This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चषष्ठितमः सर्गः ॥३-६५॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे पञ्चषष्ठितमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ..3..
तप्यमानं तदा रामं सीताहरणकर्शितम् । लोकानामभवे युक्तं सांवर्तकमिवानलम्॥ १॥
तप्यमानम् तदा रामम् सीता-आहरण-कर्शितम् । लोकानाम् अभवे युक्तम् सांवर्तकम् इव अनलम्॥ १॥
tapyamānam tadā rāmam sītā-āharaṇa-karśitam . lokānām abhave yuktam sāṃvartakam iva analam.. 1..
वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनः पुनः । दग्धुकामं जगत् सर्वं युगान्ते च यथा हरम्॥ २॥
वीक्षमाणम् धनुः सज्यम् निःश्वसन्तम् पुनर् पुनर् । दग्धु-कामम् जगत् सर्वम् युग-अन्ते च यथा हरम्॥ २॥
vīkṣamāṇam dhanuḥ sajyam niḥśvasantam punar punar . dagdhu-kāmam jagat sarvam yuga-ante ca yathā haram.. 2..
अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः । अब्रवीत् प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता॥ ३॥
अदृष्ट-पूर्वम् संक्रुद्धम् दृष्ट्वा रामम् स लक्ष्मणः । अब्रवीत् प्राञ्जलिः वाक्यम् मुखेन परिशुष्यता॥ ३॥
adṛṣṭa-pūrvam saṃkruddham dṛṣṭvā rāmam sa lakṣmaṇaḥ . abravīt prāñjaliḥ vākyam mukhena pariśuṣyatā.. 3..
पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः । न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि॥ ४॥
पुरा भूत्वा मृदुः दान्तः सर्व-भूत-हिते रतः । न क्रोध-वशम् आपन्नः प्रकृतिम् हातुम् अर्हसि॥ ४॥
purā bhūtvā mṛduḥ dāntaḥ sarva-bhūta-hite rataḥ . na krodha-vaśam āpannaḥ prakṛtim hātum arhasi.. 4..
चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा । एतच्च नियतं नित्यं त्वयि चानुत्तमं यशः॥ ५॥
चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिः वायौ भुवि क्षमा । एतत् च नियतम् नित्यम् त्वयि च अनुत्तमम् यशः॥ ५॥
candre lakṣmīḥ prabhā sūrye gatiḥ vāyau bhuvi kṣamā . etat ca niyatam nityam tvayi ca anuttamam yaśaḥ.. 5..
एकस्य नापराधेन लोकान् हन्तुं त्वमर्हसि । ननु जानामि कस्यायं भग्नः सांग्रामिको रथः॥ ६॥
एकस्य न अपराधेन लोकान् हन्तुम् त्वम् अर्हसि । ननु जानामि कस्य अयम् भग्नः सांग्रामिकः रथः॥ ६॥
ekasya na aparādhena lokān hantum tvam arhasi . nanu jānāmi kasya ayam bhagnaḥ sāṃgrāmikaḥ rathaḥ.. 6..
केन वा कस्य वा हेतोः सयुगः सपरिच्छदः । खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः॥ ७॥
केन वा कस्य वा हेतोः सयुगः स परिच्छदः । खुर-नेमि-क्षतः च अयम् सिक्तः रुधिर-बिन्दुभिः॥ ७॥
kena vā kasya vā hetoḥ sayugaḥ sa paricchadaḥ . khura-nemi-kṣataḥ ca ayam siktaḥ rudhira-bindubhiḥ.. 7..
देशो निर्वृत्तसंग्रामः सुघोरः पार्थिवात्मज । एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर॥ ८॥
देशः निर्वृत्त-संग्रामः सु घोरः पार्थिव-आत्मज । एकस्य तु विमर्दः अयम् न द्वयोः वदताम् वर॥ ८॥
deśaḥ nirvṛtta-saṃgrāmaḥ su ghoraḥ pārthiva-ātmaja . ekasya tu vimardaḥ ayam na dvayoḥ vadatām vara.. 8..
नहि वृत्तं हि पश्यामि बलस्य महतः पदम् । नैकस्य तु कृते लोकान् विनाशयितुमर्हसि॥ ९॥
नहि वृत्तम् हि पश्यामि बलस्य महतः पदम् । न एकस्य तु कृते लोकान् विनाशयितुम् अर्हसि॥ ९॥
nahi vṛttam hi paśyāmi balasya mahataḥ padam . na ekasya tu kṛte lokān vināśayitum arhasi.. 9..
युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः । सदा त्वं सर्वभूतानां शरण्यः परमा गतिः॥ १०॥
युक्त-दण्डाः हि मृदवः प्रशान्ताः वसुधाधिपाः । सदा त्वम् सर्व-भूतानाम् शरण्यः परमा गतिः॥ १०॥
yukta-daṇḍāḥ hi mṛdavaḥ praśāntāḥ vasudhādhipāḥ . sadā tvam sarva-bhūtānām śaraṇyaḥ paramā gatiḥ.. 10..
को नु दारप्रणाशं ते साधु मन्येत राघव । सरितः सागराः शैला देवगन्धर्वदानवाः॥ ११॥
कः नु दार-प्रणाशम् ते साधु मन्येत राघव । सरितः सागराः शैलाः देव-गन्धर्व-दानवाः॥ ११॥
kaḥ nu dāra-praṇāśam te sādhu manyeta rāghava . saritaḥ sāgarāḥ śailāḥ deva-gandharva-dānavāḥ.. 11..
नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः । येन राजन् हृता सीता तमन्वेषितुमर्हसि॥ १२॥
न अलम् ते विप्रियम् कर्तुम् दीक्षितस्य इव साधवः । येन राजन् हृता सीता तम् अन्वेषितुम् अर्हसि॥ १२॥
na alam te vipriyam kartum dīkṣitasya iva sādhavaḥ . yena rājan hṛtā sītā tam anveṣitum arhasi.. 12..
मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः । समुद्रं वा विचेष्यामः पर्वतांश्च वनानि च॥ १३॥
मद्-द्वितीयः धनुष्पाणिः सहायैः परम-ऋषिभिः । समुद्रम् वा विचेष्यामः पर्वतान् च वनानि च॥ १३॥
mad-dvitīyaḥ dhanuṣpāṇiḥ sahāyaiḥ parama-ṛṣibhiḥ . samudram vā viceṣyāmaḥ parvatān ca vanāni ca.. 13..
गुहाश्च विविधा घोराः पद्मिन्यो विविधास्तथा । देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः॥ १४॥
गुहाः च विविधाः घोराः पद्मिन्यः विविधाः तथा । देव-गन्धर्व-लोकान् च विचेष्यामः समाहिताः॥ १४॥
guhāḥ ca vividhāḥ ghorāḥ padminyaḥ vividhāḥ tathā . deva-gandharva-lokān ca viceṣyāmaḥ samāhitāḥ.. 14..
यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् । न चेत् साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः । कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि॥ १५॥
यावत् न अधिगमिष्यामः तव भार्या-अपहारिणम् । न चेद् साम्ना प्रदास्यन्ति पत्नीम् ते त्रिदश-ईश्वराः । कोसल-इन्द्र ततस् पश्चात् प्राप्त-कालम् करिष्यसि॥ १५॥
yāvat na adhigamiṣyāmaḥ tava bhāryā-apahāriṇam . na ced sāmnā pradāsyanti patnīm te tridaśa-īśvarāḥ . kosala-indra tatas paścāt prāpta-kālam kariṣyasi.. 15..
शीलेन साम्ना विनयेन सीतां नयेन न प्राप्स्यसि चेन्नरेन्द्र । ततः समुत्सादय हेमपुङ्खै- र्महेन्द्रवज्रप्रतिमैः शरौघैः॥ १६॥
शीलेन साम्ना विनयेन सीताम् नयेन न प्राप्स्यसि चेद् नरेन्द्र । ततस् समुत्सादय हेम-पुङ्खैः महा-इन्द्र-वज्र-प्रतिमैः शर-ओघैः॥ १६॥
śīlena sāmnā vinayena sītām nayena na prāpsyasi ced narendra . tatas samutsādaya hema-puṅkhaiḥ mahā-indra-vajra-pratimaiḥ śara-oghaiḥ.. 16..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चषष्ठितमः सर्गः ॥३-६५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे पञ्चषष्ठितमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In