This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्पञ्चाशः सर्गः ॥३-५६॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे षट्पञ्चाशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ṣaṭpañcāśaḥ sargaḥ ..3..
सा तथोक्ता तु वैदेही निर्भया शोककर्शिता । तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत॥ १॥
सा तथा उक्ता तु वैदेही निर्भया शोक-कर्शिता । तृणम् अन्तरतः कृत्वा रावणम् प्रत्यभाषत॥ १॥
sā tathā uktā tu vaidehī nirbhayā śoka-karśitā . tṛṇam antarataḥ kṛtvā rāvaṇam pratyabhāṣata.. 1..
राजा दशरथो नाम धर्मसेतुरिवाचलः । सत्यसंधः परिज्ञातो यस्य पुत्रः स राघवः॥ २॥
राजा दशरथः नाम धर्म-सेतुः इव अचलः । सत्य-संधः परिज्ञातः यस्य पुत्रः स राघवः॥ २॥
rājā daśarathaḥ nāma dharma-setuḥ iva acalaḥ . satya-saṃdhaḥ parijñātaḥ yasya putraḥ sa rāghavaḥ.. 2..
रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः । दीर्घबाहुर्विशालाक्षो दैवतं स पतिर्मम॥ ३॥
रामः नाम स धर्म-आत्मा त्रिषु लोकेषु विश्रुतः । दीर्घ-बाहुः विशाल-अक्षः दैवतम् स पतिः मम॥ ३॥
rāmaḥ nāma sa dharma-ātmā triṣu lokeṣu viśrutaḥ . dīrgha-bāhuḥ viśāla-akṣaḥ daivatam sa patiḥ mama.. 3..
इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः । लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान् वधिष्यति॥ ४॥
इक्ष्वाकूणाम् कुले जातः सिंह-स्कन्धः महा-द्युतिः । लक्ष्मणेन सह भ्रात्रा यः ते प्राणान् वधिष्यति॥ ४॥
ikṣvākūṇām kule jātaḥ siṃha-skandhaḥ mahā-dyutiḥ . lakṣmaṇena saha bhrātrā yaḥ te prāṇān vadhiṣyati.. 4..
प्रत्यक्षं यद्यहं तस्य त्वया वै धर्षिता बलात् । शयिता त्वं हतः संख्ये जनस्थाने यथा खरः॥ ५॥
प्रत्यक्षम् यदि अहम् तस्य त्वया वै धर्षिताः बलात् । शयिता त्वम् हतः संख्ये जनस्थाने यथा खरः॥ ५॥
pratyakṣam yadi aham tasya tvayā vai dharṣitāḥ balāt . śayitā tvam hataḥ saṃkhye janasthāne yathā kharaḥ.. 5..
य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः । राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा॥ ६॥
ये एते राक्षसाः प्रोक्ताः घोर-रूपाः महा-बलाः । राघवे निर्विषाः सर्वे सुपर्णे पन्नगाः यथा॥ ६॥
ye ete rākṣasāḥ proktāḥ ghora-rūpāḥ mahā-balāḥ . rāghave nirviṣāḥ sarve suparṇe pannagāḥ yathā.. 6..
तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः । शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः॥ ७॥
तस्य ज्या-विप्रमुक्ताः ते शराः काञ्चन-भूषणाः । शरीरम् विधमिष्यन्ति गङ्गा-कूलम् इव ऊर्मयः॥ ७॥
tasya jyā-vipramuktāḥ te śarāḥ kāñcana-bhūṣaṇāḥ . śarīram vidhamiṣyanti gaṅgā-kūlam iva ūrmayaḥ.. 7..
असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि रावण । उत्पाद्य सुमहद् वैरं जीवंस्तस्य न मोक्ष्यसे॥ ८॥
असुरैः वा सुरैः वा त्वम् यदि अवध्यः असि रावण । उत्पाद्य सु महत् वैरम् जीवन् तस्य न मोक्ष्यसे॥ ८॥
asuraiḥ vā suraiḥ vā tvam yadi avadhyaḥ asi rāvaṇa . utpādya su mahat vairam jīvan tasya na mokṣyase.. 8..
स ते जीवितशेषस्य राघवोऽन्तकरो बली । पशोर्यूपगतस्येव जीवितं तव दुर्लभम्॥ ९॥
स ते जीवित-शेषस्य राघवः अन्त-करः बली । पशोः यूप-गतस्य इव जीवितम् तव दुर्लभम्॥ ९॥
sa te jīvita-śeṣasya rāghavaḥ anta-karaḥ balī . paśoḥ yūpa-gatasya iva jīvitam tava durlabham.. 9..
यदि पश्येत् स रामस्त्वां रोषदीप्तेन चक्षुषा । रक्षस्त्वमद्य निर्दग्धो यथा रुद्रेण मन्मथः॥ १०॥
यदि पश्येत् स रामः त्वाम् रोष-दीप्तेन चक्षुषा । रक्षः त्वम् अद्य निर्दग्धः यथा रुद्रेण मन्मथः॥ १०॥
yadi paśyet sa rāmaḥ tvām roṣa-dīptena cakṣuṣā . rakṣaḥ tvam adya nirdagdhaḥ yathā rudreṇa manmathaḥ.. 10..
यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा । सागरं शोषयेद् वापि स सीतां मोचयेदिह॥ ११॥
यः चन्द्रम् नभसः भूमौ पातयेत् नाशयेत वा । सागरम् शोषयेत् वा अपि स सीताम् मोचयेत् इह॥ ११॥
yaḥ candram nabhasaḥ bhūmau pātayet nāśayeta vā . sāgaram śoṣayet vā api sa sītām mocayet iha.. 11..
गतासुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः । लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति॥ १२॥
गतासुः त्वम् गत-श्रीकः गत-सत्त्वः गत-इन्द्रियः । लङ्का वैधव्य-संयुक्ता त्वद्-कृतेन भविष्यति॥ १२॥
gatāsuḥ tvam gata-śrīkaḥ gata-sattvaḥ gata-indriyaḥ . laṅkā vaidhavya-saṃyuktā tvad-kṛtena bhaviṣyati.. 12..
न ते पापमिदं कर्म सुखोदर्कं भविष्यति । याहं नीता विनाभावं पतिपार्श्वात् त्वया बलात्॥ १३॥
न ते पापम् इदम् कर्म सुख-उदर्कम् भविष्यति । या अहम् नीता विनाभावम् पति-पार्श्वात् त्वया बलात्॥ १३॥
na te pāpam idam karma sukha-udarkam bhaviṣyati . yā aham nītā vinābhāvam pati-pārśvāt tvayā balāt.. 13..
स हि देवरसंयुक्तो मम भर्ता महाद्युतिः । निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके॥ १४॥
स हि देवर-संयुक्तः मम भर्ता महा-द्युतिः । निर्भयः वीर्यम् आश्रित्य शून्ये वसति दण्डके॥ १४॥
sa hi devara-saṃyuktaḥ mama bhartā mahā-dyutiḥ . nirbhayaḥ vīryam āśritya śūnye vasati daṇḍake.. 14..
स ते वीर्यं बलं दर्पमुत्सेकं च तथाविधम् । अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे॥ १५॥
स ते वीर्यम् बलम् दर्पम् उत्सेकम् च तथाविधम् । अपनेष्यति गात्रेभ्यः शर-वर्षेण संयुगे॥ १५॥
sa te vīryam balam darpam utsekam ca tathāvidham . apaneṣyati gātrebhyaḥ śara-varṣeṇa saṃyuge.. 15..
यदा विनाशो भूतानां दृश्यते कालचोदितः । तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः॥ १६॥
यदा विनाशः भूतानाम् दृश्यते काल-चोदितः । तदा कार्ये प्रमाद्यन्ति नराः काल-वशम् गताः॥ १६॥
yadā vināśaḥ bhūtānām dṛśyate kāla-coditaḥ . tadā kārye pramādyanti narāḥ kāla-vaśam gatāḥ.. 16..
मां प्रधृष्य स ते कालः प्राप्तोऽयं राक्षसाधम । आत्मनो राक्षसानां च वधायान्तःपुरस्य च॥ १७॥
माम् प्रधृष्य स ते कालः प्राप्तः अयम् राक्षस-अधम । आत्मनः राक्षसानाम् च वधाय अन्तःपुरस्य च॥ १७॥
mām pradhṛṣya sa te kālaḥ prāptaḥ ayam rākṣasa-adhama . ātmanaḥ rākṣasānām ca vadhāya antaḥpurasya ca.. 17..
न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्डमण्डिता । द्विजातिमन्त्रसम्पूता चण्डालेनावमर्दितुम्॥ १८॥
न शक्या यज्ञ-मध्य-स्था वेदिः स्रुच्-भाण्ड-मण्डिता । द्विजाति-मन्त्र-सम्पूता चण्डालेन अवमर्दितुम्॥ १८॥
na śakyā yajña-madhya-sthā vediḥ sruc-bhāṇḍa-maṇḍitā . dvijāti-mantra-sampūtā caṇḍālena avamarditum.. 18..
तथाहं धर्मनित्यस्य धर्मपत्नी दृढव्रता । त्वया स्प्रष्टुं न शक्याहं राक्षसाधम पापिना॥ १९॥
तथा अहम् धर्म-नित्यस्य धर्म-पत्नी दृढ-व्रता । त्वया स्प्रष्टुम् न शक्या अहम् राक्षस-अधम पापिना॥ १९॥
tathā aham dharma-nityasya dharma-patnī dṛḍha-vratā . tvayā spraṣṭum na śakyā aham rākṣasa-adhama pāpinā.. 19..
क्रीडन्ती राजहंसेन पद्मषण्डेषु नित्यशः । हंसी सा तृणमध्यस्थं कथं द्रक्ष्येत मद्गुकम्॥ २०॥
क्रीडन्ती राजहंसेन पद्म-षण्डेषु नित्यशस् । हंसी सा तृण-मध्य-स्थम् कथम् द्रक्ष्येत मद्गुकम्॥ २०॥
krīḍantī rājahaṃsena padma-ṣaṇḍeṣu nityaśas . haṃsī sā tṛṇa-madhya-stham katham drakṣyeta madgukam.. 20..
इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वा । नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस॥ २१॥
इदम् शरीरम् निःसंज्ञम् बन्ध वा घातयस्व वा । न इदम् शरीरम् रक्ष्यम् मे जीवितम् वा अपि राक्षस॥ २१॥
idam śarīram niḥsaṃjñam bandha vā ghātayasva vā . na idam śarīram rakṣyam me jīvitam vā api rākṣasa.. 21..
न तु शक्यमपक्रोशं पृथिव्यां दातुमात्मनः । एवमुक्त्वा तु वैदेही क्रोधात् सुपरुषं वचः॥ २२॥
न तु शक्यम् अपक्रोशम् पृथिव्याम् दातुम् आत्मनः । एवम् उक्त्वा तु वैदेही क्रोधात् सु परुषम् वचः॥ २२॥
na tu śakyam apakrośam pṛthivyām dātum ātmanaḥ . evam uktvā tu vaidehī krodhāt su paruṣam vacaḥ.. 22..
रावणं जानकी तत्र पुनर्नोवाच किंचन । सीताया वचनं श्रुत्वा परुषं रोमहर्षणम्॥ २३॥
रावणम् जानकी तत्र पुनर् न उवाच किंचन । सीतायाः वचनम् श्रुत्वा परुषम् रोम-हर्षणम्॥ २३॥
rāvaṇam jānakī tatra punar na uvāca kiṃcana . sītāyāḥ vacanam śrutvā paruṣam roma-harṣaṇam.. 23..
प्रत्युवाच ततः सीतां भयसंदर्शनं वचः । शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि॥ २४॥
प्रत्युवाच ततस् सीताम् भय-संदर्शनम् वचः । शृणु मैथिलि मद्-वाक्यम् मासान् द्वादश भामिनि॥ २४॥
pratyuvāca tatas sītām bhaya-saṃdarśanam vacaḥ . śṛṇu maithili mad-vākyam māsān dvādaśa bhāmini.. 24..
कालेनानेन नाभ्येषि यदि मां चारुहासिनि । ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः॥ २५॥
कालेन अनेन ना अभ्येषि यदि माम् चारु-हासिनि । ततस् त्वाम् प्रातराश-अर्थम् सूदाः छेत्स्यन्ति लेशशस्॥ २५॥
kālena anena nā abhyeṣi yadi mām cāru-hāsini . tatas tvām prātarāśa-artham sūdāḥ chetsyanti leśaśas.. 25..
इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः । राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत्॥ २६॥
इति उक्त्वा परुषम् वाक्यम् रावणः शत्रु-रावणः । राक्षसीः च ततस् क्रुद्धः इदम् वचनम् अब्रवीत्॥ २६॥
iti uktvā paruṣam vākyam rāvaṇaḥ śatru-rāvaṇaḥ . rākṣasīḥ ca tatas kruddhaḥ idam vacanam abravīt.. 26..
शीघ्रमेव हि राक्षस्यो विरूपा घोरदर्शनाः । दर्पमस्यापनेष्यन्तु मांसशोणितभोजनाः॥ २७॥
शीघ्रम् एव हि राक्षस्यः विरूपाः घोर-दर्शनाः । दर्पम् अस्य अपनेष्यन्तु मांस-शोणित-भोजनाः॥ २७॥
śīghram eva hi rākṣasyaḥ virūpāḥ ghora-darśanāḥ . darpam asya apaneṣyantu māṃsa-śoṇita-bhojanāḥ.. 27..
वचनादेव तास्तस्य सुघोरा घोरदर्शनाः । कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन्॥ २८॥
वचनात् एव ताः तस्य सु घोराः घोर-दर्शनाः । कृत-प्राञ्जलयः भूत्वा मैथिलीम् पर्यवारयन्॥ २८॥
vacanāt eva tāḥ tasya su ghorāḥ ghora-darśanāḥ . kṛta-prāñjalayaḥ bhūtvā maithilīm paryavārayan.. 28..
स ताः प्रोवाच राजासौ रावणो घोरदर्शनाः । प्रचल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम्॥ २९॥
स ताः प्रोवाच राजा असौ रावणः घोर-दर्शनाः । प्रचल्य चरण-उत्कर्षैः दारयन् इव मेदिनीम्॥ २९॥
sa tāḥ provāca rājā asau rāvaṇaḥ ghora-darśanāḥ . pracalya caraṇa-utkarṣaiḥ dārayan iva medinīm.. 29..
अशोकवनिकामध्ये मैथिली नीयतामिति । तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता॥ ३०॥
अशोक-वनिका-मध्ये मैथिली नीयताम् इति । तत्र इयम् रक्ष्यताम् गूढम् युष्माभिः परिवारिता॥ ३०॥
aśoka-vanikā-madhye maithilī nīyatām iti . tatra iyam rakṣyatām gūḍham yuṣmābhiḥ parivāritā.. 30..
तत्रैनां तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम् । आनयध्वं वशं सर्वा वन्यां गजवधूमिव॥ ३१॥
तत्र एनाम् तर्जनैः घोरैः पुनर् सान्त्वैः च मैथिलीम् । आनयध्वम् वशम् सर्वाः वन्याम् गज-वधूम् इव॥ ३१॥
tatra enām tarjanaiḥ ghoraiḥ punar sāntvaiḥ ca maithilīm . ānayadhvam vaśam sarvāḥ vanyām gaja-vadhūm iva.. 31..
इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः । अशोकवनिकां जग्मुर्मैथिलीं परिगृह्य तु॥ ३२॥
इति प्रतिसमादिष्टाः राक्षस्यः रावणेन ताः । अशोक-वनिकाम् जग्मुः मैथिलीम् परिगृह्य तु॥ ३२॥
iti pratisamādiṣṭāḥ rākṣasyaḥ rāvaṇena tāḥ . aśoka-vanikām jagmuḥ maithilīm parigṛhya tu.. 32..
सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् । सर्वकालमदैश्चापि द्विजैः समुपसेविताम्॥ ३३॥
सर्व-काम-फलैः वृक्षैः नाना पुष्प-फलैः वृताम् । सर्व-काल-मदैः च अपि द्विजैः समुपसेविताम्॥ ३३॥
sarva-kāma-phalaiḥ vṛkṣaiḥ nānā puṣpa-phalaiḥ vṛtām . sarva-kāla-madaiḥ ca api dvijaiḥ samupasevitām.. 33..
सा तु शोकपरीताङ्गी मैथिली जनकात्मजा । राक्षसीवशमापन्ना व्याघ्रीणां हरिणी यथा॥ ३४॥
सा तु शोक-परीत-अङ्गी मैथिली जनकात्मजा । राक्षसी-वशम् आपन्ना व्याघ्रीणाम् हरिणी यथा॥ ३४॥
sā tu śoka-parīta-aṅgī maithilī janakātmajā . rākṣasī-vaśam āpannā vyāghrīṇām hariṇī yathā.. 34..
शोकेन महता ग्रस्ता मैथिली जनकात्मजा । न शर्म लभते भीरुः पाशबद्धा मृगी यथा॥ ३५॥
शोकेन महता ग्रस्ता मैथिली जनकात्मजा । न शर्म लभते भीरुः पाश-बद्धा मृगी यथा॥ ३५॥
śokena mahatā grastā maithilī janakātmajā . na śarma labhate bhīruḥ pāśa-baddhā mṛgī yathā.. 35..
न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता । पतिं स्मरन्ती दयितं च देवरं विचेतनाभूद् भयशोकपीडिता॥ ३६॥
न विन्दते तत्र तु शर्म मैथिली विरूप-नेत्राभिः अतीव तर्जिता । पतिम् स्मरन्ती दयितम् च देवरम् विचेतना अभूत् भय-शोक-पीडिता॥ ३६॥
na vindate tatra tu śarma maithilī virūpa-netrābhiḥ atīva tarjitā . patim smarantī dayitam ca devaram vicetanā abhūt bhaya-śoka-pīḍitā.. 36..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षट्पञ्चाशः सर्गः ॥३-५६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे षट्पञ्चाशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ṣaṭpañcāśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In