This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःषष्ठितमः सर्गः ॥३-६४॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे चतुःषष्ठितमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ ..3..
स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् । शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम्॥ १॥
स दीनः दीनया वाचा लक्ष्मणम् वाक्यम् अब्रवीत् । शीघ्रम् लक्ष्मण जानीहि गत्वा गोदावरीम् नदीम्॥ १॥
sa dīnaḥ dīnayā vācā lakṣmaṇam vākyam abravīt . śīghram lakṣmaṇa jānīhi gatvā godāvarīm nadīm.. 1..
अपि गोदावरीं सीता पद्मान्यानयितुं गता । एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि॥ २॥
अपि गोदावरीम् सीता पद्मानि आनयितुम् गता । एवम् उक्तः तु रामेण लक्ष्मणः पुनर् एव हि॥ २॥
api godāvarīm sītā padmāni ānayitum gatā . evam uktaḥ tu rāmeṇa lakṣmaṇaḥ punar eva hi.. 2..
नदीं गोदावरीं रम्यां जगाम लघुविक्रमः । तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत्॥ ३॥
नदीम् गोदावरीम् रम्याम् जगाम लघु-विक्रमः । ताम् लक्ष्मणः तीर्थवतीम् विचित्वा रामम् अब्रवीत्॥ ३॥
nadīm godāvarīm ramyām jagāma laghu-vikramaḥ . tām lakṣmaṇaḥ tīrthavatīm vicitvā rāmam abravīt.. 3..
नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे । कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी॥ ४॥
न एनाम् पश्यामि तीर्थेषु क्रोशतः न शृणोति मे । कम् नु सा देशम् आपन्ना वैदेही क्लेश-नाशिनी॥ ४॥
na enām paśyāmi tīrtheṣu krośataḥ na śṛṇoti me . kam nu sā deśam āpannā vaidehī kleśa-nāśinī.. 4..
नहि तं वेद्मि वै राम यत्र सा तनुमध्यमा । लक्ष्मणस्य वचः श्रुत्वा दीनः संतापमोहितः॥ ५॥
नहि तम् वेद्मि वै राम यत्र सा तनु-मध्यमा । लक्ष्मणस्य वचः श्रुत्वा दीनः संताप-मोहितः॥ ५॥
nahi tam vedmi vai rāma yatra sā tanu-madhyamā . lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpa-mohitaḥ.. 5..
रामः समभिचक्राम स्वयं गोदावरीं नदीम् । स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्॥ ६॥
रामः समभिचक्राम स्वयम् गोदावरीम् नदीम् । स ताम् उपस्थितः रामः क्व सीता इति एवम् अब्रवीत्॥ ६॥
rāmaḥ samabhicakrāma svayam godāvarīm nadīm . sa tām upasthitaḥ rāmaḥ kva sītā iti evam abravīt.. 6..
भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि । न तां शशंसू रामाय तथा गोदावरी नदी॥ ७॥
भूतानि राक्षस-इन्द्रेण वध-अर्हेण हृताम् अपि । न ताम् रामाय तथा गोदावरी नदी॥ ७॥
bhūtāni rākṣasa-indreṇa vadha-arheṇa hṛtām api . na tām rāmāya tathā godāvarī nadī.. 7..
ततः प्रचोदिता भूतैः शंस चास्मै प्रियामिति । न च सा ह्यवदत् सीतां पृष्टा रामेण शोचता॥ ८॥
ततस् प्रचोदिता भूतैः शंस च अस्मै प्रियाम् इति । न च सा हि अवदत् सीताम् पृष्टा रामेण शोचता॥ ८॥
tatas pracoditā bhūtaiḥ śaṃsa ca asmai priyām iti . na ca sā hi avadat sītām pṛṣṭā rāmeṇa śocatā.. 8..
रावणस्य च तद्रूपं कर्मापि च दुरात्मनः । ध्यात्वा भयात् तु वैदेहीं सा नदी न शशंस ह॥ ९॥
रावणस्य च तद्-रूपम् कर्म अपि च दुरात्मनः । ध्यात्वा भयात् तु वैदेहीम् सा नदी न शशंस ह॥ ९॥
rāvaṇasya ca tad-rūpam karma api ca durātmanaḥ . dhyātvā bhayāt tu vaidehīm sā nadī na śaśaṃsa ha.. 9..
निराशस्तु तया नद्या सीताया दर्शने कृतः । उवाच रामः सौमित्रिं सीतादर्शनकर्शितः॥ १०॥
निराशः तु तया नद्या सीतायाः दर्शने कृतः । उवाच रामः सौमित्रिम् सीता-अदर्शन-कर्शितः॥ १०॥
nirāśaḥ tu tayā nadyā sītāyāḥ darśane kṛtaḥ . uvāca rāmaḥ saumitrim sītā-adarśana-karśitaḥ.. 10..
एषा गोदावरी सौम्य किंचिन्न प्रतिभाषते । किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः॥ ११॥
एषा गोदावरी सौम्य किंचिद् न प्रतिभाषते । किम् नु लक्ष्मण वक्ष्यामि समेत्य जनकम् वचः॥ ११॥
eṣā godāvarī saumya kiṃcid na pratibhāṣate . kim nu lakṣmaṇa vakṣyāmi sametya janakam vacaḥ.. 11..
मातरं चैव वैदेह्या विना तामहमप्रियम् । या मे राज्यविहीनस्य वने वन्येन जीवतः॥ १२॥
मातरम् च एव वैदेह्या विना ताम् अहम् अप्रियम् । याः मे राज्य-विहीनस्य वने वन्येन जीवतः॥ १२॥
mātaram ca eva vaidehyā vinā tām aham apriyam . yāḥ me rājya-vihīnasya vane vanyena jīvataḥ.. 12..
सर्वं व्यपानयच्छोकं वैदेही क्व नु सा गता । ज्ञातिवर्गविहीनस्य वैदेहीमप्यपश्यतः॥ १३॥
सर्वम् व्यपानयत् शोकम् वैदेही क्व नु सा गता । ज्ञाति-वर्ग-विहीनस्य वैदेहीम् अपि अपश्यतः॥ १३॥
sarvam vyapānayat śokam vaidehī kva nu sā gatā . jñāti-varga-vihīnasya vaidehīm api apaśyataḥ.. 13..
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः । मन्दाकिनीं जनस्थानमिमं प्रस्रवणं गिरिम्॥ १४॥
मन्ये दीर्घाः भविष्यन्ति रात्रयः मम जाग्रतः । मन्दाकिनीम् जनस्थानम् इमम् प्रस्रवणम् गिरिम्॥ १४॥
manye dīrghāḥ bhaviṣyanti rātrayaḥ mama jāgrataḥ . mandākinīm janasthānam imam prasravaṇam girim.. 14..
सर्वाण्यनुचरिष्यामि यदि सीता हि लभ्यते । एते महामृगा वीर मामीक्षन्ते पुनः पुनः॥ १५॥
सर्वाणि अनुचरिष्यामि यदि सीता हि लभ्यते । एते महा-मृगाः वीर माम् ईक्षन्ते पुनर् पुनर्॥ १५॥
sarvāṇi anucariṣyāmi yadi sītā hi labhyate . ete mahā-mṛgāḥ vīra mām īkṣante punar punar.. 15..
वक्तुकामा इह हि मे इङ्गितान्युपलक्षये । तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह॥ १६॥
वक्तु-कामा इह हि मे इङ्गितानि उपलक्षये । तान् तु दृष्ट्वा नर-व्याघ्रः राघवः प्रत्युवाच ह॥ १६॥
vaktu-kāmā iha hi me iṅgitāni upalakṣaye . tān tu dṛṣṭvā nara-vyāghraḥ rāghavaḥ pratyuvāca ha.. 16..
क्व सीतेति निरीक्षन् वै बाष्पसंरुद्धया गिरा । एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः॥ १७॥
क्व सीता इति निरीक्षन् वै बाष्प-संरुद्धया गिरा । एवम् उक्ताः नरेन्द्रेण ते मृगाः सहसा उत्थिताः॥ १७॥
kva sītā iti nirīkṣan vai bāṣpa-saṃruddhayā girā . evam uktāḥ narendreṇa te mṛgāḥ sahasā utthitāḥ.. 17..
दक्षिणाभिमुखाः सर्वे दर्शयन्तो नभःस्थलम् । मैथिली ह्रियमाणा सा दिशं यामभ्यपद्यत॥ १८॥
दक्षिण-अभिमुखाः सर्वे दर्शयन्तः नभः-स्थलम् । मैथिली ह्रियमाणा सा दिशम् याम् अभ्यपद्यत॥ १८॥
dakṣiṇa-abhimukhāḥ sarve darśayantaḥ nabhaḥ-sthalam . maithilī hriyamāṇā sā diśam yām abhyapadyata.. 18..
तेन मार्गेण गच्छन्तो निरीक्षन्ते नराधिपम् । येन मार्गं च भूमिं च निरीक्षन्ते स्म ते मृगाः॥ १९॥
तेन मार्गेण गच्छन्तः निरीक्षन्ते नराधिपम् । येन मार्गम् च भूमिम् च निरीक्षन्ते स्म ते मृगाः॥ १९॥
tena mārgeṇa gacchantaḥ nirīkṣante narādhipam . yena mārgam ca bhūmim ca nirīkṣante sma te mṛgāḥ.. 19..
पुनर्नदन्तो गच्छन्ति लक्ष्मणेनोपलक्षिताः । तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम्॥ २०॥
पुनर् नदन्तः गच्छन्ति लक्ष्मणेन उपलक्षिताः । तेषाम् वचन-सर्वस्वम् लक्षयामास च इङ्गितम्॥ २०॥
punar nadantaḥ gacchanti lakṣmaṇena upalakṣitāḥ . teṣām vacana-sarvasvam lakṣayāmāsa ca iṅgitam.. 20..
उवाच लक्ष्मणो धीमान् ज्येष्ठं भ्रातरमार्तवत् । क्व सीतेति त्वया पृष्टा यथेमे सहसोत्थिताः॥ २१॥
उवाच लक्ष्मणः धीमान् ज्येष्ठम् भ्रातरम् आर्त-वत् । क्व सीता इति त्वया पृष्टाः यथा इमे सहसा उत्थिताः॥ २१॥
uvāca lakṣmaṇaḥ dhīmān jyeṣṭham bhrātaram ārta-vat . kva sītā iti tvayā pṛṣṭāḥ yathā ime sahasā utthitāḥ.. 21..
दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः । साधु गच्छावहे देव दिशमेतां च नैर्ऋतीम्॥ २२॥
दर्शयन्ति क्षितिम् च एव दक्षिणाम् च दिशम् मृगाः । साधु गच्छावहे देव दिशम् एताम् च नैरृतीम्॥ २२॥
darśayanti kṣitim ca eva dakṣiṇām ca diśam mṛgāḥ . sādhu gacchāvahe deva diśam etām ca nairṛtīm.. 22..
यदि तस्यागमः कश्चिदार्या वा साथ लक्ष्यते । बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम्॥ २३॥
यदि तस्य आगमः कश्चिद् आर्या वा सा अथ लक्ष्यते । बाढम् इति एव काकुत्स्थः प्रस्थितः दक्षिणाम् दिशम्॥ २३॥
yadi tasya āgamaḥ kaścid āryā vā sā atha lakṣyate . bāḍham iti eva kākutsthaḥ prasthitaḥ dakṣiṇām diśam.. 23..
लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुंधराम् । एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ॥ २४॥
लक्ष्मण-अनुगतः श्रीमान् वीक्षमाणः वसुंधराम् । एवम् सम्भाषमाणौ तौ अन्योन्यम् भ्रातरौ उभौ॥ २४॥
lakṣmaṇa-anugataḥ śrīmān vīkṣamāṇaḥ vasuṃdharām . evam sambhāṣamāṇau tau anyonyam bhrātarau ubhau.. 24..
वसुंधरायां पतितपुष्पमार्गमपश्यताम् । पुष्पवृष्टिं निपतितां दृष्ट्वा रामो महीतले॥ २५॥
वसुंधरायाम् पतित-पुष्प-मार्गम् अपश्यताम् । पुष्प-वृष्टिम् निपतिताम् दृष्ट्वा रामः मही-तले॥ २५॥
vasuṃdharāyām patita-puṣpa-mārgam apaśyatām . puṣpa-vṛṣṭim nipatitām dṛṣṭvā rāmaḥ mahī-tale.. 25..
उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः । अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण॥ २६॥
उवाच लक्ष्मणम् वीरः दुःखितः दुःखितम् वचः । अभिजानामि पुष्पाणि तानि इमानि इह लक्ष्मण॥ २६॥
uvāca lakṣmaṇam vīraḥ duḥkhitaḥ duḥkhitam vacaḥ . abhijānāmi puṣpāṇi tāni imāni iha lakṣmaṇa.. 26..
अपिनद्धानि वैदेह्या मया दत्तानि कानने । मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी॥ २७॥
अपिनद्धानि वैदेह्याः मया दत्तानि कानने । मन्ये सूर्यः च वायुः च मेदिनी च यशस्विनी॥ २७॥
apinaddhāni vaidehyāḥ mayā dattāni kānane . manye sūryaḥ ca vāyuḥ ca medinī ca yaśasvinī.. 27..
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् । एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम्॥ २८॥
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तः मम प्रियम् । एवम् उक्त्वा महा-बाहुः लक्ष्मणम् पुरुष-ऋषभम्॥ २८॥
abhirakṣanti puṣpāṇi prakurvantaḥ mama priyam . evam uktvā mahā-bāhuḥ lakṣmaṇam puruṣa-ṛṣabham.. 28..
उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम् । कच्चित् क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी॥ २९॥
उवाच रामः धर्म-आत्मा गिरिम् प्रस्रवण-आकुलम् । कच्चित् क्षितिभृताम् नाथ दृष्टा सर्व-अङ्ग-सुन्दरी॥ २९॥
uvāca rāmaḥ dharma-ātmā girim prasravaṇa-ākulam . kaccit kṣitibhṛtām nātha dṛṣṭā sarva-aṅga-sundarī.. 29..
रामा रम्ये वनोद्देशे मया विरहिता त्वया । क्रुद्धोऽब्रवीद् गिरिं तत्र सिंहः क्षुद्रमृगं यथा॥ ३०॥
रामा रम्ये वन-उद्देशे मया विरहिता त्वया । क्रुद्धः अब्रवीत् गिरिम् तत्र सिंहः क्षुद्र-मृगम् यथा॥ ३०॥
rāmā ramye vana-uddeśe mayā virahitā tvayā . kruddhaḥ abravīt girim tatra siṃhaḥ kṣudra-mṛgam yathā.. 30..
तां हेमवर्णां हेमाङ्गीं सीतां दर्शय पर्वत । यावत् सानूनि सर्वाणि न ते विध्वंसयाम्यहम्॥ ३१॥
ताम् हेम-वर्णाम् हेम-अङ्गीम् सीताम् दर्शय पर्वत । यावत् सानूनि सर्वाणि न ते विध्वंसयामि अहम्॥ ३१॥
tām hema-varṇām hema-aṅgīm sītām darśaya parvata . yāvat sānūni sarvāṇi na te vidhvaṃsayāmi aham.. 31..
एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति । दर्शयन्निव तां सीतां नादर्शयत राघवे॥ ३२॥
एवम् उक्तः तु रामेण पर्वतः मैथिलीम् प्रति । दर्शयन् इव ताम् सीताम् न अदर्शयत राघवे॥ ३२॥
evam uktaḥ tu rāmeṇa parvataḥ maithilīm prati . darśayan iva tām sītām na adarśayata rāghave.. 32..
ततो दाशरथी राम उवाच च शिलोच्चयम् । मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि॥ ३३॥
ततस् दाशरथिः रामः उवाच च शिलोच्चयम् । मम बाण-अग्नि-निर्दग्धः भस्मीभूतः भविष्यसि॥ ३३॥
tatas dāśarathiḥ rāmaḥ uvāca ca śiloccayam . mama bāṇa-agni-nirdagdhaḥ bhasmībhūtaḥ bhaviṣyasi.. 33..
असेव्यः सर्वतश्चैव निस्तृणद्रुमपल्लवः । इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण॥ ३४॥
असेव्यः सर्वतस् च एव निस्तृण-द्रुम-पल्लवः । इमाम् वा सरितम् च अद्य शोषयिष्यामि लक्ष्मण॥ ३४॥
asevyaḥ sarvatas ca eva nistṛṇa-druma-pallavaḥ . imām vā saritam ca adya śoṣayiṣyāmi lakṣmaṇa.. 34..
यदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम् । एवं प्ररुषितो रामो दिधक्षन्निव चक्षुषा॥ ३५॥
यदि ना आख्याति मे सीताम् अद्य चन्द्र-निभ-आननाम् । एवम् प्ररुषितः रामः दिधक्षन् इव चक्षुषा॥ ३५॥
yadi nā ākhyāti me sītām adya candra-nibha-ānanām . evam praruṣitaḥ rāmaḥ didhakṣan iva cakṣuṣā.. 35..
ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् । त्रस्ताया रामकांक्षिण्याः प्रधावन्त्या इतस्ततः॥ ३६॥
ददर्श भूमौ निष्क्रान्तम् राक्षसस्य पदम् महत् । त्रस्तायाः राम-कांक्षिण्याः प्रधावन्त्याः इतस् ततस्॥ ३६॥
dadarśa bhūmau niṣkrāntam rākṣasasya padam mahat . trastāyāḥ rāma-kāṃkṣiṇyāḥ pradhāvantyāḥ itas tatas.. 36..
राक्षसेनानुसृप्ताया वैदेह्याश्च पदानि तु । स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च॥ ३७॥
राक्षसेन अनुसृप्तायाः वैदेह्याः च पदानि तु । स समीक्ष्य परिक्रान्तम् सीतायाः राक्षसस्य च॥ ३७॥
rākṣasena anusṛptāyāḥ vaidehyāḥ ca padāni tu . sa samīkṣya parikrāntam sītāyāḥ rākṣasasya ca.. 37..
भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम् । सम्भ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम्॥ ३८॥
भग्नम् धनुः च तूणी च विकीर्णम् बहुधा रथम् । सम्भ्रान्त-हृदयः रामः शशंस भ्रातरम् प्रियम्॥ ३८॥
bhagnam dhanuḥ ca tūṇī ca vikīrṇam bahudhā ratham . sambhrānta-hṛdayaḥ rāmaḥ śaśaṃsa bhrātaram priyam.. 38..
पश्य लक्ष्मण वैदेह्या कीर्णाः कनकबिन्दवः । भूषणानां हि सौमित्रे माल्यानि विविधानि च॥ ३९॥
पश्य लक्ष्मण वैदेह्या कीर्णाः कनक-बिन्दवः । भूषणानाम् हि सौमित्रे माल्यानि विविधानि च॥ ३९॥
paśya lakṣmaṇa vaidehyā kīrṇāḥ kanaka-bindavaḥ . bhūṣaṇānām hi saumitre mālyāni vividhāni ca.. 39..
तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः । आवृतं पश्य सौमित्रे सर्वतो धरणीतलम्॥ ४०॥
तप्त-बिन्दु-निकाशैः च चित्रैः क्षतज-बिन्दुभिः । आवृतम् पश्य सौमित्रे सर्वतस् धरणी-तलम्॥ ४०॥
tapta-bindu-nikāśaiḥ ca citraiḥ kṣataja-bindubhiḥ . āvṛtam paśya saumitre sarvatas dharaṇī-talam.. 40..
मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः । भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति॥ ४१॥
मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः । भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति॥ ४१॥
manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ . bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati.. 41..
तस्या निमित्तं सीताया द्वयोर्विवदमानयोः । बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह॥ ४२॥
तस्याः निमित्तम् सीतायाः द्वयोः विवदमानयोः । बभूव युद्धम् सौमित्रे घोरम् राक्षसयोः इह॥ ४२॥
tasyāḥ nimittam sītāyāḥ dvayoḥ vivadamānayoḥ . babhūva yuddham saumitre ghoram rākṣasayoḥ iha.. 42..
मुक्तामणिचितं चेदं रमणीयं विभूषितम् । धरण्यां पतितं सौम्य कस्य भग्नं महद् धनुः॥ ४३॥
मुक्तामणि-चितम् च इदम् रमणीयम् विभूषितम् । धरण्याम् पतितम् सौम्य कस्य भग्नम् महत् धनुः॥ ४३॥
muktāmaṇi-citam ca idam ramaṇīyam vibhūṣitam . dharaṇyām patitam saumya kasya bhagnam mahat dhanuḥ.. 43..
राक्षसानामिदं वत्स सुराणामथवापि वा । तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम्॥ ४४॥
राक्षसानाम् इदम् वत्स सुराणाम् अथवा अपि वा । तरुण-आदित्य-संकाशम् वैदूर्य-गुलिका-चितम्॥ ४४॥
rākṣasānām idam vatsa surāṇām athavā api vā . taruṇa-āditya-saṃkāśam vaidūrya-gulikā-citam.. 44..
विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम् । छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्॥ ४५॥
विशीर्णम् पतितम् भूमौ कवचम् कस्य काञ्चनम् । छत्रम् शत-शलाकम् च दिव्य-माल्य-उपशोभितम्॥ ४५॥
viśīrṇam patitam bhūmau kavacam kasya kāñcanam . chatram śata-śalākam ca divya-mālya-upaśobhitam.. 45..
भग्नदण्डमिदं सौम्य भूमौ कस्य निपातितम् । काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः॥ ४६॥
भग्न-दण्डम् इदम् सौम्य भूमौ कस्य निपातितम् । काञ्चन-उरश्छदाः च इमे पिशाच-वदनाः खराः॥ ४६॥
bhagna-daṇḍam idam saumya bhūmau kasya nipātitam . kāñcana-uraśchadāḥ ca ime piśāca-vadanāḥ kharāḥ.. 46..
भीमरूपा महाकायाः कस्य वा निहता रणे । दीप्तपावकसंकाशो द्युतिमान् समरध्वजः॥ ४७॥
भीम-रूपाः महा-कायाः कस्य वा निहताः रणे । दीप्त-पावक-संकाशः द्युतिमान् समर-ध्वजः॥ ४७॥
bhīma-rūpāḥ mahā-kāyāḥ kasya vā nihatāḥ raṇe . dīpta-pāvaka-saṃkāśaḥ dyutimān samara-dhvajaḥ.. 47..
अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः । रथाक्षमात्रा विशिखास्तपनीयविभूषणाः॥ ४८॥
अपविद्धः च भग्नः च कस्य साङ्ग्रामिकः रथः । रथ-अक्ष-मात्राः विशिखाः तपनीय-विभूषणाः॥ ४८॥
apaviddhaḥ ca bhagnaḥ ca kasya sāṅgrāmikaḥ rathaḥ . ratha-akṣa-mātrāḥ viśikhāḥ tapanīya-vibhūṣaṇāḥ.. 48..
कस्येमे निहता बाणाः प्रकीर्णा घोरदर्शनाः । शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण॥ ४९॥
कस्य इमे निहताः बाणाः प्रकीर्णाः घोर-दर्शनाः । शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण॥ ४९॥
kasya ime nihatāḥ bāṇāḥ prakīrṇāḥ ghora-darśanāḥ . śarāvarau śaraiḥ pūrṇau vidhvastau paśya lakṣmaṇa.. 49..
प्रतोदाभीषुहस्तोऽयं कस्य वा सारथिर्हतः । पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः॥ ५०॥
प्रतोद-अभीषु-हस्तः अयम् कस्य वा सारथिः हतः । पदवी पुरुषस्य एषा व्यक्तम् कस्य अपि रक्षसः॥ ५०॥
pratoda-abhīṣu-hastaḥ ayam kasya vā sārathiḥ hataḥ . padavī puruṣasya eṣā vyaktam kasya api rakṣasaḥ.. 50..
वैरं शतगुणं पश्य मम तैर्जीवितान्तकम् । सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः॥ ५१॥
वैरम् शतगुणम् पश्य मम तैः जीवित-अन्तकम् । सु घोर-हृदयैः सौम्य राक्षसैः कामरूपिभिः॥ ५१॥
vairam śataguṇam paśya mama taiḥ jīvita-antakam . su ghora-hṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ.. 51..
हृता मृता वा वैदेही भक्षिता वा तपस्विनी । न धर्मस्त्रायते सीतां ह्रियमाणां महावने॥ ५२॥
हृता मृता वा वैदेही भक्षिता वा तपस्विनी । न धर्मः त्रायते सीताम् ह्रियमाणाम् महा-वने॥ ५२॥
hṛtā mṛtā vā vaidehī bhakṣitā vā tapasvinī . na dharmaḥ trāyate sītām hriyamāṇām mahā-vane.. 52..
भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण । के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः॥ ५३॥
भक्षितायाम् हि वैदेह्याम् हृतायाम् अपि लक्ष्मण । के हि लोके प्रियम् कर्तुम् शक्ताः सौम्य मम ईश्वराः॥ ५३॥
bhakṣitāyām hi vaidehyām hṛtāyām api lakṣmaṇa . ke hi loke priyam kartum śaktāḥ saumya mama īśvarāḥ.. 53..
कर्तारमपि लोकानां शूरं करुणवेदिनम् । अज्ञानादवमन्येरन् सर्वभूतानि लक्ष्मण॥ ५४॥
कर्तारम् अपि लोकानाम् शूरम् करुण-वेदिनम् । अज्ञानात् अवमन्येरन् सर्व-भूतानि लक्ष्मण॥ ५४॥
kartāram api lokānām śūram karuṇa-vedinam . ajñānāt avamanyeran sarva-bhūtāni lakṣmaṇa.. 54..
मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् । निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः॥ ५५॥
मृदुम् लोक-हिते युक्तम् दान्तम् करुण-वेदिनम् । निर्वीर्यः इति मन्यन्ते नूनम् माम् त्रिदश-ईश्वराः॥ ५५॥
mṛdum loka-hite yuktam dāntam karuṇa-vedinam . nirvīryaḥ iti manyante nūnam mām tridaśa-īśvarāḥ.. 55..
मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण । अद्यैव सर्वभूतानां रक्षसामभवाय च॥ ५६॥
माम् प्राप्य हि गुणः दोषः संवृत्तः पश्य लक्ष्मण । अद्य एव सर्व-भूतानाम् रक्षसाम् अभवाय च॥ ५६॥
mām prāpya hi guṇaḥ doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa . adya eva sarva-bhūtānām rakṣasām abhavāya ca.. 56..
संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः । संहृत्यैव गुणान् सर्वान् मम तेजः प्रकाशते॥ ५७॥
संहृत्य एव शशि-ज्योत्स्नाम् महान् सूर्यः इव उदितः । संहृत्य एव गुणान् सर्वान् मम तेजः प्रकाशते॥ ५७॥
saṃhṛtya eva śaśi-jyotsnām mahān sūryaḥ iva uditaḥ . saṃhṛtya eva guṇān sarvān mama tejaḥ prakāśate.. 57..
नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः । किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण॥ ५८॥
न एव यक्षाः न गन्धर्वाः न पिशाचाः न राक्षसाः । किंनराः वा मनुष्याः वा सुखम् प्राप्स्यन्ति लक्ष्मण॥ ५८॥
na eva yakṣāḥ na gandharvāḥ na piśācāḥ na rākṣasāḥ . kiṃnarāḥ vā manuṣyāḥ vā sukham prāpsyanti lakṣmaṇa.. 58..
ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण । असम्पातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम्॥ ५९॥
मम अस्त्र-बाण-सम्पूर्णम् आकाशम् पश्य लक्ष्मण । असम्पातम् करिष्यामि हि अद्य त्रैलोक्य-चारिणाम्॥ ५९॥
mama astra-bāṇa-sampūrṇam ākāśam paśya lakṣmaṇa . asampātam kariṣyāmi hi adya trailokya-cāriṇām.. 59..
संनिरुद्धग्रहगणमावारितनिशाकरम् । विप्रणष्टानलमरुद्भास्करद्युतिसंवृतम्॥ ६०॥
संनिरुद्ध-ग्रह-गणम् आवारित-निशाकरम् । विप्रणष्ट-अनल-मरुत्-भास्कर-द्युति-संवृतम्॥ ६०॥
saṃniruddha-graha-gaṇam āvārita-niśākaram . vipraṇaṣṭa-anala-marut-bhāskara-dyuti-saṃvṛtam.. 60..
विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् । ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम्॥ ६१॥
विनिर्मथित-शैल-अग्रम् शुष्यमाण-जलाशयम् । ध्वस्त-द्रुम-लता-गुल्मम् विप्रणाशित-सागरम्॥ ६१॥
vinirmathita-śaila-agram śuṣyamāṇa-jalāśayam . dhvasta-druma-latā-gulmam vipraṇāśita-sāgaram.. 61..
त्रैलोक्यं तु करिष्यामि संयुक्तं कालकर्मणा । न ते कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः॥ ६२॥
त्रैलोक्यम् तु करिष्यामि संयुक्तम् कालकर्मणा । न ते कुशलिनीम् सीताम् प्रदास्यन्ति मम ईश्वराः॥ ६२॥
trailokyam tu kariṣyāmi saṃyuktam kālakarmaṇā . na te kuśalinīm sītām pradāsyanti mama īśvarāḥ.. 62..
अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् । नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण॥ ६३॥
अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् । न आकाशम् उत्पतिष्यन्ति सर्व-भूतानि लक्ष्मण॥ ६३॥
asmin muhūrte saumitre mama drakṣyanti vikramam . na ākāśam utpatiṣyanti sarva-bhūtāni lakṣmaṇa.. 63..
मम चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम् । मर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम्॥ ६४॥
मम चाप-गुण-उन्मुक्तैः बाण-जालैः निरन्तरम् । मर्दितम् मम नाराचैः ध्वस्त-भ्रान्त-मृग-द्विजम्॥ ६४॥
mama cāpa-guṇa-unmuktaiḥ bāṇa-jālaiḥ nirantaram . marditam mama nārācaiḥ dhvasta-bhrānta-mṛga-dvijam.. 64..
समाकुलममर्यादं जगत् पश्याद्य लक्ष्मण । आकर्णपूर्णैरिषुभिर्जीवलोकदुरावरैः॥ ६५॥
समाकुलम् अमर्यादम् जगत् पश्य अद्य लक्ष्मण । आकर्णपूर्णैः इषुभिः जीवलोक-दुरावरैः॥ ६५॥
samākulam amaryādam jagat paśya adya lakṣmaṇa . ākarṇapūrṇaiḥ iṣubhiḥ jīvaloka-durāvaraiḥ.. 65..
करिष्ये मैथिलीहेतोरपिशाचमराक्षसम् । मम रोषप्रयुक्तानां विशिखानां बलं सुराः॥ ६६॥
करिष्ये मैथिली-हेतोः अपिशाचम् अराक्षसम् । मम रोष-प्रयुक्तानाम् विशिखानाम् बलम् सुराः॥ ६६॥
kariṣye maithilī-hetoḥ apiśācam arākṣasam . mama roṣa-prayuktānām viśikhānām balam surāḥ.. 66..
द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद् दूरगामिनाम् । नैव देवा न दैतेया न पिशाचा न राक्षसाः॥ ६७॥
द्रक्ष्यन्ति अद्य विमुक्तानाम् अमर्षात् दूर-गामिनाम् । न एव देवाः न दैतेयाः न पिशाचाः न राक्षसाः॥ ६७॥
drakṣyanti adya vimuktānām amarṣāt dūra-gāminām . na eva devāḥ na daiteyāḥ na piśācāḥ na rākṣasāḥ.. 67..
भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते । देवदानवयक्षाणां लोका ये रक्षसामपि॥ ६८॥
भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते । देव-दानव-यक्षाणाम् लोकाः ये रक्षसाम् अपि॥ ६८॥
bhaviṣyanti mama krodhāt trailokye vipraṇāśite . deva-dānava-yakṣāṇām lokāḥ ye rakṣasām api.. 68..
बहुधा निपतिष्यन्ति बाणौघैः शकलीकृताः । निर्मर्यादानिमाँल्लोकान् करिष्याम्यद्य सायकैः॥ ६९॥
बहुधा निपतिष्यन्ति बाण-ओघैः शकलीकृताः । निर्मर्यादान् इमान् लोकान् करिष्यामि अद्य सायकैः॥ ६९॥
bahudhā nipatiṣyanti bāṇa-oghaiḥ śakalīkṛtāḥ . nirmaryādān imān lokān kariṣyāmi adya sāyakaiḥ.. 69..
हृतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः । तथारूपां हि वैदेहीं न दास्यन्ति यदि प्रियाम्॥ ७०॥
हृताम् मृताम् वा सौमित्रे न दास्यन्ति मम ईश्वराः । तथारूपाम् हि वैदेहीम् न दास्यन्ति यदि प्रियाम्॥ ७०॥
hṛtām mṛtām vā saumitre na dāsyanti mama īśvarāḥ . tathārūpām hi vaidehīm na dāsyanti yadi priyām.. 70..
नाशयामि जगत् सर्वं त्रैलोक्यं सचराचरम् । यावद् दर्शनमस्या वै तापयामि च सायकैः॥ ७१॥
नाशयामि जगत् सर्वम् त्रैलोक्यम् सचराचरम् । यावत् दर्शनम् अस्याः वै तापयामि च सायकैः॥ ७१॥
nāśayāmi jagat sarvam trailokyam sacarācaram . yāvat darśanam asyāḥ vai tāpayāmi ca sāyakaiḥ.. 71..
इत्युक्त्वा क्रोधताम्राक्षः स्फुरमाणोष्ठसम्पुटः । वल्कलाजिनमाबद्ध्य जटाभारमबन्धयत्॥ ७२॥
इति उक्त्वा क्रोध-ताम्र-अक्षः स्फुरमाण-उष्ठ-सम्पुटः । वल्कल-अजिनम् आबद्ध्य जटा-भारम् अबन्धयत्॥ ७२॥
iti uktvā krodha-tāmra-akṣaḥ sphuramāṇa-uṣṭha-sampuṭaḥ . valkala-ajinam ābaddhya jaṭā-bhāram abandhayat.. 72..
तस्य क्रुद्धस्य रामस्य तथाभूतस्य धीमतः । त्रिपुरं जघ्नुषः पूर्वं रुद्रस्येव बभौ तनुः॥ ७३॥
तस्य क्रुद्धस्य रामस्य तथाभूतस्य धीमतः । त्रिपुरम् जघ्नुषः पूर्वम् रुद्रस्य इव बभौ तनुः॥ ७३॥
tasya kruddhasya rāmasya tathābhūtasya dhīmataḥ . tripuram jaghnuṣaḥ pūrvam rudrasya iva babhau tanuḥ.. 73..
लक्ष्मणादथ चादाय रामो निष्पीड्य कार्मुकम् । शरमादाय संदीप्तं घोरमाशीविषोपमम्॥ ७४॥
लक्ष्मणात् अथ च आदाय रामः निष्पीड्य कार्मुकम् । शरम् आदाय संदीप्तम् घोरम् आशीविष-उपमम्॥ ७४॥
lakṣmaṇāt atha ca ādāya rāmaḥ niṣpīḍya kārmukam . śaram ādāya saṃdīptam ghoram āśīviṣa-upamam.. 74..
संदधे धनुषि श्रीमान् रामः परपुरञ्जयः । युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत्॥ ७५॥
संदधे धनुषि श्रीमान् रामः परपुरञ्जयः । युग-अन्त-अग्निः इव क्रुद्धः इदम् वचनम् अब्रवीत्॥ ७५॥
saṃdadhe dhanuṣi śrīmān rāmaḥ parapurañjayaḥ . yuga-anta-agniḥ iva kruddhaḥ idam vacanam abravīt.. 75..
यथा जरा यथा मृत्युर्यथा कालो यथा विधिः । नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण । तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम्॥ ७६॥
यथा जरा यथा मृत्युः यथा कालः यथा विधिः । नित्यम् न प्रतिहन्यन्ते सर्व-भूतेषु लक्ष्मण । तथा अहम् क्रोध-संयुक्तः न निवार्यः अस्मि असंशयम्॥ ७६॥
yathā jarā yathā mṛtyuḥ yathā kālaḥ yathā vidhiḥ . nityam na pratihanyante sarva-bhūteṣu lakṣmaṇa . tathā aham krodha-saṃyuktaḥ na nivāryaḥ asmi asaṃśayam.. 76..
पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम् । सदेवगन्धर्वमनुष्यपन्नगं जगत् सशैलं परिवर्तयाम्यहम्॥ ७७॥
पुरा इव मे चारुदतीम् अनिन्दिताम् दिशन्ति सीताम् यदि न अद्य मैथिलीम् । स देव-गन्धर्व-मनुष्य-पन्नगम् जगत् स शैलम् परिवर्तयामि अहम्॥ ७७॥
purā iva me cārudatīm aninditām diśanti sītām yadi na adya maithilīm . sa deva-gandharva-manuṣya-pannagam jagat sa śailam parivartayāmi aham.. 77..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुःषष्ठितमः सर्गः ॥३-६४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे चतुःषष्ठितमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In