This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टपञ्चाशः सर्गः ॥३-५८॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे अष्टपञ्चाशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe aṣṭapañcāśaḥ sargaḥ ..3..
स दृष्ट्वा लक्ष्मणं दीनं शून्यं दशरथात्मजः । पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना॥ १॥
स दृष्ट्वा लक्ष्मणम् दीनम् शून्यम् दशरथ-आत्मजः । पर्यपृच्छत धर्म-आत्मा वैदेहीम् आगतम् विना॥ १॥
sa dṛṣṭvā lakṣmaṇam dīnam śūnyam daśaratha-ātmajaḥ . paryapṛcchata dharma-ātmā vaidehīm āgatam vinā.. 1..
प्रस्थितं दण्डकारण्यं या मामनुजगाम ह । क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः॥ २॥
प्रस्थितम् दण्डक-अरण्यम् या माम् अनुजगाम ह । क्व सा लक्ष्मण वैदेही याम् हित्वा त्वम् इह आगतः॥ २॥
prasthitam daṇḍaka-araṇyam yā mām anujagāma ha . kva sā lakṣmaṇa vaidehī yām hitvā tvam iha āgataḥ.. 2..
राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः । क्व सा दुःखसहाया मे वैदेही तनुमध्यमा॥ ३॥
राज्य-भ्रष्टस्य दीनस्य दण्डकान् परिधावतः । क्व सा दुःख-सहाया मे वैदेही तनु-मध्यमा॥ ३॥
rājya-bhraṣṭasya dīnasya daṇḍakān paridhāvataḥ . kva sā duḥkha-sahāyā me vaidehī tanu-madhyamā.. 3..
यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् । क्व सा प्राणसहाया मे सीता सुरसुतोपमा॥ ४॥
याम् विना ना उत्सहे वीर मुहूर्तम् अपि जीवितुम् । क्व सा प्राण-सहाया मे सीता सुर-सुता-उपमा॥ ४॥
yām vinā nā utsahe vīra muhūrtam api jīvitum . kva sā prāṇa-sahāyā me sītā sura-sutā-upamā.. 4..
पतित्वममराणां हि पृथिव्याश्चापि लक्ष्मण । विना तां तपनीयाभां नेच्छेयं जनकात्मजाम्॥ ५॥
पतित्वम् अमराणाम् हि पृथिव्याः च अपि लक्ष्मण । विना ताम् तपनीय-आभाम् ना इच्छेयम् जनकात्मजाम्॥ ५॥
patitvam amarāṇām hi pṛthivyāḥ ca api lakṣmaṇa . vinā tām tapanīya-ābhām nā iccheyam janakātmajām.. 5..
कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम । कच्चित् प्रव्राजनं वीर न मे मिथ्या भविष्यति॥ ६॥
कच्चित् जीवति वैदेही प्राणैः प्रियतरा मम । कच्चित् प्रव्राजनम् वीर न मे मिथ्या भविष्यति॥ ६॥
kaccit jīvati vaidehī prāṇaiḥ priyatarā mama . kaccit pravrājanam vīra na me mithyā bhaviṣyati.. 6..
सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि । कच्चित् सकामा कैकेयी सुखिता सा भविष्यति॥ ७॥
सीता-निमित्तम् सौमित्रे मृते मयि गते त्वयि । कच्चित् स कामा कैकेयी सुखिता सा भविष्यति॥ ७॥
sītā-nimittam saumitre mṛte mayi gate tvayi . kaccit sa kāmā kaikeyī sukhitā sā bhaviṣyati.. 7..
सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी । उपस्थास्यति कौसल्या कच्चित् सौम्येन कैकयीम्॥ ८॥
स पुत्र-राज्याम् सिद्धार्थाम् मृत-पुत्रा तपस्विनी । उपस्थास्यति कौसल्या कच्चित् सौम्येन कैकयीम्॥ ८॥
sa putra-rājyām siddhārthām mṛta-putrā tapasvinī . upasthāsyati kausalyā kaccit saumyena kaikayīm.. 8..
यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः । संवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण॥ ९॥
यदि जीवति वैदेही गमिष्यामि आश्रमम् पुनर् । संवृत्ता यदि वृत्ता सा प्राणान् त्यक्ष्यामि लक्ष्मण॥ ९॥
yadi jīvati vaidehī gamiṣyāmi āśramam punar . saṃvṛttā yadi vṛttā sā prāṇān tyakṣyāmi lakṣmaṇa.. 9..
यदि मामाश्रमगतं वैदेही नाभिभाषते । पुरः प्रहसिता सीता विनशिष्यामि लक्ष्मण॥ १०॥
यदि माम् आश्रम-गतम् वैदेही न अभिभाषते । पुरस् प्रहसिता सीता विनशिष्यामि लक्ष्मण॥ १०॥
yadi mām āśrama-gatam vaidehī na abhibhāṣate . puras prahasitā sītā vinaśiṣyāmi lakṣmaṇa.. 10..
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा । त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी॥ ११॥
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा । त्वयि प्रमत्ते रक्षोभिः भक्षिता वा तपस्विनी॥ ११॥
brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā . tvayi pramatte rakṣobhiḥ bhakṣitā vā tapasvinī.. 11..
सुकुमारी च बाला च नित्यं चादुःखभागिनी । मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः॥ १२॥
सुकुमारी च बाला च नित्यम् च अदुःख-भागिनी । मद्-वियोगेन वैदेही व्यक्तम् शोचति दुर्मनाः॥ १२॥
sukumārī ca bālā ca nityam ca aduḥkha-bhāginī . mad-viyogena vaidehī vyaktam śocati durmanāḥ.. 12..
सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना । वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम्॥ १३॥
सर्वथा रक्षसा तेन जिह्मेन सु दुरात्मना । वदता लक्ष्मण इति उच्चैस् तव अपि जनितम् भयम्॥ १३॥
sarvathā rakṣasā tena jihmena su durātmanā . vadatā lakṣmaṇa iti uccais tava api janitam bhayam.. 13..
श्रुतश्च मन्ये वैदेह्या स स्वरः सदृशो मम । त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः॥ १४॥
श्रुतः च मन्ये वैदेह्या स स्वरः सदृशः मम । त्रस्तया प्रेषितः त्वम् च द्रष्टुम् माम् शीघ्रम् आगतः॥ १४॥
śrutaḥ ca manye vaidehyā sa svaraḥ sadṛśaḥ mama . trastayā preṣitaḥ tvam ca draṣṭum mām śīghram āgataḥ.. 14..
सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने । प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम्॥ १५॥
सर्वथा तु कृतम् कष्टम् सीताम् उत्सृजता वने । प्रतिकर्तुम् नृशंसानाम् रक्षसाम् दत्तम् अन्तरम्॥ १५॥
sarvathā tu kṛtam kaṣṭam sītām utsṛjatā vane . pratikartum nṛśaṃsānām rakṣasām dattam antaram.. 15..
दुःखिताः खरघातेन राक्षसाः पिशिताशनाः । तैः सीता निहता घोरैर्भविष्यति न संशयः॥ १६॥
दुःखिताः खर-घातेन राक्षसाः पिशित-अशनाः । तैः सीता निहताः घोरैः भविष्यति न संशयः॥ १६॥
duḥkhitāḥ khara-ghātena rākṣasāḥ piśita-aśanāḥ . taiḥ sītā nihatāḥ ghoraiḥ bhaviṣyati na saṃśayaḥ.. 16..
अहोऽस्मि व्यसने मग्नः सर्वथा रिपुनाशन । किं त्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम्॥ १७॥
अहो अस्मि व्यसने मग्नः सर्वथा रिपु-नाशन । किम् तु इदानीम् करिष्यामि शङ्के प्राप्तव्यम् ईदृशम्॥ १७॥
aho asmi vyasane magnaḥ sarvathā ripu-nāśana . kim tu idānīm kariṣyāmi śaṅke prāptavyam īdṛśam.. 17..
इति सीतां वरारोहां चिन्तयन्नेव राघवः । आजगाम जनस्थानं त्वरया सहलक्ष्मणः॥ १८॥
इति सीताम् वरारोहाम् चिन्तयन् एव राघवः । आजगाम जनस्थानम् त्वरया सहलक्ष्मणः॥ १८॥
iti sītām varārohām cintayan eva rāghavaḥ . ājagāma janasthānam tvarayā sahalakṣmaṇaḥ.. 18..
विगर्हमाणोऽनुजमार्तरूपं क्षुधाश्रमेणैव पिपासया च । विनिःश्वसन् शुष्कमुखो विषण्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम्॥ १९॥
विगर्हमाणः अनुजम् आर्त-रूपम् क्षुधा-श्रमेण एव पिपासया च । विनिःश्वसन् शुष्क-मुखः विषण्णः प्रतिश्रयम् प्राप्य समीक्ष्य शून्यम्॥ १९॥
vigarhamāṇaḥ anujam ārta-rūpam kṣudhā-śrameṇa eva pipāsayā ca . viniḥśvasan śuṣka-mukhaḥ viṣaṇṇaḥ pratiśrayam prāpya samīkṣya śūnyam.. 19..
स्वमाश्रमं स प्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित् । एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव॥ २०॥
स्वम् आश्रमम् स प्रविगाह्य वीरः विहार-देशान् अनुसृत्य कांश्चिद् । एतत् तत् इति एव निवास-भूमौ प्रहृष्ट-रोमा व्यथितः बभूव॥ २०॥
svam āśramam sa pravigāhya vīraḥ vihāra-deśān anusṛtya kāṃścid . etat tat iti eva nivāsa-bhūmau prahṛṣṭa-romā vyathitaḥ babhūva.. 20..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टपञ्चाशः सर्गः ॥३-५८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे अष्टपञ्चाशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe aṣṭapañcāśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In