This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिषष्ठितमः सर्गः ॥३-६३॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे त्रिषष्ठितमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe triṣaṣṭhitamaḥ sargaḥ ..3..
स राजपुत्रः प्रियया विहीनः शोकेन मोहेन च पीड्यमानः । विषादयन् भ्रातरमार्तरूपो भूयो विषादं प्रविवेश तीव्रम्॥ १॥
स राज-पुत्रः प्रियया विहीनः शोकेन मोहेन च पीड्यमानः । विषादयन् भ्रातरम् आर्त-रूपः भूयस् विषादम् प्रविवेश तीव्रम्॥ १॥
sa rāja-putraḥ priyayā vihīnaḥ śokena mohena ca pīḍyamānaḥ . viṣādayan bhrātaram ārta-rūpaḥ bhūyas viṣādam praviveśa tīvram.. 1..
स लक्ष्मणं शोकवशाभिपन्नं शोके निमग्नो विपुले तु रामः । उवाच वाक्यं व्यसनानुरूप- मुष्णं विनिःश्वस्य रुदन् सशोकम्॥ २॥
स लक्ष्मणम् शोक-वश-अभिपन्नम् शोके निमग्नः विपुले तु रामः । उवाच वाक्यम् व्यसन-अनुरूप-मुष्णम् विनिःश्वस्य रुदन् स शोकम्॥ २॥
sa lakṣmaṇam śoka-vaśa-abhipannam śoke nimagnaḥ vipule tu rāmaḥ . uvāca vākyam vyasana-anurūpa-muṣṇam viniḥśvasya rudan sa śokam.. 2..
न मद्विधो दुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुंधरायाम् । शोकानुशोको हि परम्पराया मामेति भिन्दन् हृदयं मनश्च॥ ३॥
न मद्विधः दुष्कृत-कर्म-कारी मन्ये द्वितीयः अस्ति वसुंधरायाम् । शोक-अनुशोकः हि परम्परायाः माम् एति भिन्दन् हृदयम् मनः च॥ ३॥
na madvidhaḥ duṣkṛta-karma-kārī manye dvitīyaḥ asti vasuṃdharāyām . śoka-anuśokaḥ hi paramparāyāḥ mām eti bhindan hṛdayam manaḥ ca.. 3..
पूर्वं मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि । तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि॥ ४॥
पूर्वम् मया नूनम् अभीप्सितानि पापानि कर्माणि असकृत् कृतानि । तत्र अयम् अद्य आपतितः विपाकः दुःखेन दुःखम् यत् अहम् विशामि॥ ४॥
pūrvam mayā nūnam abhīpsitāni pāpāni karmāṇi asakṛt kṛtāni . tatra ayam adya āpatitaḥ vipākaḥ duḥkhena duḥkham yat aham viśāmi.. 4..
राज्यप्रणाशः स्वजनैर्वियोगः पितुर्विनाशो जननीवियोगः । सर्वाणि मे लक्ष्मण शोकवेग- मापूरयन्ति प्रविचिन्तितानि॥ ५॥
राज्य-प्रणाशः स्व-जनैः वियोगः पितुः विनाशः जननी-वियोगः । सर्वाणि मे लक्ष्मण शोक-वेग मा आपूरयन्ति प्रविचिन्तितानि॥ ५॥
rājya-praṇāśaḥ sva-janaiḥ viyogaḥ pituḥ vināśaḥ jananī-viyogaḥ . sarvāṇi me lakṣmaṇa śoka-vega mā āpūrayanti pravicintitāni.. 5..
सर्वं तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य क्लेशम् । सीतावियोगात् पुनरप्युदीर्णं काष्ठैरिवाग्निः सहसोपदीप्तः॥ ६॥
सर्वम् तु दुःखम् मम लक्ष्मण इदम् शान्तम् शरीरे वनम् एत्य क्लेशम् । सीता-वियोगात् पुनर् अपि उदीर्णम् काष्ठैः इव अग्निः सहसा उपदीप्तः॥ ६॥
sarvam tu duḥkham mama lakṣmaṇa idam śāntam śarīre vanam etya kleśam . sītā-viyogāt punar api udīrṇam kāṣṭhaiḥ iva agniḥ sahasā upadīptaḥ.. 6..
सा नूनमार्या मम राक्षसेन ह्यभ्याहृता खं समुपेत्य भीरुः । अपस्वरं सुस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम्॥ ७॥
सा नूनम् आर्या मम राक्षसेन हि अभ्याहृता खम् समुपेत्य भीरुः । अपस्वरम् सु स्वर-विप्रलापा भयेन विक्रन्दितवती अभीक्ष्णम्॥ ७॥
sā nūnam āryā mama rākṣasena hi abhyāhṛtā kham samupetya bhīruḥ . apasvaram su svara-vipralāpā bhayena vikranditavatī abhīkṣṇam.. 7..
तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचन्दनस्य । वृत्तौ स्तनौ शोणितपङ्कदिग्धौ नूनं प्रियाया मम नाभिपातः॥ ८॥
तौ लोहितस्य प्रिय-दर्शनस्य सदा उचितौ उत्तम-चन्दनस्य । वृत्तौ स्तनौ शोणित-पङ्क-दिग्धौ नूनम् प्रियायाः मम नाभिपातः॥ ८॥
tau lohitasya priya-darśanasya sadā ucitau uttama-candanasya . vṛttau stanau śoṇita-paṅka-digdhau nūnam priyāyāḥ mama nābhipātaḥ.. 8..
तच्छ्लक्ष्णसुव्यक्तमृदुप्रलापं तस्या मुखं कुञ्चितकेशभारम् । रक्षोवशं नूनमुपागताया न भ्राजते राहुमुखे यथेन्दुः॥ ९॥
तत् श्लक्ष्ण-सु व्यक्त-मृदु-प्रलापम् तस्याः मुखम् कुञ्चित-केश-भारम् । रक्षः-वशम् नूनम् उपागतायाः न भ्राजते राहु-मुखे यथा इन्दुः॥ ९॥
tat ślakṣṇa-su vyakta-mṛdu-pralāpam tasyāḥ mukham kuñcita-keśa-bhāram . rakṣaḥ-vaśam nūnam upāgatāyāḥ na bhrājate rāhu-mukhe yathā induḥ.. 9..
तां हारपाशस्य सदोचितान्तां ग्रीवां प्रियाया मम सुव्रतायाः । रक्षांसि नूनं परिपीतवन्ति शून्ये हि भित्त्वा रुधिराशनानि॥ १०॥
ताम् हार-पाशस्य सदा उचित-अन्ताम् ग्रीवाम् प्रियायाः मम सुव्रतायाः । रक्षांसि नूनम् परिपीतवन्ति शून्ये हि भित्त्वा रुधिर-अशनानि॥ १०॥
tām hāra-pāśasya sadā ucita-antām grīvām priyāyāḥ mama suvratāyāḥ . rakṣāṃsi nūnam paripītavanti śūnye hi bhittvā rudhira-aśanāni.. 10..
मया विहीना विजने वने सा रक्षोभिराहृत्य विकृष्यमाणा । नूनं विनादं कुररीव दीना सा मुक्तवत्यायतकान्तनेत्रा॥ ११॥
मया विहीना विजने वने सा रक्षोभिः आहृत्य विकृष्यमाणा । नूनम् विनादम् कुररी इव दीना सा मुक्तवती आयत-कान्त-नेत्रा॥ ११॥
mayā vihīnā vijane vane sā rakṣobhiḥ āhṛtya vikṛṣyamāṇā . nūnam vinādam kurarī iva dīnā sā muktavatī āyata-kānta-netrā.. 11..
अस्मिन् मया सार्धमुदारशीला शिलातले पूर्वमुपोपविष्टा । कान्तस्मिता लक्ष्मण जातहासा त्वामाह सीता बहुवाक्यजातम्॥ १२॥
अस्मिन् मया सार्धम् उदार-शीला शिला-तले पूर्वम् उपोपविष्टा । कान्त-स्मिता लक्ष्मण जात-हासा त्वाम् आह सीता बहु-वाक्य-जातम्॥ १२॥
asmin mayā sārdham udāra-śīlā śilā-tale pūrvam upopaviṣṭā . kānta-smitā lakṣmaṇa jāta-hāsā tvām āha sītā bahu-vākya-jātam.. 12..
गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम् । अप्यत्र गच्छेदिति चिन्तयामि नैकाकिनी याति हि सा कदाचित्॥ १३॥
गोदावरी इयम् सरिताम् वरिष्ठा प्रिया प्रियायाः मम नित्यकालम् । अपि अत्र गच्छेत् इति चिन्तयामि ना एकाकिनी याति हि सा कदाचिद्॥ १३॥
godāvarī iyam saritām variṣṭhā priyā priyāyāḥ mama nityakālam . api atra gacchet iti cintayāmi nā ekākinī yāti hi sā kadācid.. 13..
पद्मानना पद्मपलाशनेत्रा पद्मानि वानेतुमभिप्रयाता । तदप्ययुक्तं नहि सा कदाचि- न्मया विना गच्छति पङ्कजानि॥ १४॥
पद्म-आनना पद्म-पलाश-नेत्रा पद्मानि वा आनेतुम् अभिप्रयाता । तत् अपि अयुक्तम् नहि सा कदाचिद् मया विना गच्छति पङ्कजानि॥ १४॥
padma-ānanā padma-palāśa-netrā padmāni vā ānetum abhiprayātā . tat api ayuktam nahi sā kadācid mayā vinā gacchati paṅkajāni.. 14..
कामं त्विदं पुष्पितवृक्षषण्डं नानाविधैः पक्षिगणैरुपेतम् । वनं प्रयाता नु तदप्ययुक्त- मेकाकिनी सातिबिभेति भीरुः॥ १५॥
कामम् तु इदम् पुष्पित-वृक्ष-षण्डम् नानाविधैः पक्षि-गणैः उपेतम् । वनम् प्रयाता नु तत् अपि अयुक्तम् एकाकिनी सा अतिबिभेति भीरुः॥ १५॥
kāmam tu idam puṣpita-vṛkṣa-ṣaṇḍam nānāvidhaiḥ pakṣi-gaṇaiḥ upetam . vanam prayātā nu tat api ayuktam ekākinī sā atibibheti bhīruḥ.. 15..
आदित्य भो लोककृताकृतज्ञ लोकस्य सत्यानृतकर्मसाक्षिन् । मम प्रिया सा क्व गता हृता वा शंसस्व मे शोकहतस्य सर्वम्॥ १६॥
आदित्य भो लोक-कृत अकृतज्ञ लोकस्य सत्य-अनृत-कर्म-साक्षिन् । मम प्रिया सा क्व गता हृता वा शंसस्व मे शोक-हतस्य सर्वम्॥ १६॥
āditya bho loka-kṛta akṛtajña lokasya satya-anṛta-karma-sākṣin . mama priyā sā kva gatā hṛtā vā śaṃsasva me śoka-hatasya sarvam.. 16..
लोकेषु सर्वेषु न नास्ति किंचिद् यत् ते न नित्यं विदितं भवेत् तत् । शंसस्व वायो कुलपालिनीं तां मृता हृता वा पथि वर्तते वा॥ १७॥
लोकेषु सर्वेषु न ना अस्ति किंचिद् यत् ते न नित्यम् विदितम् भवेत् तत् । शंसस्व वायो कुल-पालिनीम् ताम् मृता हृता वा पथि वर्तते वा॥ १७॥
lokeṣu sarveṣu na nā asti kiṃcid yat te na nityam viditam bhavet tat . śaṃsasva vāyo kula-pālinīm tām mṛtā hṛtā vā pathi vartate vā.. 17..
इतीव तं शोकविधेयदेहं रामं विसंज्ञं विलपन्तमेव । उवाच सौमित्रिरदीनसत्त्वो न्याय्ये स्थितः कालयुतं च वाक्यम्॥ १८॥
इति इव तम् शोक-विधेय-देहम् रामम् विसंज्ञम् विलपन्तम् एव । उवाच सौमित्रिः अदीन-सत्त्वः न्याय्ये स्थितः काल-युतम् च वाक्यम्॥ १८॥
iti iva tam śoka-vidheya-deham rāmam visaṃjñam vilapantam eva . uvāca saumitriḥ adīna-sattvaḥ nyāyye sthitaḥ kāla-yutam ca vākyam.. 18..
शोकं विसृज्याद्य धृतिं भजस्व सोत्साहता चास्तु विमार्गणेऽस्याः । उत्साहवन्तो हि नरा न लोके सीदन्ति कर्मस्वतिदुष्करेषु॥ १९॥
शोकम् विसृज्य अद्य धृतिम् भजस्व स उत्साह-ता च अस्तु विमार्गणे अस्याः । उत्साहवन्तः हि नराः न लोके सीदन्ति कर्मसु अति दुष्करेषु॥ १९॥
śokam visṛjya adya dhṛtim bhajasva sa utsāha-tā ca astu vimārgaṇe asyāḥ . utsāhavantaḥ hi narāḥ na loke sīdanti karmasu ati duṣkareṣu.. 19..
इतीव सौमित्रिमुदग्रपौरुषं ब्रुवन्तमार्तो रघुवंशवर्धनः । न चिन्तयामास धृतिं विमुक्तवान् पुनश्च दुःखं महदभ्युपागमत्॥ २०॥
इति इव सौमित्रिम् उदग्र-पौरुषम् ब्रुवन्तम् आर्तः रघु-वंश-वर्धनः । न चिन्तयामास धृतिम् विमुक्तवान् पुनर् च दुःखम् महत् अभ्युपागमत्॥ २०॥
iti iva saumitrim udagra-pauruṣam bruvantam ārtaḥ raghu-vaṃśa-vardhanaḥ . na cintayāmāsa dhṛtim vimuktavān punar ca duḥkham mahat abhyupāgamat.. 20..
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिषष्ठितमः सर्गः ॥३-६३॥
इति वाल्मीकि-रामायणे आदि-काव्ये अरण्यकाण्डे त्रिषष्ठितमः सर्गः ॥३॥
iti vālmīki-rāmāyaṇe ādi-kāvye araṇyakāṇḍe triṣaṣṭhitamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In