This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तपञ्चाशः सर्गः ॥३-५७॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे सप्तपञ्चाशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe saptapañcāśaḥ sargaḥ ..3..
राक्षसं मृगरूपेण चरन्तं कामरूपिणम् । निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत॥ १॥
राक्षसम् मृग-रूपेण चरन्तम् कामरूपिणम् । निहत्य रामः मारीचम् तूर्णम् पथि न्यवर्तत॥ १॥
rākṣasam mṛga-rūpeṇa carantam kāmarūpiṇam . nihatya rāmaḥ mārīcam tūrṇam pathi nyavartata.. 1..
तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम् । क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः॥ २॥
तस्य संत्वरमाणस्य द्रष्टु-कामस्य मैथिलीम् । क्रूर-स्वनः अथ गोमायुः विननाद अस्य पृष्ठतस्॥ २॥
tasya saṃtvaramāṇasya draṣṭu-kāmasya maithilīm . krūra-svanaḥ atha gomāyuḥ vinanāda asya pṛṣṭhatas.. 2..
स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् । चिन्तयामास गोमायोः स्वरेण परिशङ्कितः॥ ३॥
स तस्य स्वरम् आज्ञाय दारुणम् रोम-हर्षणम् । चिन्तयामास गोमायोः स्वरेण परिशङ्कितः॥ ३॥
sa tasya svaram ājñāya dāruṇam roma-harṣaṇam . cintayāmāsa gomāyoḥ svareṇa pariśaṅkitaḥ.. 3..
अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा । स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना॥ ४॥
अशुभम् बत मन्ये अहम् गोमायुः वाश्यते यथा । स्वस्ति स्यात् अपि वैदेह्याः राक्षसैः भक्षणम् विना॥ ४॥
aśubham bata manye aham gomāyuḥ vāśyate yathā . svasti syāt api vaidehyāḥ rākṣasaiḥ bhakṣaṇam vinā.. 4..
मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम् । विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद् यदि॥ ५॥
मारीचेन तु विज्ञाय स्वरम् आलक्ष्य मामकम् । विक्रुष्टम् मृग-रूपेण लक्ष्मणः शृणुयात् यदि॥ ५॥
mārīcena tu vijñāya svaram ālakṣya māmakam . vikruṣṭam mṛga-rūpeṇa lakṣmaṇaḥ śṛṇuyāt yadi.. 5..
स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम् । तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति॥ ६॥
स सौमित्रिः स्वरम् श्रुत्वा ताम् च हित्वा अथ मैथिलीम् । तया एव प्रहितः क्षिप्रम् मद्-सकाशम् इह एष्यति॥ ६॥
sa saumitriḥ svaram śrutvā tām ca hitvā atha maithilīm . tayā eva prahitaḥ kṣipram mad-sakāśam iha eṣyati.. 6..
राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः । काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम्॥ ७॥
राक्षसैः सहितैः नूनम् सीतायाः ईप्सितः वधः । काञ्चनः च मृगः भूत्वा व्यपनीय आश्रमात् तु माम्॥ ७॥
rākṣasaiḥ sahitaiḥ nūnam sītāyāḥ īpsitaḥ vadhaḥ . kāñcanaḥ ca mṛgaḥ bhūtvā vyapanīya āśramāt tu mām.. 7..
दूरं नीत्वाथ मारीचो राक्षसोऽभूच्छराहतः । हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्याजहार ह॥ ८॥
दूरम् नीत्वा अथ मारीचः राक्षसः अभूत् शर-आहतः । हा लक्ष्मण हतः अस्मि इति यत् वाक्यम् व्याजहार ह॥ ८॥
dūram nītvā atha mārīcaḥ rākṣasaḥ abhūt śara-āhataḥ . hā lakṣmaṇa hataḥ asmi iti yat vākyam vyājahāra ha.. 8..
अपि स्वस्ति भवेद् द्वाभ्यां रहिताभ्यां मया वने । जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः॥ ९॥
अपि स्वस्ति भवेत् द्वाभ्याम् रहिताभ्याम् मया वने । जनस्थान-निमित्तम् हि कृत-वैरः अस्मि राक्षसैः॥ ९॥
api svasti bhavet dvābhyām rahitābhyām mayā vane . janasthāna-nimittam hi kṛta-vairaḥ asmi rākṣasaiḥ.. 9..
निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च । इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम्॥ १०॥
निमित्तानि च घोराणि दृश्यन्ते अद्य बहूनि च । इति एवम् चिन्तयन् रामः श्रुत्वा गोमायु-निःस्वनम्॥ १०॥
nimittāni ca ghorāṇi dṛśyante adya bahūni ca . iti evam cintayan rāmaḥ śrutvā gomāyu-niḥsvanam.. 10..
निवर्तमानस्त्वरितो जगामाश्रममात्मवान् । आत्मनश्चापनयनं मृगरूपेण रक्षसा॥ ११॥
निवर्तमानः त्वरितः जगाम आश्रमम् आत्मवान् । आत्मनः च अपनयनम् मृग-रूपेण रक्षसा॥ ११॥
nivartamānaḥ tvaritaḥ jagāma āśramam ātmavān . ātmanaḥ ca apanayanam mṛga-rūpeṇa rakṣasā.. 11..
आजगाम जनस्थानं राघवः परिशङ्कितः । तं दीनमानसं दीनमासेदुर्मृगपक्षिणः॥ १२॥
आजगाम जनस्थानम् राघवः परिशङ्कितः । तम् दीन-मानसम् दीनम् आसेदुः मृग-पक्षिणः॥ १२॥
ājagāma janasthānam rāghavaḥ pariśaṅkitaḥ . tam dīna-mānasam dīnam āseduḥ mṛga-pakṣiṇaḥ.. 12..
सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान् । तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः । न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः॥ १३॥
सव्यम् कृत्वा महात्मानम् घोरान् च ससृजुः स्वरान् । तानि दृष्ट्वा निमित्तानि महा-घोराणि राघवः । न्यवर्तत अथ त्वरितः जवेन आश्रमम् आत्मनः॥ १३॥
savyam kṛtvā mahātmānam ghorān ca sasṛjuḥ svarān . tāni dṛṣṭvā nimittāni mahā-ghorāṇi rāghavaḥ . nyavartata atha tvaritaḥ javena āśramam ātmanaḥ.. 13..
ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम् । ततोऽविदूरे रामेण समीयाय स लक्ष्मणः॥ १४॥
ततस् लक्ष्मणम् आयान्तम् ददर्श विगत-प्रभम् । ततस् अविदूरे रामेण समीयाय स लक्ष्मणः॥ १४॥
tatas lakṣmaṇam āyāntam dadarśa vigata-prabham . tatas avidūre rāmeṇa samīyāya sa lakṣmaṇaḥ.. 14..
विषण्णः सन् विषण्णेन दुःखितो दुःखभागिना । स जगर्हेऽथ तं भ्राता दृष्ट्वा लक्ष्मणमागतम्॥ १५॥
विषण्णः सन् विषण्णेन दुःखितः दुःख-भागिना । स जगर्हे अथ तम् भ्राता दृष्ट्वा लक्ष्मणम् आगतम्॥ १५॥
viṣaṇṇaḥ san viṣaṇṇena duḥkhitaḥ duḥkha-bhāginā . sa jagarhe atha tam bhrātā dṛṣṭvā lakṣmaṇam āgatam.. 15..
विहाय सीतां विजने वने राक्षससेविते । गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः॥ १६॥
विहाय सीताम् विजने वने राक्षस-सेविते । गृहीत्वा च करम् सव्यम् लक्ष्मणम् रघुनन्दनः॥ १६॥
vihāya sītām vijane vane rākṣasa-sevite . gṛhītvā ca karam savyam lakṣmaṇam raghunandanaḥ.. 16..
उवाच मधुरोदर्कमिदं परुषमार्तवत् । अहो लक्ष्मण गर्ह्यं ते कृतं यत् त्वं विहाय ताम्॥ १७॥
उवाच मधुर-उदर्कम् इदम् परुषम् आर्त-वत् । अहो लक्ष्मण गर्ह्यम् ते कृतम् यत् त्वम् विहाय ताम्॥ १७॥
uvāca madhura-udarkam idam paruṣam ārta-vat . aho lakṣmaṇa garhyam te kṛtam yat tvam vihāya tām.. 17..
सीतामिहागतः सौम्य कच्चित् स्वस्ति भवेदिति । न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा॥ १८॥
सीताम् इह आगतः सौम्य कच्चित् स्वस्ति भवेत् इति । न मे अस्ति संशयः वीर सर्वथा जनकात्मजा॥ १८॥
sītām iha āgataḥ saumya kaccit svasti bhavet iti . na me asti saṃśayaḥ vīra sarvathā janakātmajā.. 18..
विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः । अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे॥ १९॥
विनष्टा भक्षिता वा अपि राक्षसैः वन-चारिभिः । अशुभानि एव भूयिष्ठम् यथा प्रादुर्भवन्ति मे॥ १९॥
vinaṣṭā bhakṣitā vā api rākṣasaiḥ vana-cāribhiḥ . aśubhāni eva bhūyiṣṭham yathā prādurbhavanti me.. 19..
अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयामहे । जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै॥ २०॥
अपि लक्ष्मण सीतायाः सामग्र्यम् प्राप्नुयामहे । जीवन्त्याः पुरुष-व्याघ्र सुतायाः जनकस्य वै॥ २०॥
api lakṣmaṇa sītāyāḥ sāmagryam prāpnuyāmahe . jīvantyāḥ puruṣa-vyāghra sutāyāḥ janakasya vai.. 20..
यथा वै मृगसंघाश्च गोमायुश्चैव भैरवम् । वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम् । अपि स्वस्ति भवेत् तस्या राजपुत्र्या महाबल॥ २१॥
यथा वै मृग-संघाः च गोमायुः च एव भैरवम् । वाश्यन्ते शकुनाः च अपि प्रदीप्ताम् अभितस् दिशम् । अपि स्वस्ति भवेत् तस्याः राज-पुत्र्याः महा-बल॥ २१॥
yathā vai mṛga-saṃghāḥ ca gomāyuḥ ca eva bhairavam . vāśyante śakunāḥ ca api pradīptām abhitas diśam . api svasti bhavet tasyāḥ rāja-putryāḥ mahā-bala.. 21..
इदं हि रक्षो मृगसंनिकाशं प्रलोभ्य मां दूरमनुप्रयातम् । हतं कथंचिन्महता श्रमेण स राक्षसोऽभून्म्रियमाण एव॥ २२॥
इदम् हि रक्षः मृग-संनिकाशम् प्रलोभ्य माम् दूरम् अनुप्रयातम् । हतम् कथंचिद् महता श्रमेण स राक्षसः अभूत् म्रियमाणः एव॥ २२॥
idam hi rakṣaḥ mṛga-saṃnikāśam pralobhya mām dūram anuprayātam . hatam kathaṃcid mahatā śrameṇa sa rākṣasaḥ abhūt mriyamāṇaḥ eva.. 22..
मनश्च मे दीनमिहाप्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम् । असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा॥ २३॥
मनः च मे दीनम् इह अ प्रहृष्टम् चक्षुः च सव्यम् कुरुते विकारम् । असंशयम् लक्ष्मण ना अस्ति सीता हृता मृता वा पथि वर्तते वा॥ २३॥
manaḥ ca me dīnam iha a prahṛṣṭam cakṣuḥ ca savyam kurute vikāram . asaṃśayam lakṣmaṇa nā asti sītā hṛtā mṛtā vā pathi vartate vā.. 23..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तपञ्चाशः सर्गः ॥३-५७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे सप्तपञ्चाशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe saptapañcāśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In