This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षष्ठः सर्गः ॥३-६॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे षष्ठः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ṣaṣṭhaḥ sargaḥ ..3..
शरभङ्गे दिवं प्राप्ते मुनिसङ्घाः समागताः । अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम्॥ १॥
शरभङ्गे दिवम् प्राप्ते मुनि-सङ्घाः समागताः । अभ्यगच्छन्त काकुत्स्थम् रामम् ज्वलित-तेजसम्॥ १॥
śarabhaṅge divam prāpte muni-saṅghāḥ samāgatāḥ . abhyagacchanta kākutstham rāmam jvalita-tejasam.. 1..
वैखानसा वालखिल्याः सम्प्रक्षाला मरीचिपाः । अश्मकुट्टाश्च बहवः पत्राहाराश्च तापसाः॥ २॥
वैखानसाः वालखिल्याः सम्प्रक्षालाः मरीचिपाः । अश्मकुट्टाः च बहवः पत्राहाराः च तापसाः॥ २॥
vaikhānasāḥ vālakhilyāḥ samprakṣālāḥ marīcipāḥ . aśmakuṭṭāḥ ca bahavaḥ patrāhārāḥ ca tāpasāḥ.. 2..
दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे । गात्रशय्या अशय्याश्च तथैवानवकाशिकाः॥ ३॥
दन्तोलूखलिनः च एव तथा एव उन्मज्जकाः परे । गात्र-शय्याः अशय्याः च तथा एव अनवकाशिकाः॥ ३॥
dantolūkhalinaḥ ca eva tathā eva unmajjakāḥ pare . gātra-śayyāḥ aśayyāḥ ca tathā eva anavakāśikāḥ.. 3..
मुनयः सलिलाहारा वायुभक्षास्तथापरे । आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः॥ ४॥
मुनयः सलिल-आहाराः वायुभक्षाः तथा अपरे । आकाशनिलयाः च एव तथा स्थण्डिलशायिनः॥ ४॥
munayaḥ salila-āhārāḥ vāyubhakṣāḥ tathā apare . ākāśanilayāḥ ca eva tathā sthaṇḍilaśāyinaḥ.. 4..
तथोर्ध्ववासिनो दान्तास्तथाऽऽर्द्रपटवाससः । सजपाश्च तपोनिष्ठास्तथा पञ्चतपोऽन्विताः॥ ५॥
तथा ऊर्ध्व-वासिनः दान्ताः तथा आर्द्र-पट-वाससः । सजपाः च तपः-निष्ठाः तथा पञ्चतपः-अन्विताः॥ ५॥
tathā ūrdhva-vāsinaḥ dāntāḥ tathā ārdra-paṭa-vāsasaḥ . sajapāḥ ca tapaḥ-niṣṭhāḥ tathā pañcatapaḥ-anvitāḥ.. 5..
सर्वे ब्राह्म्या श्रिया युक्ता दृढयोगसमाहिताः । शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः॥ ६॥
सर्वे ब्राह्म्या श्रिया युक्ताः दृढ-योग-समाहिताः । शरभङ्ग-आश्रमे रामम् अभिजग्मुः च तापसाः॥ ६॥
sarve brāhmyā śriyā yuktāḥ dṛḍha-yoga-samāhitāḥ . śarabhaṅga-āśrame rāmam abhijagmuḥ ca tāpasāḥ.. 6..
अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् । ऊचुः परमधर्मज्ञमृषिसङ्घाः समागताः॥ ७॥
अभिगम्य च धर्म-ज्ञाः रामम् धर्म-भृताम् वरम् । ऊचुः परम-धर्म-ज्ञम् ऋषि-सङ्घाः समागताः॥ ७॥
abhigamya ca dharma-jñāḥ rāmam dharma-bhṛtām varam . ūcuḥ parama-dharma-jñam ṛṣi-saṅghāḥ samāgatāḥ.. 7..
त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथः । प्रधानश्चापि नाथश्च देवानां मघवानिव॥ ८॥
त्वम् इक्ष्वाकु-कुलस्य अस्य पृथिव्याः च महा-रथः । प्रधानः च अपि नाथः च देवानाम् मघवान् इव॥ ८॥
tvam ikṣvāku-kulasya asya pṛthivyāḥ ca mahā-rathaḥ . pradhānaḥ ca api nāthaḥ ca devānām maghavān iva.. 8..
विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च । पितृव्रतत्वं सत्यं च त्वयि धर्मश्च पुष्कलः॥ ९॥
विश्रुतः त्रिषु लोकेषु यशसा विक्रमेण च । पितृ-व्रत-त्वम् सत्यम् च त्वयि धर्मः च पुष्कलः॥ ९॥
viśrutaḥ triṣu lokeṣu yaśasā vikrameṇa ca . pitṛ-vrata-tvam satyam ca tvayi dharmaḥ ca puṣkalaḥ.. 9..
त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् । अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि॥ १०॥
त्वाम् आसाद्य महात्मानम् धर्म-ज्ञम् धर्म-वत्सलम् । अर्थि-त्वात् नाथ वक्ष्यामः तत् च नः क्षन्तुम् अर्हसि॥ १०॥
tvām āsādya mahātmānam dharma-jñam dharma-vatsalam . arthi-tvāt nātha vakṣyāmaḥ tat ca naḥ kṣantum arhasi.. 10..
अधर्मः सुमहान् नाथ भवेत् तस्य तु भूपतेः । यो हरेद् बलिषड्भागं न च रक्षति पुत्रवत्॥ ११॥
अधर्मः सु महान् नाथ भवेत् तस्य तु भूपतेः । यः हरेत् बलि-षष्-भागम् न च रक्षति पुत्र-वत्॥ ११॥
adharmaḥ su mahān nātha bhavet tasya tu bhūpateḥ . yaḥ haret bali-ṣaṣ-bhāgam na ca rakṣati putra-vat.. 11..
युञ्जानः स्वानिव प्राणान् प्राणैरिष्टान् सुतानिव । नित्ययुक्तः सदा रक्षन् सर्वान् विषयवासिनः॥ १२॥
युञ्जानः स्वान् इव प्राणान् प्राणैः इष्टान् सुतान् इव । नित्य-युक्तः सदा रक्षन् सर्वान् विषय-वासिनः॥ १२॥
yuñjānaḥ svān iva prāṇān prāṇaiḥ iṣṭān sutān iva . nitya-yuktaḥ sadā rakṣan sarvān viṣaya-vāsinaḥ.. 12..
प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम् । ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते॥ १३॥
प्राप्नोति शाश्वतीम् राम कीर्तिम् स बहु-वार्षिकीम् । ब्रह्मणः स्थानम् आसाद्य तत्र च अपि महीयते॥ १३॥
prāpnoti śāśvatīm rāma kīrtim sa bahu-vārṣikīm . brahmaṇaḥ sthānam āsādya tatra ca api mahīyate.. 13..
यत् करोति परं धर्मं मुनिर्मूलफलाशनः । तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः॥ १४॥
यत् करोति परम् धर्मम् मुनिः मूल-फल-अशनः । तत्र राज्ञः चतुर्-भागः प्रजाः धर्मेण रक्षतः॥ १४॥
yat karoti param dharmam muniḥ mūla-phala-aśanaḥ . tatra rājñaḥ catur-bhāgaḥ prajāḥ dharmeṇa rakṣataḥ.. 14..
सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् । त्वन्नाथोऽनाथवद् राम राक्षसैर्हन्यते भृशम्॥ १५॥
सः अयम् ब्राह्मण-भूयिष्ठः वानप्रस्थ-गणः महान् । त्वद्-नाथः अनाथ-वत् राम राक्षसैः हन्यते भृशम्॥ १५॥
saḥ ayam brāhmaṇa-bhūyiṣṭhaḥ vānaprastha-gaṇaḥ mahān . tvad-nāthaḥ anātha-vat rāma rākṣasaiḥ hanyate bhṛśam.. 15..
एहि पश्य शरीराणि मुनीनां भावितात्मनाम् । हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने॥ १६॥
एहि पश्य शरीराणि मुनीनाम् भावितात्मनाम् । हतानाम् राक्षसैः घोरैः बहूनाम् बहुधा वने॥ १६॥
ehi paśya śarīrāṇi munīnām bhāvitātmanām . hatānām rākṣasaiḥ ghoraiḥ bahūnām bahudhā vane.. 16..
पम्पानदीनिवासानामनुमन्दाकिनीमपि । चित्रकूटालयानां च क्रियते कदनं महत्॥ १७॥
पम्पा-नदी-निवासानाम् अनु मन्दाकिनीम् अपि । चित्रकूट-आलयानाम् च क्रियते कदनम् महत्॥ १७॥
pampā-nadī-nivāsānām anu mandākinīm api . citrakūṭa-ālayānām ca kriyate kadanam mahat.. 17..
एवं वयं न मृष्यामो विप्रकारं तपस्विनाम् । क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः॥ १८॥
एवम् वयम् न मृष्यामः विप्रकारम् तपस्विनाम् । क्रियमाणम् वने घोरम् रक्षोभिः भीम-कर्मभिः॥ १८॥
evam vayam na mṛṣyāmaḥ viprakāram tapasvinām . kriyamāṇam vane ghoram rakṣobhiḥ bhīma-karmabhiḥ.. 18..
ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः । परिपालय नो राम वध्यमानान् निशाचरैः॥ १९॥
ततस् त्वाम् शरण-अर्थम् च शरण्यम् समुपस्थिताः । परिपालय नः राम वध्यमानान् निशाचरैः॥ १९॥
tatas tvām śaraṇa-artham ca śaraṇyam samupasthitāḥ . paripālaya naḥ rāma vadhyamānān niśācaraiḥ.. 19..
परा त्वत्तो गतिर्वीर पृथिव्यां नोपपद्यते । परिपालय नः सर्वान् राक्षसेभ्यो नृपात्मज॥ २०॥
परा त्वत्तः गतिः वीर पृथिव्याम् न उपपद्यते । परिपालय नः सर्वान् राक्षसेभ्यः नृप-आत्मज॥ २०॥
parā tvattaḥ gatiḥ vīra pṛthivyām na upapadyate . paripālaya naḥ sarvān rākṣasebhyaḥ nṛpa-ātmaja.. 20..
एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम् । इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः॥ २१॥
एतत् श्रुत्वा तु काकुत्स्थः तापसानाम् तपस्विनाम् । इदम् प्रोवाच धर्म-आत्मा सर्वान् एव तपस्विनः॥ २१॥
etat śrutvā tu kākutsthaḥ tāpasānām tapasvinām . idam provāca dharma-ātmā sarvān eva tapasvinaḥ.. 21..
नैवमर्हथ मां वक्तुमाज्ञाप्योऽहं तपस्विनाम् । केवलेन स्वकार्येण प्रवेष्टव्यं वनं मया॥ २२॥
न एवम् अर्हथ माम् वक्तुम् आज्ञाप्यः अहम् तपस्विनाम् । केवलेन स्व-कार्येण प्रवेष्टव्यम् वनम् मया॥ २२॥
na evam arhatha mām vaktum ājñāpyaḥ aham tapasvinām . kevalena sva-kāryeṇa praveṣṭavyam vanam mayā.. 22..
विप्रकारमपाक्रष्टुं राक्षसैर्भवतामिमम् । पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम्॥ २३॥
विप्रकारम् अपाक्रष्टुम् राक्षसैः भवताम् इमम् । पितुः तु निर्देश-करः प्रविष्टः अहम् इदम् वनम्॥ २३॥
viprakāram apākraṣṭum rākṣasaiḥ bhavatām imam . pituḥ tu nirdeśa-karaḥ praviṣṭaḥ aham idam vanam.. 23..
भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया । तस्य मेऽयं वने वासो भविष्यति महाफलः॥ २४॥
भवताम् अर्थ-सिद्धि-अर्थम् आगतः अहम् यदृच्छया । तस्य मे अयम् वने वासः भविष्यति महा-फलः॥ २४॥
bhavatām artha-siddhi-artham āgataḥ aham yadṛcchayā . tasya me ayam vane vāsaḥ bhaviṣyati mahā-phalaḥ.. 24..
तपस्विनां रणे शत्रून् हन्तुमिच्छामि राक्षसान् । पश्यन्तु वीर्यमृषयः सभ्रातुर्मे तपोधनाः॥ २५॥
तपस्विनाम् रणे शत्रून् हन्तुम् इच्छामि राक्षसान् । पश्यन्तु वीर्यम् ऋषयः स भ्रातुः मे तपोधनाः॥ २५॥
tapasvinām raṇe śatrūn hantum icchāmi rākṣasān . paśyantu vīryam ṛṣayaḥ sa bhrātuḥ me tapodhanāḥ.. 25..
दत्त्वा वरं चापि तपोधनानां धर्मे धृतात्मा सह लक्ष्मणेन । तपोधनैश्चापि सहार्यदत्तः सुतीक्ष्णमेवाभिजगाम वीरः॥ २६॥
दत्त्वा वरम् च अपि तपोधनानाम् धर्मे धृत-आत्मा सह लक्ष्मणेन । तपोधनैः च अपि सह आर्यदत्तः सुतीक्ष्णम् एव अभिजगाम वीरः॥ २६॥
dattvā varam ca api tapodhanānām dharme dhṛta-ātmā saha lakṣmaṇena . tapodhanaiḥ ca api saha āryadattaḥ sutīkṣṇam eva abhijagāma vīraḥ.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षष्ठः सर्गः ॥३-६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे षष्ठः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ṣaṣṭhaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In