This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षष्ठितमः सर्गः ॥३-६०॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे षष्ठितमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ṣaṣṭhitamaḥ sargaḥ ..3..
भृशमाव्रजमानस्य तस्याधो वामलोचनम् । प्रास्फुरच्चास्खलद् रामो वेपथुश्चास्य जायते॥ १॥
भृशम् आव्रजमानस्य तस्य अधस् वाम-लोचनम् । प्रास्फुरत् च अस्खलत् रामः वेपथुः च अस्य जायते॥ १॥
bhṛśam āvrajamānasya tasya adhas vāma-locanam . prāsphurat ca askhalat rāmaḥ vepathuḥ ca asya jāyate.. 1..
उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः । अपि क्षेमं तु सीताया इति वै व्याजहार ह॥ २॥
उपालक्ष्य निमित्तानि सः अशुभानि मुहुर् मुहुर् । अपि क्षेमम् तु सीतायाः इति वै व्याजहार ह॥ २॥
upālakṣya nimittāni saḥ aśubhāni muhur muhur . api kṣemam tu sītāyāḥ iti vai vyājahāra ha.. 2..
त्वरमाणो जगामाथ सीतादर्शनलालसः । शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः॥ ३॥
त्वरमाणः जगाम अथ सीता-दर्शन-लालसः । शून्यम् आवसथम् दृष्ट्वा बभूव उद्विग्न-मानसः॥ ३॥
tvaramāṇaḥ jagāma atha sītā-darśana-lālasaḥ . śūnyam āvasatham dṛṣṭvā babhūva udvigna-mānasaḥ.. 3..
उद्भ्रमन्निव वेगेन विक्षिपन् रघुनन्दनः । तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः॥ ४॥
उद्भ्रमन् इव वेगेन विक्षिपन् रघुनन्दनः । तत्र तत्र उटज-स्थानम् अभिवीक्ष्य समन्ततः॥ ४॥
udbhraman iva vegena vikṣipan raghunandanaḥ . tatra tatra uṭaja-sthānam abhivīkṣya samantataḥ.. 4..
ददर्श पर्णशालां च सीतया रहितां तदा । श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव॥ ५॥
ददर्श पर्ण-शालाम् च सीतया रहिताम् तदा । श्रिया विरहिताम् ध्वस्ताम् हेमन्ते पद्मिनीम् इव॥ ५॥
dadarśa parṇa-śālām ca sītayā rahitām tadā . śriyā virahitām dhvastām hemante padminīm iva.. 5..
रुदन्तमिव वृक्षैश्च ग्लानपुष्पमृगद्विजम् । श्रिया विहीनं विध्वस्तं संत्यक्तं वनदैवतैः॥ ६॥
रुदन्तम् इव वृक्षैः च ग्लान-पुष्प-मृग-द्विजम् । श्रिया विहीनम् विध्वस्तम् संत्यक्तम् वन-दैवतैः॥ ६॥
rudantam iva vṛkṣaiḥ ca glāna-puṣpa-mṛga-dvijam . śriyā vihīnam vidhvastam saṃtyaktam vana-daivataiḥ.. 6..
विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् । दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः॥ ७॥
विप्रकीर्ण-अजिन-कुशम् विप्रविद्ध-बृसी-कटम् । दृष्ट्वा शून्य-उटज-स्थानम् विललाप पुनर् पुनर्॥ ७॥
viprakīrṇa-ajina-kuśam vipraviddha-bṛsī-kaṭam . dṛṣṭvā śūnya-uṭaja-sthānam vilalāpa punar punar.. 7..
हृता मृता वा नष्टा वा भक्षिता वा भविष्यति । निलीनाप्यथवा भीरुरथवा वनमाश्रिता॥ ८॥
हृता मृता वा नष्टा वा भक्षिता वा भविष्यति । निलीना अपि अथवा भीरुः अथवा वनम् आश्रिता॥ ८॥
hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati . nilīnā api athavā bhīruḥ athavā vanam āśritā.. 8..
गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः । अथवा पद्मिनीं याता जलार्थं वा नदीं गता॥ ९॥
गताः विचेतुम् पुष्पाणि फलानि अपि च वा पुनर् । अथवा पद्मिनीम् याता जल-अर्थम् वा नदीम् गता॥ ९॥
gatāḥ vicetum puṣpāṇi phalāni api ca vā punar . athavā padminīm yātā jala-artham vā nadīm gatā.. 9..
यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् । शोकरक्तेक्षणः श्रीमानुन्मत्त इव लक्ष्यते॥ १०॥
यत्नात् मृगयमाणः तु न आससाद वने प्रियाम् । शोक-रक्त-ईक्षणः श्रीमान् उन्मत्तः इव लक्ष्यते॥ १०॥
yatnāt mṛgayamāṇaḥ tu na āsasāda vane priyām . śoka-rakta-īkṣaṇaḥ śrīmān unmattaḥ iva lakṣyate.. 10..
वृक्षाद् वृक्षं प्रधावन् स गिरींश्चापि नदीनदम् । बभ्राम विलपन् रामः शोकपङ्कार्णवप्लुतः॥ ११॥
वृक्षात् वृक्षम् प्रधावन् स गिरीन् च अपि नदीनदम् । बभ्राम विलपन् रामः शोक-पङ्क-अर्णव-प्लुतः॥ ११॥
vṛkṣāt vṛkṣam pradhāvan sa girīn ca api nadīnadam . babhrāma vilapan rāmaḥ śoka-paṅka-arṇava-plutaḥ.. 11..
अस्ति कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया । कदम्ब यदि जानीषे शंस सीतां शुभाननाम्॥ १२॥
अस्ति कच्चित् त्वया दृष्टा सा कदम्ब-प्रिया प्रिया । कदम्ब यदि जानीषे शंस सीताम् शुभ-आननाम्॥ १२॥
asti kaccit tvayā dṛṣṭā sā kadamba-priyā priyā . kadamba yadi jānīṣe śaṃsa sītām śubha-ānanām.. 12..
स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम् । शंसस्व यदि सा दृष्टा बिल्व बिल्वोपमस्तनी॥ १३॥
स्निग्ध-पल्लव-संकाशाम् पीत-कौशेय-वासिनीम् । शंसस्व यदि सा दृष्टा बिल्व बिल्व-उपम-स्तनी॥ १३॥
snigdha-pallava-saṃkāśām pīta-kauśeya-vāsinīm . śaṃsasva yadi sā dṛṣṭā bilva bilva-upama-stanī.. 13..
अथवार्जुन शंस त्वं प्रियां तामर्जुनप्रियाम् । जनकस्य सुता तन्वी यदि जीवति वा न वा॥ १४॥
अथवा अर्जुन शंस त्वम् प्रियाम् ताम् अर्जुन-प्रियाम् । जनकस्य सुता तन्वी यदि जीवति वा न वा॥ १४॥
athavā arjuna śaṃsa tvam priyām tām arjuna-priyām . janakasya sutā tanvī yadi jīvati vā na vā.. 14..
ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम् । लतापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः॥ १५॥
ककुभः ककुभ-ऊरुम् ताम् व्यक्तम् जानाति मैथिलीम् । लता-पल्लव-पुष्प-आढ्यः भाति हि एष वनस्पतिः॥ १५॥
kakubhaḥ kakubha-ūrum tām vyaktam jānāti maithilīm . latā-pallava-puṣpa-āḍhyaḥ bhāti hi eṣa vanaspatiḥ.. 15..
भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्यसि । एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम्॥ १६॥
भ्रमरैः उपगीतः च यथा द्रुम-वरः हि असि । एष व्यक्तम् विजानाति तिलकः तिलक-प्रियाम्॥ १६॥
bhramaraiḥ upagītaḥ ca yathā druma-varaḥ hi asi . eṣa vyaktam vijānāti tilakaḥ tilaka-priyām.. 16..
अशोक शोकापनुद शोकोपहतचेतनम् । त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम्॥ १७॥
अशोक शोक-अपनुद शोक-उपहत-चेतनम् । त्वद्-नामानम् कुरु क्षिप्रम् प्रिया-संदर्शनेन माम्॥ १७॥
aśoka śoka-apanuda śoka-upahata-cetanam . tvad-nāmānam kuru kṣipram priyā-saṃdarśanena mām.. 17..
यदि ताल त्वया दृष्टा पक्वतालोपमस्तनी । कथयस्व वरारोहां कारुण्यं यदि ते मयि॥ १८॥
यदि ताल त्वया दृष्टा पक्व-ताल-उपम-स्तनी । कथयस्व वरारोहाम् कारुण्यम् यदि ते मयि॥ १८॥
yadi tāla tvayā dṛṣṭā pakva-tāla-upama-stanī . kathayasva varārohām kāruṇyam yadi te mayi.. 18..
यदि दृष्टा त्वया जम्बो जाम्बूनदसमप्रभा । प्रियां यदि विजानासि निःशङ्क कथयस्व मे॥ १९॥
यदि दृष्टा त्वया जम्बो जाम्बूनद-सम-प्रभा । प्रियाम् यदि विजानासि निःशङ्क कथयस्व मे॥ १९॥
yadi dṛṣṭā tvayā jambo jāmbūnada-sama-prabhā . priyām yadi vijānāsi niḥśaṅka kathayasva me.. 19..
अहो त्वं कर्णिकाराद्य पुष्पितः शोभसे भृशम् । कर्णिकारप्रियां साध्वीं शंस दृष्टा यदि प्रिया॥ २०॥
अहो त्वम् कर्णिकार-अद्य पुष्पितः शोभसे भृशम् । कर्णिकार-प्रियाम् साध्वीम् शंस दृष्टा यदि प्रिया॥ २०॥
aho tvam karṇikāra-adya puṣpitaḥ śobhase bhṛśam . karṇikāra-priyām sādhvīm śaṃsa dṛṣṭā yadi priyā.. 20..
चूतनीपमहासालान् पनसान् कुरवान् धवान् । दाडिमानपि तान् गत्वा दृष्ट्वा रामो महायशाः॥ २१॥
चूत-नीप-महासालान् पनसान् कुरवान् धवान् । दाडिमान् अपि तान् गत्वा दृष्ट्वा रामः महा-यशाः॥ २१॥
cūta-nīpa-mahāsālān panasān kuravān dhavān . dāḍimān api tān gatvā dṛṣṭvā rāmaḥ mahā-yaśāḥ.. 21..
बकुलानथ पुन्नागांश्चन्दनान् केतकांस्तथा । पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते॥ २२॥
बकुलान् अथ पुन्नागान् चन्दनान् केतकान् तथा । पृच्छन् रामः वने भ्रान्तः उन्मत्तः इव लक्ष्यते॥ २२॥
bakulān atha punnāgān candanān ketakān tathā . pṛcchan rāmaḥ vane bhrāntaḥ unmattaḥ iva lakṣyate.. 22..
अथवा मृगशावाक्षीं मृग जानासि मैथिलीम् । मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत्॥ २३॥
अथवा मृगशावाक्षीम् मृग जानासि मैथिलीम् । मृग-विप्रेक्षणी कान्ता मृगीभिः सहिता भवेत्॥ २३॥
athavā mṛgaśāvākṣīm mṛga jānāsi maithilīm . mṛga-viprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet.. 23..
गज सा गजनासोरुर्यदि दृष्टा त्वया भवेत् । तां मन्ये विदितां तुभ्यमाख्याहि वरवारण॥ २४॥
गज सा गज-नासा-ऊरुः यदि दृष्टा त्वया भवेत् । ताम् मन्ये विदिताम् तुभ्यम् आख्याहि वर-वारण॥ २४॥
gaja sā gaja-nāsā-ūruḥ yadi dṛṣṭā tvayā bhavet . tām manye viditām tubhyam ākhyāhi vara-vāraṇa.. 24..
शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना । मैथिली मम विस्रब्धः कथयस्व न ते भयम्॥ २५॥
शार्दूल यदि सा दृष्टा प्रिया चन्द्र-निभ-आनना । मैथिली मम विस्रब्धः कथयस्व न ते भयम्॥ २५॥
śārdūla yadi sā dṛṣṭā priyā candra-nibha-ānanā . maithilī mama visrabdhaḥ kathayasva na te bhayam.. 25..
किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे । वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे॥ २६॥
किम् धावसि प्रिये नूनम् दृष्टा असि कमल-ईक्षणे । वृक्षैः आच्छाद्य च आत्मानम् किम् माम् न प्रतिभाषसे॥ २६॥
kim dhāvasi priye nūnam dṛṣṭā asi kamala-īkṣaṇe . vṛkṣaiḥ ācchādya ca ātmānam kim mām na pratibhāṣase.. 26..
तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि । नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे॥ २७॥
तिष्ठ तिष्ठ वरारोहे न ते अस्ति करुणा मयि । न अत्यर्थम् हास्य-शीला असि किमर्थम् माम् उपेक्षसे॥ २७॥
tiṣṭha tiṣṭha varārohe na te asti karuṇā mayi . na atyartham hāsya-śīlā asi kimartham mām upekṣase.. 27..
पीतकौशेयकेनासि सूचिता वरवर्णिनि । धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम्॥ २८॥
पीत-कौशेयकेन असि सूचिता वरवर्णिनि । धावन्ती अपि मया दृष्टा तिष्ठ यदि अस्ति सौहृदम्॥ २८॥
pīta-kauśeyakena asi sūcitā varavarṇini . dhāvantī api mayā dṛṣṭā tiṣṭha yadi asti sauhṛdam.. 28..
नैव सा नूनमथवा हिंसिता चारुहासिनी । कृच्छ्रं प्राप्तं न मां नूनं यथोपेक्षितुमर्हति॥ २९॥
ना एव सा नूनम् अथवा हिंसिता चारु-हासिनी । कृच्छ्रम् प्राप्तम् न माम् नूनम् यथा उपेक्षितुम् अर्हति॥ २९॥
nā eva sā nūnam athavā hiṃsitā cāru-hāsinī . kṛcchram prāptam na mām nūnam yathā upekṣitum arhati.. 29..
व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः । विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया॥ ३०॥
व्यक्तम् सा भक्षिता बाला राक्षसैः पिशित-अशनैः । विभज्य अङ्गानि सर्वाणि मया विरहिता प्रिया॥ ३०॥
vyaktam sā bhakṣitā bālā rākṣasaiḥ piśita-aśanaiḥ . vibhajya aṅgāni sarvāṇi mayā virahitā priyā.. 30..
नूनं तच्छुभदन्तोष्ठं सुनासं शुभकुण्डलम् । पूर्णचन्द्रनिभं ग्रस्तं मुखं निष्प्रभतां गतम्॥ ३१॥
नूनम् तत् शुभ-दन्त-उष्ठम् सु नासम् शुभ-कुण्डलम् । पूर्ण-चन्द्र-निभम् ग्रस्तम् मुखम् निष्प्रभ-ताम् गतम्॥ ३१॥
nūnam tat śubha-danta-uṣṭham su nāsam śubha-kuṇḍalam . pūrṇa-candra-nibham grastam mukham niṣprabha-tām gatam.. 31..
सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेयकोचिता । कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा॥ ३२॥
सा हि चम्पक-वर्ण-आभा ग्रीवा ग्रैवेयक-उचिता । कोमला विलपन्त्याः तु कान्तायाः भक्षिता शुभा॥ ३२॥
sā hi campaka-varṇa-ābhā grīvā graiveyaka-ucitā . komalā vilapantyāḥ tu kāntāyāḥ bhakṣitā śubhā.. 32..
नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ । भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ॥ ३३॥
नूनम् विक्षिप्यमाणौ तौ बाहू पल्लव-कोमलौ । भक्षितौ वेपमान-अग्रौ स हस्त-आभरण-अङ्गदौ॥ ३३॥
nūnam vikṣipyamāṇau tau bāhū pallava-komalau . bhakṣitau vepamāna-agrau sa hasta-ābharaṇa-aṅgadau.. 33..
मया विरहिता बाला रक्षसां भक्षणाय वै । सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा॥ ३४॥
मया विरहिता बाला रक्षसाम् भक्षणाय वै । सार्थेन इव परित्यक्ता भक्षिता बहु-बान्धवा॥ ३४॥
mayā virahitā bālā rakṣasām bhakṣaṇāya vai . sārthena iva parityaktā bhakṣitā bahu-bāndhavā.. 34..
हा लक्ष्मण महाबाहो पश्यसे त्वं प्रियां क्वचित् । हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः॥ ३५॥
हा लक्ष्मण महा-बाहो पश्यसे त्वम् प्रियाम् क्वचिद् । हा प्रिये क्व गता भद्रे हा सीता इति पुनर् पुनर्॥ ३५॥
hā lakṣmaṇa mahā-bāho paśyase tvam priyām kvacid . hā priye kva gatā bhadre hā sītā iti punar punar.. 35..
इत्येवं विलपन् रामः परिधावन् वनाद् वनम् । क्वचिदुद्भ्रमते वेगात् क्वचिद् विभ्रमते बलात्॥ ३६॥
इति एवम् विलपन् रामः परिधावन् वनात् वनम् । क्वचिद् उद्भ्रमते वेगात् क्वचिद् विभ्रमते बलात्॥ ३६॥
iti evam vilapan rāmaḥ paridhāvan vanāt vanam . kvacid udbhramate vegāt kvacid vibhramate balāt.. 36..
क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः । स वनानि नदीः शैलान् गिरिप्रस्रवणानि च । काननानि च वेगेन भ्रमत्यपरिसंस्थितः॥ ३७॥
क्वचिद् मत्तः इव आभाति कान्ता-अन्वेषण-तत्परः । स वनानि नदीः शैलान् गिरि-प्रस्रवणानि च । काननानि च वेगेन भ्रमति अपरिसंस्थितः॥ ३७॥
kvacid mattaḥ iva ābhāti kāntā-anveṣaṇa-tatparaḥ . sa vanāni nadīḥ śailān giri-prasravaṇāni ca . kānanāni ca vegena bhramati aparisaṃsthitaḥ.. 37..
तदा स गत्वा विपुलं महद् वनं परीत्य सर्वं त्वथ मैथिलीं प्रति । अनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम्॥ ३८॥
तदा स गत्वा विपुलम् महत् वनम् परीत्य सर्वम् तु अथ मैथिलीम् प्रति । अनिष्ठित-आशः स चकार मार्गणे पुनर् प्रियायाः परमम् परिश्रमम्॥ ३८॥
tadā sa gatvā vipulam mahat vanam parītya sarvam tu atha maithilīm prati . aniṣṭhita-āśaḥ sa cakāra mārgaṇe punar priyāyāḥ paramam pariśramam.. 38..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षष्ठितमः सर्गः ॥३-६०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे षष्ठितमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ṣaṣṭhitamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In