This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनषष्ठितमः सर्गः ॥३-५९॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे एकोनषष्ठितमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ ..3..
अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः । परिपप्रच्छ सौमित्रिं रामो दुःखादिदं वचः॥ १॥
अथ आश्रमात् उपावृत्तम् अन्तरा रघुनन्दनः । परिपप्रच्छ सौमित्रिम् रामः दुःखात् इदम् वचः॥ १॥
atha āśramāt upāvṛttam antarā raghunandanaḥ . paripapraccha saumitrim rāmaḥ duḥkhāt idam vacaḥ.. 1..
तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम् । यदा सा तव विश्वासाद् वने विरहिता मया॥ २॥
तम् उवाच किमर्थम् त्वम् आगतः अपास्य मैथिलीम् । यदा सा तव विश्वासात् वने विरहिता मया॥ २॥
tam uvāca kimartham tvam āgataḥ apāsya maithilīm . yadā sā tava viśvāsāt vane virahitā mayā.. 2..
दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण । शङ्कमानं महत् पापं यत्सत्यं व्यथितं मनः॥ ३॥
दृष्ट्वा एव अभ्यागतम् त्वाम् मे मैथिलीम् त्यज्य लक्ष्मण । शङ्कमानम् महत् पापम् यत् सत्यम् व्यथितम् मनः॥ ३॥
dṛṣṭvā eva abhyāgatam tvām me maithilīm tyajya lakṣmaṇa . śaṅkamānam mahat pāpam yat satyam vyathitam manaḥ.. 3..
स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे । दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि॥ ४॥
स्फुरते नयनम् सव्यम् बाहुः च हृदयम् च मे । दृष्ट्वा लक्ष्मण दूरे त्वाम् सीता-विरहितम् पथि॥ ४॥
sphurate nayanam savyam bāhuḥ ca hṛdayam ca me . dṛṣṭvā lakṣmaṇa dūre tvām sītā-virahitam pathi.. 4..
एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः । भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत्॥ ५॥
एवम् उक्तः तु सौमित्रिः लक्ष्मणः शुभ-लक्षणः । भूयस् दुःख-समाविष्टः दुःखितम् रामम् अब्रवीत्॥ ५॥
evam uktaḥ tu saumitriḥ lakṣmaṇaḥ śubha-lakṣaṇaḥ . bhūyas duḥkha-samāviṣṭaḥ duḥkhitam rāmam abravīt.. 5..
न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः । प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः॥ ६॥
न स्वयम् कामकारेण ताम् त्यक्त्वा अहम् इह आगतः । प्रचोदितः तया एव उग्रैः त्वद्-सकाशम् इह आगतः॥ ६॥
na svayam kāmakāreṇa tām tyaktvā aham iha āgataḥ . pracoditaḥ tayā eva ugraiḥ tvad-sakāśam iha āgataḥ.. 6..
आर्येणेव परिक्रुष्टं लक्ष्मणेति सुविस्वरम् । परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम्॥ ७॥
आर्येण इव परिक्रुष्टम् लक्ष्मण इति सु विस्वरम् । परित्राहि इति यत् वाक्यम् मैथिल्याः तत् श्रुतिम् गतम्॥ ७॥
āryeṇa iva parikruṣṭam lakṣmaṇa iti su visvaram . paritrāhi iti yat vākyam maithilyāḥ tat śrutim gatam.. 7..
सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली । गच्छ गच्छेति मामाशु रुदती भयविक्लवा॥ ८॥
सा तम् आर्त-स्वरम् श्रुत्वा तव स्नेहेन मैथिली । गच्छ गच्छ इति माम् आशु रुदती भय-विक्लवा॥ ८॥
sā tam ārta-svaram śrutvā tava snehena maithilī . gaccha gaccha iti mām āśu rudatī bhaya-viklavā.. 8..
प्रचोद्यमानेन मया गच्छेति बहुशस्तया । प्रत्युक्ता मैथिली वाक्यमिदं तत् प्रत्ययान्वितम्॥ ९॥
प्रचोद्यमानेन मया गच्छ इति बहुशस् तया । प्रत्युक्ता मैथिली वाक्यम् इदम् तत् प्रत्यय-अन्वितम्॥ ९॥
pracodyamānena mayā gaccha iti bahuśas tayā . pratyuktā maithilī vākyam idam tat pratyaya-anvitam.. 9..
न तत् पश्याम्यहं रक्षो यदस्य भयमावहेत् । निर्वृता भव नास्त्येतत् केनाप्येतदुदाहृतम्॥ १०॥
न तत् पश्यामि अहम् रक्षः यत् अस्य भयम् आवहेत् । निर्वृता भव न अस्ति एतत् केन अपि एतत् उदाहृतम्॥ १०॥
na tat paśyāmi aham rakṣaḥ yat asya bhayam āvahet . nirvṛtā bhava na asti etat kena api etat udāhṛtam.. 10..
विगर्हितं च नीचं च कथमार्योऽभिधास्यति । त्राहीति वचनं सीते यस्त्रायेत् त्रिदशानपि॥ ११॥
विगर्हितम् च नीचम् च कथम् आर्यः अभिधास्यति । त्राहि इति वचनम् सीते यः त्रायेत् त्रिदशान् अपि॥ ११॥
vigarhitam ca nīcam ca katham āryaḥ abhidhāsyati . trāhi iti vacanam sīte yaḥ trāyet tridaśān api.. 11..
किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम् । विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति॥ १२॥
किंनिमित्तम् तु केन अपि भ्रातुः आलम्ब्य मे स्वरम् । विस्वरम् व्याहृतम् वाक्यम् लक्ष्मण त्राहि माम् इति॥ १२॥
kiṃnimittam tu kena api bhrātuḥ ālambya me svaram . visvaram vyāhṛtam vākyam lakṣmaṇa trāhi mām iti.. 12..
राक्षसेनेरितं वाक्यं त्रासात् त्राहीति शोभने । न भवत्या व्यथा कार्या कुनारीजनसेविता॥ १३॥
राक्षसेन ईरितम् वाक्यम् त्रासात् त्राहि इति शोभने । न भवत्या व्यथा कार्या कुनारी-जन-सेविता॥ १३॥
rākṣasena īritam vākyam trāsāt trāhi iti śobhane . na bhavatyā vyathā kāryā kunārī-jana-sevitā.. 13..
अलं विक्लवतां गन्तुं स्वस्था भव निरुत्सुका । न चास्ति त्रिषु लोकेषु पुमान् यो राघवं रणे॥ १४॥
अलम् विक्लव-ताम् गन्तुम् स्वस्था भव निरुत्सुका । न च अस्ति त्रिषु लोकेषु पुमान् यः राघवम् रणे॥ १४॥
alam viklava-tām gantum svasthā bhava nirutsukā . na ca asti triṣu lokeṣu pumān yaḥ rāghavam raṇe.. 14..
जातो वा जायमानो वा संयुगे यः पराजयेत् । अजेयो राघवो युद्धे देवैः शक्रपुरोगमैः॥ १५॥
जातः वा जायमानः वा संयुगे यः पराजयेत् । अजेयः राघवः युद्धे देवैः शक्र-पुरोगमैः॥ १५॥
jātaḥ vā jāyamānaḥ vā saṃyuge yaḥ parājayet . ajeyaḥ rāghavaḥ yuddhe devaiḥ śakra-purogamaiḥ.. 15..
एवमुक्ता तु वैदेही परिमोहितचेतना । उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः॥ १६॥
एवम् उक्ता तु वैदेही परिमोहित-चेतना । उवाच अश्रूणि मुञ्चन्ती दारुणम् माम् इदम् वचः॥ १६॥
evam uktā tu vaidehī parimohita-cetanā . uvāca aśrūṇi muñcantī dāruṇam mām idam vacaḥ.. 16..
भावो मयि तवात्यर्थं पाप एव निवेशितः । विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसे॥ १७॥
भावः मयि तव अत्यर्थम् पापः एव निवेशितः । विनष्टे भ्रातरि प्राप्तुम् न च त्वम् माम् अवाप्स्यसे॥ १७॥
bhāvaḥ mayi tava atyartham pāpaḥ eva niveśitaḥ . vinaṣṭe bhrātari prāptum na ca tvam mām avāpsyase.. 17..
संकेताद् भरतेन त्वं रामं समनुगच्छसि । क्रोशन्तं हि यथात्यर्थं नैनमभ्यवपद्यसे॥ १८॥
संकेतात् भरतेन त्वम् रामम् समनुगच्छसि । क्रोशन्तम् हि यथा अत्यर्थम् न एनम् अभ्यवपद्यसे॥ १८॥
saṃketāt bharatena tvam rāmam samanugacchasi . krośantam hi yathā atyartham na enam abhyavapadyase.. 18..
रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि । राघवस्यान्तरं प्रेप्सुस्तथैनं नाभिपद्यसे॥ १९॥
रिपुः प्रच्छन्न-चारी त्वम् मद्-अर्थम् अनुगच्छसि । राघवस्य अन्तरम् प्रेप्सुः तथा एनम् न अभिपद्यसे॥ १९॥
ripuḥ pracchanna-cārī tvam mad-artham anugacchasi . rāghavasya antaram prepsuḥ tathā enam na abhipadyase.. 19..
एवमुक्तस्तु वैदेह्या संरब्धो रक्तलोचनः । क्रोधात् प्रस्फुरमाणोष्ठ आश्रमादभिनिर्गतः॥ २०॥
एवम् उक्तः तु वैदेह्या संरब्धः रक्त-लोचनः । क्रोधात् प्रस्फुरमाण-उष्ठः आश्रमात् अभिनिर्गतः॥ २०॥
evam uktaḥ tu vaidehyā saṃrabdhaḥ rakta-locanaḥ . krodhāt prasphuramāṇa-uṣṭhaḥ āśramāt abhinirgataḥ.. 20..
एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः । अब्रवीद् दुष्कृतं सौम्य तां विना त्वमिहागतः॥ २१॥
एवम् ब्रुवाणम् सौमित्रिम् रामः संताप-मोहितः । अब्रवीत् दुष्कृतम् सौम्य ताम् विना त्वम् इह आगतः॥ २१॥
evam bruvāṇam saumitrim rāmaḥ saṃtāpa-mohitaḥ . abravīt duṣkṛtam saumya tām vinā tvam iha āgataḥ.. 21..
जानन्नपि समर्थं मां रक्षसामपवारणे । अनेन क्रोधवाक्येन मैथिल्या निर्गतो भवान्॥ २२॥
जानन् अपि समर्थम् माम् रक्षसाम् अपवारणे । अनेन क्रोध-वाक्येन मैथिल्याः निर्गतः भवान्॥ २२॥
jānan api samartham mām rakṣasām apavāraṇe . anena krodha-vākyena maithilyāḥ nirgataḥ bhavān.. 22..
नहि ते परितुष्यामि त्यक्त्वा यदसि मैथिलीम् । क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत् त्वमिहागतः॥ २३॥
नहि ते परितुष्यामि त्यक्त्वा यत् असि मैथिलीम् । क्रुद्धायाः परुषम् श्रुत्वा स्त्रियाः यत् त्वम् इह आगतः॥ २३॥
nahi te parituṣyāmi tyaktvā yat asi maithilīm . kruddhāyāḥ paruṣam śrutvā striyāḥ yat tvam iha āgataḥ.. 23..
सर्वथा त्वपनीतं ते सीतया यत् प्रचोदितः । क्रोधस्य वशमागम्य नाकरोः शासनं मम॥ २४॥
सर्वथा तु अपनीतम् ते सीतया यत् प्रचोदितः । क्रोधस्य वशम् आगम्य ना अकरोः शासनम् मम॥ २४॥
sarvathā tu apanītam te sītayā yat pracoditaḥ . krodhasya vaśam āgamya nā akaroḥ śāsanam mama.. 24..
असौ हि राक्षसः शेते शरेणाभिहतो मया । मृगरूपेण येनाहमाश्रमादपवाहितः॥ २५॥
असौ हि राक्षसः शेते शरेण अभिहतः मया । मृग-रूपेण येन अहम् आश्रमात् अपवाहितः॥ २५॥
asau hi rākṣasaḥ śete śareṇa abhihataḥ mayā . mṛga-rūpeṇa yena aham āśramāt apavāhitaḥ.. 25..
विकृष्य चापं परिधाय सायकं सलीलबाणेन च ताडितो मया । मार्गीं तनुं त्यज्य च विक्लवस्वरो बभूव केयूरधरः स राक्षसः॥ २६॥
विकृष्य चापम् परिधाय सायकम् स लील-बाणेन च ताडितः मया । मार्गीम् तनुम् त्यज्य च विक्लव-स्वरः बभूव केयूर-धरः स राक्षसः॥ २६॥
vikṛṣya cāpam paridhāya sāyakam sa līla-bāṇena ca tāḍitaḥ mayā . mārgīm tanum tyajya ca viklava-svaraḥ babhūva keyūra-dharaḥ sa rākṣasaḥ.. 26..
शराहतेनैव तदार्तया गिरा स्वरं ममालम्ब्य सुदूरसुश्रवम् । उदाहृतं तद् वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम्॥ २७॥
शर-आहतेन एव तदा आर्तया गिरा स्वरम् मम आलम्ब्य सुदूर-सुश्रवम् । उदाहृतम् तत् वचनम् सु दारुणम् त्वम् आगतः येन विहाय मैथिलीम्॥ २७॥
śara-āhatena eva tadā ārtayā girā svaram mama ālambya sudūra-suśravam . udāhṛtam tat vacanam su dāruṇam tvam āgataḥ yena vihāya maithilīm.. 27..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनषष्ठितमः सर्गः ॥३-५९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे एकोनषष्ठितमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In