आगन्तुम् अपि सीते मनोरथैः॥ २३॥
darśane mā kṛthāḥ buddhim rāghavasya varānane . kā asya śaktiḥ iha āgantum api sīte manorathaiḥ.. 23..
न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः । दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलाः शिखाः॥ २४॥
न शक्यः वायुः आकाशे पाशैः बद्धुम् महा-जवः । दीप्यमानस्य वा अपि अग्नेः ग्रहीतुम् विमलाः शिखाः॥ २४॥
na śakyaḥ vāyuḥ ākāśe pāśaiḥ baddhum mahā-javaḥ . dīpyamānasya vā api agneḥ grahītum vimalāḥ śikhāḥ.. 24..
त्रयाणामपि लोकानां न तं पश्यामि शोभने । विक्रमेण नयेद् यस्त्वां मद्बाहुपरिपालिताम्॥ २५॥
त्रयाणाम् अपि लोकानाम् न तम् पश्यामि शोभने । विक्रमेण नयेत् यः त्वाम् मद्-बाहु-परिपालिताम्॥ २५॥
trayāṇām api lokānām na tam paśyāmi śobhane . vikrameṇa nayet yaḥ tvām mad-bāhu-paripālitām.. 25..
लङ्कायाः सुमहद्राज्यमिदं त्वमनुपालय । त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचरम्॥ २६॥
लङ्कायाः सु महत् राज्यम् इदम् त्वम् अनुपालय । त्वद्-प्रेष्याः मद्विधाः च एव देवाः च अपि चराचरम्॥ २६॥
laṅkāyāḥ su mahat rājyam idam tvam anupālaya . tvad-preṣyāḥ madvidhāḥ ca eva devāḥ ca api carācaram.. 26..
अभिषेकजलक्लिन्ना तुष्टा च रमयस्व च । दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम्॥ २७॥
अभिषेक-जल-क्लिन्ना तुष्टा च रमयस्व च । दुष्कृतम् यत् पुरा कर्म वन-वासेन तत् गतम्॥ २७॥
abhiṣeka-jala-klinnā tuṣṭā ca ramayasva ca . duṣkṛtam yat purā karma vana-vāsena tat gatam.. 27..
यच्च ते सुकृतं कर्म तस्येह फलमाप्नुहि । इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि॥ २८॥
यत् च ते सु कृतम् कर्म तस्य इह फलम् आप्नुहि । इह सर्वाणि माल्यानि दिव्य-गन्धानि मैथिलि॥ २८॥
yat ca te su kṛtam karma tasya iha phalam āpnuhi . iha sarvāṇi mālyāni divya-gandhāni maithili.. 28..
भूषणानि च मुख्यानि तानि सेव मया सह । पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे॥ २९॥
भूषणानि च मुख्यानि तानि सेव मया सह । पुष्पकम् नाम सुश्रोणि भ्रातुः वैश्रवणस्य मे॥ २९॥
bhūṣaṇāni ca mukhyāni tāni seva mayā saha . puṣpakam nāma suśroṇi bhrātuḥ vaiśravaṇasya me.. 29..
विमानं सूर्यसंकाशं तरसा निर्जितं रणे । विशालं रमणीयं च तद्विमानं मनोजवम्॥ ३०॥
विमानम् सूर्य-संकाशम् तरसा निर्जितम् रणे । विशालम् रमणीयम् च तत् विमानम् मनोजवम्॥ ३०॥
vimānam sūrya-saṃkāśam tarasā nirjitam raṇe . viśālam ramaṇīyam ca tat vimānam manojavam.. 30..
तत्र सीते मया सार्धं विहरस्व यथासुखम् । वदनं पद्मसंकाशं विमलं चारुदर्शनम्॥ ३१॥
तत्र सीते मया सार्धम् विहरस्व यथासुखम् । वदनम् पद्म-संकाशम् विमलम् चारु-दर्शनम्॥ ३१॥
tatra sīte mayā sārdham viharasva yathāsukham . vadanam padma-saṃkāśam vimalam cāru-darśanam.. 31..
शोकार्तं तु वरारोहे न भ्राजति वरानने । एवं वदति तस्मिन् सा वस्त्रान्तेन वराङ्गना॥ ३२॥
शोक-आर्तम् तु वरारोहे न भ्राजति वरानने । एवम् वदति तस्मिन् सा वस्त्र-अन्तेन वर-अङ्गना॥ ३२॥
śoka-ārtam tu varārohe na bhrājati varānane . evam vadati tasmin sā vastra-antena vara-aṅganā.. 32..
पिधायेन्दुनिभं सीता मन्दमश्रूण्यवर्तयत् । ध्यायन्तीं तामिवास्वस्थां सीतां चिन्ताहतप्रभाम्॥ ३३॥
पिधाय इन्दु-निभम् सीता मन्दम् अश्रूणि अवर्तयत् । ध्यायन्तीम् ताम् इव अस्वस्थाम् सीताम् चिन्ता-हत-प्रभाम्॥ ३३॥
pidhāya indu-nibham sītā mandam aśrūṇi avartayat . dhyāyantīm tām iva asvasthām sītām cintā-hata-prabhām.. 33..
उवाच वचनं वीरो रावणो रजनीचरः । अलं व्रीडेन वैदेहि धर्मलोपकृतेन ते॥ ३४॥
उवाच वचनम् वीरः रावणः रजनीचरः । अलम् व्रीडेन वैदेहि धर्म-लोप-कृतेन ते॥ ३४॥
uvāca vacanam vīraḥ rāvaṇaḥ rajanīcaraḥ . alam vrīḍena vaidehi dharma-lopa-kṛtena te.. 34..
आर्षोऽयं देवि निष्पन्दो यस्त्वामभिभविष्यति । एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ॥ ३५॥
आर्षः अयम् देवि निष्पन्दः यः त्वाम् अभिभविष्यति । एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ॥ ३५॥
ārṣaḥ ayam devi niṣpandaḥ yaḥ tvām abhibhaviṣyati . etau pādau mayā snigdhau śirobhiḥ paripīḍitau.. 35..
प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते । इमाः शून्या मया वाचः शुष्यमाणेन भाषिताः॥ ३६॥
प्रसादम् कुरु मे क्षिप्रम् वश्यः दासः अहम् अस्मि ते । इमाः शून्याः मया वाचः शुष्यमाणेन भाषिताः॥ ३६॥
prasādam kuru me kṣipram vaśyaḥ dāsaḥ aham asmi te . imāḥ śūnyāḥ mayā vācaḥ śuṣyamāṇena bhāṣitāḥ.. 36..
न चापि रावणः कांचिन्मूर्ध्ना स्त्रीं प्रणमेत ह । एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् । कृतान्तवशमापन्नो ममेयमिति मन्यते॥ ३७॥
न च अपि रावणः कांचिद् मूर्ध्ना स्त्रीम् प्रणमेत ह । एवम् उक्त्वा दशग्रीवः मैथिलीम् जनकात्मजाम् । कृतान्त-वशम् आपन्नः मम इयम् इति मन्यते॥ ३७॥
na ca api rāvaṇaḥ kāṃcid mūrdhnā strīm praṇameta ha . evam uktvā daśagrīvaḥ maithilīm janakātmajām . kṛtānta-vaśam āpannaḥ mama iyam iti manyate.. 37..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चपञ्चाशः सर्गः ॥३-५५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे पञ्चपञ्चाशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe pañcapañcāśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In