This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकषष्ठितमः सर्गः ॥३-६१॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे एकषष्ठितमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ekaṣaṣṭhitamaḥ sargaḥ ..3..
दृष्ट्वाऽऽश्रमपदं शून्यं रामो दशरथात्मजः । रहितां पर्णशालां च प्रविद्धान्यासनानि च॥ १॥
दृष्ट्वा आश्रम-पदम् शून्यम् रामः दशरथ-आत्मजः । रहिताम् पर्ण-शालाम् च प्रविद्धानि आसनानि च॥ १॥
dṛṣṭvā āśrama-padam śūnyam rāmaḥ daśaratha-ātmajaḥ . rahitām parṇa-śālām ca praviddhāni āsanāni ca.. 1..
अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः । उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ॥ २॥
अ दृष्ट्वा तत्र वैदेहीम् संनिरीक्ष्य च सर्वशस् । उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ॥ २॥
a dṛṣṭvā tatra vaidehīm saṃnirīkṣya ca sarvaśas . uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau.. 2..
क्व नु लक्ष्मण वैदेही कं वा देशमितो गता । केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया॥ ३॥
क्व नु लक्ष्मण वैदेही कम् वा देशम् इतस् गता । केन आहृता वा सौमित्रे भक्षिता केन वा प्रिया॥ ३॥
kva nu lakṣmaṇa vaidehī kam vā deśam itas gatā . kena āhṛtā vā saumitre bhakṣitā kena vā priyā.. 3..
वृक्षेणावार्य यदि मां सीते हसितुमिच्छसि । अलं ते हसितेनाद्य मां भजस्व सुदुःखितम्॥ ४॥
वृक्षेण आवार्य यदि माम् सीते हसितुम् इच्छसि । अलम् ते हसितेन अद्य माम् भजस्व सु दुःखितम्॥ ४॥
vṛkṣeṇa āvārya yadi mām sīte hasitum icchasi . alam te hasitena adya mām bhajasva su duḥkhitam.. 4..
यैः परिक्रीडसे सीते विश्वस्तैर्मृगपोतकैः । एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः॥ ५॥
यैः परिक्रीडसे सीते विश्वस्तैः मृग-पोतकैः । एते हीनाः त्वया सौम्ये ध्यायन्ति अस्र-आविल-ईक्षणाः॥ ५॥
yaiḥ parikrīḍase sīte viśvastaiḥ mṛga-potakaiḥ . ete hīnāḥ tvayā saumye dhyāyanti asra-āvila-īkṣaṇāḥ.. 5..
सीतया रहितोऽहं वै नहि जीवामि लक्ष्मण । वृतं शोकेन महता सीताहरणजेन माम्॥ ६॥
सीतया रहितः अहम् वै नहि जीवामि लक्ष्मण । वृतम् शोकेन महता सीता-आहरण-जेन माम्॥ ६॥
sītayā rahitaḥ aham vai nahi jīvāmi lakṣmaṇa . vṛtam śokena mahatā sītā-āharaṇa-jena mām.. 6..
परलोके महाराजो नूनं द्रक्ष्यति मे पिता । कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः॥ ७॥
पर-लोके महा-राजः नूनम् द्रक्ष्यति मे पिता । कथम् प्रतिज्ञाम् संश्रुत्य मया त्वम् अभियोजितः॥ ७॥
para-loke mahā-rājaḥ nūnam drakṣyati me pitā . katham pratijñām saṃśrutya mayā tvam abhiyojitaḥ.. 7..
अपूरयित्वा तं कालं मत्सकाशमिहागतः । कामवृत्तमनार्यं वा मृषावादिनमेव च॥ ८॥
अ पूरयित्वा तम् कालम् मद्-सकाशम् इह आगतः । काम-वृत्तम् अनार्यम् वा मृषावादिनम् एव च॥ ८॥
a pūrayitvā tam kālam mad-sakāśam iha āgataḥ . kāma-vṛttam anāryam vā mṛṣāvādinam eva ca.. 8..
धिक् त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता । विवशं शोकसंतप्तं दीनं भग्नमनोरथम्॥ ९॥
त्वाम् इति परे लोके व्यक्तम् वक्ष्यति मे पिता । विवशम् शोक-संतप्तम् दीनम् भग्न-मनोरथम्॥ ९॥
tvām iti pare loke vyaktam vakṣyati me pitā . vivaśam śoka-saṃtaptam dīnam bhagna-manoratham.. 9..
मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् । क्व गच्छसि वरारोहे मा मोत्सृज सुमध्यमे॥ १०॥
माम् इह उत्सृज्य करुणम् कीर्तिः नरम् इव अनृजुम् । क्व गच्छसि वरारोहे मा मा उत्सृज सुमध्यमे॥ १०॥
mām iha utsṛjya karuṇam kīrtiḥ naram iva anṛjum . kva gacchasi varārohe mā mā utsṛja sumadhyame.. 10..
त्वया विरहितश्चाहं त्यक्ष्ये जीवितमात्मनः । इतीव विलपन् रामः सीतादर्शनलालसः॥ ११॥
त्वया विरहितः च अहम् त्यक्ष्ये जीवितम् आत्मनः । इति इव विलपन् रामः सीता-दर्शन-लालसः॥ ११॥
tvayā virahitaḥ ca aham tyakṣye jīvitam ātmanaḥ . iti iva vilapan rāmaḥ sītā-darśana-lālasaḥ.. 11..
न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् । अनासादयमानं तं सीतां शोकपरायणम्॥ १२॥
न ददर्श सु दुःख-आर्तः राघवः जनकात्मजाम् । अन् आसादयमानम् तम् सीताम् शोक-परायणम्॥ १२॥
na dadarśa su duḥkha-ārtaḥ rāghavaḥ janakātmajām . an āsādayamānam tam sītām śoka-parāyaṇam.. 12..
पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् । लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया॥ १३॥
पङ्कम् आसाद्य विपुलम् सीदन्तम् इव कुञ्जरम् । लक्ष्मणः रामम् अत्यर्थम् उवाच हित-काम्यया॥ १३॥
paṅkam āsādya vipulam sīdantam iva kuñjaram . lakṣmaṇaḥ rāmam atyartham uvāca hita-kāmyayā.. 13..
मा विषादं महाबुद्धे कुरु यत्नं मया सह । इदं गिरिवरं वीर बहुकन्दरशोभितम्॥ १४॥
मा विषादम् महाबुद्धे कुरु यत्नम् मया सह । इदम् गिरि-वरम् वीर बहु-कन्दर-शोभितम्॥ १४॥
mā viṣādam mahābuddhe kuru yatnam mayā saha . idam giri-varam vīra bahu-kandara-śobhitam.. 14..
प्रियकाननसंचारा वनोन्मत्ता च मैथिली । सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम्॥ १५॥
प्रिय-कानन-संचारा वन-उन्मत्ता च मैथिली । सा वनम् वा प्रविष्टा स्यात् नलिनीम् वा सु पुष्पिताम्॥ १५॥
priya-kānana-saṃcārā vana-unmattā ca maithilī . sā vanam vā praviṣṭā syāt nalinīm vā su puṣpitām.. 15..
सरितं वापि सम्प्राप्ता मीनवञ्जुलसेविताम् । वित्रासयितुकामा वा लीना स्यात् कानने क्वचित्॥ १६॥
सरितम् वा अपि सम्प्राप्ताः मीन-वञ्जुल-सेविताम् । वित्रासयितु-कामा वा लीना स्यात् कानने क्वचिद्॥ १६॥
saritam vā api samprāptāḥ mīna-vañjula-sevitām . vitrāsayitu-kāmā vā līnā syāt kānane kvacid.. 16..
जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ । तस्या ह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहे॥ १७॥
जिज्ञासमाना वैदेही त्वाम् माम् च पुरुष-ऋषभ । तस्याः हि अन्वेषणे श्रीमन् क्षिप्रम् एव यतावहे॥ १७॥
jijñāsamānā vaidehī tvām mām ca puruṣa-ṛṣabha . tasyāḥ hi anveṣaṇe śrīman kṣipram eva yatāvahe.. 17..
वनं सर्वं विचिनुवो यत्र सा जनकात्मजा । मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः॥ १८॥
वनम् सर्वम् विचिनुवः यत्र सा जनकात्मजा । मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः॥ १८॥
vanam sarvam vicinuvaḥ yatra sā janakātmajā . manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ.. 18..
एवमुक्तः स सौहार्दाल्लक्ष्मणेन समाहितः । सह सौमित्रिणा रामो विचेतुमुपचक्रमे॥ १९॥
एवम् उक्तः स सौहार्दात् लक्ष्मणेन समाहितः । सह सौमित्रिणा रामः विचेतुम् उपचक्रमे॥ १९॥
evam uktaḥ sa sauhārdāt lakṣmaṇena samāhitaḥ . saha saumitriṇā rāmaḥ vicetum upacakrame.. 19..
तौ वनानि गिरींश्चैव सरितश्च सरांसि च । निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ॥ २०॥
तौ वनानि गिरीन् च एव सरितः च सरांसि च । निखिलेन विचिन्वन्तौ सीताम् दशरथ-आत्मजौ॥ २०॥
tau vanāni girīn ca eva saritaḥ ca sarāṃsi ca . nikhilena vicinvantau sītām daśaratha-ātmajau.. 20..
तस्य शैलस्य सानूनि शिलाश्च शिखराणि च । निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः॥ २१॥
तस्य शैलस्य सानूनि शिलाः च शिखराणि च । निखिलेन विचिन्वन्तौ न एव ताम् अभिजग्मतुः॥ २१॥
tasya śailasya sānūni śilāḥ ca śikharāṇi ca . nikhilena vicinvantau na eva tām abhijagmatuḥ.. 21..
विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् । नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभाम्॥ २२॥
विचित्य सर्वतस् शैलम् रामः लक्ष्मणम् अब्रवीत् । न इह पश्यामि सौमित्रे वैदेहीम् पर्वते शुभाम्॥ २२॥
vicitya sarvatas śailam rāmaḥ lakṣmaṇam abravīt . na iha paśyāmi saumitre vaidehīm parvate śubhām.. 22..
ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत् । विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसम्॥ २३॥
ततस् दुःख-अभिसंतप्तः लक्ष्मणः वाक्यम् अब्रवीत् । विचरन् दण्डक-अरण्यम् भ्रातरम् दीप्त-तेजसम्॥ २३॥
tatas duḥkha-abhisaṃtaptaḥ lakṣmaṇaḥ vākyam abravīt . vicaran daṇḍaka-araṇyam bhrātaram dīpta-tejasam.. 23..
प्राप्स्यसे त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् । यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम्॥ २४॥
प्राप्स्यसे त्वम् महा-प्राज्ञ मैथिलीम् जनकात्मजाम् । यथा विष्णुः महा-बाहुः बलिम् बद्ध्वा महीम् इमाम्॥ २४॥
prāpsyase tvam mahā-prājña maithilīm janakātmajām . yathā viṣṇuḥ mahā-bāhuḥ balim baddhvā mahīm imām.. 24..
एवमुक्तस्तु वीरेण लक्ष्मणेन स राघवः । उवाच दीनया वाचा दुःखाभिहतचेतनः॥ २५॥
एवम् उक्तः तु वीरेण लक्ष्मणेन स राघवः । उवाच दीनया वाचा दुःख-अभिहत-चेतनः॥ २५॥
evam uktaḥ tu vīreṇa lakṣmaṇena sa rāghavaḥ . uvāca dīnayā vācā duḥkha-abhihata-cetanaḥ.. 25..
वनं सुविचितं सर्वं पद्मिन्यः फुल्लपङ्कजाः । गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः । नहि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम्॥ २६॥
वनम् सु विचितम् सर्वम् पद्मिन्यः फुल्ल-पङ्कजाः । गिरिः च अयम् महा-प्राज्ञ बहु-कन्दर-निर्झरः । नहि पश्यामि वैदेहीम् प्राणेभ्यः अपि गरीयसीम्॥ २६॥
vanam su vicitam sarvam padminyaḥ phulla-paṅkajāḥ . giriḥ ca ayam mahā-prājña bahu-kandara-nirjharaḥ . nahi paśyāmi vaidehīm prāṇebhyaḥ api garīyasīm.. 26..
एवं स विलपन् रामः सीताहरणकर्षितः । दीनः शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत्॥ २७॥
एवम् स विलपन् रामः सीता-हरण-कर्षितः । दीनः शोक-समाविष्टः मुहूर्तम् विह्वलः अभवत्॥ २७॥
evam sa vilapan rāmaḥ sītā-haraṇa-karṣitaḥ . dīnaḥ śoka-samāviṣṭaḥ muhūrtam vihvalaḥ abhavat.. 27..
स विह्वलितसर्वाङ्गो गतबुद्धिर्विचेतनः । निषसादातुरो दीनो निःश्वस्याशीतमायतम्॥ २८॥
स विह्वलित-सर्व-अङ्गः गत-बुद्धिः विचेतनः । निषसाद आतुरः दीनः निःश्वस्य अशीतम् आयतम्॥ २८॥
sa vihvalita-sarva-aṅgaḥ gata-buddhiḥ vicetanaḥ . niṣasāda āturaḥ dīnaḥ niḥśvasya aśītam āyatam.. 28..
बहुशः स तु निःश्वस्य रामो राजीवलोचनः । हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः॥ २९॥
बहुशस् स तु निःश्वस्य रामः राजीव-लोचनः । हा प्रिय इति विचुक्रोश बहुशस् बाष्प-गद्गदः॥ २९॥
bahuśas sa tu niḥśvasya rāmaḥ rājīva-locanaḥ . hā priya iti vicukrośa bahuśas bāṣpa-gadgadaḥ.. 29..
तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवम् । बहुप्रकारं शोकार्तः प्रश्रितः प्रश्रिताञ्जलिः॥ ३०॥
तम् सान्त्वयामास ततस् लक्ष्मणः प्रिय-बान्धवम् । बहु-प्रकारम् शोक-आर्तः प्रश्रितः प्रश्रित-अञ्जलिः॥ ३०॥
tam sāntvayāmāsa tatas lakṣmaṇaḥ priya-bāndhavam . bahu-prakāram śoka-ārtaḥ praśritaḥ praśrita-añjaliḥ.. 30..
अनादृत्य तु तद् वाक्यं लक्ष्मणोष्ठपुटच्युतम् । अपश्यंस्तां प्रियां सीतां प्राक्रोशत् स पुनः पुनः॥ ३१॥
अन् आदृत्य तु तत् वाक्यम् लक्ष्मण-उष्ठ-पुट-च्युतम् । अपश्यान् ताम् प्रियाम् सीताम् प्राक्रोशत् स पुनर् पुनर्॥ ३१॥
an ādṛtya tu tat vākyam lakṣmaṇa-uṣṭha-puṭa-cyutam . apaśyān tām priyām sītām prākrośat sa punar punar.. 31..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकषष्ठितमः सर्गः ॥३-६१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे एकषष्ठितमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ekaṣaṣṭhitamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In